१० श्री-विशिष्टता

विश्वास-प्रस्तुतिः

२९. एवम् उक्तासु पञ्चावस्थास्व् अपि
श्रीविशिष्ट एव भगवान् वर्तत
इति श्रुत्य्-आदि-प्रमाण-सिद्धो ऽर्थः ।
एतेनैकायनोक्त-निःश्रीक-वादो निरस्तः ।
एवम् ईश्वरो निरूपितः ।

अण्णङ्गराचार्यः

**‘श्रीविशिष्ट एवे’**ति । ‘अस्येशानां जगतो विष्णुपत्नी’ (तैत्ति) ‘श्रीवत्सवक्षा नित्यश्री’ (रामा० युद्ध)

नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनी ।
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपा वै करोत्येषात्मनस्तनुम् (वि० पु०)

इत्यादिप्रमाणबलादित्यर्थः । ‘शान्तानन्ते’ति श्लोकश्चतुःश्लोकीस्थोऽत्रानुसन्धेयः । एकायना – माध्वाः । तन्मते “विष्णुरेव प्राप्यः । न तु लक्ष्मीविशिष्ट” इति ॥ श्रीसम्प्रदाये तु श्रीविशिष्ट एव प्राप्य इति वैशिष्ट्यम् ॥

॥ इति नवमावतारव्याख्या ॥

शिवप्रसादः (हिं)

इस प्रतिपादन से एकायन ( मध्व ) के द्वारा प्रोक्त निश्रीकवाद का निरास हो गया । इस प्रकार ईश्वर का निरूपण किया गया ।

शिवप्रसादः (हिं) - टिप्पनी

भगवान् अपने उपरिवर्णित पाँचों अवस्थाओं में श्रीदेवी के साथ ही रहा करते हैं । अंतएव श्रीविशिष्ट श्रीभगवान् ही सभी जीवों के परमप्राप्य हैं । मध्वाचार्य ने केवल विष्णु को ही जीवों के लिए प्राप्य बतलाया है, श्रीविशिष्ट भगवान् की ही प्राप्यता श्रुतियाँ बतलाती हैं, अतएव उनका निश्श्रीकवाद अमान्य ठहरता है ।

मूलम्

२९. एवम् उक्तासु पञ्चावस्थास्वपि श्रीविशिष्ट एव भगवान् वर्तत इति श्रुत्यादि-प्रमाणसिद्धोऽर्थः । एतेनैकायनोक्तनिःश्रीकवादो निरस्तः । एवम् ईश्वरो निरूपितः ।

वासुदेवः

श्री-विशिष्ट एवेति । अत एवोक्तम् -

नित्यैवैषा जगन्-माता विष्णोः श्रीर् अनपायिनी । यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम ॥ देवत्वे देव-देहेयं मनुष्यत्वे च मानुषी । विष्णोर् एवानुरूपां वै करोत्य् एषा ऽऽत्मनस् तनुम् ॥

इति ।

अत्रोपासकस्य प्रथमतो ऽर्चावतारस्योपासने ऽधिकारः । ततो विभवस्य । ततो व्यूहस्य । ततः परस्य । ततो ऽन्तर्यामिणः । तद् उक्तम् —

उपासकानुरोधेन भजते मूर्ति-पञ्चकम् ।
तद् अर्चा-विभव-व्यूह-सूक्ष्मान्तर्यामि-संज्ञकम् ॥
यद् आश्रित्यैव चिद्-वर्गस् तत्तज्-ज्ञेयं प्रपद्यते
पूर्व-पूर्वोदितोपास्ति-विशेष-क्षीण-कल्मषः ॥
उत्तरोत्तर-मूर्तीनाम् उपास्त्य्-अधिकृतो भवेत् ॥

इति ।

वासुदेवः स्व-भक्तेषु वात्सल्यात् तत्तद्-ईहितम् । अधिकार्यानुगुण्येन प्रयच्छति फलं बहु ॥ तदर्थं लीलया स्वीयाः पञ्च मूर्तीः करोति वै । प्रतिमादिकम् अर्चा स्याद् अवतारास् तु वैभवाः ॥ सङ्कर्षणो वासुदेवः प्रद्युम्नश् चानिरुद्धकः । व्यूहश् चतुर्विधो ज्ञेयः सूक्ष्मं सम्पूर्ण-षड्गुणम् ॥ तद् एव वासुदेवाख्यं परं ब्रह्म निगद्यते । अन्तर्यामी जीव-संस्थो जीव-प्रेरक ईरितः ॥ य आत्मनीति वेदान्त-वाक्य-जालैर् निरूपितः । अर्चोपासनया क्षिप्ते कल्मषे ऽधिकृतो भवेत् ॥

विभवोपासने, पश्चाद् व्यूहोपास्तौ ततः परम् । सूक्ष्मे, तद् अनु शक्तः स्याद् अन्तर्यामिणम् ईक्षितुम् ॥

इति च ।

विश्वास-प्रस्तुतिः

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायां यतीन्द्रमतदीपिकायाम् ईश्वरनिरूपणम्

नाम नवमोऽवतारः ॥

शिवप्रसादः (हिं) - टिप्पनी

इस प्रकार श्रीवाधूलकुलतिलक श्रीमन् महाचार्य के प्रधान शिष्य श्रीनिवासाचार्य द्वारा प्रणीत यतीन्द्रमतदीपिका नामक शारीरक - परिभाषा का ईश्वर-निरूपण नामक नवाँ अवतार पूर्ण हुआ ।

मूलम्

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायां यतीन्द्रमतदीपिकायाम् ईश्वरनिरूपणम्

नाम नवमोऽवतारः ॥

वासुदेवः

इति श्री यतीन्द्र-मत-दीपिका-प्रकाशे नवमो ऽवतारः ॥ ९ ॥