विश्वास-प्रस्तुतिः
शुद्ध-सत्त्वे धर्म-भूत-
ज्ञान–जीवेश्वरेषु च ।
अजडत्वं भवेल् लक्ष्म
तत् पुनः स्व-प्रकाशता ॥ ६.१॥
कृष्णमाचार्यः (सं)
काल-निरूपणानन्तरं क्रमप्-राप्तं शुद्ध-सत्त्वं निरूप्यते ।
शुद्ध-सत्त्वम् एव नित्य-विभूतिर् इति च व्यवह्रियते ।
रजस्-तमोभ्याम् अकरम्बित-सत्त्ववत्त्वात्
शुद्ध-सत्त्वं भवति ।
तत्रादौ शुद्ध-सत्त्व-सद्-भावे प्रमाणान्य् आकलयामः ।
“ तद्विष्णोः परमं पदं
सदा पश्यन्ति सूरयः”
इति श्रुतिरप्राप्तत्वात्
सदापश्यदनेक-सूरि-परिकर्मितं स्थानविशेषं विधत्ते ।
“अप्राप्ते तु विधीयन्ते
बहवोऽप्य् एक-यत्नतः "
इति हि प्रमाणविदः ।
अत्र च विष्णोर् इति व्यधिकरणषष्ट्या
पदशब्दस्य स्व-रूप-परत्वाद् अपि
स्थान-विशेष-परत्वं स्वारसिकम् ।
तथा
“आदित्यवर्णं तमसः परस्तात् “,
“विश्वं पुराणं तमसः परस्तात्”,
“क्षयन्तमस्य रजसः पराके”
इत्यादावपि तद्विधिः । रजस्तमोभ्यामुपलक्षितप्राकृताण्ड बहिर्देशोऽत्र प्रतीयते ।
अस्य रजसः पराके परस्तात् दिव्यदेशे क्षयन्तं निवसन्तमित्यर्थः । तथा जैमिनीयब्राह्मणे शाट्यायनिनः, “सहस्रस्थूणे विमिते दृढ उग्रे यत्र देवानामधिदेव आस्ते ” इति सहस्रस्थूणादिमद्देशविशेषपरां श्रुतिमधीयते । एवं कौषीतकिनोऽपि पर्यङ्कविद्यायां प्रजापतिलोकानन्तरं ब्रह्मलोकं प्रस्तुत्य, " तस्यारो हृदो मुहूर्ता यष्टिहाः " इत्यादिना अपराजिताभिधानं शुद्धसत्त्वमधीयते । अपि च छान्दोग्ये, “तृतीय- स्यामितो दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूः " “अरं च ण्यं चार्णवौ ब्रह्मलोके ” इत्यादिना निव्यविभूतिर्वर्णिता । सन्ति चात्रोपबृंहणानि परःशतानि वचनानि ।
एवं स्थिते यदत्र केषांचित्प्रत्यवस्थानम् — “सदेव सोम्येदमग्र आसीत् " इति सृष्टेः प्राक् सजातीयविजातीयस्वगत भेदशून्यस्यैकस्य वस्तुनः प्रतिपादना-
[[६०]]
न्नित्यविभूतिनामा देशविशेषोऽङ्गीकर्तुं न शक्यते । पूर्वोदाहृतप्रमाणवचनानि सर्वाणि सगुणब्रह्मविद्यानिष्ठप्राप्यकाल्पनिकदेशविशेषपराणि, न तात्त्विकप्रति- पादकानीति । तत्र चेत्थं प्रतिविधानम्-तत्र तावत् ब्रह्मविद्यासु सगुणनिर्गुण- विभाग एव सुतरामप्रामाणिकः । सर्वा अपि ब्रह्मविद्याः सगुणविषया एव; यतो ब्रह्म सगुणमेवेति श्रुत्यन्तसिद्धान्तः । अपिच “सदेव " इति श्रुतौ त्रक्ष्यमाण- प्रपञ्चस्य सृष्टेः पूर्वमविभक्तनामरूपतया केवलमेकत्वमवधार्यते, न पराभिमत- सजातीयविजातीयस्वगतभेदविधुरतया । वाक्यशेषे च सैव श्रुतिः " तद्भेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत” इति तमेवार्थे प्रपञ्चयति । यद्येषा रीतिर्नाङ्गीक्रियते, तर्हि तदा तदभिमतमायाया अपि प्रविलयापत्त्या मायोपहिताद् ब्रह्मणः प्रपञ्चसृष्टिरिति तदीयः सिद्धान्तो व्याकुप्येत् ।
तदेवं बहुप्रमाणसिद्धे शुद्धसत्त्वे तथा धर्मभूतज्ञाने जीवेषु ईश्वरे च विषये अजडत्वं लक्षणं भवति । अजडत्वं जडभिन्नत्वम् । तच्च स्वप्रकाशत्वरूपम् । इतरानपेक्षप्रकाशत्वमिति यावत् । तर्हि संसारिणामस्माकं कुतो न प्रकाशत इति चेत् कर्मावरणादिति ब्रूमः ।
१
कृष्णमाचार्यः (En)
- Ajadatva (Being other than Jada or inert) is the common characteristic of S’uddhasattva (The substance of pure Sattvaguna), Dharmabhutajñāna (Attributive knowledge), Jiva and Iśvara. Ajaḍatva is nothing but Svayamprakaśatā (Self-luminosity).
मूलम्
शुद्धसत्त्वे धर्मभूतज्ञानजीवेश्वरेषु च ।
अजडत्वं भवेल्लक्ष्म तत्पुनः स्वप्रकाशता ॥ ६.१॥
विश्वास-प्रस्तुतिः
पराक्त्वे सत्य् अजडता
लक्ष्म प्रथमयोर् +++(शुद्ध-सत्त्व–धर्म-भूत-ज्ञानयोः)+++ मतम् ।
परस्मै भासमानत्वं
पराक्त्वम् इति गद्यते ॥ ६.२॥
कृष्णमाचार्यः (सं)
तत्र शुद्ध-सत्त्व–धर्म-भूत-ज्ञानयोः साधारणं लक्षणम् आह- पराक्त्व इति ।
पराक्त्वं च परस्मा एव भासमानत्वम् । शुद्धसत्त्वं धर्मभूतज्ञानं च न स्वं स्वयमधिगन्तुं प्रभवतः । किंतु परस्मै पुरुषायैव प्रकाशेते । अजडत्वं च तयोर्ज्ञानरूपत्वात् । तथाच श्रुतिः शुद्धसत्त्वमधिकृत्य श्रूयते - " किमात्मकैषा
[[६१]]
भगवतो व्यक्तिः ? यदात्मको भगवान् । किमात्मको भगवान् ? ज्ञानात्मकः इति । परस्मै भासमानत्वमित्यत्र सर्वे वाक्यं सावधारणमिति न्यायेन परस्मा एव भासमानत्वमित्यर्थो विवक्षितः । अतो जीवेश्वरयोः परस्मै स्वस्मै च भासमानसो- र्नातिप्रसङ्गः ।
२
कृष्णमाचार्यः (En)
- Parāktva (Being the object of the knowledge of others only) along with Ajaḍatva is the common characteristic of the first two categories (S’uddhasattva and Dharmabutajñāna). Parāktva is defined as the state of being knowable for others only.
मूलम्
पराक्त्वे सत्यजडता लक्ष्म प्रथमयोर्मतम् ।
परस्मै भासमानत्वं पराक्त्वमिति गद्यते ॥ ६.२॥
मनुगद्यते B. कथ्यते C.
विश्वास-प्रस्तुतिः
सत्त्वैक-मूर्तिको देशः
शुद्ध-सत्त्वम् अचेतनम्।
परिच्छिन्नम् अधो-देशे
ऽनन्तम् ऊर्ध्वप्रदेशतः ॥ ६.३॥
कृष्णमाचार्यः (सं)
शुद्धसत्त्वपदार्थमाह- सत्त्वैकेति । एकशब्दः केवलपरः । रजस्तमोभ्या- ममिश्रितकेवलसत्त्वगुणक इत्यर्थः । पराक्त्वादचेतनम् । चेतनं नाम चैतन्यगुणकं वस्तु। शुद्धसत्त्वस्य ज्ञानरूपत्वेऽपि ज्ञानानाश्रयत्वादचेतनत्वम् । अधोदेशे परिच्छिन्नम् । “ तमसः परस्तात्” इत्यादिश्रुतिभिस्तमस ऊर्ध्वमिति वर्णनादधः प्रदेशे तमसा परिच्छिन्नम् । ऊर्ध्वप्रदेशे तु अपरिच्छिन्नम् । शुद्धसत्त्वस्योपरिष्टात् कस्यापि देशादेरभावात् तत्र परिच्छेदरहितमिति भावः ।
कृष्णमाचार्यः (En)
- S’uddhasattva is a non-sentient substance full of pure Sattva guna (ie., not mixed with Rajas and Tamas). It is limited downward and unlimited upward.
मूलम्
सत्त्वैकमूर्तिको देशः शुद्धसत्त्वमचेतनम्।
परिच्छिन्नमघो देशेऽनन्तमूर्ध्वप्रदेशतः ॥ ६.३॥
विश्वास-प्रस्तुतिः
स्वयम्-प्रकाशरूपेयं
+++(“पर”-शब्द-सहित-)+++पञ्चोपनिषद्+++(→अप्राकृत-पञ्च-भूत)+++-आत्मिका ।+++(5)+++
विष्णोर् नित्य-विभूतिः स्यान्
नित्यम् आनन्द-रूपिणी ॥ ६.४॥
कृष्णमाचार्यः (सं)
स्वयंप्रकाशरूपेति । नित्यविभूतिरिति निर्देशानुरोधेन स्त्रीलिङ्गनिर्देशः ।
स्वप्रकाशे जड-पदार्थैर् इवेतरानपेक्षणात् स्वयंप्रकाशरूपेयम् ।
६२
तच्च किंद्रव्यात्मकम् इत्यत्राह - पञ्चोपनिषदिति ।
पञ्चोपनिषन्-मन्त्र-प्रतिपादित–पराकाशाद्य्-अप्राकृत-पञ्च-भूतमयी ।
सा चेश्वरादीनां परमपदनिलयानां तत्तदिच्छानुरोधेन शरीरेन्द्रिय-विषयादिरूपेणावतिष्ठते ।
तत्रेयान् विशेषः - यत्प्राकृतानि भूतानि महद्-आदिभ्य उत्पद्यन्ते ।
अप्राकृतानि तु न तथा ।
तानि स्वत एव प्रतिष्ठितानि ।
अतो नित्यानि ।
तर्हि, “अशरीरं वाव सन्तम्” इत्य्-आदि-श्रुतयः
शरीर-रहितस्यैव कथं मोक्षम् अभिदधतीति चेत्, इत्थम् —
कर्मकृत-शरीर-राहित्यस्यैव तत्र विवक्षा ।
परम-पदनिलयानां तु शरीरम् अकर्म-कृतम् इत्य् अदोषः ।
विष्णोर् इति विभूताव् अन्वेति ।
विष्णोः शेषभूता नित्य-विभूतिर् इत्य्-अर्थः । आनन्दरूपिणीति ;
" तत्रानन्दमया भोगा लोकाश्चानन्दलक्षणाः । "
" आनन्दं नाम तं लोकं परमानन्दलक्षणम् । ”
इत्याद्युपबृंहणात् नित्यविभूतिरानन्दैकरूपेत्यर्थः ।
४
कृष्णमाचार्यः (En)
- This kind of substance is formed with divine elements described in the hymns of Pañcopanisad. This is the Eternal Wealth of the Lord Visņu and is in the form of Ananda ( Bliss).
मूलम्
स्वयम् प्रकाशरूपेयं पञ्चोपनिषदात्मिका ।
विष्णोर्नित्यविभूतिः स्यान्नित्यमानन्दरूपिणी ॥ ६.४॥
विश्वास-प्रस्तुतिः
सेयं विभूतिर् ईशस्य
नित्य-मुक्तात्मनाम् अपि ।
भोग्य-भोगोपकरण-
भोग-स्थानमयी मता ॥ ६.५॥
कृष्णमाचार्यः (सं)
सेयं विभूतिरिति ; नित्यविभूतिरित्यर्थः । तस्या विविधरूपतामाह- भोग्येति ; भोगकर्मभोगसाधनभोगाधिकरण देशमयीत्यर्थः । मतेति; प्रामाणिक- ग्रन्थेष्वित्यर्थः ।
कृष्णमाचार्यः (En)
- This eternal substance is considered to have assumed different forms of the objects of enjoyment, the means of enjoyment and the places of enjoyment of the Lord Iśvara, the Nityas (Eternal souls) and Muktas (Released souls ).
मूलम्
सेयं विभूतिरीशस्य नित्यमुक्तात्मनामपि ।
भोग्यभोगोपकरणभोगस्थानमयी मता ॥ ६.५॥
विश्वास-प्रस्तुतिः
भोग्यम् ईश्वर-देहादि
द्वितीयं+++(→ भोगोपकरणम्)+++ चन्दनादिकम् ।
भोग-स्थानं तु माणिक्य-
गोपुरादिकम् उच्यते ॥ ६.६॥
कृष्णमाचार्यः (सं)
६३
भोग्यादीन् निर्दिशति –भोग्यमिति । ईश्वरस्य देहादि भोग्यमित्यर्थः । ईश्वर दिव्यमङ्गलविग्रहोऽन्येषां नित्यसूरीणामिवेश्वरस्यापि भोग्यो भवति । यदाहुः
‘मूर्त ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम्” इति । भोगोप-
• करणमाह- चन्दनादिकमिति । नित्यविभूतावप्राकृतचन्दनादिकं शास्त्रसिद्धम् । भौगस्थानान्याह - माणिक्येति । माणिक्यमयं गोपुरप्रासाद वितर्दिकादिकं भोगस्थानमित्यर्थः ।
६
कृष्णमाचार्यः (En)
- The objects of enjoyment are the Lord’s body and so on. The means of enjoyment are Candana (sandal) etc. The places of enjoyment are the towers of precious gems and so on.
मूलम्
भोग्यमीश्वरदेहादि द्वितीयं चन्दनादिकम् ।
भोगस्थानं तु माणिक्यगोपुरादिकमुच्यते ॥ ६.६॥
विश्वास-प्रस्तुतिः
देहा ईश्वर-नित्यानां
नित्येच्छा-कल्पिता हरेः ।
मुक्तानां तु शरीरादिस्
तत्-सङ्कल्प-कृतो मतः ॥ ६.७॥
कृष्णमाचार्यः (सं)
तत्र भोग्यभूत-देहे विशेषमाह — देहा इति । ईश्वरस्य नित्यानां च देहो हरेर्नित्येच्छापरिकल्पितः । मुक्तानां तु ईश्वरेच्छाधीनस्वेच्छाकल्पितः । भगवदाज्ञामनुरुन्धाना यथा यथा भूत्वा भगवन्तं तत्कल्याणगुणांश्चानुबुभूषन्ति तथा तथा स्वदेहं परिगृह्णन्तीत्यर्थः ।
७
कृष्णमाचार्यः (En)
- The bodies of the Lord and Nityas take their form on the eternal wish of the Lord Hari.
But those of Muktas are brought about by His (Lord’s) Saṁkalpa (Will).
मूलम्
देहा ईश्वरनित्यानां नित्येच्छाकल्पिता हरेः ।
मुक्तानां तु शरीरादिस्तत्सङ्कल्पकृतो मतः ॥ ६.७॥
विश्वास-प्रस्तुतिः
श्रीपतेर् व्यूह-विभवार्चावतारतया सतः ।
अ-प्राकृत-शरीराणि प्रतिष्ठानन्तरं हरेः …॥ ६.८॥
कृष्णमाचार्यः (सं)
श्रीपतेरिति । व्यूहाः वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्याश्चत्वारः । विभवाः रामकृष्णादिबहुभेदाः । अर्चाः श्रीरङ्गादिदिव्यदेशेषु प्रतिमारूपाः । एवं व्यूहाद्यात्मना वर्तमानस्य भगवतः श्रीपतेः शरीराणि दिव्यमङ्गलविग्रहाः अप्राकृतानि प्राकृतभिन्नानि शुद्धसत्त्वमयानि ज्ञातव्यानि । ननु व्यूहविभवानां सन्तु नामाप्राकृतविग्रहाः ।
अर्चारूपाणां तु विग्रहाः कथम् अप्राकृताः ?
अर्चा हि प्राकृतलोहैः रजतकाञ्चनादिभिः शिल्पिभिर्निर्मिती दृश्यन्ते ।
सन्ति च प्रतिमा-निर्माणे तेषु तेषु शास्त्रेषु परिदृश्यमाना विधय
इत्यत्र समाधानमाह- प्रतिष्ठानन्तरमिति ।
प्राकृत-लोह-निर्मितानाम् अप्य् अर्चा-विग्रहाणां
यथाशास्त्रं वैदिक-तान्त्रिक-मन्त्रैः प्रतिष्ठाकरणानन्तरं
त एव विग्रहा अप्राकृतताम् आपद्यन्त इत्यर्थः ।
यथाहुः-
‘न तस्य प्राकृता मूर्तिर्
मांसमेदोऽस्थिसंभवा ”
इति,
“न भूत-संघ-संस्थानो
देहोऽस्य परमात्मनः "
इति च ।
"
८
मूलम्
श्रीपतेर्व्यूहविभवार्चावतारतया सतः ।
अप्राकृतशरीराणि प्रतिष्ठानन्तरं हरेः ॥ ६.८॥
[[६४]]
विश्वास-प्रस्तुतिः
प्रसादोन्मुखतापत्तौ
प्रकटानि भवन्ति हि ।
तच् च प्रकटनं तस्य
सङ्कल्पाधीनम् ईर्यते ॥ ६.९॥
कृष्णमाचार्यः (सं)
तत्र च हेतुः भगवत्प्रसादौन्मुख्यमेवेत्याह- प्रसादेति ।
महामन्त्रैः प्रतिष्ठाकरणे
तादृश-मन्त्र-महिम्ना भगवान् आराधकस्य प्रसन्नो भूत्वा
तत्र बिम्बे स्वसांनिध्यं कुरुते ।
तत्-सांनिध्य-समय एव तद्बिम्बम् अप्य् अप्राकृतं भवतीति यावत् ।
एष च महिमा मन्त्रबलाधीन इति
न तत्र लेशतोऽपि कुचोदनाया अवकाशः ।
तदेवाह - तच्चेति । संकल्पाधीनमिति ।
मन्त्रविशेषैः प्रतिष्ठिते बिम्बे सांनिध्यं करवाणीति तस्यावितथः संकल्पः ।
अप्रतिहतसंकल्पे भगवति प्रसन्ने किं किं न संभाव्यत इत्यर्थः ।
९
कृष्णमाचार्यः (En)
8 and 9. The bodies possessed by the Lord of S’ri in his various incarnations as Vyuha, Vibhava and Arcă are of the non-material and eternal substance. In the case of Arca the non-materiality of the image appears immediately after the performance of Pratiṣṭhā (consecration) when the Lord becomes graceful.
६५
This state of thing happens only on His divine Will (Samkalpa).
मूलम्
प्रसादोन्मुखतापत्तौ प्रकटानि भवन्ति हि ।
तच्च प्रकटनं तस्य सङ्कल्पाधीनमीर्यते ॥ ६.९॥
विश्वास-प्रस्तुतिः
प्राकृताप्राकृत-तनु-
संसर्गः कथम् इत्य् +++(चेत्)+++ - अलम् ।
रामकृष्णावतारादौ
दृष्टत्वात् तस्य भूयसा ॥ ६.१०॥
कृष्णमाचार्यः (सं)
ननु भगवदर्चामूर्तेर प्राकृतत्वे कथमस्याः प्राकृतलोकावतारः ? कथं वा प्राकृतैर्द्रव्यैः संसर्ग इत्याशङ्क्य समाधत्ते - प्राकृतेति । प्राकृताप्राकृतलोकयो- रुभयोरपि भगवद्विभूतित्वात् यथा अखिलहेयप्रत्यनीककल्याणगुणैकतानस्य भगवतो रामकृष्णाद्यात्मना दोषबहुलप्राकृतलोकेऽप्यवतारः प्राकृतद्रव्यैश्च योग उपपद्यते तद्वदिति भावः ।
१०
कृष्णमाचार्यः (En)
- The objection, viz.-how can there be a contact between the non-material body and material world?-is not sound, because such a contact is often proved in the case of the Lord’s incarnations such as Rāma, Krsna and so on.
मूलम्
प्राकृताप्राकृततनुसंसर्गः कथमित्यलम् ।
रामकृष्णावतारादौ दृष्टत्वात्तस्य भूयसा ॥ ६.१०॥
विश्वास-प्रस्तुतिः
औज्ज्वल्यादिगुणा ये स्युर्
दिव्य-मङ्गल-विग्रहे ।
हरेस्, तांस् तु विजानीहि
गद्य-त्रय-विचारतः ॥ ६.११॥
कृष्णमाचार्यः (सं)
भगवत्स्वरूपस्य यथा ज्ञानशक्त्याद्यसंख्यातकल्याणगुणाश्रयत्वं तथा शुभाश्रयस्य तद्दिव्यमङ्गलविग्रहस्याप्यनन्तगुणाश्रयत्वं शुद्धसत्त्वमयत्वात् प्रामाणिक- मुपपद्यत इत्याह-औज्ज्वल्यादीति । आदिपदेन सौगन्ध्यसौकुमार्यलावण्यादि- संग्रहः ।
गद्यत्रयेति ; श्रीभगवद्रामानुजीयभगवदनुसंधानपरे पृथुगद्यमितगद्य- श्रीवैकुण्ठगद्यसंघटिते गद्यत्रयाख्यग्रन्थ इत्यर्थः । विचारत इत्यनेन तद्भाष्यार्था-वगमोऽपि विवक्षितः ।
११
कृष्णमाचार्यः (En)
- The excellence of brilliancy etc. in the divine body of the Lord Hari, should be understood fully by referring to the work Gadyatraya.
मूलम्
औज्ज्वल्यादिगुणा ये स्युर्दिव्यमङ्गलविग्रहे ।
हरेस्तांस्तु विजानीहि गद्यत्रयविचारतः ॥ ६.११॥
1 ये तु A. C.
[[६६]]
विश्वास-प्रस्तुतिः
मुक्तानाम् अशरीरत्व-
वचनं यत्तु दृश्यते ।
तत्-कर्म-कृत-शारीर-
सम्बन्धाभाव-गोचरम् ॥ ६.१२॥
कृष्णमाचार्यः (सं)
“अशरीरं वाव सन्तम्” इति श्रुतिर्मुक्तौ देहाभावं ब्रवीतीति तद्विरोध इत्यत्राह—मुक्तानामिति । सशरीरत्वाशरीरत्वपरयोः श्रुत्योः सगुणनिर्गुणश्रुत्यो- रिवशरीरस्य कर्मकृतत्वाकर्मकृतत्वाभ्यां विरोधः परिहरणीय इति भावः । १२
कृष्णमाचार्यः (En)
- The statement that the Muktas have no body, should mean the absence of such body as caused by Karman.
मूलम्
मुक्तानामशरीरत्ववचनं यत्तु दृश्यते ।
तत्कर्मकृतशारीरसम्बन्धाभावगोचरम् ॥ ६.१२॥
विश्वास-प्रस्तुतिः
निरूपयन्ति श्रीनाथ-
दिव्य-मङ्गल-विग्रहम् ।
पुराणोक्त-क्रमाद् अस्माद्
आद्या वेदान्त-देशिकाः ॥ ६.१३॥
तथाहि-
“चेतश् चक्रति, चेतना+++(=ज्ञानम्)+++ ऽसिर्; अमतिस् तत्+++(=खड्गस्य)+++-संवृतिर्, मालिका
भूतानि स्व-गुणैर्, +++(सात्त्विक-तामस+)+++अहं-कृति-युगं शङ्खेन शार्ङ्गायते । बाणाः खानि+++(=ज्ञानकर्मेन्द्रियाणि)+++ दशापि, कौस्तुभमणिर् जीवः, प्रधानं पुनः
श्रीवत्सं, कमलापते, तव गदाम् आहुर् महान्तं बुधाः ॥”
इति ।
कृष्णमाचार्यः (सं)
पुराण-रत्नास्त्र-भूषणाध्यायोक्त-प्रकारेण भगवतो दिव्यमङ्गलविग्रहमनुसंधत्ते- निरूपयन्तीति ।
श्रीनाथेत्यनेन “उभयाधिष्ठानं चैकं शेषित्वम्” इति न्यायेन दिव्यदंपतिशेषित्वमुक्तं भवति ।
निरूपणप्रकारम् एवाह-चेत इति ।
चक्रति चक्रमिवाचरति ।
चेतना ज्ञानम् । असिः खड्ग-रूपताम् अपद्यते।
अमतिः, अज्ञानम्।
तत्संवृतिः ; तस्य खड्गस्य संवृतिः आवरणभूतः कोशः ।
भूतानि आकाशादीनि पञ्च भूतानि पञ्च तन्मात्राणि च स्वगुणैः शब्दस्पर्शादिभिः सह मालिका भवति ;
यस्या भूतमालेत्यपि प्रसिद्धिर् लोके ।
[[६७]]
अहंकृतियुगं सात्त्विक-तामसाहंकारद्वयं शङ्खन सह शार्ङ्ग भवति ।
सात्त्विकाहंकारः शङ्खः, तामसाहंकारश्च शार्ङ्गं भवतीत्यर्थः ।
शङ्खस्य सात्त्विकत्वादेव
ध्रुवानुग्रहे भगवता ध्रुवस्य ज्ञानोदय-हेतुभूतं शङ्ख-संमार्जनम् उक्तं पुराणे ।
दशापि खानि ज्ञानकर्मेन्द्रियाणि बाणा भवन्ति । जीवः जीव- समष्टिरूपं चेतनतत्त्वं कौस्तुभः कौस्तुभमणिः । प्रधानं प्रकृतिः पुनः श्रीवत्सं भवति । बुधाः महान्तं महत्तत्त्वं तव गदामाहुरिति श्लोकार्थः ।
१३
कृष्णमाचार्यः (En)
- Our revered and ancient Acāryas in Vedanta explain the blissful body of the Lord of Sri thus as said in Purāna : “O Lord of Kamalā, the sense of mind is your disc, knowledge is your sword, ignorance is your sheath, the elements with their gunas are your garland, the two-fold Ahamkaras are your S’ankha (conch) and Sarnga (bow), the ten senses are your arrows, Jivatattva is your Kaustubha Gem, the Prakṛti is your Sri-Vatsa mole, and the Mahat is your Gadā (club).”
मूलम्
निरूपयन्ति श्रीनाथदिव्यमङ्गलविग्रहम् ।
पुराणोक्तक्रमादस्मादाद्या वेदान्तदेशिकाः ॥ ६.१३॥
तथाहि-
“चेतश्चक्रति, चेतनाऽसिर्; अमतिस्, तत्संवृतिर्मालिका
भूतानि स्वगुणैर्, अहंकृतियुगं शङ्खेन शार्ङ्गायते । बाणाः खानि दशापि कौस्तुभमणिर्जीवः, प्रधानं पुनः
श्रीवत्सं, कमलापते, तव गदाम्आहुर् महान्तं बुधाः ॥”
इति ।
1 अस्मदाद्यवेदान्तदेशिकाः A.
विश्वास-प्रस्तुतिः
त्रिपाद्-विभूति–वैकुण्ठ-
पर-व्योमादि-शब्दिता ।
विभूतिर् इयम् ईशस्य
महती सुमहीयते ॥ ६.१४॥
कृष्णमाचार्यः (सं)
नित्यविभूतेर्नामान्तराण्याह— त्रिपादिति । त्रिपाद्विभूतिरिति, श्रीवैकुण्ठ- मिति, परव्योम चेति शब्दभागिनी, ईशस्य सर्वशेषिणो भगवत इयं विभूतिः महती लीलाविभूत्यपेक्षयात्यन्तं महती सुतरां महीयते पूज्यते । मह पूजायामिति धातुः। “ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते " इत्युक्तरीत्या नित्यसूरिभिः सदा स्तूयमाना वर्तत इत्यर्थः ।
१४
कृष्णमाचार्यः (En)
- This Nityavibhūti (Eternal Wealth) is of great excellence and mentioned with different names such as This also Tripādvibūti, Vaikuntha, Paravyoman etc. belongs to the Lord. It is vast and honoured by all with great reverence.
मूलम्
त्रिपाद्विभूतिवैकुण्ठपरव्योमादिशब्दिता ।
विभूतिरियमीशस्य महती सुमहीयते ॥ ६.१४॥
[[६८]]
विश्वास-प्रस्तुतिः
द्वादशावरणोपेतम्
अनेक-शत-गोपुरम् ।
वैकुण्ठं नाम नगरम्
एतस्यां प्रविजृम्भते ॥ ६.१५॥
कृष्णमाचार्यः (सं)
तत्र नित्यविभूतौ दिव्यनगरमाह-द्वादशेति । तत्र नित्यविभूतौ द्वादश- भिरावरणैः प्राकारैरावृतमनेकशतसंख्याकगोपुरविराजितं वैकुण्ठाख्यं श्रीवैकुण्ठ- नामकं दिव्यनगरमपि एतस्य भगवतो भोगार्थं विजृम्भते प्रकाशते ।
१५
कृष्णमाचार्यः (En)
- In this world shines an extensive celestial city called Sri-Vaikuntha with 12 enclosures and many hundreds of towers.
मूलम्
द्वादशावरणोपेतमनेकशतगोपुरम् ।
वैकुण्ठं नाम नगरमेतस्यां प्रविजृम्भते ॥ ६.१५॥
विश्वास-प्रस्तुतिः
आनन्दनामकस् तत्र
सुदिव्यनिलयः स्फुटः ।
तत्र रत्नमय-स्तम्भ-
सहस्रा भासते सभा ॥ ६.१६॥
कृष्णमाचार्यः (सं)
श्रीवैकुण्ठनगरे भगवतो दिव्यमन्दिरादिकमाह-आनन्देति । तत्र नगरे आनन्दनामकः दिव्यनिलयः स्फुटः स्वयंप्रकाशो वर्तते । तत्र दिव्यनिलये सभामण्डपः रत्नमयैः स्तम्भसहस्त्रैरन्वितो भासते ।
१६
कृष्णमाचार्यः (En)
- In this city exists a huge divine mansion called Ananda. In that mansion shines a beautiful Assembly Hall with thousand pillars made of gems.
मूलम्
आनन्दनामकस्तत्र सुदिव्यनिलयः स्फुटः ।
तत्र रत्नमयस्तम्भसहस्रा भासते सभा ॥ ६.१६॥
विश्वास-प्रस्तुतिः
अनन्तस् तत्र च फणा-
मणि-तेजो-विराजितः ।
तस्मिन् +++(→अनन्ते)+++ धर्मादि+++(पाद-)+++-सहित-
सिंहासनम् उपस्थितम् ॥ ६.१७॥
कृष्णमाचार्यः (सं)
तत्र च दिव्यसभामण्डपे फणामणितेजोभिर्विशेषभास्वरः अनन्तः सिंहा- सनमुद्धरन्नास्ते । तस्य दिव्यमहामणिमण्डपस्थनित्यसूरिसभायामास्तरणभूत- स्यानन्तस्य सेवामाह - अनन्त इति । तत्र च सभायाम् । फणामणीनां सहस्रसंख्यस्फटास्थरत्नानां तेजसा कान्त्या विराजितोऽनन्तः तदाख्यया प्रसिद्धो भगवत्पारिषदेषु प्रधानभूतः राजति विद्योतते । अनन्तस्य बहुधा भगवत्सेवा- प्रकारो वर्णितः स्तोत्ररत्ने-
“ तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि । फणामणित्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ॥ निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः ।
शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीरिते जनैः ॥”
[[६९]]
इति । तस्मिन् अनन्ते ; अधिकरणे सप्तमी ।
तद्धारितं दिव्यं सिंहासनमुपस्थितं वर्तत इत्यर्थः ।
तस्य सिंहासनस्य पादानाह-धर्मादीति ।
धर्मज्ञानवैराग्यैश्वर्याख्याश्चत्वारः पादास्तस्य ।
तैः पादैः सहितं सिंहासनं वर्तत इत्यर्थः ।
1
कृष्णमाचार्यः (En)
- In this Hall is seen Ananta, brilliant with the luster of gems of his hoods. There is on him a throne (Simhasana) attended by Dharma and other attendants.
मूलम्
अनन्तस्तत्र च फणामणितेजोविराजितः ।
तस्मिन् धर्मादिसहितसिंहासनमुपस्थितम् ॥ ६.१७॥
विश्वास-प्रस्तुतिः
तत्र चामरवद्-धस्तैर्
विमलादिभिर् अर्चितम् ।
पद्मम् अष्ट-दलं भाति
तत्र शेषोऽस्ति धीमयः ॥ ६.१८॥
कृष्णमाचार्यः (सं)
तस्य सिंहासनस्य मध्ये पद्मासनमाह – तत्रेति । तत्र ; सिंहासने ।
चामरवीजनेन भगवत्कैंकर्यप्रसिताभिर्विमलादिभिर्दिव्यपरिचारिकाभिरञ्चितमलं- कृतमष्टदलयुक्तं पद्मं भाति । विमलादयश्चाष्टौ परिचारिकाः परिगण्यन्ते भगव- च्छास्त्रे । तासां नामानि यथा – विमला, उत्कर्षणी, ज्ञानाख्या, क्रिया, योगाख्या, प्रभ्वी, सत्या, ईशाना चेति ।
एताश्च पद्मासनस्याग्नेयाद्यष्टदिग्दलेषु प्रतिष्ठिता वेदितव्याः ।
तत्रेति । अष्टदलपद्मे धीमयः ज्ञानस्वरूपः शेषोऽस्ति दिव्य-पर्यङ्करूपेण वर्तते ।
भगवच्छेषतैकरसत्वात् भगवत्-पारायैक-रूप-प्रवृत्ति-निमित्तानुगुणां शेषाख्यां बिभ्रद्
अयं स्वयं-प्रकाशत्व-रूप-ज्ञान-स्वरूपो ऽपि
विशिष्य पञ्च-विध-ज्योतिः-सिद्धान्त-प्रवर्तकतया ज्ञान-प्रकर्षवान् इति धीमयत्वम् अस्येति मन्तव्यम् । १८
कृष्णमाचार्यः (En)
- In it is seen a lotus flower with 8 petals worshipped by Vimala and other maid attendants with chowries in their hands. There is on the lotus, S’eşa who is an embodiment of intellect.
मूलम्
तत्र चामरवद्धस्तैर्विमलादिभिरर्चितम् ।
पद्ममष्टदलं भाति तत्र शेषोऽस्ति धीमयः ॥ ६.१८॥
७०
विश्वास-प्रस्तुतिः
तत्रानन्दमयः साक्षात्
सर्व-वाचाम् अगोचरः ।
अद्भुत-ज्योतिर्-आकारो
भाति नारायणात्मना ॥ ६.१९॥
कृष्णमाचार्यः (सं)
अनन्तरं शेषपर्यङ्कासीनं भगवन्तं निर्दिशति – तत्रेति । तत्र ; शेषपर्यङ्के । आनन्दमयः ; मानुषानन्दादिप्रजापत्यानन्दपर्यन्तशतगुणितोत्तरानन्दादप्यति- शयितानन्दरूपः। साक्षात् ; विगलितनिखिलकर्मबन्धस्याविर्भूतस्वस्वरूपस्या- त्मनः प्रत्यक्षवेद्यः । सर्ववाचाम्, “यतो वाचो निवर्तन्ते " इत्युक्तरीत्य ब्रह्मा- दीनां सर्वदेवानामपि वाचामविषयः । अद्भुतज्योतिः, “परं ज्योतिरुपसंपद्य,’
“न तत्र सूर्यो भाति न चन्द्रतारकम्” इत्यादिश्रुत्युक्तरीत्या युगपदुदित- कोटिकोटिसूर्यलावण्यज्योतिराकारः । नारायणात्मनेति सदात्मपरब्रह्मादिशब्दानां सामान्यविशेषन्यायेन नारायणे पर्यवसानमभिप्रेत्यात्र देवताविशेषनिर्देशः । अनेन मुक्तप्राप्यं निर्विशेषं परं ब्रह्मान्यत् । उपसनागोचर आविद्यकः सगुणो नारायणोऽन्य इति परेषां मते तत्क्रतुन्यायविरोधरूपमनौचित्यमपि सूचितम् । ब्रह्मणि सगुणनिर्गुणविभाग एव प्रमाणं नास्ति । तथा कृत्वा चिन्ताया- मपि सगुणब्रह्मोपासकस्य सगुणब्रह्मप्राप्तिरेवोचिता, न निर्गुणब्रह्मप्राप्तिरिति युक्तम् ।
१९
कृष्णमाचार्यः (En)
- There shines pre-eminently a wonderful Light in the form of Sriman-Nārāyaṇa who is the eternal Bliss and beyond the scope of all speech.
मूलम्
तत्रानन्दमयः साक्षात्सर्ववाचामगोचरः ।
अद्भुतज्योतिराकारो भाति नारायणात्मना ॥ ६.१९॥
इति वेदान्तकारिकावल्यां नित्यविभूतिनिरूपणं षष्ठं प्रकरणम्