विश्वास-टिप्पनी
विस्तारः अत्र ।
विश्वास-प्रस्तुतिः
अनुमित्य्-आत्म-विज्ञाने
ऽनुमानं करणं स्मृतम् ।
तच् च लिङ्ग-परामर्शस्
तद्-धेतुर् व्याप्ति-धीर् मता ॥ २.१॥
मूलम्
अनुमित्यात्मविज्ञानेऽनुमानं करणं स्मृतम् ।
तच्च लिङ्गपरामर्शस्तद्धेतुर्व्याप्तिधीर्मता ॥ २.१॥
कृष्णमाचार्यः (सं)
प्रत्यक्ष-निरूपणानन्तरम् अनुमानं निरूपयति — अनुमितीति ।
आत्म-शब्दः स्वरूपपरः।
अनुमिति-रूपे ज्ञाने करणम् अनुमानम् इत्य् अर्थः ।
अनुसृत्य प्रवर्तमानं मानम् अनुमानम् ।
लिङ्ग-प्रत्यक्षम् अनुसृत्य प्रवर्तमानत्वाद् अनुमानं भवति ।
तदाह न्यायभाष्यकारः – तत्पूर्वकम् अनुमानम् इति ।
योगरूढं चेदम् ।
अतः स्मृति-प्रत्यभिज्ञयोः प्रत्यक्षानुगामित्वे ऽपि नानुमानत्वम् ।
लिङ्गपरामर्श इति । लिङ्गस्य साध्यचिह्नभूतस्य हेतोः परामर्शः विवेचनं, साध्यव्याप्यतया पक्षवृत्तितया च विविच्य ज्ञानमित्यर्थः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्श इति पर्यव- सितम् । तद्धेतुः ; परामर्शहेतुः । व्याप्तिधीः; व्याप्तिज्ञानम्। अनुमितिं प्रति व्याप्तिज्ञानं करणम् । व्यापारवदसाधारणकारणं करणम् । परामर्शो व्यापार इति प्राञ्चः। नव्यास्तु-परामर्श एव करणम् । व्यापारवत्त्वं न करणलक्षणनिविष्टम् | अपितु साधकतमं करणमित्येव तल्लक्षणम् । परामर्शजन- कतया अङ्गीकृतं व्याप्तिज्ञानं तु घटं प्रति कुलालपितेवान्यथासिद्धमित्याहुः । तत्र नव्यमतमवलम्ब्य लिङ्गपरामर्शस्यात्र करणत्वोक्तिः । १
कृष्णमाचार्यः (En)
- Anumana (Inference) is the instrument of Anumiti (Inferential cognition). The Anumāna is defined as Linga-Paramarśa (Consideration of middle term). Vyāpti-jñāna (Apprehension of invariable concomitance) is said to be the cause of Paramarśa (consideration).
१८
विश्वास-प्रस्तुतिः
साध्याभावाधिकरणावृत्तित्वं व्याप्तिर् उच्यते ।
व्याप्यस्य +++(पर्वतवत्-)+++पक्ष-वृत्तित्व-धीः परामर्श-नाम-भाक् ॥ २.२॥
कृष्णमाचार्यः (सं)
साहचर्यनियमो व्याप्तिरिति लक्षणे नियमपदार्थं नञ्द्रयघट विविनक्ति—साध्याभावेत्यादि । साध्यस्य वह्न्यादेर्योऽयमभावः, तदधिकरणं तटाकादिः, तदवृत्तित्वं धूमादेरिति लक्षणसमन्वयः । परामर्शलक्षणमाह- व्याप्यस्येति । व्याप्यस्य हेतोः पक्षे पर्वतादौ वर्तमानत्वधीः परामर्श इत्यर्थः । २
कृष्णमाचार्यः (En)
- Vyapti (Invariable concomitance) is that the Hetu (Reason) does not exist where Sadhya (The property to be established) is not found. Paramarśa (consideration) is the knowledge of Vyapya (the middle term) as existing in Paksa (Minor term or the subject).
मूलम्
साध्याभावाधिकरणावृत्तित्वं व्याप्तिरुच्यते ।
व्याप्यस्य पक्षवृत्तित्वधीः परामर्शनामभाक् ॥ २.२॥
विश्वास-प्रस्तुतिः
तज्+++(=परामर्श)+++-जा पक्षे साध्य-मतिर्
अनुमित्य्-आत्मिका मता ।
भूयिष्ठ-साहचर्यैक-
ज्ञानेन व्याप्ति-धीर् भवेत् ॥ २.३॥
कृष्णमाचार्यः (सं)
तज्जा ; परामर्शजा । पक्षे; पर्वतादौ । साध्यस्य वयादेः मतिः अनुमितिरित्यर्थः । व्याप्तिज्ञानोत्पत्तौ कारणमाह-भूयिष्ठेति । साहचर्य सामानाधिकरण्यम् ; भूयिष्ठेन साहचर्यज्ञानेन, साहचर्यस्य भूयो-दर्शनेनेत्यर्थः । ३
कृष्णमाचार्यः (En)
- Anumiti is the Cognition produced by Paramarśa, with reference to the fact that Sadhya is existant in Paksa (the subject ). Vyāpti-jñana (Apprehension of invariable concomitance) springs from frequent observation of Sadhya and Reason as invariably concomitant each other.
मूलम्
तज्जा पक्षे साध्यमतिरनुमित्यात्मिका मता ।
भूयिष्ठसाहचर्यैकज्ञानेन व्याप्तिधीर्भवेत् ॥ २.३॥
1
विश्वास-प्रस्तुतिः
तत्+++(=साहचर्य-ज्ञान)+++-स-पक्षे - स-पक्षस् तु
पूर्वं निश्चित-साध्यकः ।
सन्दिग्ध-साध्यकः पक्षो,
वि-पक्षस् तद्-अभाववान् ॥ २.४॥
कृष्णमाचार्यः (सं)
तत् ; साहचर्यज्ञानम् ।
निश्चितसाध्यवान् सपक्षः, यथा धूमेन वह्नौ साध्ये महानसादिः ।
संदिग्धसाध्यवान् पक्षः, यथा तत्रैव पर्वतादिः । निश्चित- साध्याभाववान् विपक्षः, यथा तत्रैव हृदादिः । ४
कृष्णमाचार्यः (En)
- That observation should be held in Sapakṣa (Definite instance). The Sapaksa is that in which the Sadhya is definitely known to have existed. The Pakṣa (the minor term or the subject) is that in which the existence of Sadhya is doubtful. The Vipakṣa (the nagative instance) is that in which Sadhya is known definitely non-existent.
मूलम्
तत्सपक्षे सपक्षस्तु पूर्वं निश्चितसाध्यकः ।
सन्दिग्धसाध्यकः पक्षो विपक्षस्तदभाववान् ॥ २.४॥
[[१९]]
विश्वास-प्रस्तुतिः
अन्वयी+++(= यत्र a → b)+++ व्यतिरेकी+++(= यत्र ¬b → ¬a)+++ च
किञ्च हेतुर् द्विलक्षणः ।
+++(व्याप्त्य्-अभावे)+++ व्यभिचारी, +++(सर्वत्र-व्याप्त्य्-अभावे)+++ विरुद्धश्,
+++(स्वरूप-+आश्रय-उपाधिष्व् एकतमस्य वाऽसिद्धत्वात् पक्ष-धर्माभावे)+++
चासिद्धः, सत्-प्रतिपक्षकः … +++(हेत्वाभासाः)+++॥ २.५॥
कृष्णमाचार्यः (सं)
हेतुं विभजते- अन्वयीति ।
अन्वयो नाम
“यत्-सत्त्वे यत्-सत्त्वम्” इत्यभिलप्यः साहचर्य-नियमः ।
यथा धूम-सत्त्वे वह्निसत्त्वम् ।
तद्वान् हेतुर् अन्वयीत्य् उच्यते ।
व्यतिरेको नाम “यदभावे यदभाव” इत्यभिलप्यः साहचर्यनियमः ।
यथा वह्न्यभावे धूमाभावः । तद्वान् व्यतिरेकी हेतुः ।
द्विलक्षणः द्विरूपः ।
व्याप्तिः, पक्ष-धर्मता चेति द्वयम् अप्य् अनुमानाङ्गम् ।
तत्रोभयोर् अन्यतरस्य वा विरहे
हेतवो दुष्टा भवन्तीति
ते हेत्वाभासा इत्युच्यन्ते ।
हेतुवद् आपाततो भासन्त इति हेत्वाभासाः ।
तान् आह- व्यभिचारीति ।
व्यभिचारो ऽनियमः ।
हेतुसाध्ययोः साहचर्ये योऽयमनियमः स व्यभिचारः ।
तद्वान् हेतुर्व्यभिचारी ।
स एवानैकान्तिक इत्यप्युच्यते ।
यथा- “पर्वतो धूमवान् वह्नेः” इत्यत्र
“यत्र यत्र वह्निः तत्र तत्र धूम” इति नियमो वक्तुं न शक्यते,
अयोगोले वह्निमत्यपि धूमादृष्टेः ।
अतोऽत्र वह्निर् व्यभिचारी हेतुः ।
विरुद्ध इति ।
साध्याभाव-व्याप्तो हेतुर् विरुद्धः । [[२०]]
यथा- “शब्दो नित्यः कार्यत्वात्” इत्यत्र
कार्यत्व-रूपो हेतुः
साध्याभावेन नित्यत्वाभावेन व्याप्तो भवति ।
असिद्ध इति ।
स च त्रिधा- स्व-रूपासिद्धः, आश्रयासिद्धः, व्याप्यत्वासिद्धश्चेति ।
तत्र प्रथमो यथा- जीवोऽनित्यः, चाक्षुषत्वात् घटवत् इति ।
अत्र जीवे पक्षे चाक्षुषत्वं स्वरूपतोऽसिद्धमिति नानुमानं प्रभवति ।
द्वितीयो यथा - गगनारविन्दं सुरभि, अरविन्दत्वात् इत्य्-अत्र
आश्रय-भूतं गगनारविन्दम् अप्रसिद्धम् ।
सोपाधिकस् तृतीयः ।
यथा- यज्ञियपशुहिंसा अधर्मावहा, हिंसात्वात् इत्यत्र
निषिद्धत्वम् उपाधिः ।
तद्-विशिष्टत्वाद् अयं व्याप्यत्वासिद्धो हेतुः ।
साध्य-व्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः
+++(यथा - “यत्र धूमस् तत्रार्द्रेन्धन-संयोग” इति साध्य-व्यापकता।
“यत्र वह्निस् तत्रार्द्रेन्धनसंयोगो नास्ति - अयो-गोलके यथा” इति साधनाव्यापकता)+++।
सत्-प्रतिपक्षकः;
सन् प्रतिपक्षः साध्याभाव-साधको हेतुर् यस्य स सत्-प्रतिपक्षकः ।
अयं प्रकरण-सम इत्य् अप्य् उच्यते ।
यथा - शब्दो नित्यः, श्रावणत्वात् इत्युक्ते,
शब्दो ऽनित्यः कार्यत्वाद् इत्य्
अनित्यत्व-रूपस्य साध्याभावस्य साधको हेतुः कार्यत्वम् इति । ५
मूलम्
अन्वयी व्यतिरेकी च किञ्च हेतुर्द्विलक्षणः ।
व्यभिचारी विरुद्धश्चासिद्धः सत्प्रतिपक्षकः ॥ २.५॥
विश्वास-प्रस्तुतिः
बाधितश् चेति पञ्चैते
हेत्व्-आभासा न साधकाः ।
एवं +++(स्वगत-निश्चयार्थस्य)+++ स्वार्थानुमानस्य
प्रपञ्चस्तु निरूपितः ॥ २.६॥
कृष्णमाचार्यः (En)
बाधित इति । अयमेव कालात्ययापदिष्ट इत्यप्युच्यते । साध्याभाववत्प- क्षको हेतुर्बाधितः । यथा वह्निरनुष्णः पदार्थत्वात् जलवदिति। अत्र वह्नौ अनुष्णत्वं नास्ति । एते पञ्चापि हेत्वाभासाः हेतुवदापाततो भासन्ते । निष्कर्षे तु न हेतव इत्यर्थः । तस्मात् ते न साध्यस्य साधकाः ।
अनुमानस्य स्वार्थपरार्थत्वभेदेन द्वैविध्यम् अभिप्रेत्य पूर्वोक्तः प्रपञ्चः स्वार्थानुमानस्येत्याह- एवमिति ।
स्वस्य निष्कर्षार्थं प्रवृत्तं स्वार्थम् ।
परबोधनार्थं प्रवृत्तं परार्थम् । ६
कृष्णमाचार्यः (En)
5-6. The Hetu (Reason) is of two kinds — Anvayin (Positive) and Vyatirekin (Negative). The faulty Reasons are unfit to establish the Sadhya by inference. They are five in number, namely - Vyabhicārin (Transgressing), Viruddha (Adverse), Asiddha (Not-established), Satpratipaksa (Having counter-Reason) and Bādhita (Contradicted).
Thus the inference of Svārtha (For one’s own ) has been described in detail.
मूलम्
बाधितश्चेति पञ्चैते हेत्वाभासा न साधकाः ।
एवं स्वार्थानुमानस्य प्रपञ्चस्तु निरूपितः ॥ २.६॥
विश्वास-प्रस्तुतिः
न्याय-जन्यः परामर्शः
परार्थानुमितेः कृते ।
न्यायो ऽवयव-वाक्यानि
+++(वक्ष्यमाणानि)+++ प्रतिज्ञादीनि पञ्च च ॥ २.७॥
कृष्णमाचार्यः (सं)
[[२१]]
परार्थानुमाने विशेषमाह - न्यायेति ।
वक्ष्यमाणं प्रतिज्ञादिपञ्चकं न्यायः ।
तज्-जन्यः परामर्शः परार्थानुमितिं जनयति ।
न्यायावयवानाह - प्रतिज्ञादीति ।
प्रतिज्ञा, हेतुः, उदाहरणम्, उपनयः, निगमनमिति पञ्चावयवाः । ७
कृष्णमाचार्यः (En)
- In the case of Parārthānumāna ( Inference for other’s sake), the Parāmarśa (the consideration of Reason) is produced by the Nyāya (syllogism). The group of the five argumentative sentences namely- Pratijña (Assertion) etc. is called Nyāya.
मूलम्
न्यायजन्यः परामर्शः परार्थानुमितेः कृते ।
न्यायोऽवयववाक्यानि प्रतिज्ञादीनि पञ्च च ॥ २.७॥
विश्वास-प्रस्तुतिः
प्रतिज्ञा साध्यनिर्देशो
हेतुस् तद्वचनं मतम् ।
व्याप्त्य्-उक्ति-पूर्व-दृष्टान्त-
वाग् उदाहरणं भवेत् ॥ २.८॥
कृष्णमाचार्यः (सं)
तत्र प्रतिज्ञा नाम साध्यनिर्देशः ; यथा वह्निमानिति । हेतुर्नाम हेतूक्तिः ; यथा धूमादिति । उदाहरणं नाम व्याप्तिनिर्देशपूर्वकं दृष्टान्तस्य वचनम् ; यथा यो यो धूमवान् स सोऽग्निमान् यथा महानस इति ।
८
कृष्णमाचार्यः (En)
- Pratijñā is mentioning the Sādhya. Hetu is mentioning the Reason. Udaharana is mentioning the example with the statement of Vyapti (concomitance).
मूलम्
प्रतिज्ञा साध्यनिर्देशो हेतुस्तद्वचनं मतम् ।
व्याप्त्युक्तिपूर्वदृष्टान्तवागुदाहरणं भवेत् ॥ २.८॥
विश्वास-प्रस्तुतिः
+++(धूमवद्-)+++व्याप्यस्य पक्ष-वृत्तित्व-
बोधश् चोपनयो मतः ।
उपसंहार-वचनं
भवेन् निगमनं पुनः ॥ २.९॥
कृष्णमाचार्यः (सं)
व्याप्यस्य हेतोः पक्षे पर्वतादौ वर्तमानत्वबोधनमुपनयः । यथा-तथा चायं धूमवानिति । पक्षे साध्यस्योपसंहारवचनं निगमनम् । यथा-तस्मादग्नि- मानिति । इदं च पञ्चावयववाक्योपन्यसनं नैयायिकरीत्या । वेदान्तसिद्धान्तरीत्या तु नैवावयवसंख्यानियमः । मृदुमध्यमोत्तमधियां संग्रहविस्तराभ्यां यावदपेक्षं प्रयोग इति भाव्यम् ।
कृष्णमाचार्यः (En)
- Upanaya is the statement of Vyāpya (Middle term) as existing in Paksa (the subject). Nigamana is the statement concluding the syllogism.
मूलम्
व्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः ।
उपसंहारवचनं भवेन्निगमनं पुनः ॥ २.९॥
इति वेदान्तका रिकावल्यामनुमाननिरूपणं द्वितीयं प्रकरणम्