विश्वास-प्रस्तुतिः
स्वेतराखिल-शेषित्वम्
ईश्वरस्य तु लक्षणम् ।
स सूक्ष्म-चिद्-अचिन्+++(–स्व-प्रकार)+++-मिश्रो
विश्वोपादान-कारणम् ॥ ९.१॥
कृष्णमाचार्यः (सं)
अथेश्वरो निरूप्यते - स्वेतरेति ।
स्वस्मादितराणि यान्य् अखिलानि वस्तूनि चेतनाचेतनात्मकानि
तेषां सर्वेषाम् अपि विषये शेषित्वम् ईश्वरस्य लक्षणम् ।
स चेश्वरो विश्वस्य प्रपञ्चस्योपादानकारणं भवति ।
ननु तर्हि घटोपादानस्य मृद इव सविकारत्वं प्रसज्येतेत्यत्राह - सूक्ष्मेति ।
ब्रह्मणो विश्वोपादानत्वं न निष्कृष्ट-स्वरूपस्य ।
किंतु चिद्-अचिद्-विशिष्टस्यैवेति तदात्वे तस्य सविकारत्वम् इष्टम् एव ।
विकार-निषेध-पराणि वचनानि तु
विशेष्य-भूत–ब्रह्म-विषयकाणीति भावः ।
अयम् अत्राशयः —अवस्थान्तर-योगित्वम् उपादानत्वम् ।
अवस्था-योगित्वं च साक्षात्-परंपरा-साधारणम् ।
मृद्-आदेः साक्षाद् अवस्थान्तर-योगः,
ब्रह्मणस्तु स्व-प्रकार-भूत-चेतनाचेतन-द्वारा ।
सूक्ष्म-चेतनाचेतन-विशिष्टं ब्रह्म जगद्-उपादानम् ।
तत्राचेतनांशे साक्षाद् अवस्थान्तर-योगः,
चेतनांशे तु स संकोच-विकास-योगि–तदीय-ज्ञान-द्वारा।
एतद् उभय-परंपरया “स ब्रह्मणी"ति ब्रह्मोपादानं भवति ।
परैर् अपि निर्विशेष-ब्रह्मणो जगद्-उपादानत्वम् एतादृश्यैव रीत्या समर्थ्यते ।
ते किलैवम् आहुः - अविद्योपहितं ब्रह्म जगद्-उपादानम् ।
तत्राविद्यांश एव वस्तुत उपादानत्वम् ।
तद्-उपहित-ब्रह्मांशे तु पारंपरिकस् तद्-व्यपदेशः ।
तथा च श्रुतिः, “मायां तु प्रकृतिं विद्यात् " इति ।
ब्रह्मोपाधि-भूतां मायाम् एव प्रकृतिम्
उपादान-कारणं विद्याद् इति तद्-अर्थः ।
प्रकृति-शब्दश् चोपादान-परः प्रसिद्धः -
" प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुपरोधात्” इत्यादाव् इति।
वाचस्पति-मिश्राश् चाविद्या-संवलितस्यैव ब्रह्मण उपादानत्वम् आहुः–
" अनिर्वाच्याविद्याद्वितय-सचिवस्य प्रभवतो
विवर्ता यस्यैते वियद्-अनिल-तेजोऽब्-अवनयः ॥ "
[[१०३]]
इति ।
ननु यद्य् अचेतन-गतम् अवस्थान्तर-योगित्वम् अवलम्ब्य
तद्-विशिष्टे ब्रह्मण्य् उपादानत्वं परंपरया साध्यते,
तदा मृद्-गतम् अवस्थान्तर-योगित्वम् अवलम्ब्य
तद्-विशिष्टे कुलालेऽपि घटोपादानत्व-व्यवहारः कुतो नेष्यत
इति चेत्,
“अपृथक्-सिद्धि-संबन्धेन तद्-वैशिष्ट्यस्य विवक्षितत्वाद्”
इति ब्रूमः ।
कुलालश् च नापृथक्-सिद्धि-संबन्धेन मृद्-विशिष्टः ।
कृष्णमाचार्यः (En)
- The characteristic of Isvara is that He is Sesin (the Lord) of all things other than Himself. He is the material cause of the universe by His nature of being qualified by the sentient and non-sentient elements in their subtle forms.
मूलम्
स्वेतराखिलशेषित्वमीश्वरस्य तु लक्षणम् ।
स सूक्ष्मचिदचिन्मिश्रो विश्वोपादानकारणम् ॥ ९.१॥
विश्वास-प्रस्तुतिः
सङ्कल्प-युक्त एवैष
निमित्तं कारणं मतम् ।
कालाद्य्-अन्तर्यामितया
सहकारि च कारणम् ॥ ९.२॥
कृष्णमाचार्यः (सं)
अथेश्वरस्य निमित्त-कारणताम् आह- संकल्पेति ।
सूक्ष्म-चिद्-अचिद्-विशिष्टत्व-रूपेणोपादानत्ववत्
" बहु स्यां प्रजायेय " इति
बहु-भवन-संकल्प-विशिष्टत्व-रूपेण निमित्त-कारणत्वम् अपि तस्येत्य् अर्थः ।
एवं च ब्रह्मणोऽभिन्न-निमित्तोपादानत्वम् उक्तं भवति । उपादाननिमित्तयोर्भेदावश्यंभावसाधकान्यनुमानादिप्रमाणानि त्वीश्वर- धर्मिग्राहकप्रमाणविरोधादनादरणीयानि । ब्रह्मण एव सहकारिकारणत्वमप्याह- कालेत्यादि । कार्यसामान्यं प्रति कालस्य सहकारिकारणत्वमभ्युपेतं सर्वैरपि । तादृशकालाद्यन्तर्यामितया ब्रह्मणोऽपि सहकारिकारणत्वमिष्टमेवेति भावः । असमवायिकारणं तु नैयायिकपरिभाषितं नास्माकमिष्टम्, कल्पनागौरवादिति भावः ।
२
कृष्णमाचार्यः (En)
- The very same Lord is also the efficient cause of the universe by His nature of being qualified by the Will. [[१०४]] He is also the concurrent cause of the universe by His nature of being immanent in time etc.
मूलम्
सङ्कल्पयुक्त एवैष निमित्तं कारणं मतम् ।
कालाद्यन्तर्यामितया सहकारि च कारणम् ॥ ९.२॥
’ संकल्पयुक् स एवैष A. B.
विश्वास-प्रस्तुतिः
कार्य-रूपेण वैविध्य-
योग्य् उपादानम् उच्यते ।
परिणामयितृत्वेन
निमित्तम् अपि तन्-मतम् ॥ ९.३॥
कृष्णमाचार्यः (सं)
पूर्वव्याख्यातमेवोपादानत्वादिकं लक्षयति-कार्येति । वैविध्यमव- स्थान्तरम् । परिणामयितृत्वं कार्यरूपेण परिणामस्य प्रयोजकत्वम् ।
३
कृष्णमाचार्यः (En)
- That is called the material cause which undergoes different modifications in the form of effect. That is the efficient cause which brings about such modifications.
मूलम्
कार्यरूपेण वैविध्ययोग्युपादानमुच्यते ।
परिणामयितृत्वेन निमित्तमपि तन्मतम् ॥ ९.३॥
विश्वास-प्रस्तुतिः
कार्योत्पत्त्य्-उपकारेण
सहकारि च तद् भवेत् ।
+++(” आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्” इति)+++
एक-विज्ञान-सहित–
सर्व-विज्ञान-वादतः …॥ ९.४॥
मूलम्
कार्योत्पत्त्युपकारेण सहकारि च तद्भवेत् ।
एकविज्ञानसहितसर्वविज्ञानवादतः ॥ ९.४॥
विश्वास-प्रस्तुतिः
उपादानत्वम् एवोक्तं
मृदादाव् इव चेश्वरे ।
“तदैक्षते"ति सङ्कल्पान्
निमित्तत्वं कुलालवत् ॥ ९.५॥
कृष्णमाचार्यः (सं)
कार्योत्पत्तौ यद् उपकरोति
तत्-सहकारिकारणं भवति;
यथा घटोत्पत्तौ दण्डादिर् नैयायिकानाम् ।
तत्रोपादानत्व-साधकं प्रमाणमाह- एकेति ।
श्रुतौ, " आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्”
इति ब्रह्म-विज्ञानेन सर्व-विज्ञानं प्रतिज्ञायते ।
स च प्रतिज्ञा-वादो जगद्-ब्रह्मणोर् उपादानोपादेय-भावाद् अनन्यत्व एव संभवति, नान्यथा । अतो ब्रह्मण उपादानत्वमेष्टव्यमिति भावः । तदेवाह - उपादानत्वमिति । उक्तमित्यनेन ब्रह्मण उपादानत्वं नास्माभिः कल्प- नीयम् । किंतु श्रुत्यैव कण्ठरवेणोक्तप्रायमित्यर्थः । “यथा मृत्पिण्डेन ” इत्यादि श्रुतिमभिसंधायाह—मृदादाविवेति । आदिपदेन लोहमणिनखकृन्तनादिग्रहणम्। निमित्तत्वमुपपादयति——तदैक्षतेति । यथा कुलालस्य घटकरणसंकल्पादिना निमित्तत्वं तद्वत् ब्रह्मणोऽपि बहुभवनसंकल्पादिना निमित्तत्वमित्यर्थः । ४, ५
[[१०५]]
कृष्णमाचार्यः (En)
4, 5. That is the concurrent cause which is helpful in the production of effect. There is a wise saying ‘When that one is known every thing becomes known’. By this saying it has been asserted that the Lord is the material cause like the clay.
In consideration of His Will mentioned in the words ‘It thought’ etc. He is also the efficient cause like the potter.
मूलम्
उपादानत्वमेवोक्तं मृदादाविव चेश्वरे ।
तदैक्षतेति सङ्कल्पान्निमित्तत्वं कुलालवत् ॥ ९.५॥
विश्वास-प्रस्तुतिः
सहकारित्वम् अप्य् अस्यान्तर्यामि-ब्राह्मणोदितम् +++(←“ यः पृथिवीम् अन्तरो यमयति “)+++।
सद्-ब्रह्मात्मादयः शब्दाः कारणत्वावबोधिनः …॥ ९.६॥
कृष्णमाचार्यः (सं)
सहकारित्वमाह-सहेति । अन्तर्यामीति । “ यः पृथिवीम् अन्तरो यमयति " इत्यादिश्रुत्युदितमित्यर्थः । ननु सर्वेश्वरस्यापि भगवतो हरेर्जगदुपादानत्वमप्रा- माणिकम् । श्रुत्यादिप्रमाणानि हि सदादीनामेवोपादानत्वं कथयन्ति, न तु हरेः । तथा हि—“ सदेव सोम्येदमग्र आसीत् " इति सत्प्रस्तुत्य, “तदैक्षत बहु स्यां प्रजायेय " इति तस्यैव संकल्पपूर्वकबहुभवनम् “ अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि " इति नामरूपभाक्त्वं च श्रूयते । तथान्यत्र, ब्रह्म वा इदमग्र आसीत् ” इति ब्रह्म प्रस्तुत्य, तस्यैव “तदेतद् ब्रह्म क्षत्रं विट् शूद्रः ’ “आत्मैवेदमग्र इत्यादिना ब्रह्मक्षत्रादिनामभाक्त्वं श्रूयते । तथान्यत्र च, आसीदेक एव” इत्यात्मानं प्रस्तुत्य, तस्यैव “इदं सर्वे यदयमात्मा ” इति विविधनामरूपभाक्त्वं श्रुतम् । तथा “एको ह वै नारायण आसीन्न ब्रह्मा नेशानः” इति नारायणं प्रस्तुत्य, “ब्रह्मा च नारायणः शिवश्च नारायणः " इत्यादिना तस्यैव ब्रह्मशिवादिनामरूपभाक्त्वं श्रुतम् । एवमव्यवस्थिते विषये कथं भगवतो नारायणस्यैवोपादानत्वमुच्यत इत्यत्राह - सद्ब्रह्मात्मादय इति । कारणत्वावबोधिनः सब्रह्मादयः शब्दाः छागपशुन्यायात् नारायणैकपरा इत्यर्थः । अयं भावः — शङ्कास्पदतया प्रतीयमानाः सदादयः शब्दाः सामान्य- शब्दाः । सच्छब्दो हि सत्ताश्रयत्वं प्रवृत्तिनिमित्तमादाय प्रवर्तमानः ‘घटः सन्’ ‘पटः सन्’ इत्यादिप्रतीतिबलात् घटादिसाधारणः । एवं ब्रह्मशब्दोऽपि
[[१०६]]
तत्र तत्र जीवप्रधानादिष्वपि प्रयुक्तो दृश्यत इति साधारण एव । आत्मशब्दोऽपि जीवपरसाधारणतया प्रयुज्यमानः साधारण एवेति न ते कारणभूतं वस्तु विशिष्य निर्देष्टुमीशते। कारणभूतवस्तुविशेषज्ञानमन्तरा कारणवाक्यानि न निवृत्ता- काङ्क्षाणि भवन्तीति सदादयः शब्दा नारायणरूपदेवताविशेषे पर्यवस्यन्ति । नारायणशब्दस्तु न साधारणो भवितुमर्हति । नरसंबन्धिनो नाराः ; तेषामयनं, ते अयनं यस्येति वा व्युत्पत्त्या निष्पन्नोऽपि नारायणशब्दो न भगवन्तमन्तरा देवतान्तरपरो भवितुमर्हति, तस्य संज्ञाशब्दत्वात् । संज्ञात्वादेव हि “पूर्व- पदात्संज्ञायामगः” इत्यनुशासनबलात् णत्वं भवति । “विश्वं नारायणं हरिम् " इति च श्रुतिरेव हरेर्नारायणसंज्ञामाह, “विष्णुर्नारायणः कृष्णो वैकुण्ठः” इति लौकिककोशोऽपि । ननु श्रुतौ देवतान्तराणामपि नमस्कारः श्रूयत इति चेत्, किं तेन ? न हि नमस्करणमात्रेण तेषां जगत्कारणत्वं मोक्षप्रदत्वं चाभिसंहित- मिति शक्यते वक्तुम्, कामनान्तरैरैपि नमस्कारसंभवात् । " नमस्ते अस्तु मा मा हिप्सीः ” इत्यादौ हि सान्त्वनार्थमपि नमस्कारः श्रूयते । ननु “एको हि रुद्रो न द्वितीयाय तस्थुः” इति रुद्रस्याप्यद्वितीयत्वं श्रूयत इति चेत्, तत्र- त्यरुद्रशब्दः भूयसां न्यायानुसारेण विरोधिनो रोदयतीत्यादिव्युत्पत्त्या भगवति यौगिक आस्थेयः । न हि नारायणशब्दे णत्ववत् रुद्रशब्दे यौगिकत्वबाधकं दृढतरं किंचित्प्रमाणमुपलभ्यत इत्यास्तां तावत् ।
६
कृष्णमाचार्यः (En)
- His concurrent causation also has been stated in the Antaryami-Brāhmaṇa (The portion of Vedic Text teaching His immanency). The terms such as Sat, Brahman and Atman refer to Him as the cause (of universe).
मूलम्
सहकारित्वमप्यस्यान्तर्यामिब्राह्मणोदितम् ।
सद्ब्रह्मात्मादयः शब्दाः कारणत्वावबोधिनः ॥ ९.६॥
विश्वास-प्रस्तुतिः
… तत्र च्छाग-पशु-न्यायान्
+++(सामान्यवचनस्य विशेषे पर्यवसानं यतः)+++
नारायण-परा मताः ।
+++(“सद् एव सौम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्” इत्यादौ)+++
नाम-रूप-विभागानर्हत्वावस्था-समन्वितम् …॥ ९.७॥+++(←यति-भङ्गः)+++
मूलम्
तत्र च्छागपशुन्यायान्नारायणपरा मताः ।
नामरूपविभागानर्हत्वावस्थासमन्वितम् ॥ ९.७॥
विश्वास-प्रस्तुतिः
सुसूक्ष्म-चिद्-अचिद्-युक्तम्
एकं ब्रह्मात्मकं मतम् +++(वक्ष्यमाण-काले)+++।
नाम-रूप-विभागात् प्राङ्,
न हि भेदो ऽवसीयते+++(=निश्चीयते)+++ ॥ ९.८॥
कृष्णमाचार्यः (सं)
[[१०७]]
सामान्यवचनस्य विशेषे पर्यवसानं निदर्शनमुखेन द्रढयति—तत्रेति ।
‘पशुना यजेत " इति विधौ सामान्यतः श्रुतोऽपि पशुशब्दः, “अग्नये छागस्य वपाया मेदसः” इति मन्त्रलिङ्गप्राप्ते छागे यथा पर्यवस्यति तद्वदिति भावः ।
ननु सद्-आदिशब्दानां नारायणरूपदेवताविशेषे पर्यवसानं न युक्तम् ।
तथाहि- “सद् एव सौम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्” इति श्रूयते ।
तत्र एकमिति पदेन स्वगत-सजातीय-विजातीय–भेद-रहितं सद्-वस्तु
जगत्कारणतया प्रतीयते ।
नारायणस्तु " पतिर् विश्वस्य " इत्यादिना विश्वपतित्वेन
“ह्रीश्च ते लक्ष्मीश्च पत्न्यौ” इत्यादिना लक्ष्मीपतित्वेन च प्रतीयते ।
अतो द्वितीय-वस्तुरहितं सदाख्यं ब्रह्मैव जगत्कारणम् ।
किंच “नेह नानास्ति किंचन " इत्यादिना ब्रह्मणि कृत्स्न भेद-प्रतिषेधः क्रियते ;
इत्याशङ्कयाह – नामरूपेत्यादि ।
नारायणख्यं परं ब्रह्मैव प्रपञ्च-सर्गात् पूर्वं
नाम-रूप-विभागानर्ह-सुसूक्ष्म-चिद्-अचिच्-छरीरकम् अभूत् ।
तदात्वे तत् परं ब्रह्म केवलम् एकम् एवाभूत् ।
विभक्त-नाम-रूप-वत्त्वं हि सर्गानन्तर-भावि ।
श्रुताव् एक-शब्दो वक्ष्यमाण-बहु-भवन-पूर्वावस्था-परतया प्रयुक्तः ।
ब्रह्मणोऽनेक-नाम-रूप-भाक्त्वाद् बहुत्वम् ।
“ अनेन जीवेनात्मना ऽनुप्रविश्य
नामरूपे व्याकरवाणि ”
इति संकल्प-पूर्वक-जीव-रूपानुप्रवेश-कृतम् इति
ततः पूर्वं तस्यैकत्वात् एकम् एवेति निर्देशो युज्यते ।
अत एवाग्र इति पदसार्थक्यम् अपि ।
परेषां मते तु ब्रह्मणः सर्वदा सजातीय-विजातीय-भेद-रहितत्वाद्
‘अग्र’ इति पदस्य वैयर्थ्यम् अस्वारस्यं च दुरपह्नवम् ।
“नेह नानास्ति किंचन” इत्यत्रापि
न ब्रह्मणि सर्वात्मना पराभिमत-भेद-प्रतिषेधः ।
किंत्व् अब्रह्मात्मक-वस्तु-नानात्वं प्रतिषिध्यते ।
तथाहि
“तत्र यस्मिन् पञ्च पञ्चजना आकाशश् च प्रतिष्ठितः "
इति पूर्व-वाक्ये ब्रह्मण इन्द्रिय-भूत-पञ्चकाधिष्ठानत्वं प्रतिपादितम् ।
तत् कथम् एकस्यात्मनः संभवतीत्य् आशङ्कायाम् इदं वाक्यं प्रवृत्तम्- “नेह नानास्तीति " ।
इह “यस्मिन् पञ्च पञ्चजनाः ” इत्य्-आदि-वाक्य-निर्दिष्टे ब्रह्मणि
किंचन नानात्वं नास्तीत्य् अर्थः।
पूर्वस्मिन् वाक्य इन्द्रियादीनां ब्रह्मात्मकत्व-कण्ठोक्त्या [[१०८]]
तद्-अविरोधेनाब्रह्मात्मक-वस्तु-प्रतियोगिक-नानात्वं ब्रह्मणि निषिध्यते ।
न तु निष्कृष्ट-तत्-तद्-वस्तु-भेदः,
ब्रह्मणि स्वेतर-वैलक्षण्यस्य प्रमाण-शत-प्रतिपन्नत्वात् ।
कृष्णमाचार्यः (En)
7-9. The terms mentioned above do mean the Lord Nārāyaṇa in accordance with the rule of interpretation viz. Chaga-Paśu (Goat and Animal).
The Brahman has been held to be only one because He was qualified by the sentient and non-sentient things only in their subtlest forms and stood in such a state which did not permit Him to have any classification with different names and forms.
मूलम्
सुसूक्ष्मचिदचिद्युक्तमेकं ब्रह्मात्मकं मतम् ।
नामरूपविभागात्प्राङ् न हि भेदोऽवसीयते ॥ ९.८॥
विश्वास-प्रस्तुतिः
मृद्-घटादाव् अपि ततस्
“तद् एकम् +++(पूर्वाह्णय् आसीद्)+++” इति गीयते ।
नाम-रूपाद्य्-अभावेन
सच्-छब्देनापि गीयते ॥ ९.९॥
कृष्णमाचार्यः (सं)
तस्य सच्-छब्द-वाच्यत्वम् एव निदर्शन-मुखेन निगमयति — मृदिति ।
अपराह्णे कुलाल-गृहे प्रसारितान् घट-शरावादीन् दृष्ट्वा कश्चिद् वक्ति-
’ इदं सर्वं प्राक् कुलाल-व्यापारात् पूर्वं पूर्वाह्णे मृद् एकैवासीत्’ इति ।
तत्र घटादिकरणात्पूर्वं मृदस् तत्तन्नामरूप-भाक्त्वाभावात्
यथैकैव मृद् आसीद् इति व्यवहारः,
तथा सृष्टेः पूर्वं हिरण्यगर्भादि-प्रपञ्चाभावात्
तदैकमेव ब्रह्मासीद् इति व्यवहारो युज्यते ।
नैतावता प्रपञ्चमिथ्यात्वं सिध्यतीति भावः । ७-९
कृष्णमाचार्यः (En)
Indeed no classification in the clay can be admitted before it takes any modification like pot etc. with different shapes and names. Therefore the Brahman was only one. He has also been mentioned by the term ‘Sat (Being) ’ because there were no different names and shapes to qualify Him.
मूलम्
मृद्घटादावपि ततस्तदेकमिति गीयते ।
नामरूपाद्यभावेन सच्छब्देनापि गीयते ॥ ९.९॥
विश्वास-प्रस्तुतिः
तद् +++(→सद्)+++ एवान्तः-प्रवेशेन
नाम-रूप-विभाग-कृत् ।
यथा जीवो +++(शरीर-)+++ऽन्तर्-आविष्टो
नाम-रूप-विभाग-भाक् … ॥ ९.१०॥
कृष्णमाचार्यः (सं)
[[१०९]]
तच्च बहु-भवनं नाम-रूप-व्याकरणं च
तत्-तद्-वस्त्व्-अन्तर्-आत्मना ऽनुप्रवेश-कृतम् इत्याह —
तदेवेति - यद् ब्रह्म “सद् एवे"ति वाक्ये एकम् एवेति निर्दिष्टं
तद् एवेत्यर्थः ।
" तद् ऐक्षत " इति श्रुतिवाक्येऽपि
तच्-छब्देन सदेवेति वाक्य-निर्दिष्टं ब्रह्मैव हि प्रतिपादितम् ।
अन्तः प्रवेशेनेति ;
“अनेन जीवेनात्मना ऽनुप्रविश्य "
“तत्सृष्ट्वा, तदेवानुप्राविशत्, तद् अनुप्रविश्य, सच् च त्यच् चाभवत् ” इत्य्-आदि-वाक्यान्य् अत्राभिप्रेतानि ।
तत्र दृष्टान्तम् आह- यथेति ।
यथा जीवो ब्राह्मणादि-शरीरान्तः-प्रवेशेन
“ब्राह्मणेभ्यो वेद-विद्भ्यो दिवे दिवे नमस्कुर्यात् ”
इत्य्-आदौ ब्राह्मणादि-व्यपदेशं लभते,
तद्वद् इति भावः ।
कृष्णमाचार्यः (En)
10-13. The Brahman effected different names and forms by penetrating all beings as immanent Self just as the individual soul got different names and forms by entering various bodies. Just as the individual soul is denoted by the words like Deva (Divine being) etc. in their primary sense
मूलम्
तदेवान्तःप्रवेशेन नामरूपविभागकृत् ।
यथा जीवोऽन्तराविष्टो नामरूपविभागभाक् ॥ ९.१०॥
विश्वास-प्रस्तुतिः
… “देवोऽहम्” इति शब्दैश् च
मुख्य-वृत्त्याभिधीयते ।
यथा नीलादयः शब्दा
नीलाद्य्-अव्यभिचारिणम् … ॥ ९.११॥
कृष्णमाचार्यः (सं)
एवं ब्रह्मणस् तत्-तद्-अनुप्रवेश-कृतं तत्-तन्-नाम-रूपभाक्त्वम् उपपाद्य
तस्य ब्रह्मणस् तत्-तच्-छब्दैर् मुख्य-वृत्त्या ऽभिधानं स्व-सिद्धान्त-संमतम् उपपादयति — मुख्यवृत्त्येति ।
ब्राह्मणादि-शब्दास् तत्-तच्-छरीर-वाचिनो ऽपि
यथा तद्-अन्तर्गत-जीवेषु मुख्यवृत्तास्
तथेति भावः ।
तत्रैव निदर्शनान्तरम् आह- यथा नीलादय इति ।
नीलादयः शब्दा आकृत्य्-अधिकरण-न्यायात्
गुण-वाचिनोऽपि यथा नीलादि-रूप-विशिष्टं वस्तु मुख्य-वृत्त्याभिदधति,
तथेति भावः ।
मूलम्
देवोऽहमिति शब्दैश्च मुख्यवृत्त्याभिधीयते ।
यथा नीलादयः शब्दा नीलाद्यव्यभिचारिणम् ॥ ९.११॥
विश्वास-प्रस्तुतिः
… विशिष्टम् एव मुख्यार्थं
वदन्ति निरुपाधिकम् ।
तथैव भगवान् अन्तर्-
यामी सन् नामरूपयोः …॥ ९.१२॥
कृष्णमाचार्यः (En)
and just as the words like ‘blue’ [[११०]] etc. denote by their very nature the substance possessed with colour in primary sense, so also the Lord is denoted by all the words in their primary sense because He penetrates all the things and brings about different names and forms.
मूलम्
विशिष्टमेव मुख्यार्थं वदन्ति निरुपाधिकम् ।
तथैव भगवानन्तर्यामी सन्नामरूपयोः ॥ ९.१२॥
विश्वास-प्रस्तुतिः
… विभाग-कृत्, स तैः शब्दैर्
मुख्य-वृत्त्या ऽभिधीयते ।
अ-मुख्यार्थत्वम् एतेषां +++(उदाहृत-जीव-नील-ब्रह्मणाम्)+++
परैर् उक्तं न युक्तिमत् ॥ ९.१३॥
कृष्णमाचार्यः (सं)
तैः शब्दैः; ब्रह्मेन्द्रादि-शब्दैः ।
आह च श्रुतिः -
" स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ” इत्यादि ।
परे तु मीमांसकादयः
नीलादि-शब्दानाम् अमुख्यार्थे द्रव्ये पर्यवसानम् आहुः ;
तन् न सम्यग् इत्याह- अमुख्यार्थत्वमिति ।
१०-१३
कृष्णमाचार्यः (En)
Some philosophers opine that these words denote their objects only in the secondary sense. But this view is not proper.
मूलम्
विभागकृत्स तैः शब्दैर्मुख्यवृत्त्याभिधीयते ।
अमुख्यार्थत्वमेतेषां परैरुक्तं न युक्तिमत् ॥ ९.१३॥
विश्वास-प्रस्तुतिः
शरीराद्य्-अपृथग्-भावाच्
छब्दा +++(विशेषण-विशेष्यादि-)+++निष्कर्षकेतरे ।
विशिष्टम् एव श्रीमन्तम्
अभिधास्यन्ति युक्तितः ॥ ९.१४॥
कृष्णमाचार्यः (सं)
शब्दा हि द्विविधाः - निष्कर्षकाः, विशिष्टवाचिनश् चेति ।
तत्रापृथक्-सिद्धि-संबन्धेन संबद्धान् विशेषणांशान् विशेष्यांशांश् च
पृथग् व्यवहर्तुम् इच्छया
यदा शब्दाः प्रयुज्यन्ते,
तदा ते निष्कर्षका इत्य् उच्यन्ते ।
यथा पदार्थास् त्रिधा– चितः, अचितः, ईश्वरश् चेति ।
अत्र चिद्-आदि-पदानि केवल-चिद्-आदि-वाचकानि,
न तु तद्-विशिष्टेश्वर-वाचकानि ।
एवम् ईश्वर-शब्दः चिद्-अचित्-संवलितम् अपीश्वरं
चिद्-अचिद्भ्यः पृथक्-कृत्य बोधयतीति
स निष्कर्षकः शब्दः ।
तेभ्य इतरे शब्दास् तत्-तत्-प्रकारकम् ईश्वरम् एव भगवन्तं श्रियःपतिम् अभिदधति,
पूर्वोक्त-युक्ति-बलाद् इति श्लोकार्थः ।
१४
कृष्णमाचार्यः (En)
- All the words, except those which are intended to specify Him in exclusion of His adjuncts, denote Him appropriately as qualified by adjuncts because He is inseparably connected with them.
मूलम्
शरीराद्यपृथग्भावाच्छब्दा निष्कर्षकेतरे ।
विशिष्टमेव श्रीमन्तमभिधास्यन्ति युक्तितः ॥ ९.१४॥
विश्वास-प्रस्तुतिः
“सर्वं ब्रह्मे"त्य् “ऐतद्-आत्म्यम्”
इत्य्-आदि-व्यपदिष्टयः ।
सामानाधिकरण्येन
संयुज्यन्ते, ऽत एव हि ॥ ९.१५॥
कृष्णमाचार्यः (सं)
निर्विशेषाद्वैत-वादिभिर् यानि श्रुतिवाक्यानि स्वमत-सर्वस्वतयोद्घोष्यन्ते,
तानि वाक्यान्य् अस्माकम् एवानुकूलानि ; न परेषामित्याह —सर्वमिति ।
“ सर्वे [[१११]] खल्विदं ब्रह्म ” “ऐतदात्म्यम् इदं सर्वम्” इति । आदिपदेन “तत्त्वमसि ” इत्यादयो गृह्यन्ते । एते व्यपदेशाः । अत एव ; सर्वेषां शब्दानां ब्रह्मपर्य- वसायित्वादेव । सामानाधिकरण्येन संयुज्यन्ते संगता भवन्ति । भिन्नप्रवृत्ति- निमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यमिति सामानाधिकरण्य- शब्दार्थो वर्णितः । स चास्मन्मत एव संगतः, न परमत इति भावः ।
१५
कृष्णमाचार्यः (En)
- By the same reason the usages like All are Brahman” “All are in the form of Brahman " etc. can be sensibly explained in the sense of Samānādhikaranya. (A term which denotes a single thing as possessed with different attributes.)
मूलम्
सर्वं ब्रह्मेत्यैतदात्म्यमित्यादिव्यपदिष्टयः ।
सामानाधिकरण्येन संयुज्यन्तेऽत एव हि ॥ ९.१५॥
1 तत्त्वतः C.
विश्वास-प्रस्तुतिः
स्वरूप-भिदया भेद-
श्रुतयो ऽस्मन्-मते स्थिताः ।
विशिष्टाभेदतो ऽभेद-
श्रुतयोऽपि सुनिर्वहाः ॥ ९.१६॥
कृष्णमाचार्यः (सं)
श्रुतयो हि द्विधा भवन्ति - भेदपराः, अभेदपराश्चेति । द्विविधा अपि ता अस्मन्मत एव सुसंगताः, न परेषां मत इत्याह-स्वरूपेति । “पृथगात्मानं प्रेरितारं च मत्वा " “द्वा सुपर्णा सयुजा सखाया” “ प्रधानक्षेत्रज्ञपति- र्गुणेशः " इत्यादयोऽचितां जीवानामीश्वरस्य चायन्तवैलक्षण्यं बोधयन्ति । अस्माकं मते चिदचिदीश्वरस्वरूपेषु भेदाङ्गीकारादत्यन्तमेताः श्रुतयोऽनुकूलाः । " सर्वे खल्विदं ब्रह्म " “ऐतदात्म्यमिदं सर्वम् " " ब्रह्मैवेदं सर्वम् " इत्याद्यभेदबोधिकाः श्रुतयश्चिदचिद्विशिष्टब्रह्मबोधकत्वात् सुनिर्वाहा इति भावः । परैस्तु अभेदश्रुतीनां प्राधान्यमभ्युपगम्य भेदश्रुतीनां कल्पितभेदपरत्वेन समन्वयः क्रियते । भेदस्य पारमार्थिकत्वेन कल्पितत्वासंभवात् तेषां तथा निर्वाहस्तासां श्रुतीनामप्रामाण्याभ्युपगमपर्यवसायीति हृदयम् ।
१६
कृष्णमाचार्यः (En)
- According to our doctrine the Vedic passages teaching the difference (between the Brahman and world) will stand firm because they mean the difference in the essential nature of them. The passages teaching the non-difference (between the Brahman and world) can be explained to mean the non-difference in His gross form.
मूलम्
स्वरूपभिदया भेदश्रुतयोऽस्मन्मते स्थिताः ।
विशिष्टाभेदतोऽभेदश्रुतयोऽपि सुनिर्वहाः ॥ ९.१६॥
[[११२]]
विश्वास-प्रस्तुतिः
कारणात् सूक्ष्म-चिद्-अचिद्-
युक्तात् +++(ब्रह्मणः)+++ स्थूलैतद्+++(→चिद्-अचिद्)+++ +++(जगत्)+++ आहितम् ।
कार्यं नान्यद् इति व्यक्तम्
आरम्भण-नयादिषु ॥ ९.१७॥
+++(” यतो वा इमानि भूतानि जायन्ते “,
“तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः” इत्यादौ)+++
कृष्णमाचार्यः (सं)
ननु सिद्धान्ते " यतो वा इमानि भूतानि जायन्ते " इत्यादि-श्रुति-बलाद्
ईश्वरस्य प्रपञ्चोपादान-कारणत्वम् अङ्गीकृतम् ।
ईश्वरस्य प्रपञ्चस्य च भेदो ऽप्य् अङ्गीकृतः ।
तथा सति कथं कार्य-कारणयोर् अनन्यत्व-सिद्धिः ?
तयोर् अनन्यत्वं च सर्व-वेदान्ति-संमतम्।
“तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः” इति व्याहरतः सूत्र-कृतः संमतं
चेत्य् आशङ्क्य समाधत्ते — कारणादिति ।
सृष्टेः पूर्वं सूक्ष्म-चिद्-अचिद्-विशिष्टात् ब्रह्मणः कारणात्
सृष्टौ स्थूल-चिद्-अचिद्-विशिष्टं ब्रह्मोत्पद्यते ।
तत्र विशेष्यांशे निष्कृष्टे
ब्रह्मणि प्रपञ्चात्मना विकारासंभवेऽपि
प्रकारांशे अचिति सतत-विक्रियात्मके तत्-संभवात्
प्रकार-भूताचिद्-द्वारा तत्-प्रकारिणो ब्रह्मणो ऽप्य् उपादानत्व-संभव
इति भावः ।
एवं परंपरया विकारास्पदत्वं तु
प्रामाणिकत्वात् ब्रह्मण इष्टम् एवेति भावः ।
एतद् उक्तं भवति -
अविकारश्रुतयो विशेष्य-भूत-ब्रह्म-पराः ।
विकार-श्रुतयस् तु विशेषण-भूताचित्-पराः,
तत्-परंपरया चिद्-अचिद्-विशिष्टेश्वर-पराश् चेति ।
१७
कृष्णमाचार्यः (En)
- In the Arambhanādikarana and other topics, it has been clearly stated that the effect qualified by the sentient and non-sentient things in their gross form is not different from the cause qualified by the subtle forms of the sentient and non-sentient things.
मूलम्
कारणात्सूक्ष्मचिदचिद्युक्तात्स्थूलैतदाहितम् ।
कार्यं नान्यदिति व्यक्तमारम्भणनयादिषु ॥ ९.१७॥
विश्वास-प्रस्तुतिः
निर्गुणत्व-पराः काश्चिच्
छ्रुतयः सन्ति ता इमाः ।
तद्-धेय-गुण-राहित्यं
बोधयन्ति ततो ध्रुवम् ॥ ९.१८॥
कृष्णमाचार्यः (सं)
एवं परस्परं व्याहततयापाततो भासमानानां सगुणनिर्गुणश्रुतीनां समन्वय- प्रकारमाह—निर्गुणत्वपरा इति । “निर्गुणम्” “निरञ्जनम् ” इत्यादयः श्रुतयो ब्रह्मणो निर्गुणतामाहुः [[११३]]। “प्रधानक्षेत्रज्ञपतिर्गुणेशः " " स्वाभाविकी ज्ञानबल- क्रिया च " “सत्यकामः सत्यसंकल्पः” इत्यादयः श्रुतयस्तस्यैव सगुणतामाहुः । एवं परस्परं व्याहततयेव भासमानाः श्रुतय एवं समर्थनीयाः - सामान्यनिषेध-वाक्यानि वाक्यान्तरविहितविशेषेतरविषयाणि परिकल्पनीयानि ।
यथा “न हिंस्यात्सर्वा भूतानि” इति भूतहिंसानिषेधः
“चित्रया यजेत पशुकामः " इत्ष्य्-आदि-वाक्यान्तर-विहित-यज्ञिय-चित्रादि-हिंसा-व्यतिरिक्त-विषयतया सर्वैर् अपि प्रमाण-तन्त्रैर् वर्ण्यते,
तथात्रापि निर्गुणवाक्यं विहितज्ञानशक्त्यादिकल्याणगुणत्र्यतिरिक्त- हेयगुणविषयतया नेयमिति न परस्परं व्याघात इति । यथाह-
" उत्सर्गेणापवादं न खलु नयविदः क्षोभणीयं क्षमन्ते
तस्माद्भाह्मे गुणादौ विधिविषयमतिक्रम्य तिष्ठेन्निषेधः ।
एवं शान्ते विरोधे नहि समविषयापच्छिदान्यायसिद्धि-
दृष्टो नित्यं निषेधः पर इह ततः स्यादुपकान्तिनीतिः ॥ ”
इति ।
१८
कृष्णमाचार्यः (En)
- There are some Vedic passages mentioning the Brahman as devoid of qualities. They teach the absence of bad qualities in Him.
मूलम्
निर्गुणत्वपराः काश्चिच्छ्रुतयः सन्ति ता इमाः ।
तद्धेयगुणराहित्यं बोधयन्ति ततो ध्रुवम् ॥ ९.१८॥
1 यद्वेय C.
इति वेदान्तकारिकावल्यामीश्वरनिरूपणं नवमं प्रकरणम
15
元