विश्वास-प्रस्तुतिः
वस्तुतस् तु,
वेदान्तानां चिद्–अ-चिद्–विशिष्टाद्वैतं तत्त्वम् एकमेव ब्रह्मेति तात्पर्यम् ।
अत एव चिद्–अ-चिद्–विशिष्टं ब्रह्मैक( मेवेति )म् इति मत्वा
भगवान् बादरायणः
“अथातो ब्रह्मजिज्ञासा” इत्य् उपक्रम्य
तद् एव सप्रकारं निरूपितवान् ।
अतः चिद्–अ-चिद्-विशिष्टो ब्रह्म-शब्द-वाच्यो विष्ण्व्-आख्यः
पर-वासुदेवो नारायण एवैकं तत्त्वम्
इति विशिष्टाद्वैतवादिनां दर्शनम् इति सिद्धम् ।
अण्णङ्गराचार्यः
विशिष्टाद्वैततत्त्वमेव ब्रह्मसूत्रकृद्भगवद्बादरायणाभिमतमित्याह ‘वस्तुतस्तु’ इत्यादिना ।
‘नारायण एवैकं तत्त्वम्’ इति ।
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ।
तत्वमेको महायोगी हरिर्नारायणः परः ॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भृजमुच्यते ।
वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम् ॥
इति श्रीवेदव्यासप्रमुखनिर्णयादिति भावः ।
शिवप्रसादः (हिं)
अनुवाद – वास्तव में वेदान्तों का तात्पर्य यह है कि चिदचिद्विशिष्टाद्वैत ब्रह्म ही एकमात्र तत्त्व है । अतएव चेतनाचेतनं विशिष्ट ब्रह्म एक ही है, यह मानकर भगवान् बादरायण ने ‘अथातो ब्रह्मजिज्ञासा’ सूत्र से प्रारम्भ करके सम्पूर्ण शारीरक-मीमांसा में सप्रकार ब्रह्म का निरूपण किया है । अतएव विशिष्टाद्वैतवादियों का दर्शन है कि ब्रह्म शब्द से तथा विष्णु शब्द से अभिहित किये जाने वाले चेतनाचेतनशरीरक पर- वासुदेव भगवान् नारायण ही एकमात्र तत्त्व हैं ।
मूलम्
वस्तुतस्तु, वेदान्तानां चिदचिद्विशिष्टाद्वैतं तत्त्वमेकमेव ब्रह्मेति तात्प- र्यम् । अत एव चिदचिद्विशिष्टं ब्रह्मैक ( मेवेति ) मिति मत्वा भगवान् बादरायणः अथातो ब्रह्मजिज्ञासा इत्युपक्रम्य तदेव सप्रकारं निरूपितवान् । अतः चिदचिद्विशिष्टो ब्रह्मशब्दवाच्यो विष्ण्वाख्यः परवासुदेवो नारायण एवैकं तत्त्वमिति विशिष्टाद्वैतवादिनां दर्शनमिति सिद्धम् ।