जगद्ब्रह्मणोर्भेदाभेदबोधकतयापाततः परस्परव्याहतानामिव भास- मानानां श्रुतिवाक्यानामविरोधेन शास्त्रीयप्रक्रियां लोकानुभव चानुसृत्य समञ्जसार्थप्रतिपादनादत्युत्कृष्टमिदमौपनिषदं विशिष्टाद्वैतदर्शनमिति बहु- मन्यन्ते विपश्चितः । तदिदं दर्शनम निदंप्रथमश्रुतिप्रमाणसिद्धमपि कैश्चिन्म- तान्तरप्रवर्तकैः स्वस्वमतप्रतिष्ठापनपरैर्मध्ये समुपजनितविच्छेदप्रसरं पुन- र्नाथयामुनादिभिराचार्यवर्यैर्यथापुरं परिवर्धितमभूदिति सार्वलौकिकमेतत् ।
तथा चाहुः-
66
दृष्टे ऽपह्नुत्य्-अभावाद् अनुमिति-विषये लाघवस्यानुसाराच्
छास्त्रेणैवावसेये विहति-विरहिते नास्तिकत्व-प्रहाणात् ।
नाथोपज्ञं प्रवृत्तं, बहुभिर् उपचितं यामुनेय-प्रबन्धैस्
त्रातं सम्यग् यतीन्द्रैर् इदम् अखिल-तमः-कर्शनं दर्शनं नः ॥ ४९ ॥
इति । मृषावादिभिरिव प्रत्यक्षसिद्धेऽर्थेऽपहृवाभावात्, वैशेषिकादिभिरिवानु- मेयेऽर्थेऽनपेक्षितकल्पनाभावात्, निरीश्वरमीमांसकादिभिरिव प्रमाणसिद्धेश्वरा- पह्नवप्रभृत्यपार्थवर्णनाभावाच्च, श्रीनाथमुनिभिः पुनः प्रवर्तितं बहुभिर्यामुनेय- प्रबन्धैः परिवर्धितं यतीन्द्रैर्भगवद्रामानुजमुनिभिः प्रबन्धकरणादिना परित्रात- मिदमेवास्माकं विशिष्टाद्वैतदर्शनं सूर्योदयवदशेषतमोनिरसनक्षममिति तदर्थः । निष्कृष्टस्य ब्रह्मणंस्तदितरचिदचिद्वस्तुवैलक्षण्यं बोधयन्ति भेदश्रुतयः । चिदचिद्वस्तूनां ब्रह्मापृथसिद्धविशेषणत्वात् तद्विशिष्टेटैक्यविवक्षयैकत्वं बोध-
B
X
यन्त्यद्वितीयत्वश्रुतयः । तादृशविशेषणतारहितवस्त्वन्तरनिषेधविवक्षयेतर निषेध- परा नानात्वनिषेधश्रुतय इति ब्रह्मैक्यादिश्रुतीनां सामञ्जस्यमस्मिन्मत एव । मृषावाद्यद्वैतिनां मते तु भेदश्रुतीनां काल्पनिकापरमार्थभेदबोधकत्वेन तात्पर्य वर्णनीयम् । तच्च तासां पर्यायतोऽप्रामाण्याभ्युपगमपर्यवसायीति न सामञ्जस्यं तत्र । द्वैतमात्रवादिनामानन्दतीर्थीयानां मते त्वभेदश्रुतयः क्लिष्टगत्या पदच्छेदादिवर्णनेन नेया इति तत्राप्यस्वारस्यमिति भावः ।
तदेवं विशिष्टाद्वैतमिति पदस्यैषोऽर्थः पर्यवसन्नः - विशिष्टस्य अशेषचिदचिद्विशिष्टस्य ब्रह्मणः अद्वैतमैक्यं विशिष्टाद्वैतमिति । अशेषचिद- चिद्विशिष्टं ब्रह्मैकमेव तत्त्वमिति “ एकमेवाद्वितीयम् ” इत्यादिश्रुतेरर्थः । तत्र चिदचिद्ब्रह्मणां चितामचितां च मिथोऽत्यन्तभेदेऽपि विशिष्टै- क्यादिविवक्षयैकत्वव्यपदेशस्तदितरनिषेधश्चेति । स एषोऽर्थः श्रीभाष्यकारैः श्रीभाष्यादिग्रन्थेषु तत्र तत्र विशकलिततया विस्तरेणोपपादितोऽपि न व्युत्पित्सूनां क्लेशासहमतीनां सुग्रह इति कृत्वा श्रीमद्वेकटनाथदेशिको न्यायसिद्धाञ्जनाख्यं प्रकरणग्रन्थं विरचय्य तत्र तानर्थान् संग्रहेण सुवि- शदमुपपादयामास । तत्र च ग्रन्थे निरूपितस्यार्थस्य स्थेम्ने तत्र तत्रोप- पादनपरा बहवो युक्तयश्च प्रदर्शिताः ।
तदेवं स ग्रन्थोऽप्यधुनातनानामलसमतीनां व्युत्पित्सूनां दुर्ग्रहः संजात इति मत्वा केचन तत्त्वविदस्तानेव सैद्धान्तिकानर्थान् संचित्य युक्ति- जालानि चापोह्यातिसंग्रहेण कतिचन प्रकरणग्रन्थानारचयन् । तेषु च ग्रन्थेषु यतीन्द्रमतदीपिकैका । सन्ति चान्या अप्येतादृश्यः काश्चित्कृतयोऽप्रका- शिताः प्रतीक्षमाणाश्च प्रकाशनावसरम् । परं तु सर्वा अध्येताः कृतयः कुल्या इव महानद्याः श्रीवेदान्तदेशिकोपज्ञन्याय सिद्धानाख्यकृतेरेव समुत्पन्नाः सर्वोपजीव्या भवन्तीत्यत्र न कापि विमतिः । तासु यतीन्द्रमतदीपिका विश्वविश्रुतनाम्नो वाधूलमहाचार्यस्य साक्षादन्तेवासिना श्रीनिवासाचार्येणार-
xi
चिता नातिचिरान् श्रीरामकृष्णमठात् श्रीमद्भिरादिदेवानन्दस्वामिभिः परिशोध्य स्वकीयेनाङ्ग्लभाषापरिवर्तनेन टिप्पण्या च सह प्रकाशमुपानीयत ।
सुरपुराभिजनेषु विद्वत्स्वन्यतमेनाण्णयार्यतनूजेत बुच्चिवेंकटाचार्येण रचितैषा वेदान्तकारिकावली बहुभ्यो हायनेभ्यः पूर्वमान्ध्राक्षरेषु देवनागरा- क्षरेषु च विन्यस्तमुद्रणापि न समीचीनपाठानाविष्कृतवतीति तस्याः समीचीन पाठ निवेशेन प्रकाशनेऽद्य ममोद्यमो न चर्वितचर्वणमनुकरोति । किंचात्र कारिकाणामतिसंक्षिप्तार्थतया प्रतिपादितेषु विषयेषु प्रायशो व्युत्पित्सूनां विशयो जायेतेति मत्वा तदपोहनाय लघ्वी काचन टिप्पण्य- प्यत्र मुद्रणे संयोजिता । अपिच संस्कृतभाषायामतिपरिमितपरिश्रमाणां परं तु भाषान्तरावगतवेदान्ततत्त्वानां विदुषां कृते सर्वसाधारणाङ्ग्लभाषा- विपरिणतिरप्यत्र निवेशिता । एवमेभिर्विशेषैर्बहूपकरिष्यति विज्ञलोकस्येदं प्रकाशनमिति मन्ये । ग्रन्थोऽयमाहत्य त्रयोदशाधिकद्विशत्या पद्यैर्दशसु परिच्छेदेषु यतीन्द्रमतदीपिकामनुसृत्य शारीरकशास्त्रतत्त्वमवबोधयति ।
1
तत्र प्रमाणनिरूपणं प्रमेयनिरूपणं चेति द्वौ भागौ । प्रथमे प्रमाण- निरूपणे प्रत्यक्षानुमानशब्दास्त्रिभिः प्रकरणैर्निरूपिताः । तथा प्रमेयनिरूपणे प्रकृतिकालनित्यविभूतिधर्मभूतज्ञान जीवेश्वराद्रव्याणि सप्तभिः प्रकरणैर्निरूपि- तानि । आहत्य दशाभिः प्रकरणैः परिमितोऽयं ग्रन्थः ।
विशिष्टाद्वैत सिद्धान्तनिर्धारिता विषयाश्चेत्थमवगन्तव्याः । ज्ञानं द्विविधम् — प्रमाणमप्रमाणं चेति । तत्र यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमाणम् । तद्भिन्नमप्रमाणम् । तच्च संशयविपर्ययभेदाद् द्विधा । सामान्य- धर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधप्रतिपन्नमिथोविरोधानेक विशेषस्फुरणं संशयः ; यथा— अयं स्थाणुर्वा, पुरुषो वेति । अन्यस्यान्यथाध्यवसायो विपर्ययः । स च द्विधा – धर्मविपर्यः, धर्मिविपर्ययश्चेति । पीतः शङ्ख इत्याद्यः । शुक्ताविदं रजतमित्यन्त्यः । साक्षात्कारप्रमाहेतुः प्रत्यक्षम् । तच्च
xii
द्विधा – सविकल्पकं निर्विकल्पकं चेति । सजातीयद्वितीयादिवस्तुदर्शने पूर्वदृष्टसजातीयमिदमिति प्रत्यवमर्शपूर्वकं ज्ञानमुदेति । तत् सविकल्पकम् । यत्र त्विदंप्रथमतया वस्तुनो दर्शने तादृशः प्रत्यवमर्शो न जायते, किं तु वस्तुस्वरूपं केवलं भासते तन्निर्विकल्पकम् । उभयत्र वस्तु सप्रकारकमेव भासते । प्रत्यवमर्शसद्भावासद्भावाभ्यां परं भेदः । एतेन निर्विशेषं वस्तु निर्विकल्पकविषय इति परेषां मतमनभिमतं वेदितव्यम् । ननु विशिष्टज्ञानं विशेषणज्ञानपूर्वकं विशिष्टज्ञानत्वात् दण्डीतिज्ञानवदि- त्यनुमानेन विशेषणज्ञानमावश्यकम् । तच्च निर्विशेषमेवेति चेत्, तन्न । एकेन्द्रियवेद्ययोर्विशेषणविशेष्ययोर्युगपदेव ग्रहणसंभवेन तादृशनियमाभावात्, घटज्ञानात्पूर्वे केवलघटत्वज्ञानस्यानुभव विरुद्धत्वाच्च ।
तत्र प्रत्यक्षभ्रमे वादिनो विप्रतिपद्यन्ते । यथा - सर्वे ज्ञानं प्रमा, यथार्थ- विषयत्वात् । पञ्चीकरणप्रक्रियया सर्वेष्वपि वस्तुषु भूतान्तराणामवयवाः सन्ति । अतः शुक्तावपि रजतांशसत्त्वात् तस्य च प्रकाशाधिक्येन रजततया भानमिति । अन्ये तु तदनङ्गीकुर्वन्तो भ्रममेवं निरूपयन्ति । यथा— भ्रमस्त्रिधा ; सत्ख्यातिः, असत्ख्यातिः, अनिर्वचनीयख्यातिश्चेति । सदेव रजतं तत्र भातीति सत्ख्यातिः । असदेव तत् भातीत्यसत्ख्यातिः । उभयविलक्षणं तत् भातीत्यनिर्वचनीयख्यातिः । तत्र प्रथमा त्रिधा - अख्यातिः, अन्यथाख्यातिः, आत्मख्यातिश्चेति । तदाहुः -
इति ।
66
‘आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा ।
तथानिर्वचनख्यातिरित्येतत्ख्यातिपञ्चकम् ॥
99
१. तत्राख्यातिः प्राभाकराणाम्। ते ह्येवमाहुः - इदं रजतमित्यत्र ज्ञानद्वयम् । इदमिति चक्षुः संनिकृष्टशुक्तिग्रहणम् । रजतमित्यापणादौxiii
दृष्टपूर्वस्य रजतस्य शुक्तिरूपसदृशवस्तुदर्शनोत्थं स्मरणम् । उभयोर्भेदाग्रहात् इदं रजतमिति ज्ञानं समुदेतीति । एवं च ज्ञानद्वयभेदाग्रहरूपमेवेदं ज्ञान- मित्यख्यातिरित्युच्यते ।
२. अन्यथाख्यातिर्नैयायिकानाम् । वस्तुनो वस्त्वन्तरतया भान- मन्यथाख्यातिः । शुक्तेः रजतात्मना मानमन्यथाख्यातिरित्यर्थः ।
३. आत्मख्यातिबद्धैकदेशिनां योगाचाराणाम् । आत्मशब्दो बुद्धिपर्यायः । आत्मनो बुद्धेः रजतात्मना ख्यातिरात्मख्यातिः । ते हि ज्ञानाख्यं तत्त्वमेकमङ्गीकृत्य तद्व्यतिरिक्तं सर्वं ज्ञानविततिरूपमेवेति ब्रुवते । तेषां मते इदं रजतमित्यत्र ज्ञानमेव रजततया भातीत्यात्मख्यातिरियम् ।
- असत्ख्यातिः सर्वशून्यवादिनां बौद्धैकदेशिनां माध्यमि- कानाम् । ते हि शून्यमेकमेव तत्त्वम् । सर्वेऽप्यर्थाः संवृत्यैव सन्त इव भासन्ते । तथा भासमानाश्च पदार्थाः न सन्तः, बाधविषयत्वात् ।
नाप्यसन्तः,
प्रतीयमानत्वात् । नापि सन्तोऽसन्तश्च, व्याहतेः । नापि सद्विलक्षणा असद्विलक्षणाश्च, व्याहतेरेव । किं तु सदसद्विलक्षणा इति वदन्ति । तेषां मते इदं रजतमित्यत्र ‘रजतमत्यन्तासत् सदसद्विलक्षणं भासते । तदाहुः- चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः " इति ।
५.
66
अनिर्वचनीयख्यातिर्मायावाद्यद्वैतिनाम् । ते हि ब्रह्मकमेव सत्यम्, अन्यत्सर्वमसत्य मित्यभ्युपगच्छन्तोऽपि प्रपञ्चप्रतिभासमेवं समर्थ- यन्ते —अविद्यासंवलितं ब्रह्मैव प्रपञ्चाकारेण भासते । स च प्रपञ्चो न सन्, बाधात् । नाप्यसन्, प्रतीयमानत्वात् । नापि सदसद्रूपः, व्याहतेः । नापि सदसद्विलक्षणः, व्याहतेरेव । तस्मात् सत्त्वेन वा असत्त्वेन वा उभयात्मना वा अनुभवात्मना वा निरूपयितुमशक्य इत्यनिर्वचनीय इत्याचक्षते ।
६. . षष्ठीमपि
|
निरधिष्ठानख्यातिं केचिन्माध्यमिकैकदेशिनो
मन्यन्ते । यथा — तिमिरार्दितदृष्टेरस्थाने विशकलित केशदर्शनमिति ।
xiv
अत्रेदं विचारणीयम् – प्रथमे अख्यातिपक्षे इदं रजतमिति ज्ञान- द्वयमेकज्ञानत्वेन _दोषवशादङ्गीकृतमित्यन्यथाख्यातावेव पर्यवसानम् । तथा तृतीये आत्मख्यातिपक्षेऽपि वस्तुतो ज्ञानमेव रजततयान्यथा भातमित्य- न्यथाख्यातावेव पर्यवसानम् । तथा तुरीये असत्ख्यातिपक्षेऽपि शून्यमेव संवृतिमहिम्ना रजततया भातीत्यन्यथाख्यातावेव पर्यवसानम् । एवमनिर्वचनी- यख्यातावपि सदसदनिर्वचनीयं रजतमेव सदात्मना भातीत्यन्यथाख्यातावेव पर्यवसानम् । तथान्त्येऽपि निर्विषयख्यातिपक्षेऽसन्त एव केशाः सन्त इव भान्तीत्यन्यथाख्यातावेव पर्यवसानम् । तथाच सर्वैरपि ख्यात्यन्तरवादिभिर- वर्जनीयत्वात् अन्यथाख्यातिपक्ष एव स्वरसः । परं त्वितोऽप्यख्यातिपक्षे लाघवं विद्यते । तथाहि — द्वितीये अन्यथाख्यातिपक्षे शुक्तौ रजतत्त्वाभावोऽज्ञात एव भ्रान्तिमुपजनयतीत्यख्यातिरेव मूलम् । तथा तृतीये आत्मख्यातिपक्षेऽपि रजतस्य ज्ञानात्मत्वाग्रहणैव रजतमिति प्रतीतिव्यवहाराविति तत्राप्यख्याति- रेव मूलम् । एवं तुयें असत्ख्यातिपक्षे रजतस्य शून्यात्मत्वमगृहीत्वैव रजत- व्यवहारप्रतीती इति तत्राप्यख्यातिरेव पर्यवस्यति । एवं पञ्चमे अनिर्वचनीय- ख्यातिपक्षे अनिर्वचनीयं रजतमेव सदात्मना भातीत्यख्यातौ पर्यवसानं स्पष्टम् । एवमन्त्ये पक्षेऽपि । अतोऽन्यथाख्यातिपक्षादप्यख्यातिपक्षे लाघवसद्भावादयमे- वाङ्गीकार्य इति । तथा सर्वे ज्ञानं यथार्थमिति पक्षेऽपि इदं रजतमित्यत्र पाश्चा- त्यबाधो रजतांशभूयस्त्वाभावप्रयुक्त इति वक्तव्यम् । एवं च रजतांशाल्पीय- स्त्वाख्यातिरेव तत्रापि मूलमिति सैव ज्यायसीति । तथाचाहुः-
66
सर्वैरप्यन्यथाख्यातिर्दुस्त्यजत्वाल्लघीयसी । तद्वादिनाप्यवर्ज्यत्वात्ततोऽप्यख्यातिलाघवम् ॥ स्वारस्यमन्यथाख्यातावख्यातौ लाघवं स्थितम् । इति दर्शयितुं भाष्ये द्वितयं तदनुश्रुतस् । यन्नाथमुनिमिश्राद्यैर्यथार्थख्यातिसाधनम् । तल्लोकबुद्धयनारोहाद्वैभवं केचिदूचिरे ॥ "
XV
इति । ख्यात्यन्तर निरासस्तु ग्रन्थान्तरेषु विस्तरशोऽनुसंधेयः । इतीयं न्यायपरिशुद्धिसमादृता गौतमीयपक्षपरिशोधनफक्किका । वेदान्तमतनिरूप-
णेदं परतत्त्वमुक्ताकलापादिग्रन्थरीतिस्तु
यथार्थख्यातिपक्षपातिनी सै
ख्यातिर्वेदान्तकारिकावल्यां सिद्धान्ततयोपवर्णिता ज्ञातव्या ।
प्रत्यक्षमेकं प्रमाणमभ्युपगच्छन्तश्चार्वाकाः
66
’ विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् ।
अनुमाभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः ॥ "
पर्वते धूमेन
इत्यनुमानप्रामाण्यवादिनः परिहसन्ति । तेषामयं भावः - वह्निमनुमित्सन्निदं प्रष्टव्यः - किमेतत्पर्वतीयवह्निमनुमित्ससि, उत वह्नि- सामान्यमिति । नाद्यः पक्षः, एतत्पर्वतसंबन्धिनो वह्नेरनुमितेः पूर्वम- ज्ञातत्त्वेन तन्निरूपितव्याप्तेर्दुर्निरूपत्वात् । नान्त्यः, धूमाधिकरणे वह्नि- सामान्यसत्त्वस्य व्याप्तिग्रहदशायामेव ज्ञातत्वेन सिद्धसाधनादनुमानाप्रवृत्तेः । तस्मादनुमानाप्रसिद्धिरिति । एवं वदद्भिश्चार्वाकैरनुगमाभावात्सिद्धसाधना- दिति हेतूपन्यासेनानुमानासंभव एवानुमित्सित इति हयारूढास्ते हयमेवा- पहोतुमिच्छन्तीति कृतं तन्मतविमर्शनेन ।
तदेतदनुमानं पूर्वं प्रमाणान्तरावसितस्यैव वस्तुनः पक्षसंबन्धमात्रं साधयितुमीष्टे, न तु सुतरामतीन्द्रियस्येतीश्वरानुमानं नैयायिकाद्याद्रिय- माणमसंगतमेवेति कृत्वा शास्त्रयोनित्वाधिकरणे शास्त्रैकप्रमाणत्वमीश्वरस्योक्तं वेदान्तिभिः । तदुक्तं न्यायसिद्धाञ्जने- -" नन्वस्माकमीश्वरानुमाननिरासेन किं प्रयोजनम् ? न च प्रयोजनाभावमात्रम् ; अनुमानेनेश्वरं प्रतिपद्य तं भजमानान् प्रति नास्तिक्यशङ्काप्यापादितेति महत्तेषामस्माकं च पापमिति । अहो महाकारुणिकोऽसि । तादृशेभ्य एतन्नोपदिश्यताम् । प्रयोजनं च शृणु — प्रथमं तावद् यथावस्थिततत्त्वावबोधः, श्रोत्रेण गन्धग्रहणनिरास-
xvi
वत् " इति । व्याप्तिग्रहे च हेतोः सपक्षवृत्तित्वग्रहस्यावश्यकतया हेतु- रन्वयव्यतिरेकी केवलान्वयी चेति द्विविध एव, न तु केवलव्यतिरेकी वैशेषिकाद्यभिमतः । एतेन अनुभूतिरननुभाव्या अनुभूतित्वात् ; यदनुभाव्यं नासावनुभूतिः, यथा घट इत्यादिर्मायावादिवादो निरस्तः । अत्र नैयायिका अनुमानं स्वार्थपरार्थभेदेन द्वेधा विभज्य द्वितीये प्रतिज्ञाहेतूदाहरणोपनयनि- गमनाख्यानां पञ्चानामवयवानां नैयत्यं मन्यन्ते । मीमांसकास्तु — उदाहर- णान्तं तदादि वा त्रयं प्रयोक्तव्यं मन्यन्ते । सौगतास्तु-उदाहरणोपनयौ द्वावावश्यकौ ब्रुवते । सिद्धान्तिनां तु नैवावयवसंख्यानियमः । सूक्ष्ममन्द- धियां यावदपेक्षितं तावदुपयोक्तव्यमिति स्थितम् ।
गोसदृशो गवय इत्यादौ सादृश्यादप्यर्थावगतेरुपमानाख्यं प्रमाणा- न्तरमातिष्ठन्ते नैयायिकाः । अनुमानशब्दयोरन्यतरेण तत्र निर्वाहसंभवात् नोपमानं प्रमाणान्तरमिति सिद्धान्तिनः ।
शब्दमपि केचिद् वैशेषिकादयोऽनुमानेऽन्तर्भावयन्ति । तत्तु शाब्द- बोवे व्याप्तिग्रहादिविलम्बस्यानुभव विरुद्धत्वादसंगतमिति सिद्धान्तिनः । पदपदार्थयोः शक्त्याख्योऽतिरिक्तः संबन्ध इति नैयायिकाः । तादात्म्यमेव स इति शाब्दिकाः । सिद्धान्ते तु तत्र बोध्यबोधकभावातिरिक्तः संबन्धो नास्ति । अन्विताभिधानाभिहितान्वयपक्षयोः पूर्वस्मिन्नेवादरः सिद्धान्ति- नाम् । वस्तुतस्तूत्तरस्मिन्नपि पक्षेऽङ्गीकृते न कापि क्षतिरित्यनास्थैव पक्षद्वये । निर्विशेषब्रह्मवादिनां त्वन्विताभिधाने संकटं भवतीति तत्परित्यक्तं तैः । यथा गोशब्दो गोत्ववाच्यपि तद्विशिष्टव्यक्तौ स्वरसतः पर्यवस्यति, न तु गोत्वमात्रे विश्राम्यति, एवं चिदचिद्वाचिनः सर्वे शब्दास्तत्तदर्थमात्रे- ऽपर्यवस्यन्तस्तत्तद्विशिष्टं परं ब्रह्माभिदधति । सेयमपर्यवसानवृत्तिरित्युच्यते । अतो निष्कर्षकातिरिक्तानामपृथक्सिद्धविशेषणवाचिपदानां विशेष्यपर्यव- सानस्य व्युत्पत्तिसिद्धत्वात् शरीरवाचकानां देवादिशब्दानां शरीरिवाचकत्वं
66
xvii
सिद्धमिति सर्वे शब्दाश्चिदचिच्छरीरके परमात्मनि पर्यवस्यन्तीति सिद्धम् । तेन " सर्वे खल्विदं ब्रह्म " ऐतदात्म्यमिदं सर्वम्” " अयमात्मा ब्रह्म " " तत्त्वमसि " " स ब्रह्मा स शिवः सेन्द्रः " इत्यादिसामानाधि- करण्यं तत्तत्प्रकारकब्रह्मपरत्वेन सुसंगतं वेदितव्यम् ।
शब्दानां प्रामाण्यं स्वतः, अप्रामाण्यं परत इति सिद्धान्तिनः । नैयायिकास्तु वेदस्येश्वरकर्तृकत्वं प्रतिपिपादयिषवस्तदनुकूलं शब्दानां परतः प्रामाण्यं संगिरन्ते । तत्तु वेदस्य नित्यत्वादसंगतमिति ध्येयम् । अतो वेदाः पाञ्चरात्रादिस्मृतयश्च वेदाविरुद्धाः स्वतः प्रमाणभूताः ।
66
99 66
।
ननु वासुदेवात्संकर्षणनाम्नो जीवसमष्टितत्त्वस्योत्पत्तिवचनात् वेद- विरुद्धं पाञ्चरात्रमिति चेत्, अनवधाननिबन्धनमिदं चोद्यम् । तथाहि- ‘अजायमानो बहुधा विजायते ’ तोयेन जीवान् व्यससर्ज भूम्याम्", " प्रजापतिः प्रजा असृजत" इत्यादौ परब्रह्मणो जीवस्य चोत्पत्तिवचनात् परस्परव्याहतत्वेनाप्रामाण्यं वेदानामिति कुचोद्ये यः समाधिः, स एवा- त्रापीति न किंचिदेतत् । नन्वात्मनित्यत्वोत्पत्त्योर्वेद एव कथनात् यथाकथंचिन्निर्वाहस्तत्रावश्यकः ; पाञ्चरात्रे तु सर्वत्र जीवोत्पत्तिरेवोच्यते, न कुत्रापि तन्नित्यतेति न तथा निर्वाहावश्यकतेति चेत्, तदिद मल्पश्रुतानां चोद्यम् । पाञ्चरात्र एव, “स ह्यनादिरनन्तश्च परमार्थेन निश्चितः " इत्यादिवचनानां बहुशो दर्शनात् ।
समत्रैगुण्या मूलप्रकृतिर्विश्वपरिणामिनी । सैवाव्यक्तमित्युच्यते । मूलप्रकृतित्वावस्थातः पूर्वमक्षरविभक्ताविभक्ततमोरूपास्तिस्रोऽवस्थाः प्रमाण- सिद्धाः । यस्यामवस्थायां गुणसाम्यमप्यस्फुटं तदवस्थायास्तस्याश्चेतन समष्टि- गर्भत्वमक्षरशब्देनोच्यते । न तु चेतनमात्रं, तस्य तमोविकृतित्वविश्वोपादान- त्वायोगात् । अतः सर्वे वस्तुजातं चिदचिदात्मकमिति सिद्धान्तः । तदाह :- " प्रधानादि विशेषान्तं सर्वे चिदचिदात्मकम् " इति । तस्या-
पराशरः-
C
xviii
प्यक्षरस्य लयस्थानं विभक्तं तमः । सलिलविलीनलवणवत् परमात्मशरीर- तयापि यन्न विवेक्तुं शक्यं तदविभक्तं तमः । इयं मूलप्रकृतिरेव महदहंका- रेन्द्रियतन्मात्रभूतैः सह चतुर्विंशतिः प्राकृततत्त्वानि भवन्ति । शैवाद्यागमोक्तः षट्त्रिंशत्तत्त्ववादस्तु प्रमाणविरुद्धः । इमानि च तत्त्वानि जीवस्येश्वरस्य च शरीरभावमापद्यन्ते । यस्य चेतनस्य यद् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यं तत्तस्य शरीरमिति निष्कृष्टं शरीरलक्षणम् । प्राकृत- तत्वानीव जीवोऽपीश्वरशरीरभूत एवेति " यस्यात्मा शरीरम्" इत्यादि- श्रुतिबलादवगम्यते । तस्मात् समस्तचिदचिच्छरीरकं परं ब्रह्मैकमेव तत्त्वमिति परमसिद्धान्तः ।
अणुत्वे सति ज्ञातृत्वं, शेषत्वे सति ज्ञातृत्वमित्यादि जीवलक्षणम् । स चाहँप्रत्ययगम्यः स्वयंप्रकाशश्च । स्वयमेव स्वस्थ व्यवहारानुगुणहेतुत्वं स्वयंप्रकाशत्वम् । स्वयमेव कस्यचिद्व्यवहारानुगुणहेतुत्वं ज्ञानत्वम् । एवं चात्मा ज्ञानरूपः स्वयंप्रकाशश्च । तस्य ज्ञानरूपत्वेऽपि ज्ञानाश्रयत्वं च श्रुति- स्मृत्यादिप्रमाणशतसिद्धम् । एकस्यैव ज्ञानाख्यद्रव्यस्य धर्मधर्मित्वे प्रभा- प्रभाववद्द्द्दृष्टान्तेनाविरुद्धे । धर्मिभूतज्ञानं न विषयावगाहि । धर्मभूतज्ञानं तु तथेति भेदः । बद्धमुक्तनित्यात्मनां त्रिविधानामपि जीवानां ज्ञानं विभु स्वयंप्रकाशं च भवति । परं तु बद्धावस्थायां तत्कर्मणा संकुचितं न सर्वविषयावगाहि । मुक्तावस्थायां तु सर्वकर्मप्रविलयादसंकुचितं सर्वावगाहि भवति । ज्ञानस्य कर्मणा संकोचो नाम प्रकाशाख्यस्य तद्धर्मस्य प्रसरा- भावः । असंकाचो नाम तस्य धर्मस्य प्रसरः । तथाच प्रकाशाख्ये ज्ञानधर्म एव साक्षात्संकोचप्रसरावभ्युपेतौ न ज्ञान इति तस्य नित्यत्वे न कोऽपि विरोधः । यस्य तु साक्षात्संकोच विकासौ प्रकाशाख्यधर्मस्य, तस्यानि- त्यत्वमिष्टमङ्गीकृतं च । अयं चार्थो वेदार्थसंग्रहे तत्तात्पर्यदीपिकायां च सुवि- शदमुपपादितः । एवं स्थिते वस्तुतत्त्वे यत् केषांचिदाधुनिकानां “यद्यपि.
xix
भगवद्रामानुजादयः — धर्मभूतज्ञानमिति नाममात्रं, नेदं परमार्थतो धर्मभूत- माधाराधेयभावनिबन्धनम् । किंतु तादात्म्यापन्नमात्मस्वरूपमेवेति वदन्ति "
इत्युपक्रम्य,
“ सति चैवं कथं धर्मभूतज्ञानमपि संकोचविकासशालि च नित्यं चेति श्रीभाष्यमतं स्वविवरणस्यैव न विरुद्धम् " इति दोषोद्भावनं, तत्सर्वमपि विशिष्टाद्वैतमतप्रक्रिया रहस्यानवबोध निबन्धनमिति वेदनीयम् ।
अशेषचिदचिच्छरीरकं सर्वशक्ति ब्रह्मैव भगवदीश्वरनारायणादि- शब्दैर्व्यवह्रियते । न तु परेषामिव मायाप्रतिबिम्बत्वेन मायोपहितत्वेन वा कल्पितस्वरूप ईश्वरः परमार्थतोऽसन् मिथ्याभूतश्च । स एव सूक्ष्मचिद- चिद्विशिष्टो जगत उपादानकारणं, बहुभवनादिसंकल्पविशिष्टो निमित्त- कारणं, कालादिरूपः सहकारिकारणं चेत्यभिन्नोपादाननिमित्तादिकारणत्वं तस्यैवेति सिद्धान्तः । तस्य सर्वशरीरित्वेऽपि तद्गतदोषासंस्पर्शात् निरस्त- हेयगन्धोऽयमिति “न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र ” इत्यादौ स्थापितम् । भक्तिप्रपत्तिभ्यामाराधितः स एव मोक्षप्रदो नान्यः कश्चनेति परमसिद्धान्तं “ वेदाहमेतं पुरुषं महान्तम्" इत्युपक्रम्य, नान्यः पन्था अयनाय विद्यते " इति श्रुतिरप्याह । एते कतिपये चान्ये सैद्धान्तिकाः प्रधानभूता विषया अस्मिन् ग्रन्थे संक्षेपेण प्रतिपादिताः ।
66
ग्रन्थकर्ता वेंकटाचार्यः बुच्चि इत्युपनाम्ना प्रथितो बुक्कपट्टणाभिजनस्य शठमर्षणान्वयलब्धजन्मनो विद्वदग्रेसरस्याण्णयार्यस्य तृतीयस्तनुजन्मा । अयं चाण्णयाय बुक्कपट्टणाभिजनोऽपि सुरपुराधिपेन राघवनाम्ना पमिनायकेना- भ्यर्थितः सुरपुरमागत्य तस्य सभामलंकुर्वन्नास्तेति सुरपुरम् अण्णवार्य इति पश्चात्प्रथामुपगतः। पश्चात् तद्वंश्या अपि सुरपुरं विद्वांस इत्याकारिता अभूवन् । अण्णयार्यस्य सुरपुरागमनसमयश्च १७६० तमः क्रिस्तुसंवत्सर इति निर्णीतः । पमिनायको राघवः १७७३ क्रिस्तुसंवत्सरे दिष्टगतिं गतः । ततस्तदात्मजो वेंकटनायकः सुरपुराधिपत्यमूरीकृत्य विदुषोऽण्णयार्यस्य
XX
विनेयो बहुमन्ता चाभूदिति ज्ञायते । अतस्तदात्मजेन वेदान्तकारिकावली- रचयित्रा बुच्चि वेंकटाचार्येण प्रायशः क्रिस्तुसंवत्सराणामष्टादशस्य शतकस्य तृतीयं पादमारभ्यैकान्नविंशस्य प्रथमपादपर्यन्तमुषितवता भाव्यमिति निर्णीयते । '
सुरपुरं विद्वद्भिः प्रणीता बहवो ग्रन्था अधुनाप्युपलभ्यन्ते । तत्परि- शीलनेन तेषां वंशावलीत्थमवगम्यते-
१. वेंकटाचार्यः I
२. अण्णयाचार्यः I
३. नरसिंहाचार्यः
४. श्रीनिवासताताचार्यः, अथवा श्रीनिवासाचार्यः I
५. वेंकटाचार्यः II
६. अण्णयाचार्यः II
७. श्रीनिवासाचार्यः II
१०. वेंकटाचार्यः IV
८ श्रीनिवासाचार्यः III ९. वेंकटाचार्यः III
सं. ५. वेंकटाचार्यः II. अयं प्रथमवेंकटाचार्यस्य शिष्यः ।
एतत्कृता ग्रन्थाः -
१. आनन्दतारतम्यखण्डनम् Madras Govt . Library. R. 5094. २. जगन्मिथ्यात्वखण्डनम् Adyar Library. 22-D. 83. ३. वेदान्तदेशिकदण्डकम् Madras Govt . Library D. 10597. ४. वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम् Adyar Library. 30 E. 49. ५. सिद्धान्तरत्नावली Madras Govt. Library. D. 5063. ६. सिद्धान्तवैजयन्ती
22
99
D. 5007.
29
For further details on the Chiefs and Sanskrit authors of Surapuram, see Dr. V. Raghavan’s article entitled - The Surapuram Chiefs and some Sanskrit writers patronised by them’ published in the Journal of the Andhra Historical Research Society, Rajah- mundry, Vol. XIII, 1940.
xxi
सं. ६. अण्णयाचार्यः II. अयं कौण्डिन्यश्रीनिवासाचार्यस्य द्वितीय-
वेंकटाचार्यस्य च शिष्यः । एतत्कृता ग्रन्थाः -
१. आचार्यविंशतिः
Madras Govt. Library. D. 10600.
२. आनन्दतारतम्यखण्डनम्
३. तत्त्वगुणादर्शः सव्याख्यः
४. व्यावहारिक सत्यत्वखण्डनसारः
"
R. 1294.
22
"
29
33
D. 12295,
R.6089.
"
"
५. रसोदारभाणः Mysore Govt. Library list, P. 151, Vol I.
६. श्रीनिवासस्तुतिः ७. नृसिंहविंशतिः
"
22
12
Des. Cat. No. 69. '
"
"
"
"
"
"
सं. ७. श्रीनिवासाचार्यः II. अयं कौण्डिन्यश्रीनिवासाचार्यस्य
द्वितीयाण्णयाचार्यस्य च शिष्यः । एतत्कृता ग्रन्थाः-
१. अरुणाधिकरणसरणिविवरणी Madras Govt. Library D. 4866.
२. आनन्दतारतम्यखण्डनम्
99
19
31
D. 4869.
३. ओंकारवादार्थः or नयमणिकलिका
D. 4871.
"
19
21
४. जिज्ञासादर्पणः
"
23
99
D. 4883.
५. ज्ञानरत्नप्रकाशिका
"
"
22
D. 4886.
६. णत्वदर्पणः
"
29
29
D. 4888.
७. तत्त्वमार्ताण्डः
22
"
D. 4894.
८. प्रणवदर्पणः
39
"
"
D. 4932.
९. प्रधानप्रतितन्त्रदर्पणः
R. 1304.
27
37
17
१०. नयद्युमणिः, दीपिका च
27
"
33
R. 1287.
११. पुच्छब्रह्मवादनिरासः
D. 4929.
"
"
"
१२. भेददर्पणः
D. 4980.
39
29
"
१३. विरोधनिरोधः or भाष्यपादुका
D. 4996.
22
"
"
‘Published in the Mysore Sanskrit College Journal.
१४. विरोधवरूथिनीप्रमाथिनी १५. षष्ठ्यर्थनिर्णयः
xxii
Madras Govt. Library. D. 4998.
१६. सिद्धान्तचिन्तामणिः or उपा-
दानत्वसमर्थनम्
१७. दत्तरत्नप्रदीपिका
१८. नीतिशतकम्
१९. सुभाषितानि
२०. हरिगुणदर्पणः
27
23
D. 5054.
R. 2120.
"
22
"
22
D. 15636.
73
"
"
"
D. 12053.
"
"
22
D. 12132.
R. 6038.
27
""
"
सं. ९. वेंकटाचार्यः III. अयं द्वितीयतृतीययोः श्रीनिवासाचार्ययोः शिष्यः, अय्या वेंकटाचार्य इति किरीटी वेंकटाचार्य इति च प्रसिद्धः । अनेनालंकारकौस्तुभे सुरपुरं वेंकटनायकः स्वस्य पोषको निर्दिष्टः ।
एतत्कृता ग्रन्थाः -
१. अचलात्मजापरिणयमु Madras Govt. Library. R. 41
२. अलंकारकौस्तुभः
Telugu.
R.369.
"
"
"
३. कृष्णभावशतकम्
D. 9901.
27
99
"
22
"
93
D. 1520.
४. गजसूत्रवादार्थः
५. प्रामाण्यवादखण्डनम्
६. शृङ्गारतरङ्गिणी
Adyar Library. 9H. 76.
Madras Govt. Library. R. 5439.
सं १०. वेंकटाचार्यः IV. अयं बुच्चि वेंकटाचार्य इति प्रसिद्धः
एतत्कृता ग्रन्थाः –
१. विष्णु सप्तविभक्तिस्तोत्रम् Madras Govt. Library. D. 10352.
२. वेदान्तकारिकावली
३. इन्द्वष्टोत्तरशतनामस्तोत्रम्
Now edited and published.
Telugu Academy, Cocanada.xxiii
सुरपुरं श्रीनिवासाचार्यकृता विंशतिर्ग्रन्थाः पूर्वनिर्दिष्टाः सर्वेऽपि तत्कृता इति निश्चिताः । सन्ति चान्येऽपि केचन ग्रन्था मैसूरपुस्तक- शालायां तत्कर्तकतया विनिर्दिष्टाः । ते च नास्माभिरध्यक्षिता इति नात्र तेषां परिगणनं कृतम् । एवमनेकेषु तत्कृतग्रन्थेषु तत्त्वमार्ताण्डः श्रीभाष्य- व्याख्यारूपोऽतिदुरूह विषय निरूपणपरः श्रीभाष्योपरि परैरुद्भावितानां दोषाणां निरसनेन बहूपकरोति विशिष्टाद्वैतसंप्रदायस्येति तस्य मुद्रणं प्रकाशनं चावश्यकरणीयं परिशिष्यत इत्यावेदयामः ।
वे. कृष्णमाचार्यः
jvzz