+वेङ्कटार्य-वेदान्त-कारिकावली

TODO: संस्कृत-टीका परिष्कार्या

Source: TW

वेदान्तकारिकावली बुच्चि-वेंकटाचार्यकृता

VEDANTAKĀRIKĀVALĪ OF BUCCI VENKATĀCĀRYA
EDITED BY
PANDIT V. KRISHNAMACHARYA
WITH HIS OWN COMMENTARY AND ENGLISH TRANSLATION
THE ADYAR LIBRARY
1950

कृष्णमाचार्यः (सं)

वेदान्तार्थनितान्तचिन्तनरताः सन्त्येव सन्तो बुधास्
तेषां तोषकृते कृतेति विवृतिर् वेदान्त-पद्यावलेः ।
अन्ये मत्सरिणो मितं-पच-धियो निन्दन्तु नन्दन्तु वा
नैवातो मनसो मनागपि भवेत् सादः प्रसादोऽथवा ॥

इत्थं श्रीशैल-सच्–चक्र-वर्ति-वंश्यः सतां मतः ।
श्रीकृष्णोऽकृत वेदान्त-कारिकावलि-टिप्पणम् ॥
अनेन भगवान् विश्व-सर्गस्थित्य्-अन्तकर्मठः ।
सर्वकर्म-समाराध्यः प्रीयतां देवनायकः ॥