०५ काल-निरूपणम्

विश्वास-प्रस्तुतिः

गुण-त्रय-विहीनो यः
स जडः काल उच्यते ।
अ-खण्ड–खण्ड-भेदेन
स कालो द्विविधो मतः ॥ ५.१॥

कृष्णमाचार्यः (सं)

तदेवं प्रकृतिकालशुद्धसत्त्वधर्मभूतज्ञानजीवेश्वर भेदभिन्नेषु द्रव्येषु प्रकृति निरूप्यानन्तरं प्राप्तकालं कालं निरूपयितुं प्रकरणान्तरमारभ्यते । सांख्यसौगत- चार्वाकाः कालतत्त्वमत्यन्ताय निनुवते । पाशुपतास्तु कालतत्त्वमभ्युपयन्तोऽपि द्रव्यान्तराणामिवास्यापीश्वरमाया सृज्यत्वमातिष्ठन्ते । यदाह तत्त्वप्रकाशे भोजः-

“नानाविधशक्तिमयी सा जनयति कालतत्त्वमेवादौ । भाविभवद्भूतमयं कलयति जगदेव कालोऽतः ॥ ”

इति । वैशेषिकास्तु अस्य नित्यविभुत्वमङ्गीकुर्वन्तोऽप्यनुमानगम्यत्वं संगिरन्ते । तथाचाहुः– “ अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति काललिङ्गानि ” इति । तत्सर्वं प्रतिक्षिपन् सिद्धान्तमाह-गुणत्रयेति । ‘प्रकृतिः काल इत्याद्या ’ इति प्रकृतेर्वि- लक्षणतया निर्देशादप्राकृतोऽयं कालः । अतः प्रकृतिधर्मत्रैगुण्यरहितः । सात्त्विकः काल इत्यादिव्यवहारस्तु तथाभूततत्तद्वस्तुव्यतिकरनिबन्धनः । जड इति ; अने-नास्य पराक्त्वमप्युक्तं भवति । तस्य द्वैविध्यमाह – अखण्डेति । कलामुहूर्त- दिवसपक्षमासादयः खण्डकालाः तत्तदुपाधिनिबन्धनास्तद्विकारभेदा अव- गन्तव्याः ।

कृष्णमाचार्यः (En)
  1. Time is said to be Jada (an inert substance) devoid of the triad of Guņas. It is of two kinds: Akanda (Undivided) and Kanda (Divided).
मूलम्

गुणत्रयविहीनो यः स जडः काल उच्यते ।
अखण्डखण्डभेदेन स कालो द्विविधो मतः ॥ ५.१॥

विश्वास-प्रस्तुतिः

आद्यो +++(→अखण्डकालः)+++ विभुर् भूत-भावि-
वर्तमानत्व-धी-करः ।
निमेषादि-प्रभेदेन
बहुभेदस् त्वसौ +++(खण्डकालो)+++ मतः ॥ ५.२॥

कृष्णमाचार्यः (सं)

[[५६]] आद्य इति ; अखण्डकाल इत्यर्थः । विभुरिति ; सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम् । न तु परममहत्परिमाणत्वम् । तस्य सामान्येन त्रैविध्यमाह- भूतेति । भूतो घटः, भावी घटः, वर्तमानो घटः इत्यादिरूपेण भूतत्व- भावित्ववर्तमानत्वप्रकारकधी भेदकारीत्यर्थः । कालस्य सर्वत्र पदार्थविशेषणतयैव प्रतीतेः पदार्थप्रत्यक्षे कालस्यापि प्रत्यक्षत्वमनेनोक्तं भवति । एतेन त्रिविध भेदे प्रमाणमपि दर्शितं भवति । प्रभेदान्तराण्याह — निमेषादीति । आदिपदेन काष्ठाकलामुहूर्तदिवसादयो ग्राह्याः । असौ खण्डकालो बहुभेदो मत इत्यर्थः। २

कृष्णमाचार्यः (En)
  1. The former is Vibhu (all pervading). It gives rise to the cognition as per past, future and present and has also many divisions as Nimeșa and so on.
मूलम्

आद्यो विभुर्भूतभाविवर्तमानत्वधीकरः ।
निमेषादिप्रभेदेन बहुभेदस्त्वसौ मतः ॥ ५.२॥

विश्वास-प्रस्तुतिः

अ-खण्ड-काल एवायं
नित्य इत्यवगम्यते ।
कालः +++(निमेषादि-)+++स्व-कार्यं प्रति तु
स्याद् उपादान-कारणम् ॥ ५.३॥

कृष्णमाचार्यः (सं)

सिंहावलोकनन्यायेन पुनश्चाखण्डकाले विशेषमाह - अखण्डकाल एवेति । एवकारः खण्डकालं व्यवच्छिनत्ति । नित्य इति ; उत्पादविनाशरहित इत्यव- गम्यते । खण्डकालस्तूत्पादविनाशशालीति फलितोऽर्थः । ननु नित्यस्य विभोश्चाखण्डकालस्य निमेषादिरूपेण विकाराभ्युपगमे नित्यत्वविभुत्वे भज्ये- यातामिति चेत्, अत्र ब्रूमः — विकारो हि द्विधा । अवयवोच्छूनताहासलक्षणः, नामान्तरभजनार्हतालक्षणश्च । द्विविधोऽप्येष विकारो न नित्यत्वविरोधी । नित्याया एव प्रकृतेरीदृशविकारभजनस्य प्रमाणप्रतिपन्नत्वात् । तथाच श्रूयते— " अजामेकां लोहितशुक्लकृष्णाम्” इति । अजामिति नाशराहित्यस्याप्युप- लक्षणम्। अनेन नित्यत्वमुक्तं भवति । एकामिति नैकविधविकारजातमूलत्व- मुच्यते । लोहितशुक्लकृष्णामिति तेजोऽबन्नात्मना परिणतिरुच्यते । तेजोऽबन्ना- त्मना परिणाममापन्नापि सा अजा एकैवेति विवक्षितोऽर्थः । तथा स्मृतिरपि-काल-निरूपणम्

५७

" अचेतना परार्था च नित्या सततविक्रिया " इति । महदहंकारभूताद्यात्मना सततं परिणममानापि नित्येति विवक्षितोऽर्थः । तथा अवयवोच्छूनताहासलक्षणो विकारो यद्यपि विभुनि न संभवति, तथापि नामान्तरभजनार्हतालक्षणस्तु संभव- त्येव । अन्यथा प्रपञ्चशरीरके ब्रह्मणि तत्तन्नामभाजि विभुत्वं भज्येतेति सिद्धान्त- व्याकोपः स्यात् । स चायमखण्डः कालः कार्यसामान्यं प्रति सहकारिकारणं भवति । स्वस्य यत्कार्य निमेषकाष्ठादि तत्प्रति तु स्वयमुपादानकारणं भवति ।

कृष्णमाचार्यः (En)
  1. The undivided Time is known to be Nitya (eternal). It acts as Upādāna (material cause) for its various manifestations (as Nimesa etc.).
मूलम्

अखण्डकाल एवायं नित्य इत्यवगम्यते ।
कालः स्वकार्यं प्रति तु स्यादुपादानकारणम् ॥ ५.३॥

विश्वास-प्रस्तुतिः

+++(सावधित्वान् निमेषादि-)+++कार्य-रूपस् ततो नैव
नित्य इत्य् अवधार्यताम् ।
लीला-विभूताव् ईशानः
कालम् आलम्ब्य कार्य-कृत् ॥ ५.४॥

कृष्णमाचार्यः (सं)

ततः अखण्डकालकार्यतया कार्यरूपो निमेषादिः खण्डकालो नैव नित्यः । किंत्वनित्य इत्यवधार्यताम् । ईशानः सर्वेश्वरः कालं सहकारितयालम्ब्यैव लीलाविभूतौ प्राकृतप्रपञ्चे सर्वमपि कार्यं करोति । ४

कृष्णमाचार्यः (En)
  1. Hence, the effected Time is Anitya, (non- eternal). The Lord in His sportive sphere functions as dependent on Time.
मूलम्

कार्यरूपस्ततो नैव नित्य इत्यवधार्यताम् ।
लीलाविभूतावीशानः कालमालम्ब्य कार्यकृत् ॥ ५.४॥

विश्वास-प्रस्तुतिः

एष नित्य-विभूतौ तु
न कालम् +++(तत्र वर्तमानम् अप्य्)+++ अवलम्बते ।
क्रीडा-परिकरः सोऽयं
कालस् तु परमात्मनः ॥ ५.५॥

कृष्णमाचार्यः (सं)

एष इति । एष ईश्वरः । कालं नावलम्बते, कालमपेक्ष्य न करोतीत्यर्थः । अनेन नित्यविभूतावपि कालसद्भाव उक्तः । तदुक्तम् - “कालं स पचते तत्र न कालस्तत्र वै प्रभुः” इति । अतः सोऽयं कालः परमात्मनः क्रीडा- परिकरः ; लीलोपकरणमित्यर्थः । ५

कृष्णमाचार्यः (En)
  1. But in His eternal sphere He functions not dependent on Time. But Time serves as an instrument in his sport.
मूलम्

एष नित्यविभूतौ तु न कालमवलम्बते ।
क्रीडापरिकरः सोऽयं कालस्तु परमात्मनः ॥ ५.५॥

विश्वास-प्रस्तुतिः

नित्य-नैमित्तिक–प्राकृत-लयाः कालहेतुकाः । +++(यतिभङ्गः)+++
एवं प्रकाशितं काल-स्वरूपस्य निरूपणम् ॥ ५.६॥

कृष्णमाचार्यः (सं)

नित्येति । प्रलयस्त्रिधा – नित्यप्रलयः, नैमित्तिकप्रलयः, प्राकृतप्रलयश्चेति । त्रिविधेऽपि प्रलये कालो भगवतः सहकारिकारणं भवतीत्यर्थः । त्रिविधप्रलय- स्वरूपं चैवमुपवर्णितं पुराणेषु । यथा कौर्भे-

" योऽयं संदृश्यते नूनं नित्यं लोके क्षयस्त्विह ।

नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ॥ 4 ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ।

त्रैलोक्यस्यास्य कथितः प्रतिसर्गों मनीषिभिः ॥ महदादिविशेषान्तं यदा संयाति संक्षयम् ।

प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥ ”

इति । नित्यप्रलयो नाम दैनंदिनसुषुप्तिरूपः । सुषुप्तौ हि जीवानां ब्रह्मप्राप्तिः श्रूयते - एवमेवेमाः सर्वाः प्रजा अहरहर्गच्र्च्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ” इति । नैमित्तिकप्रलयो नाम चतुर्मुखब्रह्मणो दिवसावसानात्मकः । प्राकृतप्रलयो नाम चतुर्मुखब्रह्मणा सह ब्रह्माण्डस्य तत्स्थानां च विनाशरूपः । एते त्रिविधाः प्रलयाः कालहेतुका भवन्ति ।

कृष्णमाचार्यः (En)
  1. The Pralaya (Dissolution) which is known of three kinds namely Nitya (frequent), Naimittika (occasional) and Prākrta (material) is subject to Time. Thus the nature and characteristics of Time have been explained.
मूलम्

नित्यनैमित्तिकप्राकृतलयाः कालहेतुकाः ।
एवं प्रकाशितं कालस्वरूपस्य निरूपणम् ॥ ५.६॥

इति वेदान्तकारिकावल्यां कालनिरूपणं पञ्चमं प्रकरणम्