ज्ञानम्
विश्वास-प्रस्तुतिः
धर्मो भवति यज् ज्ञानं
प्रभा दीपे +++(तेजस् तेजसि)+++ यथात्मनोः +++(धर्मी-भूत-ज्ञानयोः जीवेश्वरयोः)+++।
तद् धर्म-भूत-विज्ञानं,
+++(तत्)+++ नित्यं नित्येश्वरेषु तत् ॥ ७.१॥
कृष्णमाचार्यः (सं)
अथ धर्मभूतज्ञानं निरूपयितुम् उपक्रमते - धर्म इति ।
यथा प्रभा दीपधर्मतया भाति,
तथा ज्ञानम् अप्य् आत्म-धर्मतया भातीत्य् अर्थः ।
ज्ञान-स्वरूपस्यात्मनो व्यवच्छेदाय धर्म इति विशेषणम् ।
धर्मी-भवतीति पाठे धर्मो भवतीत्यर्थे,
“कृभ्वस्तियोगे संपद्यकर्तरि च्विः " इति च्विप्रत्ययः ।
अभूततद्भावश्चात्र यथावदनवस्थि- तोऽपि शब्दसाधुत्वसंपत्तये यथाकथंचिन्निर्वाह्यः ।
अत्रायमाशयः – ज्ञानं द्विविधं धर्मिभूतं धर्मभूतं चेति ।
तत्राद्यं जीवा ईश्वरश्च ।
अन्त्यं तेषां गुण-भूतं मति-बुद्ध्य्-अनुभूत्य्-आदि-पद-वाच्यम् ।
अवभासत्वम् उभयानुगतं +++(नाना-)+++प्रवृत्ति-निमित्तम् ।+++(5)+++
अर्थ-प्रकाशत्वं तु धर्म-भूत-ज्ञानस्य +++(एव)+++ ।
ज्ञान-स्वरूपस्यात्मनो ज्ञानम् एव कथं गुणो भवितुम् अर्हतीति विषये
दीप-प्रभा-दृष्टान्तेन समाधानम् उक्तं भवति ।
यथा तेजो-रूपाया एव दीप-ज्वालायास् तेजो-रूपा प्रभा गुणो भवति तथेति ।
ननु ज्ञानं नामाद्रव्यं द्रव्याश्रितो गुण इति प्रसिद्धिः ।
तथा सति
कथम् आत्मनो द्रव्यस्याद्रव्यात्मक-ज्ञान-रूपत्वम् इति चेत्,
ज्ञानस्य द्रव्यात्मकत्वाद् इति ब्रूमः ।
आगमोऽपि हि “सत्यं ज्ञानम् अनन्तं ब्रह्म ” इति
ब्रह्मणो ज्ञान-स्वरूपताम् आह ।
ननु तत्र ज्ञान-शब्दे अन्तोदात्त-बलाद् अर्श-आद्य्-अचि
ज्ञानवत्त्वम् एवार्थ इति चेत् ;
तन् न,
“ विज्ञानम् आनन्दं ब्रह्म" इति
श्रुत्य्-अन्तरानुगुण्येनात्रापि बाहुलकाद् अन्तोदात्तताम् आश्रित्य
ज्ञान-स्व-रूपत्वस्यैव वक्तव्यत्वात् ।
नन्व् एवम् अप्य् आगमबलात् ज्ञान-रूप-गुण एव ब्रह्मास्तु ।
तथा च केवलम् अनुभूतिर् एव ब्रह्म । [[७२]]
अनुभूतेश्च गुणत्वात्
तत्र ज्ञानान्तरासंभवः,
गुणे गुणानङ्गीकारात् ।
न हि रूपादौ गुणे
गुणान्तरं रूपाद्य् उपलभामहे
इति चेत्,
अत्रेत्थं वक्तव्यम्-
यदि नैयायिक-पक्ष-पातेनाद्रव्यं गुण इति पक्षम् अवलम्ब्य वितर्क्यते,
तदा गुणस्याद्रव्यस्य कंचिद् आश्रयम् अन्तरावस्थितिर् अपि न दृष्ट-चरेति
ज्ञान-रूपस्य ब्रह्मणः कश्चिद् आश्रयो ऽभ्युपगन्तव्यो भवति ।
यदि “निराधारं निराश्रयम्" इत्य्-आद्य्-आगम-बलाद्
आश्रयम् अन्तरापि तद्-वर्तत इत्य् अभ्युपगम्यते,
तर्हि कामम् आगमबलाद् एव तस्य ज्ञान-गुणकत्वम् अप्य् अभ्युपगम्यताम् ।
अस्ति चायमागमः - " परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ’” ‘“सोऽकामयत बहु स्यां प्रजायेय " इत्यादिः ।
इदम् अत्रावधेयम् —
पदार्थ-जातं द्रव्य-गुण-कर्म-सामान्याद्य्-आत्मना विभजतां नैयायिकानां
यथा गुणा अद्रव्य-भूताः, न तथास्माकं सिद्धान्ते ।
“यो यद्-आश्रित्य वर्तते, स तस्य गुण” इति गुणगुण्-अलक्षणम् ।+++(5)+++
स च क्वचिद् द्रव्यं भवति, यथा-दण्डः पुरुषस्य ।
क्वचिदद्रव्यं भवति, यथा-शुक्लादि रूपं पटस्य ।
तथा गुण-गुणिनोः संबन्धोऽपि द्विविधः—
पृथक्-सिद्ध-संबन्धः, अ-पृथक्-सिद्ध-संबन्धश् चेति ।
तत्र पृथक्-सिद्ध-संबन्ध-स्थले
मत्वर्थ-प्रत्यययोगाद् एव
गुणगुणिनोः सामानाधिकरण्य-निर्देशः, यथा - दण्डी पुरुष इति ।
अ-पृथक्-सिद्ध-संबन्ध-स्थले तु मत्त्वर्थप्रत्ययापेक्षां विनापि
तयोः सामानाधिकरण्यम्,
यथा-शुक्लः पटः, ब्राह्मणोऽयम्, पीनोऽयम् इत्यादि ।
अत्र शुक्ल-रूप–पटयोः देहात्मनोश् चापृथक्-सिद्ध-संबन्धः ।
प्रकृते च ज्ञान-ब्रह्मणोर् अपृथक्-सिद्ध-संबन्धात्
" विज्ञानं ब्रह्म ” इति व्यवहार इत्येका गमनिका ।
तथा ह्याह सूत्र-कारः- ‘तद्-गुण-सारत्वात् तद्-व्यपदेशः " इति ।
स्वयं-प्रकाशत्व-रूप–प्रवृत्ति-निमित्त-पौष्कल्यात्
तथा व्यवहार
इत्यन्या गमनिकेति ।
तत्र विशेषान्तरम् आह – नित्यम् इति ।
तत् ; धर्मभूतं ज्ञानं नित्येषु ईश्वरे च नित्यम्
उत्पाद-विनाश-रहितम् ।
आह च श्रुतिर् धर्म-भूतज्ञानस्य नित्यत्वम् ;
यथा- “न विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते "
" न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते " इति ।
उपबृंहणमपि-
“यथा न क्रियते ज्योत्स्ना
मल-प्रक्षालनान् मणेः ।
दोष-प्रहाणान् न ज्ञानम्
आत्मनः क्रियते तथा ॥ "
इत्यादि । ईश्वरस्य नित्य-सूरीणां च ज्ञानं सदा सर्व-विषयावगाहीत्य् अर्थः ।
१
कृष्णमाचार्यः (En)
[[७३]]
- Knowledge which is an essential quality of the Atmans (Individual and Supreme) is called Dharmabhuta-jñana (Attributive Knowledge). It is eternal in Nityas (Eternal souls) and Isvara (The Lord).
मूलम्
धर्मो भवति यज्ज्ञानं प्रभा दीपे यथात्मनोः ।
तद्धर्मभूतविज्ञानं नित्यं नित्येश्वरेषु तत् ॥ ७.१॥
’ धर्मीभवति - A. B.
विश्वास-प्रस्तुतिः
बद्धेषु तत् तिरोभूतं
मुक्तेषु प्राक्-तिरोहितम् ।
सङ्कोचन-विकासाभ्यां
नाशोत्पत्ति-विपाक-भाक् ॥ ७.२॥
कृष्णमाचार्यः (सं)
बद्धमुक्तज्ञानयोर्विशेषमाह – बद्धेष्विति । तत् नित्यमपि ज्ञानम् । बद्धेषु कर्मबद्धेषु जीवेषु । तिरोभूतम् आवृतं भवति । अतः स्वतः सर्वविषयावगाह- स्वभावमपि तत् संसृतिदशायां कुण्ठितप्रसरं भवतीत्यर्थः । मुक्तेषु तु प्राक् मुक्तेः प्राक् तिरोभूतम् । मुक्त्यनन्तरं तु नित्येश्वराणामिव सर्वतः प्रसरमित्यर्थः, " परमं साम्यमुपैति ” इति श्रुतेः । संसृतिदशायां संकोचविकासाभ्यां नाशो- त्पादव्यवहार इत्यर्थः । एवं चात्मधर्मभूतज्ञाने संकोचविकासाभ्युपगमात् तस्यैव विकारित्वम्, न त्वात्मन इति तस्याविकारित्वश्रुत्या न विरोधः ।
केवलसंविद् एवात्मेति वादिनां मते तु
ज्ञानेऽभ्युपगतो विकार
आत्मन्येव पर्यवस्यंस्
तस्याविकारित्व-बोधन्या श्रुत्या विरुध्येत ।+++(4)+++
नित्यस्यापि ज्ञानस्य विकारित्वं तु
प्रमाण-प्रतिपन्नतया ऽभ्युपगम्यत इति भावः ।
ज्ञानस्य संकोच एव नाशः,
विकास एव चोत्पत्तिरिति व्यवहियते । २
कृष्णमाचार्यः (En)
- In respect of those who are under bondage. it (Knowledge) is concealed. In respect of those who are freed from bondage it was formerely concealed. Knowledge is said to be the subject of loss and production, because of its contraction and expansion.
मूलम्
बद्धेषु तत्तिरोभूतं मुक्तेषु प्राक्तिरोहितम् ।
सङ्कोचनविकासाभ्यां नाशोत्पत्तिविपाकभाक् ॥ ७.२॥
विश्वास-प्रस्तुतिः
सङ्कोच +++(शरीर-प्राप्त्या)+++ इन्द्रिय-द्वारा +++(विषयम् प्रति निर्गत्य)+++
ज्ञानं सङ्कोच्यते यदि ।
विकास इन्द्रिय-द्वारा
ज्ञान-प्रसरणाद् भवेत् ॥ ७.३॥
कृष्णमाचार्यः (सं)
[[७४]]
ज्ञानाख्यं द्रव्यम्
इन्द्रिय-द्वारा निर्गत्य
विषय-संनिधानम् आप्नुवद् विषयावभासं जनयति ।
यदा इन्द्रिय-द्वारा निर्गमने तत् संकोच्यते
तदा तस्य संकोचो भवति ।
यदा तु प्रसरणम् आपद्यते
तदा विकासो भवतीत्यर्थः ।
३
कृष्णमाचार्यः (En)
- Contraction of knowledge happens when it becomes shrunk due to the contact with the senses. Its expansion takes place when it becomes expanded due to the contact with the senses.
मूलम्
सङ्कोच इन्द्रियद्वारा ज्ञानं सङ्कोच्यते यदि ।
विकास इन्द्रियद्वारा ज्ञानप्रसरणाद्भवेत् ॥ ७.३॥
10
विश्वास-प्रस्तुतिः
+++(स्व-निरूपित-विषयताकम्, स्व-गोचर-ज्ञानान्तरानपेक्षं इति)+++
+++(ज्ञानं)+++ स्व-प्रकाशं, स्वतो-मानम् +++(परतो ऽप्रामाण्यम्)+++
एतद् इत्य्-अत्र सम्मतम् ।
स्वान्य-निर्वाहकत्वेन +++(→पर-प्रकाशतया सह)+++
दीपवत् स्व-प्रकाशता ॥ ७.४॥
कृष्णमाचार्यः (सं)
एवं ज्ञानस्य नित्यत्वं प्रतिपाद्य
स्वयं-प्रकाशत्वं, स्वतः प्रामाण्यं च प्रतिपादयति— स्वप्रकाशमिति -
स्वयं-प्रकाशम् इत्य् अर्थः ।
‘घटम् अहं वेद्मि’ इत्य् उपलम्भे ज्ञेय-ज्ञातृ-ज्ञान-रूप–त्रि-पुटी-प्रतिभासः सर्वानुभव-सिद्धः ।
तत्र ज्ञेय-निष्ठ-विषयता-निरूपकं “वेद्मी"ति विद-धात्व्-अर्थ-ज्ञानम्
इति सुप्रसिद्धम् ।
ज्ञातृ-ज्ञान-निष्ठ-विषयता-निरूपकं ज्ञानं किंरूपम् इति विवेचनीयम् ।
उभयोर् मानसाध्यक्ष-विषयत्वात्
मानसम् अध्यक्षम्+++(=प्रत्यक्षम्)+++ इति नैयायिकाः ।
ज्ञातुर् आत्मनो ऽहं-प्रत्यय-विषयत्वाद् भानम् ;
ज्ञानस्य तु प्राकट्य-लिङ्गकेनानुमानेन भानम् इति भाट्टाः ।
तन्-मतं निरस्यन् स्व-सिद्धान्तम् आह — स्व-प्रकाशम् इति ।
स्वः स्वनिष्ठः प्रकाशो विषयता यस्येति व्युत्पत्त्या
स्व-प्रकाश-शब्दस्य स्व-निरूपित–विषयताकम् इत्यर्थः फलितः ।
एवं च ज्ञानं स्व-निरूपित-विषयताकम् इत्युक्ते
एकम् एव ज्ञानं विषयो विषयि चेति पर्यवसानात्
स्व-गोचर-ज्ञानान्तरानपेक्षं ज्ञानं
स्वयम् एव भासत
इत्य् अर्थः पर्यवसन्नः ।
ज्ञानं स्वयं-प्रकाशम् अपि
न सर्वदा सर्वस्य भासते;
किंतु विषय-प्रकाशन-वेलायां ज्ञातुर् आत्मन एव ।
कालान्तरीय-पुरुषान्तरीय-ज्ञानं तु
स्मृत्या, अनुमानेन च ज्ञायत
इति सिद्धान्तः ।
एवं च “ यानुभूतिर् अजा ऽमेया ” इतीष्ट-सिद्धि-कार-वचने ऽप्य्
अजत्वांशे न विप्रतिपत्तिः, ज्ञानस्य नित्यत्वात् ।
अमेयत्वांशेऽपि विषय-प्रकाशन-वेलायां ज्ञातुः स्वयं-प्रकाशत्वात्
ज्ञानान्तरामेयेत्य् अर्थकरणे न विप्रतिपत्तिर् इति ज्ञेयम् ।
[[७५]]
एतच् च ज्ञानं स्वतो मानं स्वतः प्रमाणम् इत्य्-अत्र सिद्धान्ते संगतम् ।
अयं भावः - ज्ञानस्य प्रमाण्यं विषयास्तित्वेन व्यवस्थाप्यम् ।
अप्रामाण्यं च विषय-नास्तित्वेन ।
तच् च विषयास्तित्वं
स्वत एव प्रतीयते ।
‘घटोऽस्ति ’ इति ज्ञाने
घटास्तित्व-रूपं प्रामाण्यं
तेनैव ज्ञानेन प्रतीयते ।
अतः स्वतः-प्रमाणम् इदं ज्ञानम् ।
यत्र तु शुक्तौ रजत-प्रतीतिः,
तत्रापि रजतास्तित्वम् एव प्रतीयते,
न पुनस् तन्-नास्तित्वम् ।
तन्-नास्तित्वं तु बाधकेन ज्ञानेन ।
अतः सर्वेषां ज्ञानानां प्रामाण्यं स्वतः,
अप्रामाण्यं तु परत इति ।
एतद्-अप्रामाण्यम् अपि न धर्म्य्-अंशे, किंतु धर्मांशे ।
‘इदं रजतम् ’ इत्य्-अत्र “इदम्”-अंशे न भ्रान्तिः,
किंतु तत्-प्रकारांशे ।
प्रकारश् च द्वेधा – स्व-रूप–निरूपकः, निरूपित–स्व-रूप–विशेषकश् चेति ।
‘इदं रजतम् ’ इत्य्-अत्राद्यम्,
‘पीतः शङ्खः’ इत्यत्रान्त्यम् इति विवेकः ।
स्वयम् एव स्वस्य प्रकाशकं कथं भवेद् इति शङ्कायां
दृष्टान्त-प्रदर्शनेन समाधत्ते – स्वान्येति ।
दीपो यथा स्वान्यद् वस्तु प्रकाशयन् स्वात्मानम् अपि प्रकाशयति
तथा ज्ञानम् अपि स्वेतरत् गृह्णत्
स्वात्मानम् अपि गृह्णातीत्य् अर्थः ।
यदाहुः–
“ ग्राह्यत्वं ग्राहकत्वं च
द्वे शक्ते तेजसो यथा "
इति ।
४
कृष्णमाचार्यः (En)
- In this system, it (knowledge) is held as selfluminous and self-valid. Its self-luminosity is due to the fact that it reveals itself as well as other objects just as the light.
मूलम्
स्वप्रकाशं स्वतो मानमेतदित्यत्र सम्मतम् ।
स्वान्यनिर्वाहकत्वेन दीपवत्स्वप्रकाशता ॥ ७.४॥
विश्वास-प्रस्तुतिः
तमो-विशेष-सान्निध्याज्
ज्ञानं स्वापे तिरोहितम् ।
द्रव्यत्वम् अस्य ज्ञानस्य
प्रभावद् गुणतापि च ॥ ७.५॥
कृष्णमाचार्यः (सं)
यदि ज्ञानं नित्यं स्वयंप्रकाशं च
तदा तस्य सदातनत्वात् सर्वदापि भासेत ;
कुतः स्वापादौ न भासत इत्याशङ्कायामाह — तमोविशेषेति ।
अतिशयित-तमो-गुणेनावरणात्
स्वापादौ न प्रकाशते ।
तमोऽपगमे च भासत इत्यर्थः ।
एतच्च स्वापे ज्ञानं न भासत इति सिद्धान्त-पक्षम् अङ्गीकृत्य केचित्तु -
“तदाप्य् आन्तर-वस्त्व्-अवगहि स्फुरणम् अस्त्य् एव ।
बहिर्विषयावगाहि ज्ञानं परं नास्ती"ति वदन्ति ।
संकोच-विकास-रूप-विकार-भागित्वात् सिद्धं ज्ञान-द्रव्यत्वं
धर्म-भूतत्वेऽपि न विहन्यत इत्याह- द्रव्यत्वमिति ।
[[७६]]
न हि परेषाम् इवास्माकं मते गुणत्वं द्रव्यत्व-विरोधि,
मणि–द्यु-मण्य्+++(=सूर्य)+++-आदि-प्रभायाम्
उभयोर् अपि दृष्टत्वात् ।
नन्व् एवं परस्पर-व्यधिकरणयोः धर्मयोर्
एकत्र समावेशात् सांकर्य-प्रसङ्गः ।
द्रव्यत्वं विहाय गुणत्वं रूपादौ,
गुणत्वं विहाय द्रव्यत्वं घटादौ ।
उभयोर् धर्म-भूत-ज्ञाने समावेशाद्
इति चेत्,
नैवम् । सांकर्यं हि जातित्वे बाधकम् इति परेषां मतम् ।
न वयं जातिम् एवाभ्युपगच्छाम इति ।
५
कृष्णमाचार्यः (En)
- During sleep, knowledge (of men) is eclipsed by the vicinity of Tamas. Knowledge is considered as both a substance and quality like the rays (of the sun).
मूलम्
तमोविशेषसान्निध्याज्ज्ञानं स्वापे तिरोहितम् ।
द्रव्यत्वमस्य ज्ञानस्य प्रभावद्गुणतापि च ॥ ७.५॥
विश्वास-प्रस्तुतिः
धी+++(=ज्ञान)+++-भेदाः सुख-दुःखेच्छा-
द्वेष-यत्ना, न ते पृथक् ।
द्वेष्मीच्छामीति वादस् तु
स्मरामीत्य्-आदिवन् मतः ॥ ७.६॥
कृष्णमाचार्यः (सं)
पराभिमतानां सुखदुःखेच्छादीनां पार्थक्यम् आशङ्क्य समाधत्ते -धीभेदा इति ।
एवं च न तेषां पृथक् पदार्थ-गणनावसर इति भावः ।
यदि सुखादयो धीभेदाः,
तदा कथं द्वेष्मीत्य् अनुभव इत्यत्राह - द्वेष्मीति ।
यथा स्मृतेः धीरूपत्वेऽपि
स्मरामीत्य् अनुभवो लोक-सिद्धः,
तथा प्रकृतेऽपीति भावः ।
६
कृष्णमाचार्यः (En)
- Happiness, sorrow, desire, enmity, effort etc., are only the various manifestations of knowledge and not different from it. The usage as ‘I hate, I desire ’ etc., must be considered like ‘I recollect’ etc.
मूलम्
धीभेदाः सुखदुःखेच्छाद्वेषयत्ना न ते पृथक् ।
द्वेष्मीच्छामीति वादस्तु स्मरामीत्यादिवन्मतः ॥ ७.६॥
विश्वास-प्रस्तुतिः
स्मृत्यादयो ज्ञान-भेदा
अनन्ता जीव-वृत्तयः+++(→गुणाः/धर्माः)+++ ।
ज्ञान-शक्त्योर् विततयो +++(→सौशील्य-वात्सल्यादयः, स्थैर्य-शौर्यादयः)+++
ऽनन्ताश् च भगवद्-गुणाः ॥ ७.७॥
कृष्णमाचार्यः (सं)
ते च धीभेदा अनन्ता इत्याह- स्मृत्यादय इति ।
व्यवसाय-मोह-रत्य्-आदय आदिपदार्थः ।
एते च जीव-धर्माः ।
अथेश्वर-धर्मान् आह - ज्ञानेति ।
ज्ञान-विततयः सौशील्य-वात्सल्यादयः ।
शक्ति-विततयः स्थैर्य-शौर्यादय इति विवेकः ।
19
[[७७]]
कृष्णमाचार्यः (En)
- Recollection and other manifestations of the knowledge resting on jiva are endless. The numerous qualities of the Lord are the different forms of His knowledge and power.
मूलम्
स्मृत्यादयो ज्ञानभेदा अनन्ता जीववृत्तयः ।
ज्ञानशक्त्योर्विततयोऽनन्ताश्च भगवद्गुणाः ॥ ७.७॥
विश्वास-प्रस्तुतिः
गद्य-त्रये महाचार्यैर्
अयम् अर्थ उदीरितः ।
तत्-तत्-स्वरूप-विज्ञानं
तद्भाष्येणावगम्यते ॥ ७.८॥
कृष्णमाचार्यः (सं)
धीविततिभूतानाममीषां विस्तरजिज्ञासून् प्रत्याह -गद्यत्रयेति ।
पृथुगद्य- श्रीरङ्गगद्यवैकुण्ठगद्याख्यगद्यत्रयग्रन्थ इत्यर्थः ।
महाचार्यैः, श्रीवैष्णव संप्रदाय-कुलगुरुभिर् भगवद्रामानुजमुनिभिः ।
अयमर्थः - ज्ञानशक्तिविततिभूता भगवद्गुणा इति विषयः ।
उदीरितः, विस्पष्टं प्रपञ्चितः ।
तत्तत्स्वरूपेति ; सौशील्य- वात्सल्यादिगुणस्वरूपेत्यर्थः ।
तद्भाष्येण ; गद्यत्रयभाष्येण श्रीवेदान्तदेशिक- विरचितेन रहस्यरक्षाख्येन ।
महतो मन्दैः सह नीरन्ध्रेण संश्लेषः सौशील्यम् ।
स्वरक्षणीयतया ऽभिमतेषु दोषतिरस्कारिणी प्रीतिर् वात्सल्यम् इत्यादि-रीत्येति भावः ।
कृष्णमाचार्यः (En)
- The facts mentioned above have been disclosed by the Great Acarya (Sri Rāmānuja) in his Gadyatraya. A clear understanding of the characteristics of these qualities is gained from the commentary thereon.
मूलम्
गद्यत्रये महाचार्यैरयमर्थ उदीरितः ।
तत्तत्स्वरूपविज्ञानं तद्भाष्येणावगम्यते ॥ ७.८॥
भक्ति-प्रपत्ती
विश्वास-प्रस्तुतिः
भक्ति-प्रपत्ति-सुप्रीत
ईश्वरो मुक्ति-दायकः ।
अतो भक्ति-प्रपत्ती हि
मुक्तौ परम-कारणम् ॥ ७.९॥
कृष्णमाचार्यः (सं)
अथ मोक्षकारणमाह- भक्तीति । “स्नेहपूर्वमनुध्यानं भक्तिरित्यभि- धीयते " इत्यादिलक्षिता महनीयविषये निरतिशयप्रीतिरूपा भक्तिरत्र विवक्षिता । प्रपत्तिः, शरणागतिः;
“ अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायता याच्या प्रपत्तिः शरणागतिः ॥”
७८
इत्यादिलक्षणलक्षिता । एते भक्तिप्रपत्ती एव मोक्षसाधिके, नान्यत्किचिदित्याहा- हिर्बुध्नियसंहितायां भगवान्,
८८
‘भक्त्या परमया वापि प्रपत्त्या वा महामते ।
प्राप्योऽहं नान्यथा प्राप्यो मम कैंकर्यलिप्सुभिः ॥ ”
इति । तदाह सुप्रीत ईश्वरो मुक्तिदायक इति । अनेन भक्तिप्रपत्त्योरपि व्याज- मात्रत्वमेव । सुप्रसन्नो भगवानेक एवं मोक्षसाधनमिति परमसिद्धान्ततत्त्वमुक्तं भवति । मुक्तौ परमकारणमिति ; भगवत्प्रसादजननद्वारा मुख्यकारणमित्यर्थः । एतेन तत्त्वमस्यादिमहावाक्यार्थज्ञानमेव मोक्षसाधनमिति परेषां मतं न सम्यगि- त्युक्तं भवति । तादृशवाक्यार्थज्ञाने सत्यपि मोक्षादृष्टेः श्रवणमननादिभिर्निर्धूत- द्वैतवासनस्य शास्त्रजन्यः साक्षात्कारस्तथेत्यपि न सम्यक् । अन्योन्याश्रय- बाधादिदुष्टत्वात् ।
९
कृष्णमाचार्यः (En)
- The Lord grants final liberation (to men), when He is well pleased by the means of Bhakti (Uninterrupted meditation with love) or Prapatti (Unconditional Self-Surrender). Therefore Bhakti and Prapatti alone are the principal means for the attainment of Mukti.
मूलम्
भक्तिप्रपत्तिसुप्रीत ईश्वरो मुक्तिदायकः ।
अतो भक्तिप्रपत्ती हि मुक्तौ परमकारणम् ॥ ७.९॥
1 भक्ति. C
विश्वास-प्रस्तुतिः
कर्म-योग–ज्ञान-योगौ
भक्तौ साधनम् ऊचिरे ।
फलाभिसन्धि-रहितं
+++(यज्ञादि स्वकर्तव्यान्तं)+++ कर्म+आराधनम्+++(→योग)+++ ईशितुः ॥ ७.१०॥+++(5)+++
कृष्णमाचार्यः (सं)
तर्हि कर्मयोगज्ञानयोगयोर्भगवदुपदिष्टयोः क उपयोग इत्याकाङ्क्षायाम् आह कर्मेति ।
कर्मयोगज्ञानयोगयोर्भक्तियोगाङ्गत्वेन तत्र कीर्तनमित्यर्थः ।
तदुक्तं यामुनाचार्यैः,
" मध्यमे भगवत्तत्त्व-
याथात्म्यावाप्तिसिद्धये ।
ज्ञानकर्माभिनिर्वर्त्यो
भक्ति-योगः प्रकीर्तितः ॥ ”
इति ।
कर्मयोगलक्षणमाह- फलेति ।
फल-कामना-रहितम् ईशितुर् ईश्वरस्य परम-पुरुषस्याराधनं कर्म
कर्मयोग इत्युच्यत इत्यर्थः ।
[[७९]]
तत्स्वरूपं च निगमितं गीतार्थसंग्रहरक्षायां वेदान्तदेशिकैः,
“स्वकीयेनात्मना कर्त्रा, स्वकीयैश्चोपकरणैः,
स्वाराधनैकप्रयोजनाय
परमपुरुषः सर्वशेषी सर्वेश्वरः
स्वयम् एव स्वकर्माणि कारयति "
इति ।
" कर्मयोगस् तपस्-तीर्थ-दान-यज्ञादि-सेवनम् ” इति च श्रीयामुनाचार्येण तन्-निदर्शितम् ।
१०
कृष्णमाचार्यः (En)
- Karma-yoga and Jñāna-yoga are said to be the means of Bhakti-yoga. The ritual worship of the Lord without any regard for its fruits is called Karma- yoga.
मूलम्
कर्मयोगज्ञानयोगौ भक्तौ साधनमूचिरे ।
फलाभिसन्धिरहितं कर्माराधनमीशितुः ॥ ७.१०॥
विश्वास-प्रस्तुतिः
विनिर्मलान्तःकरणे +++(स्वात्मनि)+++
चिन्तनं ज्ञान-योगकः ।
साक्षाद् इतरथा +++(→कर्म-योगे ज्ञान-योगापेक्षया, तद्विपरीततया)+++ वापि
भक्तौ कारणता ऽनयोः ॥ ७.११॥
कृष्णमाचार्यः (सं)
ज्ञान-योगं लक्षयति-विनिर्मलेति ।
कर्म-योग-परिशीलनेन
विमले अन्तः-करणे परिशुद्ध-स्वात्म-स्वरूपस्य यच् चिन्तनं
स ज्ञानयोग इत्यर्थः ।
तद् उक्तं यामुनाचार्यैः,
“ज्ञानयोगो जित-स्वान्तैः
परिशुद्धात्मनि स्थितिः”
इति ।
एवं च ज्ञान-योगो नाम
परिशुद्ध-जीवात्मोपासनम् इति स्थितम् ।
कर्म-ज्ञान-योगयोर् भक्ति-योगे इति-कर्तव्यतामाह–साक्षादिति ।
अनयोः ; कर्म-ज्ञान-योगयोः ।
साक्षात् ; इतराव्यवधानेन,
कर्म-योगस्य ज्ञान-योगाव्यवधानेनेत्यर्थः ।
इतरथा वा व्यवधानेन वा
ज्ञान-योग-व्यवधानेन वा
ज्ञान-योगस्य तु योगान्तराव्यवधानेन भक्तियोगे कारणत्वम्
इत्य् अर्थः ।
अयम् अत्राशयः -
भक्तियोगात् पूर्वम् आत्मावलोकनम् अपेक्षितम् ।
तच् च कर्म-योगस्यात्म-तत्त्व–ज्ञान-पूर्वकत्वात् तत्रात्मतत्त्व-ज्ञान–पौष्कल्य-तारतम्येन
मध्ये ज्ञान-योग-व्यवधानम् अन्तरापि क्वचिद् भवति ।
क्वचित् तु ज्ञान-योग-द्वारेति ।
कृष्णमाचार्यः (En)
- The meditation (on the Self) with a stainless mind is called Jñana-yoga. These two Yogas directly or indirectly are the means of Bhakti-yoga.
मूलम्
विनिर्मलान्तःकरणे चिन्तनं ज्ञानयोगकः ।
साक्षादितरथा वापि भक्तौ कारणतानयोः ॥ ७.११॥
विश्वास-प्रस्तुतिः
भक्तियोगो ऽयम् अष्टाङ्गो
ऽविच्छिन्ना स्मृतिसन्ततिः ।
विवेकादिभिरुत्पाद्या
दर्शनाकारतां गता ॥ ७.१२॥
कृष्णमाचार्यः (सं)
[[८०]]
अनन्तरं भक्तियोगं लक्षयति–भक्तियोग इति ।
अष्टाङ्गः, यमनियमाद्य्-अष्टाङ्गयुक्तः ।
तैल-धारावद् अविच्छिन्न-प्रसरा
विवेक-विमोकाभ्यास-क्रिया-कल्याणानवसादानुद्धर्ष-रूप-
सहकारि-कलापात् परिपोष्य
दर्शन-समानाकारतां प्रापिता
स्मृति-संततिर् एव भक्ति-योग इत्यर्थः ।
वस्तुनः संततम् अव्यग्र-मनसा चिन्तने
तद् एव वस्तु प्रत्यक्ष-दृष्टम् इव भवतीत्य् अनुभवसिद्धम् ।
१२
कृष्णमाचार्यः (En)
- The uninterrupted stream of meditation (on the Lord) which is practised with its eight-fold auxiliaries and developed by the application of Viveka and other disciplines so as to reach the state on a par with direct intuition, is called Bhakti-yoga.
मूलम्
भक्तियोगोऽयमष्टाङ्गोऽविच्छिन्ना स्मृतिसन्ततिः ।
विवेकादिभिरुत्पाद्या दर्शनाकारतां गता ॥ ७.१२॥
विश्वास-प्रस्तुतिः
तत्-तच्-छरीरावसान-
समये परिणामिनी ।
सेयं साधन-भक्तिः स्यात्
प्रपत्त्य्-अङ्गवती मता ॥ ७.१३॥
कृष्णमाचार्यः (सं)
स च भक्तियोगः तत्तच्छरीरावसानसमय एव परिपाकावस्थाम् उपेत्य साधकस्य संसिद्धा भवति । अतः सः शरीरावसानपर्यन्तमनुष्ठेयः । तथा च श्रुतिः ;
" स खल्वेवं वर्तयन् यावद् आयुषं
ब्रह्म-लोकम् अभिसंपद्यते
न च पुनरावर्तते
न च पुनरावर्तते "
इति,
" प्रायणान्तम् ओंकारम् अभिध्यायीत” इति च ।
सूत्रकारोऽपि “आ प्रायणात् तत्रापि हि दृष्टम्” इत्याह ।
इयं पूर्वम् उपवर्णिता साधन-भक्तिर् इत्य् उच्यते ।
सा च प्रपत्यङ्गवती भवति ।
भक्ति-योग-विनिष्पत्तये भगवन्तम् उद्दिश्य प्रपत्तिस् तद्-अङ्गतया कर्तव्या ।
तेन च प्रसन्नो भगवान्
प्रत्यूहान् निरस्य
भक्तियोगं यथावत्परिपूर्णं करोति ।
तद् आह भगवान् -
"
“““दैवी ह्येषा गुणमयी
मम माया दुरत्यया । मामेव ये प्रपद्यन्ते
मायामेतां तरन्ति ते ॥ "
इति । एवं च प्रपत्तिर् द्विधा–
अङ्गप्रपत्तिः, अङ्गिप्रपत्तिश्चेति ।
भक्ति-योगाङ्गतयानुष्ठिता अङ्गप्रपत्तिः,
भक्तियोगानधिकारिभिः स्व-तन्त्रतया ऽनुष्ठिता अङ्गि-प्रपत्तिर् इति विवेकः ।
[[८१]]
तथा च अङ्गतया वा अङ्गितया वा यथाकथंचिद्भगवन्तं प्रपद्यैव मोक्षः प्राप्यः,
नान्यथेत्युक्तं भवति ।
तथाचाह वेदान्ततत्त्वासार-वर्षुको वेदान्त-देशिकः,
“प्रपन्नाद् अन्येषां न दिशति मुकुन्दो निजपदम् ” इति । १३
कृष्णमाचार्यः (En)
- This Yoga will grow ripe at the end of the material body. This is called Sadhanabhakti (Bhakti as the means). It requires Prapatti (Self -Surrender) as its auxiliary.
मूलम्
तत्तच्छरीरावसानसमये परिणामिनी ।
सेयं साधनभक्तिः स्यात्प्रपत्त्यङ्गवती मता ॥ ७.१३॥
विश्वास-प्रस्तुतिः
+++(प्रपत्ति-योग-रूपा)+++ फल-भक्तिस् तु भगवद्-
अनुग्रह-कृता भवेत् ।
अत एव हरिः साक्षात्
सिद्धोपायत्वम् अश्नुते ॥ ७.१४॥
कृष्णमाचार्यः (सं)
एवं भक्तियोग-रूपां साधन-भक्तिम् उपपाद्य
प्रपत्ति-योग-रूपां साध्य-भक्तिम्+++(=साध्या मुक्तावस्थास्था भक्तिर् यया सा)+++ आह- फलभक्तिस्त्विति । भगवद्-अनुग्रहेति ;
" नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यम् एवैष वृणुते, तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”“ जायमानं हि पुरुषं
यं पश्येन् मधुसूदनः । सात्त्विकः स तु विज्ञेयः
स वै मोक्षार्थ-चिन्तकः ॥ "
इत्यादि-श्रुति-स्मृतिभिः
यस्मिन् भगवद्-अनुग्रहो भवति,
स एव साध्य-भक्तौ प्रवर्तते नान्य इत्यर्थः ।
अनेन प्रपन्नेषु भगवद्-अनुग्रह-पौष्कल्यम् उक्तं भवति ।
साध्य-भक्तेः प्राशस्त्यम् अप्य् अन्यत्रोपवर्णितम्,
" साध्य-भक्तिस् तु सा हन्त्री
प्रारब्धस्यापि भूयसी "
इति । अत एव ; प्रपन्नानाम् अनन्य-गतिकतया भगवत्-कृपैकावलम्बितयैव ।
हरिः साक्षात् अ-व्यवधानेन सिद्धोपायो भवति ।
एतद् उक्तं भवति ।
उपायो द्विविधः— साध्योपायः, सिद्धोपायश् चेति ।
भक्ति-प्रपत्ती साध्योपायौ ।
भगवान् सिद्धोपायः ।
भक्तिप्रपत्ती तु तत्-प्रसादनैक-पर्यवसायिन्याव् इति ।
१४
कृष्णमाचार्यः (En)
- But Phalabhakti (Bhakti as the effect) takes place only by the grace of the Lord. Hence, Hari occupies the place of the direct and self-accomplished means.
मूलम्
फलभक्तिस्तु भगवदनुग्रहकृता भवेत् ।
अत एव हरिः साक्षात्सिद्धोपायत्वमश्नुते ॥ ७.१४॥
८२
विश्वास-प्रस्तुतिः
अन्तर्-आदित्य-विद्यादि-
भेदात् सा +++(साधन-भक्तिः, न साध्य-भक्तिः)+++ बहुधा मता ।
सर्वापि ब्रह्म-विद्येयं
ब्रह्म-प्राप्त्य्-उपयोगिनी ॥ ७.१५॥
कृष्णमाचार्यः (सं)
भक्तियोगप्रसङ्गात् तत्संगत ब्रह्मविद्या भेदानाह— अन्तरादित्येति । आदि- पदात् दहरभूमन्यासविद्यादयो गृह्यन्ते । ताश्च विद्यास्त्रयस्त्रिंशदिति प्रायोवादः । वासुदेवादिव्यूहोपासनान्यपि गृह्यन्ते । तदाह- बहुधेति । सर्वापीयं ब्रह्मविद्या ब्रह्मप्राप्तावुपकरोति । अनेन न्यासविद्याया ब्रह्मविद्यात्वे संदिहानान् परान् प्रति तस्या विद्यान्तरसाम्यं प्रदर्शितं भवति । यदाहुः,
‘यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यड्
न्यासोपासे विभक्ते यजनहवनवच्छब्द भेदादभाक्तात् । आख्यारूपादिभेदः श्रुत इतरसमः किंच भिन्नोऽधिकारः
शीघ्रप्रात्यादिभिः स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ॥”
इति ।
कृष्णमाचार्यः (En)
- It is considered to be of various kinds due to the division as Antarādityavidya and so on. All these Brahmavidyas are helpful in attaining the Brahman.
मूलम्
अन्तरादित्यविद्यादिभेदात्सा बहुधा मता ।
सर्वापि ब्रह्मविद्येयं ब्रह्मप्राप्त्युपयोगिनी ॥ ७.१५॥
विश्वास-प्रस्तुतिः
न्यासविद्या प्रपत्तिः स्याद्
अङ्गपञ्चक-योगिनी ।
आनुकूल्यस्य सङ्कल्पः,
प्रातिकूल्यस्य वर्जनम् ॥ ७.१६॥
मूलम्
न्यासविद्या प्रपत्तिः स्यादङ्गपञ्चकयोगिनी ।
आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ॥ ७.१६॥
विश्वास-प्रस्तुतिः
रक्षिष्यतीति विश्वासो,
गोप्तृत्व-वरणं तथा ।
आत्म-निक्षेप–कार्पण्ये
अङ्ग-पञ्चकम् ईरितम् ॥ ७.१७॥
कृष्णमाचार्यः (सं)
एवं सामान्यतो ब्रह्मविद्या उपवर्ण्य
न्यासविद्यायां विशेषमाह- न्यास-विद्येति ।
प्रपत्तिरेव न्यास इत्युच्यते ।
" तस्मान् न्यासम् एषां तपसाम् अतिरिक्तम् आहुः " इत्यादिश्रुतौ
न्यासपदेन प्रपत्तिरेवोच्यते ।
उपासना यथा चाष्टाङ्गो योगः,
तथा न्यासः पञ्चाङ्गो योग इत्युच्यते ।
तानि च पञ्चाङ्गानि लक्ष्मीतन्त्रोदितान्य् आह— आनुकूल्यस्येति ।
८३
आनुकूल्यसंकल्पः, प्रातिकूल्यवर्जनम्, महा-विश्वासः, गोप्तृत्ववरणम्, कार्पण्यमिति पञ्चाङ्गानि । आत्मनिक्षेपोऽङ्गी ।
एवं चाङ्गिना सह न्यासः षोढा परिगण्यते ।
यथा ध्यानेनाङ्गिना सहाष्टाङ्गो योग इति परिगणनम् ।
आनुकूल्यसंकल्पादीनां स्वरूपमुक्तं लक्ष्मीतन्त्रे-
“ आनुकूल्यम् इति प्रोक्तं
सर्वभूतानुकूलता । तथैव प्रातिकूल्यं च
भूतेषु परिवर्जयेत् ॥त्यागो गर्वस्य कार्पण्यं
श्रुत-शीलादि-जन्मनः ।
अङ्गसामग्र्य्-असंपत्तेर्
अशक्तेरपि कर्मणाम् ॥
अधिकारस्य चासिद्धेर्
देश-काल-गुण-क्षयात् ।
उपाया नैव सिध्यन्ति
ह्यपाय-बहुलास् तथा ॥
इति या गर्वहानिस् तद्
दैन्यं कार्पण्यम् उच्यते ।
शक्तेः सूपसदत्वाच् च
कृपा-योगाच् च शाश्वतात्।
ईशेशितव्य-संबन्धाद्
अनिदंप्रथमाद् अपि ।
रक्षिष्यत्य् अनुकूलान् न
इति या सुदृढा मतिः ॥
स विश्वासो भवेच् छक्र
सर्वदुष्कृत-नाशनः ।करुणावान् अपि व्यक्तं
शक्तः स्वाम्यपि देहिनाम् ॥
अप्रार्थितो न गोपायेद्
इति तत्प्रार्थना मतिः ।
गोपायिता भवेत्येवं
गोप्तृत्ववरणं स्मृतम् ॥
तेन संरक्ष्यमाणस्य
फले स्वाम्य्-अवियुक्तता ।
केशवार्पण-पर्यन्ता
ह्यात्मनिक्षेप उच्यते ॥
निक्षेपापर-पर्यायो
न्यासः पञ्चाङ्गसंयुतः ।
संन्यासस् त्याग इत्युक्तः
शरणागतिर् इत्यपि ॥ "
इति ।
१६, १७
कृष्णमाचार्यः (En)
16 & 17. Nyāsavidyā is the Prapatti (Self-surrender to God) which has five-fold auxiliaries-namely -determination to be always agreeable to the Lord and His devotees, abstaining from hostility towards them, faith as ‘He will surely save me’, seeking Him [[८४]] as the saviour, surrendering one’s self to Him, and helplessness.
मूलम्
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ।
आत्मनिक्षेपकार्पण्ये अङ्गपञ्चकमीरितम् ॥ ७.१७॥
विश्वास-प्रस्तुतिः
गुरूपसदनाद् एषा विज्ञातव्या मनीषिभिः ।
इयम् उत्तर-पूर्वाघाश्लेष-नाशकृद् उच्यते ॥ ७.१८॥
कृष्णमाचार्यः (सं)
न्यासविद्यास्वरूपं तन्महिमा तदधिकार इत्यादिकं सर्वे गुरुमुखादवगन्तव्यमित्याह – गुरूपसदनादिति ।
मनीषिभिरित्यनेन सारासारविवेकज्ञानानामेवात्र प्रवृत्तिः संभवति, नान्येषां कौतस्कुतानामिति व्यञ्जितम् ।
भक्तियोगादस्य न्यासस्य वैशिष्ट्यमाह — इयमिति । उत्तराघाश्लेषः पूर्वाघनाशश्च न्यासमहिम्ना संभवतीत्यर्थः । तत्र भक्तियोगनिष्ठस्य प्रारब्धेतरपूर्वाधमेव नश्येत् । प्रारब्धं तु भोगैकप्रणाश्यम् । प्रपन्नविषये तु प्रारब्धमपि यथाभिलषितं सद्य एव प्रणश्यतीति विशेषः । तथोक्तम्—
“ साधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः । साध्यभक्तिस्तथा सैव प्रपत्तिरिति गीयते ॥ उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः । उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी ॥ उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशनी ।
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी । ”
इति ।
१८
कृष्णमाचार्यः (En)
- Men of intellect should know fully about this, by sitting at the feet of the teacher. It is said that this (Prapatti) will effect the non-connection with future sins and the destruction of past sins.
मूलम्
गुरूपसदनादेषा विज्ञातव्या मनीषिभिः ।
इयमुत्तरपूर्वाघाश्लेषनाशकृदुच्यते ॥ ७.१८॥
विश्वास-प्रस्तुतिः
अपचारान् विना ब्रह्म-
विदां नास्या विरोधकृत् ।
अन्योऽस्तीति महाचार्य-
शासनं व्यवसीयते ॥ ७.१९॥
कृष्णमाचार्यः (सं)
[[८५]]
प्रपन्नस्य मुक्तिप्राप्तौ न कोऽपि विघातको विना ब्रह्मविदपचारमित्याह- अपचारान्विनेति । ब्रह्मविदां भागवतानामपचारान् विना अस्याः प्रपत्तेः फलजनने न कोऽपि विरोधकृदिति महतामाचार्याणां शासनं निश्चीयते । १९
कृष्णमाचार्यः (En)
- Except the offence to Brahmavedins (knowers of Brahman) there is nothing which can resist the Prapatti from functioning. This is the decision contained in the teaching of great Acaryas.
मूलम्
अपचारान्विना ब्रह्मविदां नास्या विरोधकृत् ।
अन्योऽस्तीति महाचार्यशासनं व्यवसीयते ॥ ७.१९॥
इति वेदान्तकारिकावल्यां धर्मभूतज्ञाननिरूपणं सप्तमं प्रकरणम्