०१ प्रत्यक्ष-निरूपणान्तम्

विश्वास-प्रस्तुतिः

श्रीमद्-रमा-धवोपज्ञां
नत्वा ऽऽचार्य-परम्पराम् ।
कुर्वे लक्ष्मण-सिद्धान्त-
कारिकां कारिकावलीम् ॥ १.१॥

मूलम्

श्रीमद्रमाधवोपज्ञां नत्वाचार्यपरम्पराम् ।
कुर्वे लक्ष्मणसिद्धान्तकारिकां कारिकावलीम् ॥ १.१॥

कृष्णमाचार्यः (सं)

श्रीः॥ वेदान्तकारिकावलीटिप्पणम्॥

रघुवरचरणद्वन्द्वं तरणिं करवाणि संसृतेस्तरणे । यत्पांसुलेशसङ्गाद् प्रावाप्यभवद्विकल्मषा योषा ॥ श्रीवाससंयमीन्द्रस्य पादुकामघमर्षणीम् ।

प्रणन्नम्य मितं कुर्वे टिप्पणं कारिकावलेः ॥

श्रीमदिति । रमाधवः श्रियः पतिः, उपज्ञा प्रथमज्ञेयो यस्याः सा, ताम् । “ उपज्ञोपक्रमम् ” इत्यादिना नपुंसकत्वं तु तत्पुरुष एव । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ” इति कल्पादौ वेदोपदेशक- रणात् नारायणरूपेणाष्टाक्षर मन्त्रोपदेशकरणाच्च भगवतः परमाचार्यत्वेनाचार्य- परंपरायास्तदुपज्ञत्वम् । तदनुसंधानं च “आचार्याणामसावसावित्या भगवत्तः ” इति श्रुतिविहितम्,

A.

" लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ।

अस्मदाचार्यपर्यन्तां वन्दे गुरुपरंपराम् ॥ "

• इत्यादिसदाचार्यसंप्रदायावगतं चेति ध्येयम् । श्रीमहालक्ष्म्या अप्याचार्यकोटा- वन्तर्भावमवगमयितुं रमाधव इति रमानिर्देश इत्यवगन्तव्यम् । लक्ष्मणसिद्धान्तः श्रीभगवद्रामानुजसिद्धान्तः, तस्य कारिका प्रतिपादिका, ताम् । कारिकावलीति प्रन्थनाम ।

कृष्णमाचार्यः (En)
  1. After bowing down in salutation to the line of spiritual teachers beginning with the Lord of S’ri (Bhagavan Nārāyaṇa) I write the work Karikavali on the principles of the doctrine expounded by S’ri Rāmā- nuja.
विश्वास-प्रस्तुतिः

मान-मेय-विभेदेन
पदार्थो द्वि-विधो मतः ।
मानं प्रत्यक्षानुमान-
शब्द-भेदात् त्रिधा भवेत् ॥ १.२॥

मूलम्

मानमेयविभेदेन पदार्थो द्विविधो मतः ।
मानं प्रत्यक्षानुमानशब्दभेदात् त्रिधा भवेत् ॥ १.२॥

कृष्णमाचार्यः (सं)

पदार्थ इति; पदस्यार्थः पदार्थ इति यद्यत्पदेनाभिधेयं तत्सर्वं गृह्यते । तत्त्वं, पदार्थः, वस्तु, इति पर्यायशब्दाः । एवं च वस्तुसामान्यं द्विधेत्यर्थः । मानं प्रमाणम् । मेयं प्रमेयम् । त्रिधेति ;

‘प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।

त्रयं सुविदितं कार्यं धर्मसिद्धिमभीप्सता ॥ "

इत्याद्याप्ततमवचनात् त्रीण्येव प्रमाणानि । अन्यैरभ्युपगतानामुपमानादीनाम- त्रैवान्तर्भावः ; यथा उपमानार्थापत्त्योरनुमाने, अनुपलब्धेः प्रत्यक्षे । प्रमायाः करणं प्रमाणमिति प्रमाणसामान्यलक्षणम् ।

कृष्णमाचार्यः (En)
  1. The entire Padarthas or entities are of two kinds—Māna (Means of valid knowledge) and Meya (The object of such knowledge). The Mana is again of three divisions- Pratyaksa (Perception), Anumāna(Inference) and S’abda (Verbal testimony).
विश्वास-प्रस्तुतिः

प्रमेयं द्विविधं प्रोक्तं
द्रव्याद्रव्य-विभेदतः ।
जडाजडत्व-भिन्नेऽत्र
द्रव्ये, तद् द्विविधं जडम् ॥ १.३॥

मूलम्

प्रमेयं द्विविधं प्रोक्तं द्रव्याद्रव्यविभेदतः ।
जडाजडत्वभिन्नेऽत्र द्रव्ये तद् द्विविधं जडम् ॥ १.३॥

कृष्णमाचार्यः (सं)

प्रमाविषयः प्रमेयम् । द्रव्यम् उपादानम् । अवस्थान्तरयोगि उपादानम् तद्भिन्नम् अद्रव्यम्; द्रव्यत्वात्यन्ताभाववत् । परत एव प्रकाशं जडम् ; यथा घटादि । स्वयंप्रकाशम् अजडम्; यथा ज्ञानादि । अत्र प्रकाशशब्दो न कान्ति- मत्त्वपरः। किंतु ज्ञानविषयत्वपरः । " ज्ञानमर्थप्रकाशः " इति तत्त्वमुक्ताकलापे । आत्मसिद्धौ च “व्यवहारानुगुण्यवचनः प्रकाशशब्दः " इति । एवं च जडत्वं नाम स्वगोचरज्ञानैकविषयत्वमिति फलितम् । अत्र “ अभिधेयः पदार्थः ; स द्विविधः-भावाभावभेदात् " इति लक्षणावल्यामुदयनोक्तो विभागस्तु न वेदान्तिनां संमतः, तेषां मते अभावस्य भावान्तररूपत्वेन तथा विभागायोगात् । मिथो विरुद्धधर्मपुरस्कारेण निर्देशो हि विभागः । अभावस्य भावान्तररूपत्वं चारम्भणाधिकरणे सूत्रकारैरेवोपपादितम् । घटाभावाभावस्य घटरूपत्वं वदद्भिः परैरभ्युपगतं च । षोढासप्तधादिविभागस्तु न मुमुक्षूपयोगीत्युपेक्षितः । ३

कृष्णमाचार्यः (En)
  1. The Meya is of two kinds — Dravya (Subs- tance) and Adravya (Non-Substance). Among these two divisions, the Dravya is of two kinds-Jaḍa and Ajada. The Jada is of two kinds.

[Note. The Jada is that which can be cognized For instance the only with the aid of external means. Pot can be cognized only with the aid of our knowledge.+++(5)+++ If the knowledge ceases to function, the pot cannot be cognized. But the case of Ajada is different. It is cognizable even without the aid of external means. For instance the Atman is cognizable by self even with out the aid of the knowledge. Likewise the cognition [[४]] which is an attribute of the Atman is cognizable by him even without the aid of external means i.e. another knowledge, when it operates with an object.]

विश्वास-प्रस्तुतिः

+++(जडम्)+++ प्रकृतिः काल इत्य्, आद्या
चतुर्विंशतिधा मता ।
कालस् तूपाधि-भेदेन
त्रिविधः परिकीर्त्यते ॥ १.४॥

मूलम्

प्रकृतिः काल इत्याद्या चतुर्विंशतिधा मता ।
कालस्तूपाधिभेदेन त्रिविधः परिकीर्त्यते ॥ १.४॥

कृष्णमाचार्यः (सं)

प्रकृतिः काल इति द्विविधं जडमिति पूर्वेणान्वयः । प्रकृतिस्त्रिगुणम् । नित्यविभूतेर्जडत्वं त्वेकदेशिनां मतं, न सिद्धान्तिनाम् । आद्या ; प्रकृतिरित्यर्थः । चतुर्विंशतिधेति–प्रकृतिमहदहंकारास्त्रयः, एकादशेन्द्रियाणि, पञ्च तन्मात्राणि, पञ्च भूतानीत्याहत्य चतुर्विंशतिः । उपाधिः भूतभविष्यद्वर्तमानरूपः । त्रिविध इति ; कलाकाष्ठादिरूपबहुविध भेदस्योपलक्षणम् ।

कृष्णमाचार्यः (En)
  1. The two kinds of Jaḍadravya are Prakṛti (The Primary Matter) and Kāla (Time). The former i.e., Prakrti is of twenty-four kinds. The Kala is said to be of three divisions due to its Upadhis (Limiting adjuncts).
विश्वास-प्रस्तुतिः

अजडं तु पराक् प्रत्यग्
इति भेदाद् द्वि-धा स्थितम् ।
पराङ् नित्य-विभूतिश् च
धर्म-भूत-मतिस् तथा ॥ १.५॥

मूलम्

अजडं तु पराक् प्रत्यगिति भेदाद् द्विधा स्थितम् ।
पराङ् नित्यविभूतिश्च धर्मभूतमतिस्तथा ॥ १.५॥

कृष्णमाचार्यः (सं)

अजडभेदमाह-अजडमिति । वस्तुतस्तु पराक्प्रत्यग्विभेदो द्रव्य- सामान्यस्यैव । अतो जडस्य प्रकृत्यादेरपि पराक्त्वं सिद्धम् । तथाचाहुः-

1

‘द्वेधा जडाजडतया प्रत्यक्तदितरतयापि वा द्रव्यम् ।

घोढा त्रिगुणानेहोजीवेश्वरभोगभूमिमतिभेदात् ॥ ”

इति । स्वस्मै भासमानं प्रत्यक् । परस्मा एव भासमानं पराक् । एवं विवक्षाभेदेन भोक्तृभोग्यप्रेरयितृरूपेण चिदचिदीश्वररूपेणापि विभागस्तत्र तत्र शास्त्रेषु कृतो ज्ञेयः । नित्यविभूतिः शुद्धसत्त्वमयो लोकस्तदन्तर्गताश्च । विभूतिर्नाम स्वाति-

1 कीर्तितः

शयाधानार्थे नियन्तव्यं वस्तु । धर्मभूतमतिः; जीवेश्वरयोर्धर्मभूतं ज्ञानम् । ज्ञातु- ज्ञेयावभासो मतिः । जीवेश्वरयोर्धर्मिणोरपि ज्ञानव्यपदेशस्य प्रामाणिकत्वात् तद्व्यावृत्तये धर्मभूतेति विशेषणम् । धर्ममतिरित्युक्ते धर्मस्य मतिरित्यविवक्षितार्थ- प्रतीतिः स्यादिति तद्व्यावृत्तये भूतपदप्रयोगः ।

कृष्णमाचार्यः (En)
  1. The Ajada is held to be of two kinds — Parāk and Pratyak. The Parāk are—— Nityavibhūti (The eternal world) and Dharmabhutajñāna (The attributive knowledge).

[The Parāk is that which is not Self-aware. The Pratyak is that which is Self-aware. These two may be equalized with Inanimate and Animate respectively.]

विश्वास-प्रस्तुतिः

प्रत्यग् जीवेश्वर-भिदा-
शाली, जीवः पुनस् त्रिधा ।
बद्धो मुक्तो नित्य इति
बद्धस् तु द्विविधो भवेत् ॥ १.६॥

मूलम्

प्रत्यग्जीवेश्वरभिदाशाली जीवः पुनस्त्रिधा ।
बद्धो मुक्तो नित्य इति बद्धस्तु द्विविधो भवेत् ॥ १.६॥

कृष्णमाचार्यः (सं)

प्रत्यग्विभागमाह — जीवेश्वरेति । स्वस्मै स्वयं प्रकाशमानं प्रत्यगिति लक्षणं पूर्वमेवोक्तम् । बद्धः कर्मबद्धः । मुक्तः कंचित्कालं बद्धो भूत्वा अनन्तरं भक्ति- प्रपत्योरन्यतरप्रीतभगवत्प्रसादेन कर्मबन्धात् विनिर्मुक्तः । नित्यः कर्मबन्धं विना सदा भगवदनुभवपरः ।

कृष्णमाचार्यः (En)
  1. The Pratyak is of two kinds-Jiva (Individual Souls) and Iśvara (The Ruling Supreme Soul). The Jiva is again of three kinds-Baddha (Bound in Samsāra), Mukta (Freed from Samsāra) and Nitya (Eternally freed from Samsara or never bound in Samsāra). The Baddha is of two kinds.
विश्वास-प्रस्तुतिः

बुभुक्षुश्च मुमुक्षुश्च
बुभुक्षुश्च पुनर्द्विधा ।
अर्थकामपरो धर्म-
परश्चेति विवेचनात् ॥ १.७॥

मूलम्

बुभुक्षुश्च मुमुक्षुश्च बुबुक्षुश्च पुनर्द्विधा ।
अर्थकामपरो धर्मपरश्चेति विवेचनात् ॥ १.७॥

कृष्णमाचार्यः (सं)

पूर्वकारिकाप्रस्तुतं बद्धभेदमाह–बुभुक्षुरिति । बुभुक्षुः प्राकृतभोगेच्छुः । मुमुक्षुः संसारनिवृत्तिपूर्वकाप्राकृतभोगेच्छुः ।

कृष्णमाचार्यः (En)
  1. They are-Bubhuksu (Desirous of worldly enjoyments) and Mumuksu (Desirous of freedom from Samsara and divine bliss.) The Bubhukṣu is again of two kinds-Arthakamapara (Addicted to worldly wealth and pleasure) and Dharmapara (Addicted to Dharma).
विश्वास-प्रस्तुतिः

अन्यदेवपरो विष्णु-
परो धर्मपरो द्विधा ।
मुमुक्षुरपि कैवल्य-
मोक्षयोगाद् द्विधा मतः ॥ १.८॥

मूलम्

अन्यदेवपरो विष्णुपरो धर्मपरो द्विधा ।
मुमुक्षुरपि कैवल्यमोक्षयोगाद् द्विधा मतः ॥ १.८॥

कृष्णमाचार्यः (सं)

अर्थकामपरस्य स्पष्टत्वात्तमुपेक्ष्य धर्मपरभेदमाह– अन्यदेवेति ; देवता- न्तरपरः । अथ मुमुक्षुभेदमाह – कैवल्येति । संसारबन्धनिवृत्तिपूर्वक केवलस्वा- त्मानुभवाभिलाषी । मोक्षेति ; संसारबन्धनिवृत्तिपूर्वकभगवदनुभवाभिलाषी । ८

कृष्णमाचार्यः (En)
  1. The Dharmapara is of two kinds-Anyadevapara (Addicted to the deities other than Visnu) and Visņupara (Addicted to Visnu alone ). And the Mumukṣu is of two kinds-Kaivalyapara (Addicted to Kaivalya) and Mokşapara (Addicted to Moksa).

[There is vast difference between Kaivalya and Mokṣa. The former is the Self-realization and the latter is the enjoyments of extreme bliss of Paramātman in his eternal abode.]

विश्वास-प्रस्तुतिः

भक्त-प्रपन्नभेदेन
स तु मोक्षपरो द्विधा ।
द्विधा प्रपन्न एकान्ति+++(=“भगवान् एक एवोपायः”)+++-
परमैकान्ति+++(=“भगवान् एक एवोपायोपेयौ”)+++-भेदतः ॥ १.९॥

मूलम्

भक्तप्रपन्नभेदेन स तु मोक्षपरो द्विधा ।
द्विधा प्रपन्न एकान्तिपरमैकान्तिभेदतः ॥ १.९॥

कृष्णमाचार्यः (सं)

मोक्षपर भेदमाह–भक्तेति । भक्तः भक्तियोगनिष्ठः । प्रपन्नः प्रपत्त्य्-अपर-पर्याय–न्यास-योग-निष्ठः ।
एकान्ती भगवत्-प्रपत्ताव् एवोपायत्व-बुद्ध्या
तस्याम् एकस्याम् एवान्तो निश्चयो यस्य सः ।
परम-पुरुषः श्रीमन्नारायण एवोपायः,
प्रपत्तिस् तु तत्-प्रसादौपयिकीति बुद्धया
परमे एकस्मिन्न् एवान्तो निश्चयो यस्य सः परमैकान्ती श्रीवैष्णवोत्तमः ।

कृष्णमाचार्यः (En)
  1. The Moksapara is of two kinds – Bhakta (Resorting to Bhaktiyoga) and Prapanna (Resorting to

The Prapanna is of two kinds- . Ekantin and Paramaikantin.

[He is Ekantin who seeks the Mokṣa along with other worldly enjoyments from Bhagavan alone.
The Paramaikantin does not desire any other enjoyments except the Bhagavan.

Or he is Ekantin who is resolved to attain Mokṣa by Prapatti alone taking it as a means.
But he is Paramaikantin who is resolved to attain Mokṣa by the means of Bhagavan alone. That is-for him Bhagavan alone is Upaya and Upeya.]

विश्वास-प्रस्तुतिः

दृप्त आर्त इति द्वेधा
परमैकान्त्युदाहृतः ।
ईश्वरः पञ्चधा भिन्नः
पर-व्यूहादि-भेदतः ॥ १.१०॥

मूलम्

दृप्त आर्त इति द्वेधा परमैकान्त्युदाहृतः ।
ईश्वरः पञ्चधा भिन्नः परव्यूहादिभेदतः ॥ १.१०॥

कृष्णमाचार्यः (सं)

परमैकान्तिभेदमाह- -दृप्त इति । दृप्तः ; प्रारब्धकर्मफलभोगविलम्बमङ्गी- कृत्य तदवसाने मोक्षाभिलाषी । आर्तः; क्षणमपि प्रारब्धकर्मफलं संसारताप- मनुभवितुमशक्नुवानोऽवतप्तेनकुलस्थितमिव दुर्दशामनुभवन् प्रपत्त्युत्तरक्षण एव मोक्षाभिलाषी । ईश्वर एक एव ; तथापि तस्मिन्नौपाधिकभेदानाह-परव्यूहा- दीति । विभवान्तर्याम्यर्चा आदिपदग्राह्याः । १०

कृष्णमाचार्यः (En)
  1. The Paramaikāntin is told to be of two kinds-Drpta (Patient of delay) and Arta (Impatient of delay). Isvara is known to be in five-fold forms- Para, Vyūha and so on.

[The five-fold forms are— Para, Vyūha, Vibhava, Antaryāmin and Arca.]

विश्वास-प्रस्तुतिः

पर एकश्, चतुर्धा तु
व्यूहः स्याद् वासुदेवकः ।
सङ्कर्षणश् च प्रद्युम्नो
ऽनिरुद्ध इति भेदतः ॥ १.११॥

मूलम्

पर एकश्चतुर्धा तु व्यूहः स्याद्वासुदेवकः ।
सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्ध इति भेदतः ॥ १.११॥

[[८]]

कृष्णमाचार्यः (सं)

परः; षाड्गुण्यपरिपूर्णः परवासुदेवः । व्यूहान्तर्गतो वासुदेवोऽपि षाड्गुण्यपरिपूर्ण उपासनासौकर्यायावस्थितः । अयं च पररूपादत्यन्ताभिन्न इति संकर्षणादिरूपेण व्यूहत्रयवर्णनं केषांचित् ।

कृष्णमाचार्यः (En)
  1. Para is only one. But Vyuhas are four-fold, namely - Vasudeva, Samkarsana, Pradyumna and Aniruddha.
विश्वास-प्रस्तुतिः

मत्स्यादयस्तु विभवा
अनन्ताश्च प्रकीर्तिताः ।
अन्तर्यामी तु भगवान्
प्रति-देहम् अवस्थितः ॥ १.१२॥

मूलम्

मत्स्यादयस्तु विभवा अनन्ताश्च प्रकीर्तिताः ।
अन्तर्यामी तु भगवान् प्रतिदेहमवस्थितः ॥ १.१२॥

कृष्णमाचार्यः (सं)

मत्स्यादय इति ; हंसहयग्रीवादय आदिपदग्राह्याः । प्रतिदेहमिति ; चिदचित्प्रपञ्चस्य सर्वस्यापि तद्देहत्वात् तत्रान्तर्व्याप्य नियन्तेत्यर्थः ।

१२

कृष्णमाचार्यः (En)
  1. Vibhava forms are told as innumerable constituting Matsya (Fish) and so on. Iśvara abides in every things else as Antaryāmin (Inner Ruler).
विश्वास-प्रस्तुतिः

अर्चावतारः श्रीरङ्ग-
वेङ्कटाद्र्य्-आदिषु स्थितः ।
केशवादि तु तत्त्वज्ञैर्
व्यूहान्तरम् उदाहृतम् ॥ १.१३॥

मूलम्

अर्चावतारः श्रीरङ्गवेङ्कटाद्र्यादिषु स्थितः ।
केशवादि तु तत्त्वज्ञैर्व्यूहान्तरमुदाहृतम् ॥ १.१३॥

कृष्णमाचार्यः (सं)

अर्चेति । अर्चा; पूजासौकर्यार्थ प्रतिमारूपेण दिव्यालयेष्ववस्थितः । केशवादीति ; नारायणवामनादय आदिपदग्राह्याः ।

१३

कृष्णमाचार्यः (En)
  1. Arcās or Images are His avatāras or incarnations enshrined in sacred temples such as SriRangam, Venkatadri etc. The Kesava and other forms are mentioned by the wise as different Vyuhas.
विश्वास-प्रस्तुतिः

सत्त्वं रजस् तमः शब्द-
स्पर्श-रूप-रसास् तथा ।
गन्धः संयोग-शक्ती चेत्य्
अद्रव्यं दशधा मतम् ॥ १.१४॥

मूलम्

सत्त्वं रजस्तमः शब्दस्पर्शरूपरसास्तथा ।
गन्धः संयोगशक्ती चेत्यद्रव्यं दशधा मतम् ॥ १.१४॥

कृष्णमाचार्यः (सं)

अद्रव्यं निरूपयति–सत्त्वमिति । दशधेति; दशधैवेत्यर्थः । वैशेषि- काभिमतानां गुणान्तराणामत्रैवान्तर्भावः । तत्प्रकारश्चान्तिमे परिच्छेदे वक्ष्यते ।

१४

कृष्णमाचार्यः (En)
  1. The Sattva (Goodness), Rajas ( Motivity), Tamas (Darkness or Dullness), S’abda (sound), Sparśa (touch), Rūpa (colour), Rasa (taste), Gandha ( odour), Samyoga (union) and S’akti (Potency) are the ten kinds of Adravya (Non-Substance).
विश्वास-प्रस्तुतिः

प्रमायाः करणं तत्र
प्रमाणं परिकीर्तितम् ।
यथावस्थित-वस्त्व्-एक-
व्यवहारानुगा प्रमा ॥ १.१५॥

मूलम्

प्रमायाः करणं तत्र प्रमाणं परिकीर्तितम् ।
यथावस्थितवस्त्वेकव्यवहारानुगा प्रमा ॥ १.१५॥

कृष्णमाचार्यः (सं)

प्रमाणलक्षणमाह — प्रमाया इति । प्रमाकरणं प्रमाणमिति प्रमाणसामान्य- लक्षणम् । प्रमाया लक्षणमाह-यथावस्थितेति । पदार्थानतिवृत्तावत्र यथाशब्दः । अवस्थितं वस्तुतत्त्वमनतिक्रम्य यथावस्थितम् । यथावस्थितं यद् वस्तु, तस्यैकस्य यो व्यवहारः शब्देन निर्देशः, सः अनुगः यस्याः सा । अर्थव्यवहारं प्रति तज्ज्ञानस्य कारणत्वात् ज्ञानानन्तरमेव व्यवहार इति व्यवहारानुगत्वं प्रमायाः । संशयादिव्यावृत्तये यथावस्थितेति । यथापदेन अन्यथाज्ञानविपरीतज्ञानयोः, अवस्थितपदेन संशयस्य च व्यावृत्तिः ।

१५

कृष्णमाचार्यः (En)
  1. The Pramāna is that which is an instrument or means for the Prama (Valid knowledge). The Prama is the knowledge from which proceeds the verbal usage of a thing in its true and essential nature.
विश्वास-प्रस्तुतिः

सा संशयान्यथा-ज्ञान-
विपरीत-धियो न हि ।
एक-धर्मिक-नानार्थ-
विषया धीस् तु संशयः ॥ १.१६॥

मूलम्

सा संशयान्यथाज्ञानविपरीतधियो न हि ।
एकधर्मिकनानार्थविषया धीस्तु संशयः ॥ १.१६॥

कृष्णमाचार्यः (सं)

विवक्षितां व्यावृत्तिमेव विशदयति — सेति ; प्रमेत्यर्थः । न हि ; संशयादि- भिन्नेत्यर्थः । संशयलक्षणमाह-एकधर्मिकेति । एकविशेष्यकनानाप्रकारकं ज्ञान- मित्यर्थः । यथा ‘अयं स्थाणुर्वा पुरुषो वा’ इति पुरोवर्तिपदार्थविशेष्यकमिथो- विरुद्धस्थाणुत्वपुरुषत्वप्रकारकं ज्ञानं संशयः ।

2

१६

[[१०]]

कृष्णमाचार्यः (En)
  1. The Prama is distinct from Samsaya (doubt) Anyathajñāna (error) and Viparitadhi (error in reverse nature). Samśaya is the knowledge of a thing with various contrary attributes.

[For instance—Is this a post or a man?]

विश्वास-प्रस्तुतिः

धीस् तु धर्म-विपर्यासे
ऽन्यथाज्ञानम् उदाहृतम् ।
सैव धर्मि-विपर्यासे
विपरीत-मतिर् मता ॥ १.१७॥

मूलम्

धीस्तु धर्मविपर्यासेऽन्यथाज्ञानमुदाहृतम् ।
सैव धर्मिविपर्यासे विपरीतमतिर्मता ॥ १.१७॥

कृष्णमाचार्यः (सं)

अन्यथाज्ञानं लक्षयति-धीस्त्विति । धर्मस्य विपर्यासः अन्यथात्वम् ; यथा पीतः शङ्ख इति । अत्र शङ्खे पीतत्वस्यावर्तमानस्य ग्रहणम् । विपरीतधियं लक्षयति—सैवेति । धीरेव धर्मिणो विपर्यासे भ्रम इत्युच्यते ; यथा शुक्तिं दृष्ट्वा रजतधीः। अन्यथाज्ञाने शङ्खत्वेन शङ्खो ज्ञातः । पीतत्वे परमन्यथा ज्ञानम् | भ्रमे तु शुक्तित्वेन शुक्तिर्न ज्ञाता ; किंतु इदंत्वेन सामान्यत इति विशेषः । अत्रेदमवधेयम्–अन्यथाज्ञानं नाम धर्मिणि ज्ञात एव धर्मस्यान्यथाभूतस्य ज्ञानम् । तत्र धर्म एकोऽनेको वा भवितुमर्हति । यथा पीतः शङ्ख इत्याद्यः । एकमेव वस्तु सद्विलक्षणम् असद्विलक्षणं सत् अनिर्वचनीयमित्यन्त्यः । संशयादस्य भेदस्तु संशये धर्मयोर्विरोधप्रतिभासः । अत्र तु वस्तुतस्तयोर्विरोधेऽपि अवि- रोधाभिमान इति ।

१७

कृष्णमाचार्यः (En)
  1. The Anyathājñana ( error) is the knowledge of a thing with a false attribute. The Viparitadhi (error in revese nature) is the knowledge mistaking a thing itself for another thing.

[Anyathājñāna is — The conch is yellow. Viparitadhi is-This (shell) is silver.]

विश्वास-प्रस्तुतिः

साक्षात्कार-प्रमा-हेतुः
प्रत्यक्षं मानम् ईरितम् ।
स-विकल्पो निर्विकल्पः
साक्षात्कारो द्विधा भवेत् ॥ १.१८॥

मूलम्

साक्षात्कारप्रमाहेतुः प्रत्यक्षं मानमीरितम् ।
सविकल्पो निर्विकल्पः साक्षात्कारो द्विधा भवेत् ॥ १.१८॥

कृष्णमाचार्यः (सं)

[[११]]

प्रत्यक्षं लक्षयति-साक्षात्कारेति । साक्षात्काररूपा इन्द्रियजन्या या प्रमा, तस्या हेतुरित्यर्थः । ‘साक्षात्त्वं विभजते-सविकल्पक इति । प्रमायाः प्रमाणस्य च प्रत्यक्षमिति व्यवहारस्तत्र तत्र परिदृश्यते ।

१८

कृष्णमाचार्यः (En)
  1. The Pratyaksapramāna is that which causes the perceptive and valid congnition. The perception is of two kinds-Savikalpa and Nirvikalpa.
विश्वास-प्रस्तुतिः

ग्रहः प्रथम-पिण्डस्य
निर्विकल्पक उच्यते ।
+++(प्राग्-दृष्ट-स्मृतेः परं)+++ द्वितीय-पिण्ड-ग्रहणं
सविकल्पक-धीर् भवेत् ॥ १.१९॥

मूलम्

ग्रहः प्रथमपिण्डस्य निर्विकल्पक उच्यते ।
द्वितीयपिण्डग्रहणं सविकल्पकधीर्भवेत् ॥ १.१९॥

कृष्णमाचार्यः (सं)

निर्विकल्पकं लक्षयति-ग्रह इति । प्रथमपिण्डस्य प्रत्यवमर्शरहितस्य गवादेः। एवं च विकल्पपदं प्रत्यवमर्शपरम् । प्रत्यवमर्शरहितं ज्ञानं निर्विकल्पकम् । तत्सहितं ज्ञानं सविकल्पकमित्यर्थः । प्रथमपिण्डग्रहणे तस्य पूर्वदृष्टसजातीयतया प्रत्यवमर्शो नास्तीति तन्निर्विकल्पकमित्युच्यते । द्वितीयपिण्डग्रहणे तु तस्य पूर्वदृष्टसजातीयतया प्रत्यवमर्शोऽस्तीति तत् सविकल्पकमित्युच्यते । एतेन निर्विकल्पके विशेषरहितस्य सन्मात्रस्य ग्रहणमिति मतं, जात्यादीनां पृथक्पृथक् ग्रहणमिति च मतं न सिद्धान्तिनामभिमतमित्युक्तं भवति । १९

कृष्णमाचार्यः (En)
  1. The Nirvikalpaka is the cognition of a first thing perceived for the first time. The Savikalpaka is the cognition obtained by the perception of another thing of the same kind that was perceived once before with a recollection on it.
विश्वास-प्रस्तुतिः

एतद् +++(साक्षात्त्वम्)+++ इन्द्रिय-सापेक्षम्
अनपेक्षञ्च दृश्यते ।
अनपेक्षं स्वतः-सिद्धं +++(योगादिना)+++
दिव्यं चेति द्विधा मतम् ॥ १.२०॥

मूलम्

एतदिन्द्रियसापेक्षमनपेक्षञ्च दृश्यते ।
अनपेक्षं स्वतः सिद्धं दिव्यं चेति द्विधा मतम् ॥ १.२०॥

कृष्णमाचार्यः (सं)

एतत् साक्षात्त्वम् ।
इन्द्रियेति ; प्राकृतबाह्येन्द्रियेत्यर्थः ।
अनपेक्षम् ; इन्द्रियानपेक्षम् ।
तत्रेन्द्रियापेक्षम् अयोगिष्व् अस्मादृशेषु सुप्रसिद्धम्
इति तदुपेक्ष्य
तद्-अनपेक्षम् उपपादयति- अनपेक्षमिति ।
स्वतः सिद्धम् ; स्वप्रयत्नेन योगादिना सिद्धम् ।
दिव्यं स्वप्रयत्नम् अनपेक्ष्य
देव-प्रसादात् समासादितम् ।

[[१२]]

अत्रेदं बोध्यम्-
योगिप्रत्यक्षं प्रकृष्टादृष्टविशेष-जं युक्तावस्थायां मनो-मात्र-जन्यम् ।
अ-युक्तावस्थायां तु बाह्येन्द्रिय-जन्यम् ।
दिव्य-प्रत्यक्षम् अपि
ईश्वर-प्रसाद-समधिगत-दिव्येन्द्रिय-जन्यम् एव ।

यथोक्तम्,

“दिव्यं ददामि ते चक्षुः
पश्य मे योगम् ऐश्वरम् ।
तत् सर्वं धर्म-वीर्येण
यथावत् संप्रपश्यसि ॥ "

इति । २०

कृष्णमाचार्यः (En)
  1. This perception is also of another two kinds : Indriyāpekṣa (Dependent on senses) and Indriyanapekṣa (Independent on senses). The latter is also of two kinds : Svatassiddha (Self-acquired) and Divya (Divine).
विश्वास-प्रस्तुतिः

योगजं तु स्वतः-सिद्धम्
अन्यत् स्वामि-प्रसादजम् ।
अर्वाचीनम् इदं सर्वम्
आमनन्ति विचक्षणाः ॥ १.२१॥

मूलम्

योगजं तु स्वतः सिद्धमन्यत्स्वामिप्रसादजम् ।
अर्वाचीनमिदं सर्वमामनन्ति विचक्षणाः ॥ १.२१॥

कृष्णमाचार्यः (सं)

अर्वाचीनम् ; आधुनिकम्। इदं सर्वम् ; अ-योगि–योगि–दिव्य-रूपम् इत्यर्थः । २१

कृष्णमाचार्यः (En)
  1. Svatassiddha is a perception acquired through the power of yoga and the other i.e. Divya is obtained by the grace of the Lord Bhagavan. The wise men call all these as recent.
विश्वास-प्रस्तुतिः

नित्य-मुक्तेश्वर-ज्ञानम्
अनर्वाचीनम् उच्यते ।
स्मृतिः प्रमैव प्राचीना-
ऽनुभवाज् जायते हि सा ॥ १.२२॥

मूलम्

नित्यमुक्तेश्वरज्ञानमनर्वाचीनमुच्यते ।
स्मृतिः प्रमैव प्राचीनानुभवाज्जायते हि सा ॥ १.२२॥

कृष्णमाचार्यः (सं)

अनर्वाचीनम् ; अनाधुनिकं । मुक्तानां मुक्तिप्राप्त्यनन्तरं दृष्टं ज्ञानं नित्य- मेवेत्यर्थः । स्मृतेरप्रामाण्यं नैयायिकादय आमनन्ति ; तन्निराकरोति - स्मृति- रिति । प्रमैव ; प्रत्यक्षप्रमैव । तत्र हेतुमाह-प्राचीनेति । २२

कृष्णमाचार्यः (En)
  1. The perception of the Nityas, Muktas and Isvara is called ancient. The Smrti (Recollection) also is Prama (Valid Cognition) since it is produced by the previous apprehension (Anubhava).

[[१३]]

विश्वास-प्रस्तुतिः

सदृशादृष्ट-चिन्ताद्यैः
संस्कारोद्बोधने सति +++(सा स्मृतिः)+++।
स्मृतिवत् प्रत्यभिज्ञा ऽपि
प्रत्यक्षे ऽन्तर् भवत्य् असौ ॥ १.२३॥

मूलम्

सदृशादृष्टचिन्ताद्यैः संस्कारोद्बोधने सति ।
स्मृतिवत्प्रत्यभिज्ञापि प्रत्यक्षेऽन्तर्भवत्यसौ ॥ १.२३॥

कृष्णमाचार्यः (सं)

सदृशेत्याद्यर्धे पूर्वान्वयि । प्रत्यभिज्ञा ; सोऽयं देवदत्त इत्यादिरूपा । २३

कृष्णमाचार्यः (En)
  1. The Smrti is produced when the Samskāra (Reminiscent impression) is aroused by seeing a similar thing, Adrsta (Invisible effect of Karman) and Cinta (Deep thinking) etc. Like recollection, Pratyabhijñā (Recognition) also is included under Perception.
विश्वास-प्रस्तुतिः

पुण्य-पूरुष-निष्ठा ऽपि
प्रतिभा ऽत्रैव सम्मता ।
“यथार्थे सर्व-विज्ञानम्”
इति यामुन-भाषितम् ॥ १.२४॥

मूलम्

पुण्यपूरुषनिष्ठापि प्रतिभात्रैव सम्मता ।
यथार्थे सर्वविज्ञानमिति यामुनभाषितम् ॥ १.२४॥

कृष्णमाचार्यः (सं)

प्रतिभा ; “बुद्धिर्नवनवोन्मेषशालिनी प्रतिभा मता” इति लक्षिता । अत्रैव ; प्रत्यक्ष एव । सर्वविज्ञानम्; परैरयथार्थतयाभ्युपगतं भ्रमादिकमपि यथार्थमेवेत्यर्थः । तथाहि —पञ्चीकरणप्रक्रियया सर्वेषु प्राकृतेषु वस्तुषु सर्व- “भूतांशाः सन्त्येव । अत एव शुक्तिकायामपि रजतांशस्य विद्यमानत्वात् रजतसंबन्धि भास्वरत्वादि प्रतीयते । अतस्तत्र रजतज्ञानं नात्यन्तायासत्या- लम्बनम्, किंतु सत्यालम्बनमेव । तर्हि तस्य भ्रमत्वव्यवहारः कथमिति चेत्, विषयव्यवहारबाधात् । अयं भावः - पञ्चीकरणरीत्या सर्वत्र सर्वाशानां सत्त्वेऽपि यत्र वस्तुनि यस्यांशा भूयांसस्तत्र तत्त्वेन व्यवहारः । शुक्तिकायां तु रजतां- शस्याल्पीयस्त्वात् तत्र रजतत्वव्यवहारः पश्चाद्वाध्यत इति तज्ज्ञानस्य भ्रमत्व- व्यवहार इति । एवं स्वप्नादिज्ञानमपि सत्यमेव । तत्तत्पुरुषकर्मानुरूपं तत्तत्पुषमात्रानुभवाय तत्तत्कालिकान् पदार्थान् स्वप्ने परमपुरुषः सृजतीति सिद्धान्तात् ।

२४

कृष्णमाचार्यः (En)
  1. Pratibha (The intuitive faculty of Mind) seen in blessed persons also is included under Perception. It is said by Sri Yamunācārya that all knowledge is real.

[[१४]]

विश्वास-प्रस्तुतिः

+++(अभावस्य पदार्थान्तरत्वं निराकरोति-)+++
भूतले तु घटाभावो
भूतलात्मैव नेतरः ।
मृद्-घटस्य प्राग्-अभावो
ध्वंसस् तस्य कपालकम् ॥ १.२५॥

मूलम्

भूतले तु घटाभावो भूतलात्मैव नेतरः ।
मृद्घटस्य प्रागभावो ध्वंसस्तस्य कपालकम् ॥ १.२५॥

कृष्णमाचार्यः (सं)

अभावस्य पदार्थान्तरत्वं निराकरोति- भूतल इति ।
घटाभावो भूतलरूप एव ।
घटस्य प्रागभावो मृद्रूप एव । एवं घटध्वंसः कपालरूप एवेत्यर्थः ।

२५

कृष्णमाचार्यः (En)
  1. The Non-existence of a pot on the earth is nothing but the surface of the earth. The Prāgabhāva (Antecedent non-existence) of a pot is nothing but the clay. And the Pradhvamsa (destruction) of a pot is nothing but the kapāla (the potsherds).
विश्वास-प्रस्तुतिः

+++(अन्योन्याभावस्य पार्थक्यं निराकरोति—)+++
स्वासाधारणधर्मो हि
भेद-शब्देन कीर्त्यते ।
+++(“तर्हि घटत्वमित्यत्र न पटाकाङ्क्षा, भिन्न” इति भेद-व्यवहारे तु)+++
शब्द-स्वाभाव्य-जा क्वापि
प्रतियोगित्व-धीः कृता ॥ १.२६॥

मूलम्

स्वासाधारणधर्मो हि भेदशब्देन कीर्त्यते ।
शब्दस्वाभाव्यजा क्वापि प्रतियोगित्वधीः कृता ॥ १.२६॥

कृष्णमाचार्यः (सं)

अन्योन्याभावस्य पार्थक्यं निराकरोति— स्वासाधारणेति ।
घटस्य पटाद्भेदो नाम घटत्वरूप एव ।
“तर्हि घटत्वमित्यत्र न पटाकाङ्क्षा, भिन्न” इति व्यवहारे तु
पटाद् इति प्रतियोग्य्-आकाङ्क्षा कुत इत्यत्राह -
शब्द-स्वाभाव्येति ।
शब्द-स्वभाव-प्रयुक्तैषा व्यवस्थेति भावः । २६

कृष्णमाचार्यः (En)
  1. The peculiar or uncommon quality of a thing is mentioned by the term Bheda. That the word Bheda invariably requires the Pratiyogin (The counter correlate) is due to the nature of that word.
विश्वास-प्रस्तुतिः

अन्तःकरण-चैतन्यं
तद्-वृत्त्या विषयेण च ।
चैतन्यं समताऽऽपन्नं
साक्षात्-कारम् अजीजनत् ॥ १.२७॥

इत्य्-आदि-वचनं सर्वं
परोक्तं नात्र सम्मतम् ।
सामान्यं समवायश् च
विशेषो नात्र सम्मतः ॥ १.२८॥

मूलम्

अन्तःकरणचैतन्यं तद्वृत्त्या विषयेण च ।
चैतन्यं समतापन्नं साक्षात्कारमजीजनत् ॥ १.२७॥

इत्यादिवचनं सर्वं परोक्तं नात्र सम्मतम् ।
सामान्यं समवायश्च विशेषो नात्र सम्मतः ॥ १.२८॥

कृष्णमाचार्यः (सं)

[[१५]]

अत्र श्रीशांकराणां मतमनूद्य तत्र स्वानभिमतिमाह — अन्तःकरणेति । चैतन्यमात्माभिन्नं ब्रह्मैव । तच्च चैतन्यमुपाधिभेदात् त्रिधा; प्रमातृचैतन्यम्, प्रमाणचैतन्यम्, प्रमेयचैतन्यं चेति । तत्र यदा चैतन्यमन्तःकरणावच्छिन्नं भवति, तदा तत्र प्रमातृत्वव्यवहारः । वस्तुतोऽन्तःकरणमेव प्रमातृ । तन्निष्ठं प्रमातृत्वं तदवच्छिन्ने चैतन्ये भासत इत्यर्थः । यदा चैतन्यमन्तःकरणवृत्त्य- वच्छिन्नं भवति, तदा तत्र प्रमाणत्वव्यवहारः । यदा तु घटादिविषयावच्छिन्नं भवति, तदा प्रमेयत्वव्यवहार इत्यर्थः । एतत्सर्वं नात्र संमतम् । तथा सामान्य- समवायविशेषाख्याः पदार्थाः न पृथक्परिगणनीयाः, तेषामुक्तेष्वेवान्तर्भावात् । तथाहि —सामान्यं नाम सर्वव्यक्त्यनुगत आकारापरपर्यायोऽवयवसंस्थानविशेष एव । समवायोऽपि संयुक्तविशेषणतैव, नान्यत्पदार्थान्तरम् । विशेषोऽपि तत्तत्पदार्थासाधारणधर्मान्नातिरिच्यते ।

२७, २८

कृष्णमाचार्यः (En)
  1. “The consciousness limited by Antaḥkaraṇa (The internal organ) when becomes closely joined with and non-different from its two other manifestations due to the connection with Vṛtti (activity) and Visaya (the object) brings forth the perceptual consciousness.”

  2. These and other similar sayings of the philosophers of other schools are not acceptable to us. The Sāmānya (generality), Samavāya (Inherent contact) and Visesa (particularity) are not acceptable to us.

विश्वास-प्रस्तुतिः

सङ्ख्यादि-गुण-वर्गस्य
गुण-पार्थक्य-कल्पनम् ।
सूत्र-कार-विरुद्धं यत्
तत् सर्वं परिहास्यते ॥ १.२९॥

मूलम्

सङ्ख्यादिगुणवर्गस्य गुणपार्थक्यकल्पनम् ।
सूत्रकारविरुद्धं यत्तत्सर्वं परिहास्यते ॥ १.२९॥

कृष्णमाचार्यः (सं)

अद्रव्येष्वपि दशातिरिक्तानामनभ्युपगममाह - संख्यादीति । संख्यापरि- माणादीनां पृथक्त्वकल्पनमित्यादिकं सूत्रकारमतविरुद्धमिति तत्सर्वं नानु- मन्यत इत्यर्थः । संख्यादीनां क्लृप्तेष्वन्तर्भावप्रकारोऽत्रैव दशमेऽद्रव्यपरिच्छेदे वक्ष्यते ।

२९

१६

कृष्णमाचार्यः (En)
  1. The enumeration of Samkhyā (number) etc. as separate guņas (qualities) as distinct from our ten guņas is contradicted by the Sutrakāra himself and therefore is rejected.

इति वेदान्तकारिकावल्यां प्रत्यक्षनिरूपणं प्रथमं प्रकरणम् ।