विश्वास-प्रस्तुतिः
यत्-प्रमा-विषयं तत् स्यात्
प्रमेयम् इति तद् द्विधा ।
द्रव्यम् अद्रव्यम् इत्य्, आद्यं
तद् उपादान-कारणम् ॥ ४.१॥
कृष्णमाचार्यः (सं)
प्रमाणनिरूपणानन्तरं प्रमेयनिरूपणमारभते - यदिति । प्रमाविषयमिति । अत्र च द्वेधा व्याख्या–प्रशब्दस्य प्रथमं माशब्देनान्वये प्रकृष्टा मा प्रमा यथार्थज्ञानम्, तस्या विषय इत्येका । मायाः विषयः माविषयः, मेयमित्यर्थः । प्रकृष्टं मेयं प्रमेयमित्यन्या । प्रथमपक्षे प्रकर्षः संशयविपर्ययादिभिन्नत्वम् । द्वितीये संशयविपर्ययाद्यविषयत्वमिति भिदा । तत्; प्रमेयम् । द्विधा ; द्विप्रकारा । प्रकारद्वयमेवाह — द्रव्यमिति । आद्यं तदिति ; व्यरूपं प्रमेयमित्यर्थः । उपादानेति ; उपादानकारणत्वं द्रव्यत्वमिति द्रव्यलक्षणम् ।
१
कृष्णमाचार्यः (En)
- Prameya is that which is the object of Pramā (Valid Knowledge). Prameya is of two kinds : Dravya (Substance) and Adravya (Non-Substance). The former (the Dravya) is that which acts as the material cause to the effect..
मूलम्
यत्प्रमाविषयं तत्स्यात्प्रमेयमिति तद् द्विधा ।
द्रव्यमद्रव्यमित्याद्यं तदुपादानकारणम् ॥ ४.१॥
विश्वास-प्रस्तुतिः
अवस्थान्तर-योगित्वम्
उपादानत्वम् उच्यते ।
गुणाश्रयं वा द्रव्यं स्यात्
तच् च +++(जडत्व-भेदेन)+++ द्वेधा प्रकीर्तितम् ॥ ४.२॥
कृष्णमाचार्यः (सं)
समवायिकारणमुपादानम् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारण- मिति च नैयायिकाः परिभाषन्ते । वेदान्तिनां मते समवायानङ्गीकारात् [[३१]]
तदुद्घटितं लक्षणमुपेक्ष्यान्यथा लक्षयति-अवस्थेति । अन्या अवस्था अवस्था- न्तरम्, तद्योगित्वं तदाश्रयत्वमित्यर्थः । अवस्था नाम आगन्तुकोऽपृथक्सिद्धश्च धर्मः। कार्यकारणयोरनन्यत्वात् मृदेव कम्बुग्रीवादिमत्त्वरूपागन्तुकधर्मिणी घट इत्युच्यत इति मृदुपादानं भवति । लक्षणान्तरमाह – गुणेति । पदार्थसामान्य- स्य द्रव्याद्रव्यात्मना विभागस्याभिहितत्वात् अत्र गुणपदेनाद्रव्यमुच्यते । घटादीनां रूपाद्याश्रयत्वात् लक्षणसंगतिः । एवं द्रव्याद्रव्यविभागेन तल्लक्षणकथ- नेन च निर्धर्मका निराधारा रूपादय एव पदार्था इति वैभाषिकणां मतमसंगत- मिति द्योतितम् । ‘रूपी घटः’ इति ह्यनुभवो जायते, नतु
‘रूपं घटः ’ इति । ‘घटः रूपादिभिन्नः अवस्थाश्रयत्वात्, यन्नैवं तन्नैवं यथा रूपम् ’ इत्याद्यनुमानं चात्र बोध्यम् । द्रव्यं विभजते- तच्चेति । द्वेधेति ; जडाजडात्म- नेत्यर्थः ।
२
कृष्णमाचार्यः (En)
- The material cause is that which undergoes a change in its state. Or, it is Dravya which is the abode of Gunas (Attributes). Dravya is said to be of two kinds : Jada and Ajada.
मूलम्
अवस्थान्तरयोगित्वमुपादानत्वमुच्यते ।
गुणाश्रयं वा द्रव्यं स्यात्तच्च द्वेधा प्रकीर्तितम् ॥ ४.२॥
1 द्रव्याश्रयं त्वद्रव्यं स्यात् B.
विश्वास-प्रस्तुतिः
अमिश्र-सत्त्व-राहित्यं
जडत्वम् अनुगद्यते ।
जडं प्रकृति-कालौ द्वौ,
सा सत्त्वादि-गुणत्रया ॥ ४.३॥
कृष्णमाचार्यः (सं)
तत्र जडलक्षणमाह-अमिश्रेति । रजस्तमोभ्यामित्यादिः । रजस्तमो- भ्याममिश्रितं यत् सत्त्वं सत्त्वगुणः, तद्रहितमित्यर्थः । मिश्रसत्त्ववत्त्वमिति तु लक्षणं न वक्तुं शक्यते, जडभेदे काले अव्याप्तेः । कालो हि सिद्धान्ते गुणत्रय- रहितो नित्यश्च । अत एव तस्याप्राकृतनित्यविभूतावपि सद्भाव उपपद्यते । अत एव – “कालं स पचते तत्र न कालस्तत्र वै प्रभुः” इत्यादिकं संगच्छते । पूर्व प्रत्यक्षनिरूपणे प्रकृतिः काल इति जडस्य द्वैविध्ये उक्तेऽपि प्रकृतौ विशेषं वक्तुं पूर्वोक्तमनुभाषते—जडमिति । सेति; प्रकृतिरित्यर्थः । सत्त्वादिगुणत्रयेति ; सत्त्वादिगुणानां त्रयं यस्यामिति बहुव्रीहिः । सत्त्वादिगुणाश्रयेति पाठस्तु तल्लक्षणस्य शुद्धसत्त्वाश्रये नित्यविभूतावतिव्याप्तेर्नादर्तव्यः ।
३
[[३२]]
कृष्णमाचार्यः (En)
- The Jada is that which is devoid of non-mixed Sattvaguna. Jada is of two kinds : Prakrti and Kala. Prakṛti is that which has the three-fold Guna:- Sattva, Rajas and Tamas.
मूलम्
अमिश्रसत्त्वराहित्यं जडत्वमनुगद्यते ।
जडं प्रकृतिकालौ द्वौ सा सत्त्वादिगुणत्रया ॥ ४.३॥
’ स्तः- B.
2 गुणाश्रया - C.
विश्वास-प्रस्तुतिः
प्रकृतिः सा क्षराविद्या-
माया-शब्दैर् निगद्यते ।
कार्योन्मुखत्वावस्था
स्याद् अव्यक्त-व्यपदेश-भाक् ॥ ४.४॥
1 देशनात् - B.
कृष्णमाचार्यः (सं)
प्रकृतिरिति ; पूर्वकारिकोक्तस्य लक्षणस्य लक्ष्यनिर्देशः । प्रकरोति विकारानस्या ईश्वर इति प्रकृतिः । अपादाने क्तिन् प्रत्ययः । सेति प्रकृतेरेव विशेषाभिधानार्थं पुनर्निर्देश; । क्षरेत्यादि । प्रकृतेरेव क्षरेति अविद्येति मायेति च नामान्तरैस्तत्र तत्र व्यपदेशः क्रियत इत्यर्थः । क्षरति विकरोतीति क्षरम्, “क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः " इति श्रुतेः । “ क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते " इति स्मृतेश्च । महदहंकारादिरूपेण विकारित्वादिदं नाम । न विद्येत्यविद्या । नञत्र विरोधे । विद्याविरोधित्वादविद्ये- त्युच्यते, “क्षरं त्वविद्या ह्यमृतं तु विद्या” इत्यादिश्रुतेः । विचित्रसृष्टयुपकरण- त्वात् मायेत्युच्यते । मायाशब्दस्य हि विचित्रकार्यकरत्वं प्रवृत्तिनिमित्तम्,
“तेन मायासहस्रं तच्छम्बरस्याशुगामिना ।
बालस्य रक्षता देहमैकैकश्येन सूदितम् ॥”
इत्यादौ तथा प्रयोगात् । “मायां तु प्रकृतिं विद्यात् ” इति श्रुतिश्च प्रकृतिपर्यायं मायाशब्दमाह । इदं चाचेतनाप्रधानादिनाम्नामप्युपलक्षणम्,
" अचेतना परार्था च नित्या सततविक्रिया " “ प्रधानपुंसोरजयोः” इत्यादिवचनात् । सैव प्रकृतिर्दशान्तरापन्ना अव्यक्तेत्युच्यत इत्याह-कार्येति । सा प्रकृतिर्यदा महत्त्वाद्यवस्थान्तरहेतुभूतं शक्तिविशेषमवलम्बते तदा अव्यक्तमित्युच्यते । इदमुपलक्षणम् —ततः पूर्वतनावस्थान्तराणामपि । तथाहि —मूलप्रकृतेर्महत्त्व- हेतुभूतावस्था अव्यक्तावस्थेत्युच्यते । ततः पूर्वं तिस्रोऽवस्थाः सन्ति । तत्र प्रथमा अविभक्ततमोऽवस्था, यस्यां सा केदारनिक्षिप्तबीजवत् विकारौन्मुख्य-
[[३३]]
रहिता पानकविलीनगुडवत् परमात्मनैकीभावमापन्ना तच्छरीरतयापि चिन्तयि- तुमशक्या परमात्मैकवेद्या सूक्ष्मावतिष्ठते । ततो द्वितीया विभक्ततमोऽवस्था, यत्र सा मृन्निःसृतबीजवत् अक्षरावस्थाप्रात्युन्मुखी भवति । अस्मिन्नवस्थाद्वये तस्यां सदपि चिद्गर्भत्वं न स्फुरति । ततस्तृतीया अक्षरावस्था, यत्र सा सलिलसंसृष्टार्द्रशिथिलावयवबीजतुल्यावस्था मनाक् स्फुरितचिद्गर्भा च वर्तते । अक्षराख्यचिद्गर्भत्वस्येषत्स्फुरणात् तदा सा अक्षरेति व्यपदेशं लभते । ततस्तु- रीया पूर्वोक्ता अव्यक्तावस्था, यत्र सा उच्छूनबीजवदङ्कुरस्थानीयमहदुत्पाद- नोन्मुखी भवति । एवं चतस्रोऽवस्था व्यतीत्य पञ्चम्यामवस्थायां महदाख्या- मापद्यते । एताश्वावस्थाः “अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते, तमः परे देव एकी भवति ” इति सुबालोपनिषदि प्रतिपादिताः ।
४
कृष्णमाचार्यः (En)
- Prakrti is also named as Kşara, Avidyā and Māyā. It is also called Avyakta when it assumes the kinetic state of becoming manifest.
मूलम्
प्रकृतिः सा क्षराविद्यामायाशब्दैर्निगद्यते ।
कार्योन्मुखत्वावस्था स्यादव्यक्तव्यपदेश भाक् ॥ ४.४॥
विश्वास-प्रस्तुतिः
अव्यक्तान् महद्-उत्पत्तिः
सात्त्विकत्वादि-भेदतः ।
अहङ्कारस् ततस् त्रेधा
सात्त्विकत्वादि-भेदभाक् ॥ ४.५॥
कृष्णमाचार्यः (सं)
महदादिसृष्टिमाह—अव्यक्तादिति । कार्यौन्मुख्यविशिष्टाया मूलप्रकृतेरेव महदादिकारणत्वम् ; न तु नैयायिकाभिमतपरमाणूनामित्यर्थः । अनुमानेन परमाणुसाधने तु तस्य लाघवात् त्रसरेणावेव विश्रान्तिरस्तु । यदाहुः- “ अनुमितिविषये लाघवस्यानुसारात् ” इति । अतश्च प्रकृतिविकारो महानिति सिद्धम् । सांख्यास्तु—महान्तमेव बुद्धिपदेन व्यवहरन्तोऽध्यवसायमेव बुद्धिमा- चक्षते । तत्तु अध्यवसायस्यात्मधर्मत्वान्न संगतम् । यदि तु ‘आयुर्वृतम् ’ इति वदध्यवसायहेतुत्वात् महत्यध्यवसायव्यवहार इत्युच्यते, तदा तस्य नाध्य- वसायरूपत्वमित्यायातम् । महतस्त्रैविध्यमाह – सात्त्विकत्वेति । सात्त्विकराज- सतामसभेदेन त्रिविधो महानित्यर्थः । महतस्त्रैगुण्येऽपि तत्तद्गुणप्राचुर्यभेदात् तथा तथा व्यपदेश इति भावः । महतोऽहंकारसृष्टिमाह - अहंकार इति । ततः ; महत इत्यर्थः। अहंकारस्यापि त्रैविध्यमाह — त्रेधेति । सात्त्विकराजसतामस भेदेना-
5
३४
हंकारस्त्रिविध इत्यर्थः । अभिमानोऽहंकार इति सांख्याः । तच्चाभिमानस्यात्मधर्म- त्वादसंगतमिति ज्ञेयम् । पूर्ववत् अभिमानहेतुत्वात् अभिमानत्वव्यपदेशो वा भवतु । अस्याहंकारशब्दवाच्यत्वे निदानं तु अनात्मनि देहादावहंभावहेतुत्वम्, न तु परेषामिवाहमर्थत्वम् । सर्वत्राहमर्थो हि प्रत्यगात्मा, न तु महद्विकारोऽ- हंकारः । एवं चाहंकारशब्दे द्वयी व्युत्पत्तिः । एका अहमर्थभिन्ने देहादौ अहमिति प्रतीतिः । अस्यां व्युत्पत्तौ अहंशब्दात् च्चिप्रत्ययमुत्पाद्य प्रक्रिया कर्तव्या । अन्या तु च्चिप्रत्ययं विना अहमिति प्रतीतिरहंकार इति । तत्राहंकारस्य दोष- त्वात् त्याज्यत्ववचनं विप्रत्ययान्तव्युत्पन्नाहंकारशब्दार्थमभिप्रेत्य । “अथातोऽ- हंकारादेशः ” इत्यादि तु च्चिप्रत्ययरहितव्युत्पन्नाहंकारशब्दार्थमभिप्रेत्येति विवेकः । जडस्यैवाहंकारस्य ज्ञातृत्वमिति मायावादिनः ।
कृष्णमाचार्यः (En)
- The Mahat comes forth from the Avyakta with three divisions : - Sattvika, Rājasa and Tamasa. The Ahamkara comes forth from Mahat with three divisions:—Sāttvika, Rājasa and Tamasa.
मूलम्
अव्यक्तान्महदुत्पत्तिः सात्त्विकत्वादिभेदतः ।
अहङ्कारस्ततस्त्रेधा सात्त्विकत्वादिभेदभाक् ॥ ४.५॥
विश्वास-प्रस्तुतिः
+++(सत्त्व-रजस्-तमो-भेदेन)+++
वैकारिकस्, तैजसश् च,
भूतादिर् इति भेदतः ।
नामान्तराणि सन्त्य् एषाम्
अहङ्कारात्मना सताम् ॥ ४.६॥
कृष्णमाचार्यः (सं)
त्रिविधानाम् अहंकाराणां नामान्तराण्य् आह –वैकारिक इत्यादि ।
सात्त्विकाहंकारस्य वैकारिक इति,
राजसाहंकारस्य तैजस इति,
तामसाहंकारस्य भूतादिर् इति च नाम ।
अहंकारात्मना सताम् एषां वैकारिकादि-नामान्तराणि सन्तीत्यन्वयः ।
६
कृष्णमाचार्यः (En)
- For these three Ahamkaras there are three other names-Vaikarika, Taijasa and Bhutādi respectively.
मूलम्
वैकारिकस्तैजसश्च भूतादिरिति भेदतः ।
नामान्तराणि सन्त्त्येषामहङ्कारात्मना सताम् ॥ ४.६॥
1 सन्त्येवं C.
2 वैकारिकाः C.
विश्वास-प्रस्तुतिः
तेषु वैकारिकात् सात्त्विकाहङ्काराद् उपस्कृतात् ।
एकादशेन्द्रियाणि स्युर् ज्ञान-कर्मेन्द्रियात्मना ॥ ४.७॥
कृष्णमाचार्यः (सं)
[[३५]]
अनन्तरमिन्द्रियाणामुत्पत्तिमाह-तेष्विति । तेषु; त्रिविधेष्वहंकारेषु मध्ये ।
उपस्कृतात् ; तैजसापरनामकराजसाहंकारसहकृतात् । सात्त्विकाहंकारात् वैकारिकापरनामकात् एकादशेन्द्रियाणि स्युरित्यन्वयः । तानि च ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि चेति द्विधा ।
७
कृष्णमाचार्यः (En)
- Among these, from the Sāttvikāhamkāra alias Vaikarika, assisted by the Taijasa, the eleven Indriyas (Organs) come forth with two divisions : - Organs of sense and those of action.
मूलम्
तेषु वैकारिकात्सात्त्विकाहङ्कारादुपस्कृतात् ।
एकादशेन्द्रियाणि स्युर्ज्ञानकर्मेन्द्रियात्मना ॥ ४.७॥
विश्वास-प्रस्तुतिः
ज्ञान-प्रसरणे शक्तं
ज्ञानेन्द्रियम् उदाहृतम् ।
तन्-मनः-श्रोत्र-चक्षुस्-त्वग्-
घ्राण-जिह्वात्मना मतम् ॥ ४.८॥
कृष्णमाचार्यः (सं)
ज्ञानेन्द्रियं लक्षयति-ज्ञानेति । प्रसरणम् ; विकासः । ज्ञानस्य नित्यविभु- त्वाङ्गीकारात् ज्ञानजनकत्वं न लक्षणमुक्तम् । सिद्धान्ते ज्ञानस्य संकोचविकासा- भ्युपगमात् तद्विकासहेतुत्वसंभव इति ज्ञेयम् । तद्विभजते – तदिति । तत्रापि बाह्यान्तरविभागे आन्तरं मनः एकं, बाह्यानि तु श्रोत्रादीनि पञ्चेत्याहत्य षडपि ज्ञानेन्द्रियाणीति ज्ञेयम् । सांख्यास्तु-सर्वप्रवृत्तीनां मनःपूर्वकत्वात् मनः कर्मे- न्द्रियमपीति मन्यन्ते । यदाहुः-
“बुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनात्वगाख्यानि ।
वाक्पाणिपादपायूपस्थं कर्मेन्द्रियं ह्याहुः ॥ उभयात्मकमत्र मनः ॥ "
इति; तन्न, तत्रापि मनसो ज्ञानोत्पादनद्वारैव कर्महेतुत्वमिति ज्ञानेन्द्रियत्वमेवा- यातम् । तच्चैकमेव हृदयदेशवर्ति । कामसंकल्पादयस्तस्यैव वृत्तिभेदाः । यत्तु मायावादिवेदान्तिनो मनस इन्द्रियत्वं नाभ्युपगच्छन्ति, यच्च सांख्याः “ त्रिविधमन्तःकरणम्” इति वदन्तो मनोबुद्धयहंकार भेदेन तस्य त्रैविध्यमाहुः, तत्सर्वमप्रामाणिकमिति हृदयम् ।
८
कृष्णमाचार्यः (En)
[[३६]]
- Those are the sense-organs which have the power of spreading the knowledge. They are considered to be Manas (mind), Srotra (organ of hearing) Caksus (organ of seeing), Tvak (organ of touching), Ghrāna (organ of smelling) and Jihvā (organ of tasting).
मूलम्
ज्ञानप्रसरणे शक्तं ज्ञानेन्द्रियमुदाहृतम् ।
तन्मनःश्रोत्रचक्षुस्त्वग्घ्राणजिह्वात्मना मतम् ॥ ४.८॥
विश्वास-प्रस्तुतिः
मनः स्मृत्य्-आदि-हेतुस् तद्-
बन्ध-मोक्षादि-कारणम् ।+++(5)+++
शब्द-मात्र-ग्रहे शक्तम्
इन्द्रियं श्रोत्रम् उच्यते ॥ ४.९॥
कृष्णमाचार्यः (सं)
मनो निरूपयति- –मन इति । स्मृत्यादीति । प्रत्यभिज्ञादिरादिपदार्थः । बन्धेति । यदाह—
“मन एव मनुष्याणां
कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्ग
मुक्त्यै निर्विषयं तथा ॥ "
इति । श्रोत्रं लक्षयति-शब्दमात्रेति । मनोवारणाय मात्रपदम् । शक्तमिति स्वरूपयोग्यता विवक्षिता ; न तु फलोपधायकत्वमपि । अतोऽन्यासक्तचित्तस्य शब्दाग्रहणेऽपि न दोषः । तच्च मनुष्याणां कर्णशष्कुल्यवच्छिन्नदेशवर्ति । चक्षुःश्रवसां तु नेत्रगोलकवृत्ति । नैयायिकादयस्तु श्रोत्रस्य नाभसत्वमाहुः ; तच्च नास्माकमिष्टमिति भावः ।
९
कृष्णमाचार्यः (En)
- Mind is the cause for ‘recollection and other mental functions. It also leads to bondage and liberation. The sense-organ which has the power to cognise the sound alone is called S’rotra.
मूलम्
मनः स्मृत्यादिहेतुस्तद्बन्धमोक्षादिकारणम् ।
शब्दमात्रग्रहे शक्तमिन्द्रियं श्रोत्रमुच्यते ॥ ४.९॥
विश्वास-प्रस्तुतिः
रूप-मात्र-ग्राहि चक्षुस्
त्वक् स्पर्श-ग्रह-कारणम् ।
गन्धैक-ग्राहकं घ्राणं
रसनं रस-भासकम् ॥ ४.१०॥
कृष्णमाचार्यः (सं)
चक्षुर्निरूपयति—रूपमात्रेति । अत्रापि मात्रपदं पूर्ववत् । चक्षुर्नयन- गोलकवृत्ति । त्वचं लक्षयति - त्वगिति । अत्रापि स्पर्शमात्रेति मात्रपदं निवेश्य लक्षणं वक्तव्यम् । त्वगिन्द्रियं च कृत्स्नदेहाश्रितम्, तत्र सर्वत्रापि स्पर्शो- पलम्भात् । नखदन्तकेशादिषु स्पर्शानुपलम्भस्तु प्राणमान्द्यात् । एवं च सहकारिकारणवैधुर्यप्रयुक्तस्तत्र स्पर्शानुपलम्भ इति ज्ञेयम् । त्वगिन्द्रियं च संयोगेन साक्षाद्वायुतेजोजलपृथिवीग्राहि । स्पर्श तु तत्संबद्धतया गृह्णाति विवेकः । गन्धैकेति ; गन्धमात्रेत्यर्थः । मात्रशब्दः पूर्ववत् । घ्राणं च प्रायः प्राणिनां नासाग्रवर्ति । गजानां तु नासैव हस्त इति घ्राणपाण्योरेकमेवाधिष्ठानम् ।
जिह्वां लक्षयति—रसेति । अत्रापि मात्रपदं निवेश्य व्याख्येयम् ।
१०
कृष्णमाचार्यः (En)
- The sense of sight cognises colour alone. The sense of touch is the means for cognising touch. The sense of smell cognises smell alone. The sense of taste cognises taste alone.
मूलम्
रूपमात्रग्राहि चक्षुस्त्वक् स्पर्शग्रहकारणम् ।
गन्धैकग्राहकं घ्राणं रसनं रसभासकम् ॥ ४.१०॥
विश्वास-प्रस्तुतिः
एषां विषय-सम्बन्धः
संयोगादिः प्रकीर्तितः ।
उच्चारणादि-कर्मैक-
शक्तं कर्मेन्द्रियं मतम् ॥ ४.११॥
कृष्णमाचार्यः (सं)
एषामिति ; श्रोत्रादीन्द्रियाणामित्यर्थः । विषयेति ; शब्दादीत्यर्थः । संयोगादीत्यादिपदेन संयुक्ताश्रयत्वादि गृह्यते । कर्मेन्द्रियाणि लक्षयति— अच्चारणादीति । आदिपदेन संचारादि गृह्यते । कर्मैकेति ; कर्ममात्रेत्यर्थः । अनेन मनोव्यावृत्तिः ।
कृष्णमाचार्यः (En)
- The contact between these (senses) and their objects is said to be direct conjunction etc. The sense of action is considered to be helpful in the action, utterance of words etc.
मूलम्
एषां विषयसम्बन्धः संयोगादिः प्रकीर्तितः ।
उच्चारणादिकर्मैकशक्तं कर्मेन्द्रियं मतम् ॥ ४.११॥
विश्वास-प्रस्तुतिः
पञ्चधा वाक्-पाणि-पाद-
पायूपस्थ-प्रभेदतः ।
वर्णोच्चारण-हेतुर् वाक्
पाणिः शिल्पादिकारणम् ॥ ४.१२॥
कृष्णमाचार्यः (सं)
कर्मेन्द्रियाणि विभजते– पञ्चधेति ; वागिन्द्रियं लक्षयति-वर्णेति । तच्च हृदयादिस्थानाष्टकवर्ति । यदाह-
“ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥”
[[३८]]
इति । पाणीन्द्रियमाह – शिल्पादीति ; चित्रविलेखनादीत्यर्थः । आदानादि- रादिपदार्थः । स च प्रायो मनुष्याणामगुल्यादिवृत्तिः । कचिद् गजादौ तु नासावृत्तिः । कचित्पादादिवृत्तिश्च ।
१२
कृष्णमाचार्यः (En)
- They are of five kinds :—the organ of speech, hand, foot, the organ of execretion and that of genera tion. The organ of speech is the cause for the utterance of letters. Hand is helpful for manual work.
मूलम्
पञ्चधा वाक्पाणिपादपायूपस्थप्रभेदतः ।
वर्णोच्चारणहेतुर्वाक् पाणिः शिल्पादिकारणम् ॥ ४.१२॥
विश्वास-प्रस्तुतिः
सञ्चार-कारणं पादः
पायुर् मल-निवृत्तिकृत् ।
उपस्थः परमानन्द-
हेतुः स्त्री-पुंसयोर् मतः ॥ ४.१३॥
कृष्णमाचार्यः (सं)
पादं लक्षयति -संचारेति । स च मनुष्याणां चरणवृत्तिः, पतगादीनां तु पक्षादिवृत्तिः । पायुमाह-मलेति । स च मनुष्यादीनां तत्तदवयववृत्तिः । क्वचिन्मान्धालादीनामास्यदेशवृत्तिः ।
१३
कृष्णमाचार्यः (En)
- Foot is helpful for (physical) movement. The organ of excretion brings about the removal of excreta. The organ of generation produces great pleasure between a man and a woman.
मूलम्
सञ्चारकारणं पादः पायुर्मलनिवृत्तिकृत् ।
उपस्थः परमानन्दहेतुः स्त्रीपुंसयोर्मतः ॥ ४.१३॥
विश्वास-प्रस्तुतिः
राजसाहङ्क्रिया-युक्त-तामसाहङ्कृतेः पुनः ।
जायते शब्द-तन्मात्रादिकं, भूतादिकारणम् ॥ ४.१४॥
कृष्णमाचार्यः (सं)
एवमेकादशानामिन्द्रियाणां सात्त्विकाहंकारजत्वं निरूप्य तामसाहंकारा- द्भूतोत्पत्तिक्रममाह - राजसेति । अहंक्रिया ; अहंकारः । शब्दतन्मात्रादिक- मित्यादिपदेन स्पर्शतन्मात्रादिकं गृह्यते । अत्रेदमवधेयम्-तामसाहंकारात् शब्द- तन्मात्रमेव साक्षात् जायते । शब्दतन्मात्रादाकाशः । आकाशात् स्पर्शतन्मात्रम् । ततो वायुरित्यादिरीत्या अन्येषां तन्मात्राणां भूतानां चोत्पत्तिरिति । सांख्यास्तु -
‘प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ ”
[[३९]]
इति वदन्तः पञ्चापि तन्मात्राणि साक्षात्तामसाहंकारा देवोत्पन्नानि । तत्र शब्द- तन्मात्रमाकाशारम्भकम् । इतराणि तु तन्मात्राणि पूर्वपूर्वतन्मात्रसहकृतान्युत्त- रोत्तरभूतारम्भकाणीति मन्वते । सा च प्रक्रिया, शब्दतन्मात्राकाशाद्यनन्यथा- सिद्धोपादानक्रमदर्शन्या स्मृत्यादिकया विरुध्यत इत्यनुपादेया । भूतादिकारणम्; भूतानामुपादानकारणमित्यर्थः ।
१४
कृष्णमाचार्यः (En)
- From the Tamasahamkāra associated with (assisted by) the Rājasahaṁkära are produced the subtle elements of sound etc. which produce the elements and the rest.
मूलम्
राजसाहङ्क्रियायुक्ततामसाहङ्कृतेः पुनः ।
जायते शब्दतन्मात्रादिकं भूतादिकारणम् ॥ ४.१४॥
विश्वास-प्रस्तुतिः
भूतानाम् एव सूक्ष्मैक-
पूर्वावस्था-विशेष-कृत् ।
द्रव्यं तन्-मात्रम् इत्य् आहुः
पञ्चधा भूत-पञ्चभिः … ॥ ४.१५॥
कृष्णमाचार्यः (सं)
तन्मात्रसामान्यलक्षणमाह- भूतानामिति । भूतानामव्यवहितपूर्वसूक्ष्मा-
वस्थाविशिष्टं द्रव्यं तन्मात्रमित्यर्थः ।
१५
कृष्णमाचार्यः (En)
- It is called Tanmatra (subtle element) which assumes the specific and primary subtle forms of the elements. They are five according as the elements are.
मूलम्
भूतानामेव सूक्ष्मैकपूर्वावस्थाविशेषकृत् ।
द्रव्यं तन्मात्रमित्याहुः पञ्चधा भूतपञ्चभिः ॥ ४.१५॥
विश्वास-प्रस्तुतिः
… तन्-मात्र–पञ्चकं शब्दाद्य्-
आश्रयत्वेन सम्मतम् ।
भूतानां स्याद् उपादानं,
शब्द-तन्मात्रम् आदिमम् … ॥ ४.१६॥
कृष्णमाचार्यः (सं)
प्रत्येकतन्मात्रलक्षणं तु आकाशादिकं भूतपदस्थाने निवेश्योहनीयम् । तानि च तन्मात्राणि पञ्चधा-
शब्दतन्मात्र–स्पर्शतन्मात्र–रूपतन्मात्र–रसतन्मात्र–गन्धतन्मात्राणीति ।
भूतपञ्चभिः आकाशवायुतेजोऽबवनिरूपैः पञ्चभिर्भूतैः सह [[४०]] तन्मात्राणि पञ्चधेति पूर्वेणान्वयः ।
तन्मात्रलक्षणादिकमुक्त्वा तत्स्वरूपमाह - तन्मात्रेति । शब्दाद्यश्रयत्वेनेति ; अनभिव्यक्तविशेषसूक्ष्मरूपशब्दाद्याश्रयत्वे- नेत्यर्थः । एतेन शब्दतन्मात्रं स्पर्शतन्मात्रमित्यादिव्यवहारबीजमुक्तम् । तच्च तन्मात्रपञ्चकं तत्तद्भूतानामुपादानं भवति । तत्रादिमं शब्दतन्मात्रम् । १६
कृष्णमाचार्यः (En)
16 & 17. The five subtle elements are held to be the abodes of the respective qualities. Sound and others and are the inherent causes of the gross elements.
मूलम्
तन्मात्रपञ्चकं शब्दाद्याश्रयत्वेन सम्मतम् ।
भूतानां स्यादुपादानं शब्दतन्मात्रमादिमम् ॥ ४.१६॥
विश्वास-प्रस्तुतिः
… स्पर्श-तन्मात्रकं रूप-
रस-तन्मात्रके अपि ।
गन्ध-तन्मात्रम् एतत् +++(→तत्-तद्-भूतोपादानं)+++ स्यात्,
खानिल-ज्योतिर्-अब्-भुवः … ॥ ४.१७॥
कृष्णमाचार्यः (सं)
तन्मात्राणि नामतो निर्दिशति -स्पर्शेति । भूतानि नामतो निर्दिशति— खेति । पञ्चभूतानीत्युत्तरेणान्वयः । १७
कृष्णमाचार्यः (En)
The subtle elements are those of sound, touch, colour, taste and smell. The gross elements are Akasa, air, fire, water and earth.
मूलम्
स्पर्शतन्मात्रकं रूपरसतन्मात्रके अपि ।
गन्धतन्मात्रमेतत्स्यात् खानिलज्योतिरब्भुवः ॥ ४.१७॥
विशेषवत् B.
* गन्घतन्मात्रमेतेभ्यः B.
विश्वास-प्रस्तुतिः
… पञ्च भूतानि, तन्मात्र-
स्वरूपं तु निरूप्यते ।
तामसाहङ्कृति-खयोर्
मध्यावस्था-युग् आदिमम्+++(→शब्द-तन्मात्रम्)+++ … ॥ ४.१८॥
कृष्णमाचार्यः (सं)
तन्मात्रस्वरूपमिति ; शब्दादितन्मात्राणां स्व-रूपम् उच्यत इत्यर्थः ।
तामसाहंकाराकाशयोर् या मध्यमावस्था,
तद्-युक् आदिमं शब्द-तन्मात्रम् इत्यर्थः । १८
कृष्णमाचार्यः (En)
- The essential nature of the subtle elements is described as following. The first subtle element is in the stage intermediate between Tamasahaṁkāra and Akasa.
मूलम्
पञ्चभूतानि तन्मात्रस्वरूपं तु निरूप्यते ।
तामसाहङ्कृतिखयोर्मध्यावस्थायुगादिमम् ॥ ४.१८॥
विश्वास-प्रस्तुतिः
शब्दतन्मात्रम्, अस्माच् च
वियद् उत्पद्यते तथा ।
खम् एव सूर्य-स्पन्देन
दिग् इति व्यपदिश्यते ॥ ४.१९॥
कृष्णमाचार्यः (सं)
आकाशोत्पत्तिमाह– अस्माच्च ; शब्दतन्मात्राच्च । वियदुत्पद्यत इति ; अनेनाकाशस्य नित्यत्वादुत्पत्यादिराहित्यवादिनो नैयायिकाः प्रत्युक्ताः । प्रत्यक्षश्चायमाकाशः, उन्मीलितेन चक्षुषा गृह्यमाणत्वात् । खमेवेति ; आकाश
[[४१]]
एव सूर्यपरिस्पन्देनोपाधिना प्राच्यादिदिग्व्यवहारभागित्यर्थः । एतेन दिशो द्रव्यान्तरत्ववादिनो नैयायिकाः प्रत्युक्ताः ।
१९
कृष्णमाचार्यः (En)
- It is the subtle element of sound from which is produced the sky (Akāsa). The sky itself is called Dik (directions) due to the movement of the sun.
मूलम्
शब्दतन्मात्रमस्माच्च वियदुत्पद्यते तथा ।
खमेव सूर्यस्पन्देन दिगिति व्यपदिश्यते ॥ ४.१९॥
विश्वास-प्रस्तुतिः
द्रव्यं तद् आकाश-वाय्वोर्
मध्यावस्था-सुसंयुतम् ।
स्पर्श-तन्मात्रम्, अस्माच् च
वायुर् उत्पद्यते क्रमात् ॥ ४.२०॥
कृष्णमाचार्यः (सं)
स्पर्शतन्मात्रं लक्षयति-— द्रव्यमिति । आकाशादनन्तरं वायोः पूर्वं च या अवस्था, तद्युतं द्रव्यं स्पर्शतन्मात्रमुच्यते । अस्माच्च ; स्पर्शतन्मात्रात् । वायुश्च स्पार्शनप्रत्यक्षविषयः ।
२०
कृष्णमाचार्यः (En)
- The subtle element of touch is in the stage between the sky (Akās/a) and the air. From this is produced the air.
मूलम्
द्रव्यं तदाकाशवाय्वोर्मध्यावस्थासुसंयुतम् ।
स्पर्शतन्मात्रमस्माच्च वायुरुत्पद्यते क्रमात् ॥ ४.२०॥
विश्वास-प्रस्तुतिः
मध्यावस्था-युतं वायु-
तेजसोर् द्रव्यम् उच्यते ।
रूप-तन्मात्रम् इत्य्, अस्मात्
तेज उत्पद्यते क्रमात् ॥ ४.२१॥
कृष्णमाचार्यः (सं)
रूपतन्मात्रं लक्षयति—मध्येति । वायुतेजसोर्मध्यावस्थायुतं द्रव्यं रूप-
तन्मात्रमित्यर्थः । अस्मात् तेज उत्पद्यते ।
२१
कृष्णमाचार्यः (En)
- The subtle element of colour is in the stage between air and fire. From this is produced fire.
मूलम्
मध्यावस्थायुतं वायुतेजसोर्द्रव्यमुच्यते ।
रूपतन्मात्रमित्यस्मात्तेज उत्पद्यते क्रमात् ॥ ४.२१॥
विश्वास-प्रस्तुतिः
मध्यावस्था-युतं तेजः-
पयसोर् द्रव्यम् उच्यते ।
रस-तन्मात्रम् इत्य् अस्मात्
सलिलं खलु जायते ॥ ४.२२॥
कृष्णमाचार्यः (सं)
रसतन्मात्रं लक्षयति – मध्येति । तेजःपयसोर्मध्यावस्थायुतं द्रव्यं रसतन्मात्रमित्यर्थः । अस्मात् पय उत्पद्यते ।
२२
कृष्णमाचार्यः (En)
- The subtle element of taste is in the stage between fire and water. From this water is produced.
मूलम्
मध्यावस्थायुतं तेजःपयसोर्द्रव्यमुच्यते ।
रसतन्मात्रमित्यस्मात्सलिलं खलु जायते ॥ ४.२२॥
[[४२]]
विश्वास-प्रस्तुतिः
मध्यावस्था-युतं वारि-
पृथिव्योर् द्रव्यम् उच्यते ।
गन्ध-तन्मात्रम् इत्य्, अस्मात्
पृथिवी समुदेत्यसौ ॥ ४.२३॥
कृष्णमाचार्यः (सं)
गन्धतन्मात्रं लक्षयति—मध्येति । वारिपृथिव्योर्मध्यावस्थायुतं द्रव्यं गन्धतन्मात्रम् । अस्मात् पृथिव्युत्पद्यते ।
२३
कृष्णमाचार्यः (सं)
- The subtle element of smell is in the stage between water and earth. From this is produced the earth.
मूलम्
मध्यावस्थायुतं वारिपृथिव्योर्द्रव्यमुच्यते ।
गन्धतन्मात्रमित्यस्मात्पृथिवी समुदेत्यसौ ॥ ४.२३॥
विश्वास-प्रस्तुतिः
आद्यं+++(→आकाशः)+++ शब्दवद्, अन्यच्+++(→वायुश्)+++ च
शब्द-स्पर्शवद् उच्यते ।
रूप-शब्द-स्पर्शवत् स्यात्
तृतीयञ्+++(→अग्निः)+++ च, तुरीयकम्+++(→आपः)+++ …॥ ४.२४॥
कृष्णमाचार्यः (सं)
आद्यमिति ; शब्दतन्मात्रमित्यर्थः । शब्दवदिति ; अविशिष्टशब्दवदि- त्यर्थः । अन्यत् ; स्पर्शतन्मात्रमित्यर्थः ।
२४
मूलम्
आद्यं शब्दवदन्यच्च शब्दस्पर्शवदुच्यते ।
रूपशब्दस्पर्शवत्स्यात्तृतीयञ्च तुरीयकम् ॥ ४.२४॥
विश्वास-प्रस्तुतिः
… रूप-शब्द-स्पर्श-रस-
युक्तं, गन्धाधिकं परम्+++(→पृठिवी)+++ ।
तन्मात्र-पञ्चकं भूत-
पञ्चकञ् चैवम् +++(क्रमश)+++ ईरितम् ॥ ४.२५॥
कृष्णमाचार्यः (सं)
परम्; पृथिवीतन्मात्रमित्यर्थः । अनेन भूतानामपि एकद्वित्रादिगुणयोग उक्तप्रायः ।
२५
कृष्णमाचार्यः (En)
24 & 25. The first subtle element has sound; the next sound and touch; the third colour, sound and touth; the fourth colour, sound, touch and taste and the last has smell in addition (to these). The five Bhutas (gross elements) also are said to be of similar nature.
मूलम्
रूपशब्दस्पर्शरसयुक्तं गन्धाधिकं परम् ।
तन्मात्रपञ्चकं भूतपञ्चकञ्चैवमीरितम् ॥ ४.२५॥
विश्वास-प्रस्तुतिः
एवं प्रकृतिर् अव्यक्त-
महदादि-क्रमाद् भिदाम् ।
चतुर्-विंशति-सङ्ख्यानां
प्रापिता सु-निरूपिता ॥ ४.२६॥
कृष्णमाचार्यः (सं)
[[४३]]
चतुर्विंशतीति ; प्रकृतिमहदहंकारास्त्रयः; एकादशेन्द्रियाणि ; तन्मात्र-
पश्ञ्चकं, भूतपञ्चकं चेति चतुर्विंशतिः ।
२६
कृष्णमाचार्यः (En)
- Thus Prakrti has been described with its twenty-four manifestations as Avyakta, Mahat and so on.
मूलम्
एवं प्रकृतिरव्यक्तमहदादिक्रमाद्भिदाम् ।
चतुर्विंशतिसङ्ख्यानां प्रापिता सुनिरूपिता ॥ ४.२६॥
संभेदं B.
विश्वास-प्रस्तुतिः
+++(पञ्चीकरणम्…)+++
भूतानि भगवान् सृष्ट्वा
द्वेधैकैकं विभक्तवान् ।
एकम् एकं विधायांशञ्
चतुर्धान्यं विभक्तवान् ॥ ४.२७॥
कृष्णमाचार्यः (सं)
अनन्तरं पञ्चीकरणम् आह—भूतानीति । पञ्च भूतानीत्यर्थः । एकैकम् ; आकाशादि प्रत्येकम् । एकमिति ; द्वयोरन्यतरं प्रथमं भागम् । एकम् ; अविभक्तम् । अन्यमंशम् ; द्वितीयं भागम् । चतुर्धा विभक्तवान् ।
२७
कृष्णमाचार्यः (En)
- After creating the elements, the Lord divided each of them into two equal parts. Keeping one of the parts unsplit, He split the other into four equal parts.
मूलम्
भूतानि भगवान् सृष्ट्वा द्वेधैकैकं विभक्तवान् ।
एकमेकं विधायांशञ्चतुर्धान्यं विभक्तवान् ॥ ४.२७॥
विश्वास-प्रस्तुतिः
चतुर्धा रचितान् अंशांस्
तत्-तद्-अंशे युनक्ति सः ।
चतुर्थांश-युत-स्वांशैः
पञ्च-भूतान्य् अजीजनत् ॥ ४.२८॥
कृष्णमाचार्यः (सं)
अयमत्राशयः -
तत्तदंशेः; तस्य तस्य भूतस्य द्विधा कृतस्याविभक्तेनार्धभागेन । युनक्ति ; संयोजयति । चतुर्थांशेति ; द्विधाकृतभूतान्तरभागयोर्योऽंशः चतुर्धा कृतः तस्य चतुर्थेनांशेन युतैः स्वांशैरित्यर्थः । पञ्च भूतानि ; आकाशादीनि । :- अण्डसृष्टेः पूर्वतनी सृष्टिः समष्टिसृष्टिपदवाच्या । ततो- ऽनन्तरसृष्टिस्तु व्यष्टिसृष्टिरित्युच्यते । आकाशं प्रथमतो द्विधा विभज्य तत्रैकमंशमविभक्तं स्थापयित्वा, अन्यमंशं चतुर्धा विभजनीयम् । एवं विभागेन प्राप्तेषु चतुर्व्वैशेष्वेकैकमंशं भूतान्तराणां चतुर्णा द्वितीयार्धचतुर्थ- भांगं परिकल्पयेत् । एवं वायुम्; तेजः, अपः, पृथिवीं च कुर्यात् । एवं कृते पञ्चीकृताकाशे प्रथममर्धमाकाशांशः; द्वितीयस्मिन्नर्थे प्रथमचतुर्थोऽशो वायोर्भागः, द्वितीयस्तेजसः ; तृतीयोऽपाम्; तुरीयः पृथिव्याः । एवं वाय्वादा-
४४
वपि । एवंच सर्वेष्वपि भूतेषु सर्वेषामपि भूतानां भागाः सन्ति । तथाप्यधिकं भागमनुरुध्य तत्तद्भूतत्वव्यवहारः । शुक्तिरिति व्यवहारे शुक्तावर्धभागः शुक्तेरेव । अन्यस्मिन्नर्धभागे एकश्चतुर्थोऽंश आकाशस्य, अन्यो वायोः, अन्योऽपाम् ; अन्यस्तेजस इति सर्वभूतांशसंघात एव शुक्तिः । सैव यदि रजतमिति व्यवहियते, तदा तेजोभूतरजतांशोऽष्टमः सन्नपि बहुलं भासमानतया रजतमिति व्यवहियत इति । एवंच, " यथार्थं सर्वविज्ञानमिति वेदविदां मतम्” इति सिद्धान्तः सिध्यति । तथाचाहुः-
इति ।
“द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं चतुर्धा
तैरेकैकस्य भागैः परमनुकलयत्यर्धमर्धे चतुर्भिः । इत्थं पञ्चीकृतैस्तैर्जनयति स जगद्धेतुरण्डादिकार्या-
ण्यैदंपर्यं त्रिवृत्त्वश्रुतिरधिकगिरामक्षमैका निरोद्धुम् ॥ "
२८
कृष्णमाचार्यः (En)
- Then He took the part which was unsplit and had it combined with the other half formed by the combination of the one eighth parts of the other four elements. Thus He created the five gross elements.
मूलम्
चतुर्धा रचितानंशांस्तत्तदंशे युनक्ति सः ।
चतुर्थांशयुतस्वांशैः पञ्चभूतान्यजीजनत् ॥ ४.२८॥
विश्वास-प्रस्तुतिः
अन्यभूतांश-सत्त्वेऽपि
स्वांश-भूयस्त्वतः कृतः ।
पृथ्व्य्-अप्-तेजो-ऽनिल-व्योम-
व्यपदेशो जगत्य् अभूत् ॥ ४.२९॥
कृष्णमाचार्यः (सं)
यदि सर्वत्र भूतेषु सर्वभूतानामंशाः सन्ति, तर्हीतरव्यावृत्ततया पृथि- व्यादिव्यवहारः कथमित्याशङ्कय परिहरति — अन्येति । यत्र यस्य भूतस्यांशो भूयान्, तत्र तद्भूतत्वेन व्यवहारः । यथा पृथिव्या आद्यमर्धे पृथिव्यंशः । अन्यस्मिन्नर्धे भूतान्तराणामष्टमांशा इति पृथिव्यंशस्य भूयस्त्वात् तत्त्वेन व्यवहारः ।
२९
कृष्णमाचार्यः (En)
[[४५]]
- Each gross element is composed of its own major portion, though each has parts of other elements. Hence the five elements have the respective names as earth, water, fire, air and Ākāsa.
मूलम्
अन्यभूतांशसत्त्वेऽपि स्वांशभूयस्त्वतः कृतः ।
पृथ्व्यप्तेजोऽनिलव्योमव्यपदेशो जगत्यभूत् ॥ ४.२९॥
विश्वास-प्रस्तुतिः
पञ्चीकरणम् एतादृग्
उपलक्षयति श्रुतिः ।
भूतैर् महद्-अहङ्-कृत्योः
सप्ती-कृतिर् उपस्कृता ॥ ४.३०॥
कृष्णमाचार्यः (सं)
नन्वेतत् पञ्चीकरणं श्रुतिविरुद्धम् । श्रुतौ हि, " तत्तजोऽसृजत " इत्यादिभिर्वाक्यैः तेजोऽबन्नसृष्टिमुक्त्वा तेषां त्रिवृत्करणमेवोच्यत इत्याशङ्कय समाधत्ते—पञ्चीकरणमिति । श्रुतिः ; त्रिवृत्करणश्रुतिः । एतादृक् पञ्चीकरणमुप- लक्षयति । त्रिवृत्करणवचनं पञ्चीकरणस्याप्युपलक्षकमित्यर्थः । न केवलं पञ्ची- करणस्य, सप्तीकरणस्याप्युपलक्षकमित्याह - भूतैरिति । त्रिवृत्करणश्रुतिः, पञ्च- भूतानि महान् अहंकारः इति सप्तानां पदार्थानां मिथो मिश्रीकरणेन सृष्टेरप्यु- पलक्षणमित्यर्थः ।
३०
कृष्णमाचार्यः (En)
- The Vedic passage purports also this Pañicī- karana (Five-fold combination). When Mahat and Ahamkara also are taken into consideration for the process, then is formed Saptīkarana (Seven-fold combination).
मूलम्
पञ्चीकरणमेतादृगुपलक्षयति श्रुतिः ।
भूतैर्महदहङ्कृत्योः सप्तीकृतिरुपस्कृता ॥ ४.३०॥
विश्वास-प्रस्तुतिः
भूत-पञ्चकम् अव्यक्तम् एते महद्-अहङ्कृती ।
उपादानानि देहस्य, +इन्द्रियाणि प्रतिपूरुषम् … ॥ ४.३१॥
कृष्णमाचार्यः (सं)
नन्वेतावता प्रबन्धेनेन्द्रियाणामाहंकारिकत्वादभौतिकत्वमभ्युपगतमिव भाति । तच्चासंगतम्, प्रमाणविरोधात् । तथाहि भगवद्गीतायाम्-
‘महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥
[[४६]]
इच्छा द्वेषः सुखं दुःखं
संघातश्चेतनाधृतिः ।
एतत् क्षेत्रं समासेन
सविकारम् उदाहृतम् ॥ "
इति क्षेत्रशब्दवाच्यस्य शरीरस्य महाभूतेन्द्रियाद्यात्मकत्वमुक्तम् । शरीरस्य भौतिकत्वात् तदवयवानामिन्द्रियाणामपि भौतिकत्वमङ्गीकृतमेव । तथाच पारमर्षे सूत्रम् ; “घ्राणरसनाचक्षुस्त्वक्छ्रोत्राणीन्द्रियाणि भूतेभ्यः । पृथिव्यापस्तेजो वायुराकाशमिति भूतानि " इति, “भूतविशेषगुणोपलब्धेस्तादात्म्यम् " इति च । किंच शरीरेण सहैवेन्द्रियाण्यपि विनश्यन्ति दृश्यन्ते ।
अतो भौतिकान्य् एवेन्द्रियाणीत्य् आशङ्कायामाह —
भूतपञ्चकमित्यादि ।
भूतपञ्चकम्, पृथिव्यादि-पञ्चकम् ;
अव्यक्तम्, प्रकृतिः;
महान्, अहंकारो भूतादिनामा तामसाहंकारः ;
आहत्याष्टकम् इदं शरीरस्योपादानं भवति ।
इन्द्रियाणि त्विति ।
तुशब्दोऽत्र वैलक्षण्ये, इन्द्रियाणां भौतिकत्वं निषेधति । अनुपूरुषम् ; प्रतिपुरुषम् । भिन्नानीत्यनेनैकेन्द्रियवादोऽपि निरस्तो भवति ।
कृष्णमाचार्यः (En)
31, 32. The five gross elements together with Avyakta, Mahat and Ahamkara act as the inherent or material cause of the human body. But the Indriyas (senses) possessed by different persons are distinct from each other.
मूलम्
भूतपञ्चकमव्यक्तमेते महदहङ्कृती ।
उपादानानि देहस्येन्द्रियाणि प्रतिपूरुषम् ॥ ४.३१॥
विश्वास-प्रस्तुतिः
भिन्नान्य्, आकल्प-कल्पानि
शरीरं भूषयन्ति हि ।+++(5)+++
चेतनैक-नियाम्यं यच्
छरीरं तन् निगद्यते ॥ ४.३२॥
कृष्णमाचार्यः (सं)
यदीन्द्रियाणि न भौतिकानि, नापि शरीरावयवभूतानि ; कस्तर्हि तैः शरीरस्योपकार इत्यत्राह - आकल्पेति । आकल्पोऽलंकारः । यथा कटकादीनि शरीरस्यालंकरणाय शरीरमाश्रित्यावतिष्ठन्ते, तथेन्द्रियाण्यपि शरीरालंकरणाय तदाश्रित्य वर्तन्त इत्यर्थः । अनेन पूर्वोदाहृत- गीतावचनमपि व्याख्यातं भवति । यथा अध्यायारम्भे-
" तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ "
इत्यत्र यच्चेत्यनेन क्षेत्रं यद्द्द्रव्यात्मकमिति, यादृक् चेत्यनेन येषामाश्रयभूतमिति, यद्विकारीत्यनेन यादृशविकारास्पदमिति, यतश्चेत्यनेन यस्मै प्रयोजनायेति, यदित्यनेन यत्स्वरूपमिति च वक्तव्यांशान् प्रस्तुत्य, “महाभूतान्यहंकारः ” इत्यादिना तत्सर्वं विवृतम् । तत्र महाभूतानीत्यर्धेन क्षेत्रं महाभूताद्युपादानकमि— त्युक्तम् । “ इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः” इत्यनेन क्षेत्रमेकादशे- न्द्रियाणां शब्दस्पर्शादीनां चाश्रयभूतमित्युक्तम् । “इच्छा द्वेषः सुखं दुःखम् " इति क्षेत्रविकारा उच्यन्ते । यद्यपीच्छादय आत्मर्धाः, तथापि तस्य ते क्षेत्र- संबन्धप्रयुक्ता इति प्राप्ताप्राप्तविवेकनयेन क्षेत्रविकारा उच्यन्ते । “संघातश्चेतना- धृतिः” इत्यनेन तत्प्रयोजनं तत्स्वरूपं चोक्तम् । अनेनेन्द्रियाणां देहाश्रितत्वमेवोक्तम् ।
[[४७]]
न तु तदवयवत्वमिति भावः । पारमर्षवचनं तु यथाकथंचिदागमा- विरोधेन नेयम् । आगमो हि लयप्रकरणे, “आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते " इति सेन्द्रियाणां तन्मात्राणामहंकारे लयमाह । यदीन्द्रियाणि भौतिकानि, तदा तेषां भूतेष्वेव हि लयो वक्तव्यः । आगमविरोधादेव तेषां भौतिकत्वसाधनतयाभिमतान्यनुमानान्यपि दुष्टान्येव | एवंच शरीरे विनष्टेऽपीन्द्रियाणामाप्रलयं सूक्ष्मरूपेणावस्थितिरिति सिद्धम् ।
अथ प्रसक्तस्य शरीरस्य लक्षणमाह-चेतनैकेति । एकशब्दोऽत्र नैयत्यपरः । नियमेन यत् यस्य चेतनस्य नियाम्यं तत्तस्य शरीरमित्यर्थः । भृत्यानां स्वामिनियाम्यत्वेऽपि तन्नियमनस्य नैयत्याभावेन न तेषां तं प्रति शरीरत्वम् । नन्वेवं चेतनाचेतनानां सर्वेषां नियमेनेश्वर नियाम्यत्वात् ईश्वरं प्रति तेषां शरीरत्वं स्यादिति चेत्, हन्त स एवास्माकं परमः सिद्धान्त इति महता कुतूहलेन तदिष्टापत्त्याभ्युपगच्छामः । चेष्टाश्रयः शरीरम्, इन्द्रियाश्रयः शरीरम्, भोगोपकरणं शरीरमित्यादीनि तु अव्यात्यतिव्याप्त्यादिदुष्टानीति हेयानि । चेष्टाश्रयत्वं घटादावतिव्याप्तम् । इन्द्रियाश्रयत्वं यदीन्द्रियसंयोगित्वं तदा घटादावतिव्याप्तिः । यदीन्द्रियसमवायित्वं तदा सिद्धान्ते समवायानङ्गीकारात् स एव दोषः । परमतरीत्या इन्द्रियावयवेष्वतिव्याप्तं च । भोगायतनत्वं तु गृहारामादावतिव्याप्तम् । शिरःपाण्यादिमत्त्वं तदिति चेत्, तद्रहितेषु स्थावर- शरीरेष्वव्याप्तिः । अतोऽस्मदुक्तमेव लक्षणं साध्विति भावः ।
३१, ३२
कृष्णमाचार्यः (En)
They adorn the body like the jewels. That which is invariably controlled by the sentient being is called its body.
मूलम्
भिन्नान्याकल्पकल्पानि शरीरं भूषयन्ति हि ।
चेतनैकनियाम्यं यच्छरीरं तन्निगद्यते ॥ ४.३२॥
विश्वास-प्रस्तुतिः
शरीरं द्विविधं - नित्यम्
अनित्यम् इति भेदतः ।
भगवन् नित्य-सूरीणां
नित्यं नैसर्गिकं तु तत् ॥ ४.३३॥
कृष्णमाचार्यः (सं)
[[४८]]
शरीरस्य द्वैविध्यमाह—शरीरमिति । नित्यम् ; उत्पत्तिनाशरहितम् । अनित्यम् ; तद्वत् । भगवतः त्रिगुणकालजीवादीनि नित्यशरीराणि । तथा अनन्तगरुडादिनित्यसूरीणां शरीरं नित्यं स्वाभाविकं च ।
३३
कृष्णमाचार्यः (En)
- Body is of two types-eternal and non-eternal. The Lord and the Nityasūris have the eternal one which is natural to them.
मूलम्
शरीरं द्विविधं नित्यमनित्यमिति भेदतः ।
भगवन्नित्यसूरीणां नित्यं नैसर्गिकं तु तत् ॥ ४.३३॥
विश्वास-प्रस्तुतिः
स् अपि तद् द्वेधा
कर्माकर्म-कृतत्वतः ।
अकर्म-कृतम् ईशादेर्
इच्छया परिकल्पितम् ॥ ४.३४॥
कृष्णमाचार्यः (सं)
अनित्यशरीरस्य द्वैविध्यमाह-अनित्यमपीति । कर्मकृतमकर्मकृतं चेति द्वैविध्यमित्यर्थः । तत्राकर्मकृतमाह — ईशादेरिति । महदादिकार्यवर्गः सर्वोऽपी- श्वरस्याकर्मकृतदेह इत्यर्थः । ईश्वरस्याकर्मकत्वात् तस्याकर्मकृतत्वम् । किंतु केवलस्वेच्छाकृतत्वमेवेति भाव्यम् । तथाहि गीयते भगवतैव-
" अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥ "
इति । आत्ममायया ; मदीयया इच्छयेत्यर्थः ।
३४
कृष्णमाचार्यः (En)
- The non-eternal one is two-fold according as it is produced and not produced by Karman. That which is not produced by Karman is possessed by the Lord and Nityasūris as contrived at their will.
मूलम्
अनित्यमपि तद्द्वेधा कर्माकर्मकृतत्वतः ।
अकर्मकृतमीशादेरिच्छया परिकल्पितम् ॥ ४.३४॥
विश्वास-प्रस्तुतिः
तच्च कर्मकृतं द्वेधा
स्वेच्छा-सहकृतं तथा ।
कर्म-मात्र-कृतञ् चेति
+++(परिणयकाङ्क्षिण ऋषेः)+++ सौभर्यादेर् यथा ऽऽदिमम् ॥ ४.३५॥
कृष्णमाचार्यः (सं)
कर्मकृतशरीरभेदमाह–तच्चेति । स्वेच्छासहकृतकर्मकृतं तदसहकृतकेवल- कर्मकृतं चेति द्विधेत्यर्थः । आदिमं स्वेच्छासहवृतं सौभर्यादीनामित्यर्थः । ३५
कृष्णमाचार्यः (En)
- That which is produced by Karman is of two types-produced with the assistance of one’s own [[४९]] desire and produced by Karman only. The bodies of the sage Saubhari and other blessed individuals, belong to the former type.
मूलम्
तच्च कर्मकृतं द्वेधा स्वेच्छासहकृतं तथा ।
कर्ममात्रकृतञ्चेति सौभर्यादेर्यथादिमम् ॥ ४.३५॥
विश्वास-प्रस्तुतिः
द्वितीयम् अस्मदादीनां +++(कर्ममात्रकृतम्)+++
सामान्येन पुनर् द्विधा ।
स्थावरं, जङ्गमञ् चेति,
शिलादि स्थावरं मतम् ॥ ४.३६॥
कृष्णमाचार्यः (सं)
केवलकर्मकृतमाह - द्वितीयमिति । अस्मदादीनामिति ; कर्मपरवशानां संसारिणामित्यर्थः । सामान्येनेति ; नित्यानित्यविभागानादरेण शरीरसामान्यं स्थावरजङ्गमात्मना द्विविधमित्यर्थः । शिलादीति ; काष्ठादय आदिपदग्राह्याः । ३६
कृष्णमाचार्यः (En)
Bodies like those of ours come under the latter type. Again the bodies could be generally classified under two heads of immovable and movable. Stones and similar things are considered immovable.
मूलम्
द्वितीयमस्मदादीनां सामान्येन पुनर्द्विधा ।
स्थावरं जङ्गमञ्चेति शिलादि स्थावरं मतम् ॥ ४.३६॥
विश्वास-प्रस्तुतिः
जङ्गमञ् च द्विधा प्रोक्तं
स्याद् योनिजम् अयोनिजम् ।
योनिजं देव-मानुष्य-
तिर्यग्-आदि-विभागवत् ॥ ४.३७॥
कृष्णमाचार्यः (सं)
जङ्गमस्य द्वैविध्यमाह—–जङ्गमं चेति । योनिजायोनिजभेदेन द्विविध- मित्यर्थः । तत्र योनिजजङ्गमभेदानाह - देवेत्यादि । शुक्रशोणितसंयोगाज्जातं योनिजमित्युच्यते ।
३७
कृष्णमाचार्यः (En)
- The movables are two-fold-those born of the womb (Yonija) and not born of the womb (Ayonija). The devine beings, men and animals are Yonijas (viviparous).
मूलम्
जङ्गमञ्च द्विधा प्रोक्तं स्याद्योनिजमयोनिजम् ।
योनिजं देवमानुष्यतिर्यगादिविभागवत् ॥ ४.३७॥
1 तिर्यङ्नारकिमेदवत A.B. भेदतः G.
विश्वास-प्रस्तुतिः
उद्भिज्-ज+++(←इतीन्द्रगोप-मण्डूकादय)+++–स्वेद-ज+++(←यूकामत्कुणादयः)++++अण्डोत्थ+++(←पक्ष्यादयः)+++-नारक्य्-आख्यम् अयोनिजम् ।
एवं पञ्चीकृतानां +++(भूतानां)+++ स्याद् +++(ब्रह्म-)+++अण्डोत्पादकता स्मृता ॥ ४.३८॥
कृष्णमाचार्यः (सं)
[[५०]]
अयोनिज-जङ्गम-भेदान् आह-उद्भिज्जेत्यादि । उद्भिद्य जायन्त इतीन्द्रगोप-मण्डूकादय उद्भिज्जा इति सुश्रुते । स्वेदजाः यूकामत्कुणादयः । अण्डोत्थाः पक्षिसरीसृपादयः।
नारकि नरकवासिनां शरीरम् । तच्च तेषां पापैरेवोपज- नितमयोनिजमित्यर्थः ।
अनन्तरं पञ्चीकरण प्रयोजनमाह - एवमिति ।
पञ्चीकृतानामिति ; पञ्चीकृतानाम् एवेत्यर्थः । तदुक्तम्-
“नानावीर्याः पृथग्भूतास्
ततस्ते संहतिं विना । नाशक्नुवन् प्रजाः स्रष्टुम्
असमागम्य कृत्स्नशः ॥ "
इति ।
३८
कृष्णमाचार्यः (En)
- Those which are not born from the womb (Ayonijas) are frog etc. (coming out from the earth), insects and vermin (produced by sweat or warm vapour), born from the eggs and those inhabitant of the hell. It is those which are thus combined in five that are considered to produce the Anda (cosmic Egg).
मूलम्
उद्भिज्जस्वेदजाण्डोत्थनारक्याख्यमयोनिजम् ।
एवं पञ्चीकृतानां स्यादण्डोत्पादकता स्मृता ॥ ४.३८॥
उद्भिज्जस्वेदजजराध्वण्डजाख्य A.B. G.
विश्वास-प्रस्तुतिः
अण्डोत्पत्तेः पूर्व-सृष्टिः
समष्टिर्, अत उत्तरा ।
व्यष्टि-सृष्टिर् इति द्वेधा
सृष्टिर् वेदान्ति-सम्मता ॥ ४.३९॥
कृष्णमाचार्यः (सं)
सृष्टिर्द्विधा - समष्टिसृष्टिः, व्यष्टिसृष्टिश्चेति । तत्र अण्डोत्पत्तेः पूर्वतनी या सृष्टिः सा समष्टिसृष्टिरित्युच्यते । अण्डोत्पत्तेरुत्तरं संपद्यमांना सृष्टिः व्यष्टि- सृष्टिरित्युच्यत इत्यर्थः ।
३९
कृष्णमाचार्यः (En)
- The creation which precedes the production of the Anda is called the collective creation and the other which follows it is called the distributive creation. This two-fold creation is acceptable to all Vedantins.
मूलम्
अण्डोत्पत्तेः पूर्वसृष्टिः समष्टिरत उत्तरा ।
व्यष्टिसृष्टिरिति द्वेधा सृष्टिर्वेदान्तिसम्मता ॥ ४.३९॥
विश्वास-प्रस्तुतिः
अव्यक्तादेर् महत्त्वादिर्
अवस्थान्तरम् +++(इति)+++ इष्यते ।
विजातीयान्तरावस्था
चेत् तत्त्वान्तरम् ईर्यते ॥ ४.४०॥
कृष्णमाचार्यः (सं)
[[५१]]
‘अवस्थान्तरयोगित्वमुपादानत्वमुच्यते’ इति पूर्वोक्तस्यावस्थान्तर- पदस्यार्थे विवृणोति अव्यक्तादेरिति । महत्त्वादिरिति । अव्यक्तमेव यदा अव्यक्तावस्थां विहाय महद्रूपावस्थामाधत्ते, सैवावस्थान्तरापत्तिरित्यर्थः । तदेवं तत्त्वानामेव तत्त्वान्तरात्मना परिणतौ विजातीयमवस्थान्तरं निमित्तीकृत्य तत्त्वान्तरत्वेन परिगणनं क्रियत इत्यर्थः ।
४०
कृष्णमाचार्यः (En)
- The manifestation of Avyakta etc. as Mahat etc. is considered to be a condition different from the previous one. If that condition is dissimilar to the previous one, then it is considered to be a different Tattva.
मूलम्
अव्यक्तादेर्महत्त्वादिरवस्थान्तरमिष्यते ।
विजातीयान्तरावस्था चेत्तत्त्वान्तरमीर्यते ॥ ४.४०॥
1 ‘अङ्कुरादेः A.B.
विश्वास-प्रस्तुतिः
इत्थम् अव्यक्त-महद्-अहङ्-कारेन्द्रिय-नामकैः । +++(←यतिभङ्गः)+++
तन्-मात्राणीति तत्त्वानि चतुर्विंशतिधा ऽभवन् ॥ ४.४१॥
कृष्णमाचार्यः (सं)
तदेवं परिनिष्पन्नां तत्त्वसंख्यामाह – इत्थमिति । तत्त्वानि अव्यक्ता-
द्यात्मना चतुर्विंशतिधा परिगण्यन्त इत्यर्थः ।
४१
कृष्णमाचार्यः (En)
- Thus came the twenty-four Tattvas - Avyakta, Mahat, Ahamkāra, Indriyas and Tanmatras.
मूलम्
इत्थमव्यक्तमहदहङ्कारेन्द्रियनामकैः ।
तन्मात्राणीति तत्त्वानि चतुर्विंशतिधाभवन् ॥ ४.४१॥
विश्वास-प्रस्तुतिः
भोग्य-भोगोपकरण-
भोग-स्थानानि चेशितुः ।
जीवस्य च प्रकृत्यादीन्य्
उद्भवन्ति यथायथम् ॥ ४.४२॥
कृष्णमाचार्यः (सं)
एषां जडानां विधान्तरेण विभागमाह-भोग्येत्यादि । ईशितुरीश्वरस्य जीवस्य च भोग्यभोगोपकरणभोगस्थानरूपेण जडतत्त्वानि भवन्तीत्यर्थः । ४२
कृष्णमाचार्यः (En)
- Matter etc. become the objects, means and places of enjoyments for the Lord and the finite souls.
मूलम्
भोग्यभोगोपकरणभोगस्थानानि चेशितुः ।
जीवस्य च प्रकृत्यादीन्युद्भवन्ति यथायथम् ॥ ४.४२॥
’ भोगस्थानानि भूम्यादिभुवनान्यण्डमीदृशम् . G.
विश्वास-प्रस्तुतिः
विषयो भोग्यम्, अक्ष्यादि
भोगोपकरणं मतम् ।
भोग-स्थानं तु भुवनं
तद्-वर्तीन्य् अण्ड-जानि हि ॥ ४.४३॥
कृष्णमाचार्यः (सं)
[[५२]]
भोग्यादीन् विविनक्ति-विषय इति । विषयः श्रोत्रादीन्द्रियविषयः । भोगोपकरणं तु अक्ष्यादि । भोगस्थानानि तु समस्तं भुवनं तदन्तर्वर्तीनि च ब्रह्माण्डजानि ।
४३
कृष्णमाचार्यः (En)
- Bhogya is the object. Eye etc. are considered as the means of enjoyment. The world and those contained therein are places of enjoyment.
मूलम्
विषयो भोग्यमक्ष्यादि भोगोपकरणं मतम् ।
भोगस्थानं तु भुवनं तद्वर्तीन्यण्डजानि हि ॥ ४.४३॥
विश्वास-प्रस्तुतिः
एवं पञ्चीकृतैर् भूतैर्
आरब्धं प्राकृतं भवेत् ।
कपित्थ-फलकाकारम्
अण्डं नाम निगद्यते ॥ ४.४४॥
कृष्णमाचार्यः (सं)
अनन्तरमण्डोत्पत्तिमाह— एवमिति । भूतैः आकाशादिभिः पञ्चभि- स्तत्त्वैः। प्राकृतमण्डम् ; प्राकृतैर्भूतैरारब्धत्वात् प्राकृतत्वमण्डस्य । कपित्थ- फलकाकारमिति निदर्शनम् । यथा कफित्थफलस्यान्तर्भागे सूक्ष्माणि बहूनि बीजानि, तत्संबद्धा मधुरा अमधुराश्च फलांशा अपि विद्यन्ते, तद्वत् अण्डस्यान्तर्-भागेऽपि सूक्ष्माणि बहूनि जीवतत्त्वानि तत्संसृष्टाः सुखदुःखात्मकाः प्राकृत-भागाश्च विद्यन्त इत्यर्थः ।
४४
कृष्णमाचार्यः (En)
- The material world is thus envolved out of the five-fold elements. Anda is in the form of wood- apple (Kapittha).
मूलम्
एवं पञ्चीकृतैर्भूतैरारब्धं प्राकृतं भवेत् ।
कपित्थफलकाकारमण्डं नाम निगद्यते ॥ ४.४४॥
विश्वास-प्रस्तुतिः
जम्बू-द्वीपम् इदं सर्वं
लवणोदधिना ऽऽवृतम् ।
प्लक्ष-द्वीपं ततो ऽपीक्षु-
समुद्रेण प्रवेष्टितम् ॥ ४.४५॥
कृष्णमाचार्यः (सं)
‘सप्त द्वीपा वसुमती” इत्युक्तरीत्या सप्त द्वीपान्याह – जम्बूद्वीपमिदमिति । इदमित्यस्मत्प्रत्यक्षगोचरतामाह । इदं च लवणोदधिना परिवृतम् । ततः लवणसमुद्रादनन्तरं प्रक्षद्वीपं वर्तते । तच्चेक्षुसमुद्रेण परिवृतम् ।
४५
कृष्णमाचार्यः (En)
- This whole Jambudvipa is encircled by the salt ocean. Beyond this, there is Plakṣadvipa with the sea of sugar-cane juice.
मूलम्
जम्बूद्वीपमिदं सर्वं लवणोदधिनावृतम् ।
प्लक्षद्वीपं ततोऽपीक्षुसमुद्रेण प्रवेष्टितम् ॥ ४.४५॥
विश्वास-प्रस्तुतिः
ततस्तु शाल्मलि-द्वीपं
सुरा-सागर-वेष्टितम् ।
कुश-द्वीपं ततः सर्पिः-
समुद्रेण प्रवेष्टितम् ॥ ४.४६॥
कृष्णमाचार्यः (सं)
[[५३]]
ततः इक्षुसमुद्रादनन्तरं शाल्मलिद्वीपं वर्तते । तच्च सुरासमुद्रेण वेष्टितम् । ततः सुरासमुद्रादनन्तरं कुशद्वीपं वर्तते । तच्च सर्पिः समुद्रेण परिवेष्टितम् । ४६
कृष्णमाचार्यः (En)
- Then there is S’almalidvipa with the sea of wine. Then there is Kusadvipa with the sea of clarified butter.
मूलम्
ततस्तु शाल्मलिद्वीपं सुरासागरवेष्टितम् ।
कुशद्वीपं ततः सर्पिः समुद्रेण प्रवेष्टितम् ॥ ४.४६॥
विश्वास-प्रस्तुतिः
क्रौञ्चद्वीपं ततः पश्चाद्
दध्य्-अर्णव-समावृतम् ।
शाक-द्वीपं ततः क्षीर-
समुद्रेण प्रवेष्टितम् ॥ ४.४७॥
कृष्णमाचार्यः (सं)
ततः सर्पिःसमुद्रादनन्तरं क्रौञ्चद्वीपं वर्तते । तच्च दधिसमुद्रेण परिवेष्टि- तम् । ततः दधिसमुद्रादनन्तरं शाकद्वीपं वर्तते । तच्च क्षीरसमुद्रेण वेष्टितम् । ४७
कृष्णमाचार्यः (En)
- Then there is Krauñicadvīpa with the sea of curds and then S’akadvipa with the sea of milk.
मूलम्
क्रौञ्चद्वीपं ततः पश्चाद्दध्यर्णवसमावृतम् ।
शाकद्वीपं ततः क्षीरसमुद्रेण प्रवेष्टितम् ॥ ४.४७॥
विश्वास-प्रस्तुतिः
पुष्कर-द्वीपम् अभितः
शुद्धाम्बुधि-समावृतम् ।
सर्वम् एतद् +हैमभूम्या
ततो वलय-पर्वतः ॥ ४.४८॥
कृष्णमाचार्यः (सं)
अभितः क्षीरसमुद्रस्य समन्तात् पुष्करद्वीपं वर्तते । तच्च शुद्धाम्बुधिना समावृतम् । एतत्सर्वम् निखिलमप्येतत् हॅमभूम्या परिवृतम् । ततः वलयपर्वतः वलयाकारपर्वतो वर्तते ।
४८
कृष्णमाचार्यः (En)
- Then there is Puşkaradvipa encircled by the sea of fresh water. All these are encircled by the golden land. Then there is a circle-shaped mountain.
मूलम्
पुष्करद्वीपमभितः शुद्धाम्बुधिसमावृतम् ।
सर्वमेतद्धैमभूम्या ततो वलयपर्वतः ॥ ४.४८॥
विश्वास-प्रस्तुतिः
अन्धकारावृतः सोऽपि
सोऽपि गर्भोदकेन च ।
ततो ऽण्डम् एकम् एवं
स्याद् भूमेर् ऊर्ध्वम् अधोऽपि च ॥ ४.४९॥
कृष्णमाचार्यः (सं)
[[५४]]
वलयपर्वतोऽप्यन्धकारेण तमसा निबिडो भवति । सोऽपि वलयपर्वतोऽपि गर्भोदकेन परिवृतो भवति । ततोऽण्डं भवति । एवं भूमौ यथा वर्णितं तथा भूमेरूर्ध्वमधश्च बहवो देशा वर्तन्त इत्यवगन्तव्यम् |
४९
कृष्णमाचार्यः (En)
- It is encircled by darkness, that too by Garbhodaka. Anda is thus only one which is above and below the earth.
मूलम्
अन्धकारावृतः सोऽपि सोऽपि गर्भोदकेन च ।
ततोऽण्डमेकमेवं स्याद्भूमेरूर्ध्वमधोऽपि च ॥ ४.४९॥
विश्वास-प्रस्तुतिः
अण्डान्य् एतादृशानि स्युर्
अनन्तानि महाहरेः ।
जल-बुद्बुद-कल्पानि
पुराणोक्तान्य् अनुक्रमात् ॥ ४.५०॥+++(5)+++
कृष्णमाचार्यः (सं)
एतानि सर्वाण्यप्यण्डानि अनन्तानि । तानि सर्वाण्यपि हरेर्विभूतयः जले बुदबुदानीव भासन्ते । एष चाण्डानां क्रमः पुराणेषूक्तः ।
५०
कृष्णमाचार्यः (En)
- Endless (countless) are the Andas of the Great Hari. They are like bubbles of water. They have been enumerated in the order in the Purāņas.
मूलम्
अण्डान्येतादृशानि स्युरनन्तानि महाहरेः ।
जलबुद्बुदकल्पानि पुराणोक्तान्यनुक्रमात् ॥ ४.५०॥
इति वेदान्तकारिकावल्यां प्रकृतिनिरूपणं चतुर्थे प्रकरणम्
1128 | Pizin
451