०८ जीव-निरूपणम्

विश्वास-प्रस्तुतिः

अणुत्वे सति चैतन्यं
जीव-लक्षणम् उच्यते ।
स च देहेन्द्रियादिभ्यो
विलक्षणतया मतः ॥ ८.१॥

कृष्णमाचार्यः (सं)

अथ क्रमप्राप्तं जीवनिरूपणमारभते - अणुत्व इति । अणुत्वमल्परिमाण- वत्त्वम् | चैतन्यं ज्ञानाश्रयत्वम् । आभ्यां विशेषणाभ्यां क्रमेण ईश्वरस्य घटादेश्च व्यावृत्तिः । जीवस्याणुत्वं च श्रुत्यादिप्रमाणसिद्धम् । तथाच श्रूयते-

“एषोऽणुरात्मा चेतसा वेदितव्यः "

“वालाप्रशतभागस्य
शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः
स चानन्त्याय कल्पते ॥ "

इति । सूत्रकारोऽपि “उत्क्रान्ति-गत्य्-आगत्यादीनाम्” इति सूत्रयंस्
तस्याणुत्वं प्रसाधयति ।
एतेन जीव-विभुत्व-वाद-निरासः ।
तथा तस्य ज्ञातृत्वमपि श्रूयते –

“यो वेदेदं जिघ्राणीति स आत्मा”

“जानात्येवायं पुरुषः "

“न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते " इत्यादि ।

सूत्रकारश्च “ज्ञोऽत एव ” इति वदन् ज्ञातृत्वं तस्य प्रसाधयति । एतेन केवलज्ञप्तेरात्मत्ववादनिरासः । स च जीवो देहेन्द्रियादिभ्योऽन्यः, तेषां ज्ञातृत्वाद्ययोगात् ।

कृष्णमाचार्यः (En)
  1. Minuteness and consciousness jointly constitute the characteristic of the Jiva. He is held to be distinct from his body, senses etc.
मूलम्

अणुत्वे सति चैतन्यं जीवलक्षणमुच्यते ।
स च देहेन्द्रियादिभ्यो विलक्षणतया मतः ॥ ८.१॥

विश्वास-प्रस्तुतिः

जीवस्यानेक-विषयानु-
भवो
ऽणोर् अपि स्मृतः ।
यद्-धर्म-भूत-विज्ञान-
व्याप्तिस् तत्रोपयोगिनी ॥ ८.२॥

कृष्णमाचार्यः (सं)

[[८७]]

ननु जीवस्याणुत्वे कथं तस्य युगपद् अनेक-विषयानुभवसंभवः ?
सुगन्धि चन्दनं हि नरो
युगपद् एव चक्षुर्भ्यां पश्यति ।
घ्राणेन जिघ्रति ।
हस्तेन स्पृशति ।
तदा च तद्गत-रूपादीन् उपलभत

इत्याशङ्कय समाधत्ते — जीवस्येति ।
अणोर् अपि जीवस्य
युगपद् अनेक-विषयानुभवः स्मृतः ।
यतस् तत्र धर्म-भूत-ज्ञानस्य
बहुत्र व्याप्तिर् उपयोगिनी ।
तद् आह “गुणाद् वा लोकवत् ” इति ।
आत्मा ऽणुर् अपि
स्व-गुणेन ज्ञानेन
सकलं देहं व्याप्यावतिष्ठते ।
यथा मणेर् एक-देश–वर्तिनो ऽप्य् आलोको ऽनेक-देश-व्यापी,
तद्वत् हृदय-कुहरान्तःस्थस्याप्यात्मनो ज्ञानं
सकलं देहं व्याप्य वर्तत इति सूत्रार्थः ।

कृष्णमाचार्यः (En)
  1. Though Jiva is subtle, his experience of different objects, is accountable to the expansion of his knowledge.
मूलम्

जीवस्यानेकविषयानुभवोऽणोरपि स्मृतः ।
यद्धर्मभूतविज्ञानव्याप्तिस्तत्रोपयोगिनी ॥ ८.२॥

1 स्फुटः B.

विश्वास-प्रस्तुतिः

पूर्वानुभूत-विषय–
प्रति-सन्धान-योगतः ।
नित्यः, प्रतिशरीरं स
भिन्नो भोक्त्रादि-शब्दितः ॥ ८.३॥

कृष्णमाचार्यः (सं)

अथ तस्य नित्यत्वं प्रसाधयति — पूर्वेति । पूर्वमनुभूतो यो विषयः देवदत्तादिः, तत्प्रतिसंधानयोगान्नित्य इत्यर्थः । उपदशेभ्यो वत्सरेभ्यः पूर्वं काश्यां दृष्टस्य देवदत्तस्य संप्रति मद्रपुर्या पुनर्दर्शने ‘सोऽयं देवदत्तः’ इति प्रतिसंधानं जायते । यद्यात्मा न नित्यः स्यात्, तदा तन्नोपपद्येत । अन्येन दृष्टस्यान्येन प्रतिसंधानं हि न संघटते । एतेन क्षणिकात्मवादो निरस्तः । जीवश्च प्रतिशरीरं भिन्नः । स्मृत्यनुभवादीनां व्यवस्था हि तदैव संगच्छते । यद्येक एवात्मा नानादेहेष्वभविष्यत् तदा येन पूर्वं घटो दृष्टः तस्यैव स्मृतिरुदेति नान्यस्येति व्यवस्था नाघटिष्यत । तदाह – “नानात्मानो व्यवस्थातः” इति । सांख्या अप्याहुः-

“ जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाञ्चैव ॥”

८८

• इति । अनेनैकजीववादो निरस्तः । तथा तत्रैव विशेषान्तरमाह — भोक्त्रादीति । “भोक्ता भोग्यं प्रेरितारं च मत्वा " " एष हि द्रष्टा श्रोता” इत्यादौ जीवस्य भोक्तृत्वं कण्ठोक्तमिति भावः । अनेन प्राकृतस्यान्तःकरणस्यैव भोक्तृत्वादि, नात्मन इति वादो निरस्तः ।

कृष्णमाचार्यः (En)
  1. He is permanent because of his recollection on the objects formerely experienced. The Jivas dwelling in different bodies are individually different and called as Bhoktr (enjoyer) etc.
मूलम्

पूर्वानुभूतविषयप्रतिसन्धानयोगतः ।
नित्यः प्रतिशरीरं स भिन्नो भोक्त्रादिशब्दितः ॥ ८.३॥

शब्दतः B.

विश्वास-प्रस्तुतिः

+++(जीवः)+++ प्रकृत्य्+++(→प्राकृत-देह)+++-अपेक्षया देही,
+++(तन्नियाम्यत्व–तद्-आधारत्वादिभिः)+++ देहः श्रीमद्+++(-वुष्ण्व्)+++-अपेक्षया ।
तस्य स्वयं-प्रकाशत्वं
+++(“अत्रायं पुरुषः स्वयंज्योतिर् भवति ” इत्यादि-)+++प्रत्यक्ष+++(=स्पष्ट)+++–श्रुति–बोधितम् ॥ ८.४॥

कृष्णमाचार्यः (सं)

अथ सिद्धान्तिनां प्रतितन्त्र-सिद्धान्तभूतं शरीर-शरीरि-भावम् आह – प्रकृतीति ।
प्राकृत-स्व-देहापेक्षया ऽयं देही,
तज्-जन्य-सुख-दुःखादि-भोगवान् ।
श्रीमन्तं भगवन्तम् अन्तर्यामिणम् अपेक्ष्या ऽयं देहो भवति,
तन्नियाम्यत्व–तद्-आधारत्वादि-शरीर-लक्षणैर् लक्षितत्वात् ।
एवं च यथैकस्यैव देवदत्तस्य
स्वपितरं प्रति पुत्रत्वं,
स्वपुत्रं प्रति पितृत्वं च न विरुध्यते,
तथैकस्यैव जीवस्य स्वदेहं प्रति शरीरित्वम्
ईश्वरं प्रति शरीरत्वं च न विरुध्यत
इति भावः ।

स चायं जीवः स्वयंप्रकाशः, अनन्याधीनप्रकाश इत्यर्थः -
स्वगोचर-ज्ञानान्तरम् अनपेक्ष्यापि
स्वयमे् एव प्रकाशत इति यावत् ।

ननु तथा सति स किं सर्वदा भासते ?

ओमिति ब्रूमः ।
सुषुप्तावपि हि ‘अहम् अहम्’ इत्यात्मनः प्रतिभासः सर्वानुभवसिद्धः ।

कथं तर्हि सुप्तोत्थितस्य ‘न किंचिद् अवेदिषम्’ इति प्रतिसंधानम्

इति चेत्,
बाह्य-वस्तु-विशेषावेदनाद् इति वेदितव्यम् ।

नन्व् आत्मा ऽपि नित्यः सर्वदा संनिहितः,
ज्ञानम् अपि विभु नित्यं चाभ्युपगतम् ;
तथापि कुतः सुषुप्तौ बाह्य-वस्त्व्-अवेदनम्

इति चेत्,
कथं वा जागरेऽपि सर्ववस्त्व्-अग्रहणम् इति पृच्छामः ।
यदीन्द्रिय-व्यापाराभावाद् इति, तदा ऽत्रापि तथेति तुल्यः समाधिः ।
जागरे कतिपय-बाह्य-वस्तु-ग्रहणम् ।
सुषुप्तौ तु तदपि नास्तीति परं विशेषः ।

[[८९]]

ननु किम् अनेन प्रयास-शतोपपादनीयेन जीव-स्वयंप्रकाशत्वेन ?

तद् एव मास्त्व् इत्य्-अत्राह — प्रत्यक्षश्रुतिबोधितमिति ।
“अत्रायं पुरुषः स्वयंज्योतिर् भवति ” इत्यादि-प्रत्यक्ष-श्रुत्य्-अवगतमित्यर्थः ।

कृष्णमाचार्यः (En)
  1. He is the soul in respect of his body.
    He is the body in respect of the Lord of Sri.
    That he is self-luminous is taught by clear Sruti passages.
मूलम्

प्रकृत्यपेक्षया देही देहः श्रीमदपेक्षया ।
तस्य स्वयंप्रकाशत्वं प्रत्यक्षश्रुतिबोधितम् ॥ ८.४॥

चोदितम् B.

विश्वास-प्रस्तुतिः

+++(नैक-शरीरक-सौबरि-वत्)+++ देशान्तर-फलादीनाम्
उपलब्धिर् अणोर् अपि ।
कर्म-जन्याद् अ-दृष्टाऽप्य-
+++(धर्म-भूत-ज्ञान-प्रसरात्मक-)+++विज्ञानाद् इति सञ्जगुः ॥ ८.५॥

कृष्णमाचार्यः (सं)

ननु कथं तर्हि सौभरि-प्रभृतीनाम्
अनेक-शरीर-परिग्रहेण भिन्न-भिन्न-देशेषु सुखाद्य्-उपलम्भः;
आत्मना ह्य् अणुनैकस्मिन्न् एव शरीरे संनिहितेन भाव्यम्,
न सर्वत्र ;
शरीरान्तरेष्व् आत्माभावे च
कथं तत्रत्य-सुखाद्य्-उपलम्भ-संभव

इत्यत्राह- देशान्तरेति ।
उपलब्धिः ; अनुभवः ।
कर्म-जन्यात् अदृष्ट-प्राप्याच् च विज्ञानाद् इति शब्दार्थः ।
अयं भावः -
यद्य् अप्य् अणोर् जीवस्य नाना-शरीर-संबन्धो न संभवति,
तथापि तद्-धर्म-भूतस्य ज्ञानस्य विभुनस् तावत्-पर्यन्त-प्रसरात्
तत्-संबन्धो ऽस्तीति तत्रत्य-सुखोपलब्धि-संभवः ।
कथं तर्हि सर्वेषां पुंसां न तथा प्रसर इति चेत्,
अदृष्ट-विशेषाभावाद् इत्य् उच्यते ।
अदृष्टं चास्माकं मत ईश्वर-प्रीत्याद्य्-आत्मकम् एव ।
तच् चादृष्टं तत्-तत्-पुरुषीय-कर्म-विशेष-तारतम्याधीनम् इति
नातिप्रसङ्ग
इति ।

कृष्णमाचार्यः (En)
  1. Wise men say that though he is atomic, his experience of the objects in different places, is accountable to his knowledge which extends by virtue of his Karman.
मूलम्

देशान्तरफलादीनामुपलब्धिरणोरपि ।
कर्मजन्याददृष्टाप्यविज्ञानादिति सञ्जगुः ॥ ८.५॥

1 कर्मजन्याददृष्टाख्य A. D.

विश्वास-प्रस्तुतिः

बद्धो मुक्तो नित्य इति
जीवः स त्रिविधो मतः ।
ब्रह्मादि-स्तम्ब+++(=तृणादि)+++-पर्यन्ता
बद्धाः संसार-योगिनः ॥ ८.६॥

कृष्णमाचार्यः (सं)

बद्धो मुक्त इत्यादि निगदव्याख्यातम् । स्तम्बः सूक्ष्मः कीटविशेषः । ६

कृष्णमाचार्यः (En)

[[९०]]

  1. The Jivas are of three kinds - Fixed in bondage, Released and Eternal. Of these those fixed in bondage are connected with Samsara (transmigration) and include all Jivas from Brahman (the creator) to small insects.
मूलम्

बद्धो मुक्तो नित्य इति जीवः स त्रिविधो मतः ।
ब्रह्मादिस्तम्बपर्यन्ता बद्धाः संसारयोगिनः ॥ ८.६॥

2 कीटपर्यन्ता A. D.

विश्वास-प्रस्तुतिः

त्रैवर्गिकार्थ-निष्णाता
बुभुक्षव उदाहृताः ।
अर्थ-काम-परास् तत्र
स्वदेहात्माभिमानिनः ॥ ८.७॥

कृष्णमाचार्यः (सं)

बुभुक्षुमुमुक्षुभेदेन बद्धजीवानां द्वैविध्यमभिप्रेत्यादौ बुभुक्षून् निरूपयति- त्रेवर्गिकेति। धर्मार्थकामास्त्रिवर्गः ; तद्रूपेऽर्थे विषये निष्णातास्तत्परा बुभुक्षव इत्यर्थः । ते च द्विधा—अर्थकामपराः, धर्मपराश्चेति ।
ये स्वदेहे प्राकृतदेह एवात्माभिमानेन ऐहिक-सुखाभिलाषेण तद्-उपभोग-साधन-शरीर-पोषणायार्थान् कामांश् चाभिलषन्ति ते अर्थकामपराः

कृष्णमाचार्यः (En)
  1. Those are Bubhuksus (desirous of worldly enjoyments) who are longing for Dharma, Artha and Kama. Of these those who wrongly think that the body is the self are called Arthakāmapara (devoted to wealth and passion).
मूलम्

त्रैवर्गिकार्थनिष्णाता बुभुक्षव उदाहृताः ।
अर्थकामपरास्तत्र स्वदेहात्माभिमानिनः ॥ ८.७॥

बुभुत्सवः A. D.

विश्वास-प्रस्तुतिः

ते तु धर्म-परास् तत्र
यागाद्य्-अर्थानुषङ्गिणः ।
धर्मस् त्व् अलौकिक-श्रेयः-
साधनं चोदनोदितम् ॥ ८.८॥

कृष्णमाचार्यः (सं)

धर्मपरानाह—ते त्विति ।
ये तु देहातिरिक्तात्मनो ऽलौकिक-पारत्रिक-श्रेयस्-कामास्
तत्-साधनानि यागादि-कर्माण्य् आरचयन्ति
ते धर्मपरा इत्यर्थः ।
प्रसङ्गात् धर्मलक्षणमाह—धर्मस्त्विति ।
अत्र “चोदनालक्षणोऽर्थो धर्मः” इति जैमिनीयं सूत्रं विवक्षितम् ।
चोदनोदितम् इत्यनेन चोदनालक्षण इति,
अलौकिकश्रेयःसाधनम् इत्य् अनेनार्थ इति च पदं विवृतं भवति ।

कृष्णमाचार्यः (En)
  1. But those who are engaged in performing various sacrifices are called Dharmaparas (devoted to [[९१]] Dharma). That is Dharma which is ordained by the Vedic injunction as the means of heavenly pleasure.
मूलम्

ते तु धर्मपरास्तत्र यागाद्यर्थानुषङ्गिणः ।
धर्मस्त्वलौकिकश्रेयःसाधनं चोदनोदितम् ॥ ८.८॥

अभिमानकाः B.

विश्वास-प्रस्तुतिः

रुद्राद्याराधन-परा
अन्य-देव-परा मताः ।
आर्तो+++(=अनुभूत-भ्रष्टैश्वर्य-कामः)+++, +++(आत्म-स्वरूप-ज्ञान-मात्र-)+++जिज्ञासुर्, अर्थार्थीत्य्
एवं भागवताः स्मृताः ॥ ८.९॥

कृष्णमाचार्यः (सं)

धर्मपरेष्वेव देवतान्तरपरत्वेन भगवत्परत्वेन च द्वैविध्यमभिप्रयन्नाद्या- नाह - रुद्रेत्यादि । रुद्रादीन् देवान् भगवच्छरीरत्वेन स्वातन्त्र्येण वाभिमत्य ये आराधयन्ति, ते देवतान्तरपराः । भगवत्परानाह - आर्त इति ।

अर्तः ; अनुभूत-भ्रष्टैश्वर्य-कामः।
अर्थार्थी; अननुभूतापूर्वैश्वर्यकामः ।
उभयोरेतयोरैश्वर्यार्थित्वाविशेषेऽपि मुखभेदेन पृथगुक्तिः ।

जिज्ञासुः ; प्रकृति-वियुक्तात्म-स्वरूपानुभवेच्छुः ।
ज्ञानम् एवास्य स्वरूपम् इति तद्-इच्छोर् जिज्ञासुत्वम् ।
एते सर्वेऽपि स्वस्वाभिलषित-सिद्ध्यर्थं देवतान्तर-परित्यागेन भगवद्-एक-ध्यान-परा इति तेषां भागवतत्वम् । अत्र

“चतुर्विधा भजन्ते मां
जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुर् अर्थार्थी
ज्ञानी च भरतर्षभ ॥ ”

इति भगवद्गीतावचनमनुसंधेयम् । तत्र हि देवतान्तरपरित्यागेन भगवत्परा हि सुकृतिन उक्ताः ।

कृष्णमाचार्यः (En)
  1. Those who worship the other deities Rudra and so on are called Anyadevaparas (devotees of other gods). The Bhagavatas are those who worship Bhagavan Viṣṇu alone. They are of three kinds- Arta (distressed) Jijñāsu (desirous of getting Jñānai.e. self) and Arthārthin (ambitious in getting wealth).
मूलम्

रुद्राद्याराधनपरा अन्यदेवपरा मताः ।
आर्तो जिज्ञासुरर्थार्थीत्येवं भागवताः स्मृताः ॥ ८.९॥

विश्वास-प्रस्तुतिः

मुमुक्षूणां च कैवल्य-
पराणां
लक्ष्म कथ्यते ।
प्रकृतेस् तु वियुक्तस्य
स्वात्मनोऽनुभवः परम् ॥ ८.१०॥

कृष्णमाचार्यः (सं)

[[९२]]

अत्र केचित् सिद्धान्त्येकदेशिनो मुमुक्षून् परममुक्तिपरत्वेन कैवल्या- ख्यमुक्तिपरत्वेन च द्वेधा विभज्य वर्णयन्ति । तन्न युक्तमित्यभिप्रयंस्तान् प्रत्येकं लक्षयितुमुपक्रमते – मुमुक्षूणामिति । प्रथमं सूचीकटाहन्यायेन कैवल्यपरानाह— कैवल्यपराणामिति । प्रकृतेः सकाशात् विमुक्तस्य स्वात्मनोऽनु- भवपराणामित्यर्थः । केवलस्य इतरसंसर्गरहितस्य भावो हि कैवल्यम् । प्रकृतिवियुक्तस्वात्मानुभवपरः केवल इति फलितम् ।

१०

कृष्णमाचार्यः (En)
  1. Now the characteristics of the Mumuksus (ambitious for the Eternal Bliss) and Kaivalyaparas (desirous of being aloof from material connection) are described. Kaivalya is the enjoyment of one’s own self after the release from material connection.
मूलम्

मुमुक्षूणां च कैवल्यपराणां लक्ष्म कथ्यते ।
प्रकृतेस्तु वियुक्तस्य स्वात्मनोऽनुभवः परम् ॥ ८.१०॥

विश्वास-प्रस्तुतिः

कैवल्यम् अर्चिर्-मार्गेण
गत्वापि परमं पदम् ।
रमण-त्यक्त-पत्नीवत्
क्व-चित्-कोणे ऽवतिष्ठते ॥ ८.११॥

कृष्णमाचार्यः (सं)

कैवल्यमिति पूर्वेणान्वेति । ते च केवलाः केन मार्गेण प्राकृतलोकान् निर्गच्छन्ति ?
कुत्र स्थित्वा स्वात्मानम् अनुभवन्तीत्य्-अत्राह - अर्चिर्मार्गेणेति ।
अर्चिरादि-मार्गेण गत्वा
परमपदं प्राप्नुवन्ति ।
परं तु परमपदं प्राप्तानां
परब्रह्मानुभवस्य शास्त्र-सिद्धत्वात्
तद्-विधुरास् ते
परमपद एव कुत्रचित्कोणे लब्धास्पदा
यथा पतिपरित्यक्ताः साध्व्यः पातिव्रत्यम् अनुपालयन्त्यः पतिसांनिध्यानन्दानुभवं विहायावतिष्ठन्ते,
तथैतेऽपि परब्रह्मानन्दानुभवं विना वर्तन्त इत्यर्थः । ११

कृष्णमाचार्यः (En)
  1. Even on reaching the Highest Region (Paramapada) through the path of Arcis (Light) etc., they remain in a corner of that Region like a beloved wife on separation from her lover.
मूलम्

कैवल्यमर्चिर्मार्गेण गत्वापि परमं पदम् ।
रमणत्यक्तपत्नीवत् क्वचित्कोणेऽवतिष्ठते ॥ ८.११॥

विश्वास-प्रस्तुतिः

कैवल्यम् एतत् केषाञ्चिद्
आर्याणाम् एव +++(मोक्षत्वेन)+++ सम्मतम् ।
अस्मद्-आर्यास् तु कैवल्यं
न +++(मोक्षत्वेन)+++ मन्यन्त इति स्थितम् ॥ ८.१२॥

कृष्णमाचार्यः (सं)

[[९३]]

एष च कैवल्याख्यो मोक्षः परमसिद्धान्तिनाम् अनभिमतमित्याह - कैवल्यमिति ।
अर्चिरादिमार्गेण परमपदं प्राप्तस्य परब्रह्मानन्दानुभवस्यावश्यं-भावित्वात्
तत्र तद्-वैधुर्येण स्वात्म-मात्रानुभवः सुताराम् असंभावितः ।

“सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति हि श्रूयते ।
तत्र काम्यन्त इति कामा इति व्युत्पत्त्या कामपदेनानन्दादयो ब्रह्मगुणा उच्यन्ते ।
अतः कैवल्याख्यो मोक्षो नास्तीत्यर्थः ।

यदि परेषां जीवन्-मुक्त-व्यवहारवत् मुक्ति-कल्पतया तत्र गौणो मुक्ति-व्यवहारस्
तदा कामं व्यवह्रियताम् ।
ननु केवलात्मोपासकानां तत्-क्रतु-नयात् स्वात्मानुभव एव फलं भवितुमर्हति ;

ते च केन मार्गेण निर्गच्छन्ति ? कुत्र वावस्थितिस्तेषाम्

इति चेत्, येन केनापि मार्गेण निर्गच्छन्तु।
यत्र कुत्र वा प्रकृतिमण्डल एव तिष्ठन्तु ।
न त्व्-अर्चिरादिना निर्गमः,
न वा परम-पदावस्थितिस् तेषामिति सिद्धान्तः ।

१२

कृष्णमाचार्यः (En)
  1. This state of Kaivalya is acceptable only to some of our philosophers. But our preceptors do not accept Kaivalya (as Mukti). This is their conclusion.
मूलम्

कैवल्यमेतत्केषाञ्चिदार्याणामेव सम्मतम् ।
अस्मदार्यास्तु कैवल्यं न मन्यन्त इति स्थितम् ॥ ८.१२॥

1 आद्यास्तु A. D.

स्फुटम् C. D.

विश्वास-प्रस्तुतिः

भक्ताः पूर्वोक्त-भक्त्यैव
मुक्ति-सम्प्राप्त्य्-अपेक्षिणः ।
अपशूद्र-नये भक्तौ
शूद्रानधिकृतिः स्फुटा ॥ ८.१३॥

कृष्णमाचार्यः (सं)

अथ मोक्षपरानाह—भक्ता इति । पूर्वोक्तेति ; धर्मभूतज्ञाननिरूपण- प्रकरणोक्तरीत्येत्यर्थः । ये भक्तियोगेन मोक्षं प्राप्तुमिच्छन्ति ते भक्ताः । तत्र च भक्तियोगे त्रैवर्णिकानामेवाधिकारः, तस्य वैदिकमन्त्रकरणकत्वात् । न शूद्रस्य, तस्य वैदिकमन्त्रानधिकृतत्वात् । किंच भक्तियोगे हि वर्णाश्रमधर्मा इतिकर्तव्य- तामापद्यन्ते । तदाह–“विहितत्वाच्चाश्रमकर्मापि ” इति । आश्रमविधुराणा- माश्रमकर्मप्रसक्त्यभावात् अङ्गाधिकाराभावात् नाङ्गिन्यधिकारः । एष च विषयो भगवद्भाष्यकारैर्निर्णीत इत्याह- अपशूद्रनय इति । प्रथमाध्यायतृतीय- पादस्य नवमाधिकरण इत्यर्थः ।

१३

[[९४]]

कृष्णमाचार्यः (En)
  1. Bhaktas (engaged in Bhaktiyoga) are eager to reach Mukti (Eternal Bliss) by the means of Bhakti- yoga (Devotional meditation) as described before. From the rule of Apaśudradhikarana of the Brahma- sūtra, it is evident that S’ūdras are not qualified for Bhaktiyoga.
मूलम्

1 भक्ताः पूर्वोक्तभक्त्यैव मुक्तिसम्प्राप्त्यपेक्षिणः ।
अपशूद्रनये भक्तौ शूद्रानधिकृतिः स्फुटा ॥ ८.१३॥

1 शक्ताः B.

विश्वास-प्रस्तुतिः

साध्य-साधन-भक्तिभ्यां
भक्ताः स्युर् द्वि-विधा मताः ।
पराङ्कुशादिकान् आद्यान्
व्यासादीन् अपरान् विदुः ॥ ८.१४॥

कृष्णमाचार्यः (सं)

तत्र भक्तानां द्वैविध्यमाह —साध्येति । भक्तिर्द्विधा—साध्यभक्तिः, साधनभक्तिश्चेति। यत्रावस्थायां परिनिष्पन्नभक्तियोगैर्भगवदनुध्यानं स्वयंप्रयो- जनतया परमस्वादुतया च निरन्तरमनुष्ठीयते, साधनं तु भगवानेवेति सुदृढो विश्वासः सा साध्यभक्तिः । प्रपत्तिरपि तथा गीयते । यदाहुः- “साधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः । साध्यभक्तिस्तथा सैव प्रपत्तिरिति गीयते ॥

उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः । उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी ॥ "

इति । पराङ्कुशपरकालादयः साध्यभक्तिनिष्ठाः । ते हि परिनिष्पन्नपरभक्ति- योगाः परमभक्तिमास्थिताः स्वयंप्रयोजनतया समाधिपरा भगवदनुभवैकपरा अवर्तन्त । साधनभक्तिनिष्ठाः पराशरपाराशर्यादयः । ते हि यमनियमाद्यष्टाङ्ग- योगनिरता आसन् । व्युत्थानकाले च शास्त्राणि प्राणैषुरिति विद्मः ।

स्यादेतत् । भक्तियोगे त्रैवर्णिकानामेवाधिकार इति पूर्वस्मिन् श्लोके निर्णीतम् । अस्मिन् श्लोके तु पराङ्कुशादयः साध्यभक्तिनिष्ठा इत्युच्यते । पराङ्कुशो हि तुरीयवर्णजन्मेति वदन्ति । तत्कथमिदं संगच्छतामिति चेत्, अत्रेदं तत्त्वम्—नित्यसूरिष्वन्यतमावतारभूतः पराङ्कुशो न प्राकृतचतुर्थवर्णज- तुल्यतया मन्तव्यः । स हि भगवद्भक्तिमहिमानं भगवदनुभवरसास्वादतत्त्वं च लोकानवबोधयितुं भूमाववतीर्य परमभक्तिमन्वतिष्ठत् । नित्यसूरयोऽपि हि " तद्विप्रासो विपन्यवो जागृवासः समिन्धते " [[९५]] इति श्रुत्या “बद्धाञ्जलिपुटा हृष्टाः " इत्यादिस्मृत्या च भगवद्ध्यानपरा इत्यवगम्यते । नित्यसूरित्वावस्थायां या भक्ति- रनुष्ठिता, सैव पराङ्कुशावतारावस्थायामप्यन्ववर्ततेति न किंचिदनुपपन्नम् । अन्यथा रामकृष्णाद्यात्मना क्षत्रियवंशेऽवतीर्णस्य भगवतो विष्णोर्ब्राह्मणोत्तमैर्महर्षि- भिर्वन्द्यत्वं कथमिति पर्यनुयोगे किमुत्तरम् ? किंच सर्वत्र भक्तियोगप्रारम्भ एव हि त्रैवर्णिकाधिकारनियमः । न तु तस्य साधितस्यानुवृत्तिदशायामपि। परिनिष्पन्न- भक्तेरपि प्रारब्धकर्मवशात् तत्तद्देहावाप्तिरवर्जनीया । तदात्वे च भगवदनुभवरूप- फलभक्तेरनुवृत्तौ को निर्बन्धः ? को वा वारयिता भवतुमर्हति ? लोकोत्तरव्यक्तिविशेष- भूततन्निदर्शनेन पामरेष्वन्यत्राप्यतिशङ्कामापाद्य वर्णाश्रमधर्मसंकर करणे समुद्यमस्तु न केवलं स्वस्य, किंतु सर्वस्यापि लोकस्य महतेऽनर्थायेति विभावनीयम् । १४

कृष्णमाचार्यः (En)
  1. Bhaktas are of two kinds because of the two- fold division of Bhakti as Sadhya and Sadhana (effect and means). The former group includes Parankuśa and others while the latter Vyasa and others.
मूलम्

साध्यसाधनभक्तिभ्यां भक्ताः स्युर्द्विविधा मताः ।
पराङ्कुशादिकानाद्यान् व्यासादीनपरान् विदुः ॥ ८.१४॥

विश्वास-प्रस्तुतिः

मुमुक्षवः प्रपन्नाश् चाकिञ्चन्यादिक-योगिनः ।
त्रैवर्गिक-परा, मोक्ष-पराश् चेति च ते +++(→ प्रपन्ना)+++ द्विधा ॥ ८.१५॥

कृष्णमाचार्यः (सं)

तत्र साध्यभक्तिपरेषु मुमुक्षुषु विशेषमाह- मुमुक्षव इति ।
त एव प्रपन्ना इत्युच्यन्ते ।
ते च प्रपत्त्य्-अङ्गभूताकिंचन्याद्य्-अङ्ग-पञ्चक-योगिनः ।
प्रपन्नेष्वेव द्वैविध्यमाह — त्रैवर्गिकेति । धर्मार्थकामाख्यत्रिवर्गपराः, मोक्षपराश्चेति ते द्विधा भवन्ति ।

१५

कृष्णमाचार्यः (En)
  1. Among the Mumukşus (desirous of Moksa) Prapannas (Self-surrendering devotees) have for their qualifications ’the helplessness’ etc. Again they are of two kinds-aspirant for Trivarga and Mokṣa.
मूलम्

मुमुक्षवः प्रपन्नाश्चाकिञ्चन्यादिकयोगिनः ।
त्रैवर्गिकपरा मोक्षपराश्चेति च ते द्विधा ॥ ८.१५॥

विश्वास-प्रस्तुतिः

धर्मार्थ-कामान् स्वाम्य्-अर्थे +++(→प्रार्थनार्थत्वेन)+++
येऽन्वतिष्ठंस् त आदिमाः +++(त्रिवर्गपराः)+++ ।
+++(मोक्ष-परास् तु)+++ सत्-सङ्गाद् अर्थ-वैराग्ये
मुमुक्षायां कृतादराः … ॥ ८.१६॥

कृष्णमाचार्यः (सं)

[[९६]]

तत्र त्रिवर्गपरानाह - धर्मेति ।
स्वामि-प्रीतिम् एकाम् एव फलम् उद्दिश्य
तत्-साधनतया धर्मार्थ-कामान् भगवत्-प्रपदनेन ये संपादयन्ति
ते त्रिवर्गपरा इत्यर्थः ।

कर्म-योगिनः स्वयम् एव धर्मार्थ-कामान् संपाद्य
तैर् भगवन्तम् आरिराधयिषन्ति ।

त्रिवर्गपराः प्रपन्नास् तु तान् स्वयमेव संपादयितुम् अशक्नुवन्तस्
तद्-अर्थं भगवन्तं प्रपद्य
तत्-प्रसादेन तान् लब्ध्वा
तैर् भगवदाराधनपरा इति विशेषः ।

मोक्ष-पर-प्रपन्नान् आह- सत्सङ्गादिति ।
अर्थवैराग्य इत्यनेन तन्मूल-धर्म-काम-वैराग्यम् अपि विवक्षितम् ।
धर्मपदेनात्र न नित्यनैमित्तिककर्माणि;
किंतु तद्-अतिरिक्तानि तपस्-तीर्थ-दान-यज्ञादीनि विवक्षितानि ।
अतो न नित्य-नैमित्तिक-कर्म-प्रहाणं प्रपन्नानाम् अनुमन्यते ।
धर्मार्थ-काम-वैराग्येण
मोक्ष एव येषां त्वरातिशयः,
तेऽत्र मोक्षपराः । १६

कृष्णमाचार्यः (En)
  1. The former group consists of those who devote themselves for Dharma, Artha and Kama for the sake of the Lord. The members of other group are those who are dispassionate for wealth by the association of good men and eager to get Mokṣa.
मूलम्

धर्मार्थकामान् स्वाम्यर्थे येऽन्वतिष्ठंस्त आदिमाः ।
सत्सङ्गादर्थवैराग्ये मुमुक्षायां कृतादराः ॥ ८.१६॥

विश्वास-प्रस्तुतिः

भगवद्-भोग-सम्प्राप्त्यै
महाचार्ये समाश्रिताः ।
असामर्थ्येन भक्त्य्-आदौ
प्रपत्त्येकाश्रयाः परे ॥ ८.१७॥

कृष्णमाचार्यः (सं)

किंच भगवत्–स्वरूप–रूप-गुणाद्य्-अनुभव-संपादनाय
सद्-आचार्यम् उपसद्य
तद्-उपदिष्ट-भगवत्-स्वरूप-गुण-विभवादयस्
तादृशम् अनवधिकातिशयानन्दमयं भगवन्तं लब्धुं
भक्तिरूपे साधनान्तरे स्वासामर्थ्येन
ये भगवत्-प्रपत्तिम् एव साधनतया ऽवलम्बन्ते
ते मोक्षपराः प्रपन्ना इत्यर्थः ।

१७

कृष्णमाचार्यः (En)
  1. To acquire the enjoyment of the Lord they rest on great preceptors. They resort to Prapatti alone due to their inability for practising Bhaktiyoga etc.
मूलम्

भगवद्भोगसम्प्राप्त्यै महाचार्ये समाश्रिताः ।
असामर्थ्येन भक्त्यादौ प्रपत्त्येकाश्रयाः परे ॥ ८.१७॥

! भगवद्बोध B.

विश्वास-प्रस्तुतिः

सर्वाधिकारितां धीराः
प्रपत्तेर् आचचक्षिरे
एकान्तिनः फलं मुक्त्या
सहान्यद् य उशन्ति ते ॥ ८.१८॥

कृष्णमाचार्यः (सं)

[[९७]]

भक्तयपेक्षया प्रपत्तेर्विशेषमाह - सर्वेति । धीराः धीमन्तो मनीषिणः, प्रपत्तिः सर्वाधिकारा सर्वेषामपि वर्णानां तथा देवमनुजपशुपक्ष्यादिरूपाणां सर्वेषां प्राणि- नामधिकर्तुं योग्येत्याचक्षते । पुनश्च प्रपन्ना द्विधा - एकान्तिनः परमैकान्तिनश्चेति । तत्राद्यानाह - एकान्तिन इति । ये मोक्षेण सहान्यत् धनधान्यादिकं फल- मिच्छन्तः प्रपत्तिमनुतिष्ठन्ति त एकान्तिन इत्यर्थः । चतुर्वर्गफलेच्छया ये देवतान्तरं परित्यज्य भगवन्तमेव प्रपद्यन्ते त इत्यर्थः । एकस्मिन् भगवत्ये- वान्तः फलप्रदत्वेन निश्चयो येषां त एकान्तिनः ।

“ ये त्वन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।

लभते च ततः कामान् मयैव विहितान् हि तान् ॥ "

इति भगवद्वचनानुसंधानेन भगवानेक एव सकलफलप्रदानसमर्थ इति निश्चयवन्त

इत्यर्थः ।

कृष्णमाचार्यः (En)

१८

Wise men say that all are qualified for Prapatti. Of these Ekantins are those who long for other objects also along with Mukti.

मूलम्

सर्वाधिकारितां धीराः प्रपत्तेराचचक्षिरे ।
एकान्तिनः फलं मुक्त्या सहान्यद्य उशन्ति ते ॥ ८.१८॥

" सर्वाधिकारतां B.

विश्वास-प्रस्तुतिः

परमैकान्तिनस् त्व् ऐच्छन्
भगवत्-प्रीतिम् एव ये ।
प्रारब्धं कर्म भुक्त्वैव
यो मोक्षम् अभिकाङ्क्षति …॥ ८.१९॥

मूलम्

परमैकान्तिनस् त्वैच्छन् भगवत्प्रीतिमेव ये ।
प्रारब्धं कर्म भुक्त्वैव यो मोक्षमभिकाङ्क्षति ॥ ८.१९॥

1 भगवद्भक्तिमेव D.

विश्वास-प्रस्तुतिः

दृप्त, आर्तस् तु संसारे
वह्नाव् इव समुत्तपन् ।
प्रपत्त्य्-अनन्तरे काले
यो मोक्षम् अभिकाङ्क्षति ॥ ८.२०॥

कृष्णमाचार्यः (सं)

अथ परमैकान्तिन आह-परमेति । ये भगवत्प्रीतिमेकामेव फल- तयोद्दिश्य भगवन्तं प्रपद्यन्ते, ते परमैकान्तिन इत्यर्थः । परमे सर्वोत्कृष्टे भगवत्प्रीतिरूपे फल एवैको मुख्योऽन्तो निश्चयो येषां ते परमैकान्तिनः । ते किल परब्रह्मानन्दानुभवरूपं मोक्षमपि फलतया नोद्दिशन्ति । किंतु भगवत्प्रीति- मेकामेव ।

अथ दृप्तार्तभेदेन तेषां द्वैविध्यमभिप्रेत्याद्यानाह — प्रारब्धमिति ।

“दह्यमानेन्धनान्तःस्थो विष्फुरन्निव कीटकः । अलब्धनिर्गमस्तिष्ठन्मध्ये मरणजन्मनोः ॥ "

[[९८]]

इत्युक्तरीत्या वह्नितप्तः कीट इव नितरां संतप्यमानमानसाः प्रपदनसमये प्रारब्धकर्मणामपि विनाशपूर्वकं सद्यो मुक्तिमभिलषन्तो ये प्रपद्यन्ते ते आर्त- प्रपन्नाः। किंचित्कालपर्यन्तं प्रारब्धकर्मफलभोगमभ्युपगम्य तद्देहावसानसमय एव ये मुक्तिमभिलषन्ति ते दृप्तप्रपन्ना इत्युच्यन्त इति भावः । १९, २०

कृष्णमाचार्यः (En)

19, 20. Paramaikāntins do care only for the satisfaction of the Lord and wish to obtain Mokṣa only. He who after experiencing the fruit of his Karman which has begun to give effect wishes to obtain Mokṣa, is called Dṛpta. But he is called Arta who feels himself greatly afflicted in Samsara as if inflamed in fire and wishes to obtain Mokşa immediately after the performance of Prapatti.

मूलम्

दृप्त आर्तस्तु संसारे वह्नाविव समुत्तपन् ।
प्रपत्त्यनन्तरे काले यो मोक्षमभिकाङ्क्षति ॥ ८.२०॥

विश्वास-प्रस्तुतिः

सत्सङ्गाद् इति सुश्लोक-द्वयोक्त-गतिमान् नरः ।+++(←यति-भङ्गः)+++
आविर्-भूत–स्व-स्व-रूपो मुक्तो ब्रह्मानुभूति-भाक् ॥ ८.२१॥

कृष्णमाचार्यः (सं)

सत्सङ्गादिति । इदमत्र श्लोकद्वयम्-

" सत्सङ्गाद् भव-निःस्पृहो, गुरु-मुखाच् छ्रीशं प्रपद्यात्मवान्,
प्रारब्धं परिभुज्य कर्म-शकलं, प्रक्षीण-कर्मान्तरः ।
न्यासाद् एव निरङ्कुशेश्वर-दया-निर्लून-मायान्वयो,
हार्दानुग्रह-लब्ध–मध्य-धमनि-द्वाराद् बहिर् निर्गतः ॥

मुक्तोऽर्चिर्-दिन–पूर्व-पक्ष-षड्-उदङ्-मासाब्द-वातांशुमद्-
ग्लौ-विद्युद्-वरुणेन्द्र-धातृ-महितः सीमान्त-सिन्ध्व्-आपलुतः ।
श्रीवैकुण्ठम् उपेत्य नित्यम् अजडं, तस्मिन् परब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥”

इति ।
अनेन मार्गेण गच्छन्
नरः स्वयं-प्रकाश-रूपं स्वस्वरूपं प्राप्य
ब्रह्मानुभवन् भवतीत्यर्थः ।
अत्राविर्भूतपदेन जीवस्य मुक्तौ नाभूतपूर्वं स्वरूपमुत्पद्यते ।

[[९९]]

किंतु स्वाभाविकम् अपि
मध्ये कर्मणा तिरोहितं स्वरूपम् आविर्भवति ।
तदाह श्रुतिः-
" परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते " इति ।
सूत्र- कारश्चाह—संपद्याविर्भावः स्वेन शब्दात् " इति ।

२१

कृष्णमाचार्यः (En)
  1. He goes on the path described in the couple of verses beginning with Satsangat (through the association of good people) etc., and enjoy the bliss of the Brahman after getting back his real and essential nature.
मूलम्

सत्सङ्गादिति सुश्लोकद्वयोक्तगतिमान्नरः ।
आविर्भूतस्वस्वरूपो मुक्तो ब्रह्मानुभूतिभाक् ॥ ८.२१॥

1 परः A, B,

2 मान् B.

विश्वास-प्रस्तुतिः

मुक्तस्य भोगमात्रे तु
साम्यं श्रुतिषु चोदितम् ।
स्वेच्छया सर्वलोकेषु
सञ्चारोऽस्य न रुध्यते ॥ ८.२२॥

कृष्णमाचार्यः (सं)

मुक्तौ ब्रह्मणा सहाभेदं जीवस्य केचिदाचक्षते । तन्निरासार्थे तत्र तस्यावस्थामाह—मुक्तस्येति । “निरञ्जनः परमं साम्यमुपैति ” इत्यादिश्रुतिषु मुक्तस्येश्वरेण सह परमसाम्यमुच्यते । तच्च साम्यं भेदगर्भमिति नाभेदवर्णनं युक्तम् । किंतु भगवत्स्वरूपरूपगुणाद्यनुभवे भगवता सहात्यन्तसाम्यं मुक्तस्य । यदाह श्रुतिः- " सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता " इति अत्र ब्रह्मणा सहेति सहयोगे तृतीया । न प्रकृत्यादित्वादभेदे, अनन्वयात् । सूत्रकारोऽपि, “भोगमात्रसाम्यलिङ्गाच्च " इत्याह । अस्य मुक्तस्य स्वेच्छया सर्वेषु लोकेषु कामचारो भवति । तत्र न कोऽपि प्रतिबन्धः । तथा च श्रूयते— सर्वेषु लोकेषु कामचारो भवति " “इमान् लोकान् कामान्नी कामरूप्यनु- संचरन् ” इत्यादि ।

"

२२

कृष्णमाचार्यः (En)
  1. Equality of the Muktas with the Brahman is only in enjoyment. This fact has been laid down in the Srutis. His free movement in all worlds is not obstructed.
मूलम्

मुक्तस्य भोगमात्रे तु साम्यं श्रुतिषु चोदितम् ।
स्वेच्छया सर्वलोकेषु सञ्चारोऽस्य न रुध्यते ॥ ८.२२॥

विश्वास-प्रस्तुतिः

स्वेच्छा च हरिसङ्कल्पायत्ता मुक्तस्य लभ्यते ।
अनावर्तन-शास्त्रं तु कर्मावर्त-निषेध-कृत् ॥ ८.२३॥

कृष्णमाचार्यः (सं)

[[१००]]

ननु भगवत्पारतन्त्र्यैकस्वरूपस्य मुक्तस्य कथं स्वेच्छया संचार इत्यत्राह - स्वेच्छा चेति । अयं मुक्तः स्वेच्छया संचरतामिति भगवतः संकल्पः । तमनुरुध्य प्रवर्तमानस्यास्य न भगवत्पारतन्त्र्यहानिः । तथाचास्य स्वेच्छा- चारोऽपि भगवदधीन इति तादधीन्यं न व्याहन्यत इति भावः । ननु तर्हि यदि मुक्तः स्वेच्छया प्राकृतलोके संचरति, तदा तस्य परमपदादावृत्तिरेव फलति । मुक्तस्य पुनरावृत्तिश्च “इमं मानवमावर्त नावर्तन्ते " " ब्रह्मलोक- मभिसंपद्य न च पुनरावर्तते न च पुनरावर्तते " इत्यादिश्रुतिभिः " अनावृत्तिः शब्दादनावृत्तिः शब्दात् " इत्यादिस्मृतिभिश्च निषिध्यते । तत्कथमित्यत्राह - अनावर्तनेति । आवृत्तिनिषेधः सर्वोऽपि कर्मनिबन्धनावृत्तिनिषेधपरः, न तु सर्वकर्मविनिर्मुक्तस्य स्वेच्छा निमित्तावृत्तिनिषेधपर इति भावः ।

२३

कृष्णमाचार्यः (En)
  1. The self-will of the Muktas is got subject to Hari’s will. The rule that there is no return of Muktas from Mokṣa, prohibits only the return caused by Karman.
मूलम्

स्वेच्छा च हरिसङ्कल्पायत्ता मुक्तस्य लभ्यते ।
अनावर्तनशास्त्रं तु कर्मावर्तनिषेधकृत् ॥ ८.२३॥

1 सादि A. D.

2 दृश्यते A.

३ कर्मायत्त D.

विश्वास-प्रस्तुतिः

नित्यासङ्कुचित-ज्ञाना
नित्यं भगवद्-आज्ञया ।
तत्-कैङ्कर्य-रता नित्या
अनन्त-गरुडादयः ॥ ८.२४॥

कृष्णमाचार्यः (सं)

स्वेच्छावतीर्णान् कांश्चिन्निदर्शयिष्यन् प्रथमं तेषां नित्यत्वमाह- नित्येति । नित्यानामनन्तगरुडविष्वक्सेनादीनां ज्ञानं नित्यमसंकुचितप्रसरं भवति । तथा ते भगवदाज्ञानुसारेण नित्यभगवत्कैंकर्यरता भवन्ति । एतेन तेषां नित्यत्वं न केवलं स्वरूपेण, स्वरूपनित्यत्वस्य बद्धमुक्तनित्यसाधारण्यात्; किंतु गुणतः क्रियया च । बद्धमुक्तयोस्तु गुणक्रिये न नित्यप्रसरे, बद्धदशायां प्रतिबद्धत्वादिति भावः ।

२४

कृष्णमाचार्यः (En)
  1. The Nityas viz. Ananta, Garuda and others are endowed with eternal knowledge which is never narrowed. They are engaged in the Lord’s service on His command.
मूलम्

नित्यासङ्कुचितज्ञाना नित्यं भगवदाज्ञया ।
तत्कैङ्कर्यरता नित्या अनन्तगरुडादयः ॥ ८.२४॥

कराः B.

विश्वास-प्रस्तुतिः

एतेषाम् अवतारादिर् इच्छयैव हरेर् इव ।
आधिकारिकता ऽमीषाम् ईश्वरेण निरूपिता ॥ ८.२५॥

कृष्णमाचार्यः (सं)

[[१०१]]

अनन्तगरुडादयस् तत्-तद्-दिव्य-सूर्य्-आत्मना तत्-तद्-आचार्यात्मना चावतीर्णा दृश्यन्ते ।
तेष्व् अवतारेषु भगवद्-इच्छैव नियामिका ।
तथाच ते भगवदिच्छानुगुणम् आचार्य-रूपेणावतीर्य
धर्म-संस्थापनम् आचरन्त
आधिकारिक-व्यपदेशं कंचित् कालम् अवाप्यानन्तरं यथापूर्वं परमपदमारोहन्ति ।

२५

कृष्णमाचार्यः (En)
  1. Their incarnations etc., take place only on the Lord’s will. Their authority and power are determined by the Lord.
मूलम्

एतेषामवतारादिरिच्छयैव हरेरिव ।
आधिकारिकतामीषामीश्वरेण निरूपिता ॥ ८.२५॥

नियन्त्रिता C. D.

इह B.

इति वेदान्तकारिकावल्यां जीवस्वरूपनिरूपणमष्टमं प्रकरणम्