०९ पञ्च प्रकाराः

विश्वास-प्रस्तुतिः

१७. एवम्-प्रकार ईश्वरः
पर-व्यूह-विभवान्तर्याम्य्-अर्चावतार-रूपेण पञ्च-प्रकारः।

अण्णङ्गराचार्यः

‘एवम्प्रकार’ इति । एवम्भूतः सर्वेश्वरः स्वरूपत एक एव स्वासाधारणदिव्यरूपविशिष्टः स्वदिव्यरूपमधिष्ठाय निजेच्छया पञ्चप्रकारं कृत्वा पञ्चप्रकाररूपविशिष्टः पञ्चधावस्थितः परव्यूहादिनामभेदत इत्यर्थः । तत्र परः दिव्यमङ्गलविग्रहविशिष्टः श्रीवैकुण्ठनिलयः श्रीभूनीलानायको नित्यमुक्तानुभावः परवासुदेव इति प्रसिद्धः ।

वैकुण्ठे तु परे लोके श्रीसहायो जनार्दन,
उभाभ्यां भूमिनीलाभ्यां पार्श्वद्वयसुशोभितः ॥

वैकुण्ठे तु परे लोके नित्यत्वेन व्यवस्थितम् ।
पश्यन्ति च सदादेवं नेत्रैर्ज्ञानेन चामराः ॥ (पाञ्चरात्रे)

इत्यादिप्रमाणमत्रानुसन्धेयम् । भगवतः पञ्च प्रकारा इमे भगवतैव विष्वक्सेनं प्रत्युपदिष्टा

मम प्रकाराः पञ्चेति प्राहुर्वेदान्तपारगाः ।
परो व्यूहश्च विभवो नियन्ता सर्वदेहिनाम् ॥
अर्चावतारश्च तथा दयालुः पुरुषाकृतिः ॥

इति (पाञ्चरात्र० विष्वक्० स०)

शिवप्रसादः (हिं)

अनुवाद - उपर्युक्त प्रकार के ईश्वर के पाँच रूप हैं - पर, व्यूह, विभव, अन्तर्यामी और अर्चावतार ।

शिवप्रसादः (हिं) - टिप्पनी

भा० प्र० - विशिष्टाद्वैत दर्शन में अर्थपञ्चक-विज्ञान का बड़ा ही महत्त्व है । उस अर्थपञ्चक-विज्ञान के अनुसार ईश्वर के पाँच रूप हैं—पर, व्यूह, विभव, अन्त- र्यामी और अर्चावतार । श्रीभगवान् अपने इन पाँच रूपों का वर्णन करते हुए पाच-

रात्रागम में कहते हैं -

‘मम प्रकाराः पञ्चेति प्राहुर्वेदान्तपारगाः ।
परो व्यूहश्च विभवो नियन्ता सर्वदेहिनाम् ॥
अर्चावितारश्व तथा दयालुः पुरुषाकृतिः ।
इत्येवं पञ्चधा प्राहुर्मां रहस्यविदो जनाः ॥’

अर्थात् वेदान्तों के जानकारों ने मेरे प्रकारों को इस प्रकार बतलाया है – पर, व्यूह, विभव, सभी शरीरधारियों के नियामक रूप से अन्तर्यामी तथा पुरुषाकार एवं दयालु अवतार । इस प्रकार रहस्यों के जानकारों ने मुझे पाँच प्रकार का बत- लाया है ।

मूलम्

१७. एवम्प्रकार ईश्वरः परव्यूहविभवान्तर्याम्यर्चावताररूपेण पञ्चप्रकारः।

वासुदेवः

पर-व्यूहेति । तद् उक्तं विष्क्वसेन-संहितायाम् —

मम प्रकाराः पञ्चेति
प्राहुर् वेदान्त-पारगाः । परो व्यूहश् च विभवो
नियन्ता सर्व-देहिनाम् ॥ अर्चावतारश् च तथा
दयालुः पुरुषाकृतिः । इत्य् एवं पञ्चधा प्राहुर्
मां रहस्य-विदो जनाः ॥

इति ।

पररूपस्य वर्णनम्

विश्वास-प्रस्तुतिः

१८. तत्र परो नाम
त्रिपाद्-विभूतौ+++(=वैकुण्ठे)+++
कुमुद-कुमुदाक्ष-पुण्डरीक-वामन–शङ्कु-कर्ण–सर्प-नेत्र–
सु-मुख–सु-प्रतिष्ठितादिभिः
दिव्यायुध-भूषण-परिजन-परिच्छदान्वितैः दिव्य-नगर-पालकैः परिरक्षिते
श्रीमद्-वैकुण्ठाख्ये पुरे
चण्ड–प्रचण्ड-भद्र–सु-भद्र–जय-विजय-धातृ-विधातृ–प्रभृतिभिः द्वार-पालकैर् उपेते
श्रीमद्-दिव्यालये श्री-महा-मणि-मण्डपे
धर्माद्य्-अष्ट+++(=??)+++-पाद-विरचित-सिंहासने
शेष-पर्यङ्के

दिव्य-मङ्गल-विग्रह-विशिष्टश् चतुर्भुजः,
श्री-भू-नीला-सहितः,
शङ्ख-चक्रादि-दिव्यायुधोपेतः,
श्रीमत्-किरीटादि-दिव्य-भूषण-भूषितः,

अनन्त-गरुड-विष्वक्सेनादिभिर् नित्यैः
साम-गान-परैर् अन्यैर् मुक्तैश्च अनुभूयमानः,

ज्ञान-शक्त्य्-आद्य्-अनन्त-कल्याण-गुण-विशिष्टः, पर-ब्रह्म–पर-वासुदेवादि-शब्द-वाच्यो नारायणः

शिवप्रसादः (हिं)

अनुवाद - पर - रूप से श्रीभगवान् त्रिपाद्विभूति में दिव्य आयुध, भूषण, परिजन तथा परिच्छद से युक्त कुमुद, कुमुदाक्ष, पुण्डरीक, वामन, शंकुकर्ण, सर्वनेत्र, सुमुख तथा सुप्रतिष्ठित आदि नगरपालकों द्वारा सुरक्षित श्रीवैकुण्ठ नामक नगर में, चण्ड, प्रचण्ड, भद्र, सुभद्र, जय, विजय, धाता, विधाता आदि द्वारपालकों से युक्त ऐश्वर्य- सम्पन्न दिव्य आलय के श्रीमहामणिमण्डप में धर्म आदि आठ पादों से विनिर्मित सिंहासन के ऊपर शेषशय्या पर, चतुर्भुज दिव्यमङ्गल विग्रह से युक्त होकर, श्रीदेवी, भूदेवी तथा नीलादेवी के साथ शंख-चक्र आदि दिव्य आयुधों से समलङ्कृत होकर, किरीट आदि दिव्य भूषणों से भूषित, सामगान करने में तत्पर अनन्त, गरुड़ तथा विष्वक्सेन आदि नित्यजीवों एवं दूसरे मुक्तजीवों के द्वारा किये जाने वाले ज्ञान, शक्ति आदि अनन्त कल्याणकारी गुणसमूहों से विशिष्ट रहकर भगवान् नारायण परब्रह्म, परवासुदेव आदि शब्दों से अभिहित किये जाते हैं ।

शिवप्रसादः (हिं) - टिप्पनी

ईश्वर के पर-रूप का वर्णन

भा० प्र०—पर-रूप से भगवान् त्रिपाद्विभूति में विराजमान रहते हैं । ये दिव्य- मङ्गलविग्रह से विशिष्ट रहते हैं । श्रीवैकुण्ठ नामक दिव्य निलय में ये श्रीदेवी, भूदेवी एवं नीलादेवी से सुसेवित रहते हैं । त्रिपाद्विभूतिस्थ श्रीभगवान् का नित्य-मुक्त जीव सेवन किया करते हैं । श्रीभगवान् परवासुदेव, परब्रह्म तथा नारायण इत्यादि शब्दों से अभिहित किये जाते हैं । परवासुदेव भगवान् का वर्णन करते हुए पाञ्चरात्र में कहा गया है—

‘वैकुण्ठे तु परे लोके
श्रीसहायो जनार्दनः ।
उभाभ्यां भूमिनीलाभ्यां
पार्श्वद्वयसुशोभितः ॥’

अर्थात् परमपद श्रीवैकुण्ठलोक में श्रीभगवान् लक्ष्मीजी के साथ विद्यमान रहते हैं । उनके दोनों बगल में भूदेवी तथा नीलादेवी, ये दो देवियाँ विराजमान रहती हैं । भगवान् परवासुदेव का वर्णन करते हुए श्रीवात्स्य वरदाचार्य कहते हैं—

‘उद्यद्भानुसहस्रभास्वरपरव्योमास्मदं निर्मल-
ज्ञानानन्दघनस्वरूपममलज्ञानादिभिः षड्गुणैः ।
जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलम्
श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥’

[[२४९]]

उदीयमान सहस्रों सूर्यो से भी अधिक देदीप्यमान परमव्योम ही जिनका निवास स्थान है, निर्मल ज्ञान एवं आनन्द के मूर्तस्वरूप, निर्दोष ज्ञान आदि ( ज्ञान, शक्ति, बल, ऐश्वर्य, वीर्य एवं तेज ) छह गुणों से युक्त, दिव्यसूरियों के स्वामी, हाथों में चक्रादि दिव्य आयुधों को धारण करने वाले, सुन्दर भूषणों से भूषित, श्रीदेवी, भूदेवी आदि पटरानियों से सुसेवित, अनन्ताख्य शेष की फणाओं की छाया तले रहने वाले श्रीपरवासुदेव की मैं सेवा करता हूँ ।

श्रीपराशरीय धर्मशास्त्र के उत्तरखण्ड में भी कहा गया है-

’ एवं वैकुण्ठनाथोऽसौ राजते परमे पदे ।
सेव्यमानः सदा नित्यैर्मुक्तैर्भोगपरायणैः ॥’

( पराशरीयधर्मशास्त्र उ० ख० ६।४६ )

उपर्युक्त प्रकारवाले वैकुण्ठनाथ परमपद में विराजमान रहते हैं । वे सदा भोग-परायण–नित्य-मुक्त-जीवों से सेव्यमान हैं ।

मूलम्

१८. तत्र परो नाम त्रिपाद्विभूतौ कुमुदकुमुदाक्षपुण्डरीकवामनशङ्कुकर्णसर्प/र्वनेत्र- सुमुखसुप्रतिष्ठितादिभिः दिव्यायुधभूषणपरिजनपरिच्छदान्वितैः दिव्यनगरपालकैः परिरक्षिते श्रीमद्वैकुण्ठाख्ये पुरे चण्डप्रचण्डभद्रसुभद्र जयविजयधातृविधातृप्रभृतिभिः द्वारपालकैः उपेते श्रीमद्दिव्यालये श्रीमहामणिमण्डपे धर्माद्यष्टपादविरचितसिंहासने शेषपर्यङ्के दिव्यमङ्गलविग्रहविशिष्टश्चतुर्भुजः, श्रीभूनीलासहितः, शङ्खचक्रादि-दिव्यायुधोपेतः, श्रीमत्किरीटादिदिव्यभूषणभूषितः,अनन्तगरुडविष्वक्सेनादिभि-र्नित्यैःसामगानपरैः अन्यैर्मुक्तैश्च अनुभूयमानः, ज्ञानशक्त्याद्यनन्त-कल्याणगुणविशिष्टः,परब्रह्मपरवासुदेवादिशब्दवाच्यो नारायणः ।

वासुदेवः

श्रीवैकुण्ठाख्ये पुर इति । पुरं चैतन् निरवधिकानन्द-युक्तं काल-कृत-परिणाम-शून्यं च ।

या वै न जातु परिणाम-पदास्पदं सा
कालातिगा तव परा महती विभूतिः

इत्य् उक्तत्वात् ।

श्री-भू-नीलेति । तद् उक्तम् —

वैकुण्ठे तु परे लोके
श्रिया सार्धं जगत्पतिः । उभाभ्यां भूमि-नीलाभ्यां
सेवितः परमेश्वरः ॥

इति ।

‘ह्रीश् च ते लक्ष्मीश् च पत्न्यौ ’ (चि०उ० १२)

इति तु नीलाया अप्य् उपलक्षणम् । ह्रीर् भूमिः । तत्र लक्ष्मीः प्रधान-महिषी ।

श्री-भू-नीलानाम् अनन्त-गरुडादीनां च देहः शुद्ध-सत्त्वमयः ।
नीलेत्यत्र लीलेत्य् अपि पाठः ।

अनन्त-गरुडेति

“यत्र पूर्वे साध्याः सन्ति देवाः’ (चि०उ० ११)
‘यत्रर्षयः प्रथमजा ये पुराणाः’ (तै० सं० ५.७.७)

इत्य् उक्तत्वान् नित्यासङ्कुचित-ज्ञानानाम् अनन्तादीनाम् अनुभव-विषयीभूतो ऽयम् । तद् उक्तम् —

वैकुण्ठे तु परे लोके नित्यत्वेन व्यवस्थिताः । पश्यन्ति च सदा देवं नेत्रैर् ज्ञानेन चामराः ॥

इति ।

अयम् एव मुक्त-प्राप्यः ।

सूर्य-कोटि-प्रतीकाशाः पूर्णेन्द्व्युत-सन्निभाः । यस्मिन् पदे विराजन्ते मुक्ताः संसार-बन्धनैः ॥

इत्य् उक्तत्वात् । तद् आह - मुक्तैश् च इति

व्यूहरूपस्य वर्णनम्

विश्वास-प्रस्तुतिः

१९. व्यूहो नाम
पर एव उपासनार्थं जगत्-सृष्ट्य्-आद्य्-अर्थं च
वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-भेदेन चतुर्धावस्थितः।

अण्णङ्गराचार्यः

‘व्यूह’ इति । पद्मगुणेषु गुणद्वयं व्यूह्यं विभज्य उद्रिक्तगुणद्विक[[??]]मूर्तिकतयाऽवस्थितः सङ्कर्षणादिः व्यूह उच्यते । व्यूहवासुदेवस्तु सङ्कर्षणादेरादिभूतः षड्गुणक एवोपास्यः । स चायं परवासुदेवात् प्रकटीभूतः । सर्वेषु रूपेषु परमात्मा चेतनस्त्वेक एवेति बोध्यम् ।
**‘उपासनार्थ’**मिति ।

चतुर्विधं स भगवान् मुमुक्षूणां हिताय वै ।
अन्येषामपि लोकानां सृष्टिस्थित्यन्तसिद्धये ॥

उपासकानुग्रहार्थं जगतो रक्षणाय च (विष्वक्सेन संहिता)

इति वचनमत्रानुसन्धेयम् । माण्डूक्ये च चतुर्व्यूहोपासनमेव व्यस्तसमस्तप्रणवकरणकं मोक्षार्थं विहितमिति श्रीकूरनारायणमुनिभिर्भाषितम् । अत्र

षाड्गुण्याद् वासुदेवः पर इति स भवान् मुक्तभोग्यो, बलाढ्यात्
बोधात् सङ्कर्षणस्त्वं हरसि वितनुषे शास्त्रमैश्वर्यं वीर्यात् ।
प्रद्युम्नस्सर्गधर्मौ गमयसि भगवन् शक्तितेजोऽनिरुद्धो
बिभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ॥

इति (श्रीरङ्ग - उत्तर) पद्यमनुसन्धेयम् ।

मूलम्

१९. व्यूहो नाम पर एव उपासनार्थं जगत्सृष्ट्याद्यर्थं च वासुदेवसङ्कर्षण- प्रद्युम्नानिरुद्ध भेदेन चतुर्द्धावस्थितः। तत्र षड्गुणपूर्णः श्रीवासुदेवः।

वासुदेवः

उपासनार्थम् इति । तथा चोपासकानुग्रहः सृष्ट्यादयश् च व्यूह-कृत्यम् इति सिद्धम् । संसारि-संरक्षणम् अस्यैव कृत्यम् ।

उपासक-अनुग्रहार्थं जगतो रक्षणाय च । इत्य् उक्तत्वात् ।

षड्गुणेति । ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजांसि षड्-गुणाः । तत्र ज्ञानं नाम सर्वदा सर्व-विषय-प्रकाशकः स्वप्रकाशो गुण-विशेषः । शक्तिर् जगत्-प्रकृति-भावो ऽघटित-घटना-सामर्थ्यं वा । बलं जगत्-कारणत्व-प्रयुक्त-श्रमाभावः समस्त-वस्तु-धारण-सामर्थ्यं वा । ऐश्वर्यं कर्तृत्व-लक्षणं स्वातन्त्र्यं समस्त-वस्तु-नियमन-सामर्थ्यं वा । वीर्यं जगद्-उपादानत्वे ऽपि स्वरूप-विकाराभावः । तेजः सहकारि-नैरपेक्ष्यं पराभिभवन सामर्थ्यं वेति ज्ञेयम् । सङ्कर्षण इति । ज्ञान-बलाभ्यां पूर्ण इत्य् अर्थः । सङ्कर्षण ऐश्वर्यादि-गुण-चतुष्टय-सद्भावे ऽपि ज्ञान-बल-रूपं गुण-द्वयम् एव प्रकाशते । तस्याधिकृत-कार्यानुगुणत्वात् । एवम् अग्रे ऽपि । तद् उक्तम् -

निगूहनं चतुष्काणां द्वन्द्वानां च प्रकाशनम् ॥

इति ।

एतेन मोहन-शक्त्या मनुष्यादि-सजातीय-शङ्कास्पदेषु विभवेष्व् अपि हि सिद्धं षाड्गुण्यं किम् उत व्यूहेष्व् इति सर्वेषां व्यूहानां षड्गुणाश्रयत्वेन गुण-द्वयोक्तिर् अयुक्तेत्य् अपास्तम् । गुण-द्वयोक्तेः प्रकाशित-गुणाभिप्रायकत्वात् । सङ्कर्षणादीनां कार्यं च तत्त्व-त्रये प्रतिपादितम् -

तत्र सङ्कर्षणो ज्ञान-बलाभ्यां युक्तो जीव-तत्त्वम् अधिष्ठाय तत्-प्रकृतेर् विविच्य प्रद्युम्नावस्थां प्राप्य शास्त्र-प्रवर्तनं जगत्-संहारं च करोति । प्रद्युम्न ऐश्वर्य-वीर्याभ्यां युक्तो मनस्-तत्त्वम् अधिष्ठाय धर्मोपदेशं मनु-चतुष्टय-प्रभृति-शुद्ध-वर्ग-सृष्टिं च करोति । अनिरुद्धः शक्ति-तेजोभ्यां युक्तो रक्षणस्य तत्त्व-ज्ञान-प्रदानस्य काल-सृष्टेर् मिश्र-सृष्टेश् च निर्वाहकः ।

इति । स्मृताव् अपि -

बलेन हरतीदं स गुणेन निखिलं मुने । ज्ञानेन तनुते शास्त्रं सर्व-सिद्धान्त-गोचरम् ॥ ऐश्वर्येण गुणेनासौ सृजते तच्-चराचरम् । वीर्येण सर्व-धर्माणि प्रवर्तयति सर्वशः ॥ शक्त्या जगद् इदं सर्वम् अनन्ताण्डं निरन्तरम् । बिभर्ति पाति च हरिर्मणि-सानुर् इवाणुकम् ॥ तेजसा निखिलं तत्त्वं ज्ञापयत्य् आत्मनो मुने ॥

इति ।

स सङ्कर्षणः । असौ प्रद्युम्नः । हरिर् अनिरुद्धः । तथा च सङ्कर्षणस्य कार्यं शास्त्र-प्रवर्तनं संहारश् च । प्रद्युम्नस्य धर्म-नयनं सृष्टिश् च । अनिरुद्धस्य तत्त्व-गमनं रक्षणं चेति । अत्रा ऽद्य-व्यूहस्य वासुदेवस्य षड्गुणतया ऽनुसन्धेयत्वात् तस्य परस्माद् अभेदं विवक्षित्वा क्वाचित्-त्रिव्यूहो देव इत्य् उक्तम् इति न तद्-विरोध इति बोध्यम् । प्रत्येकम् इति । केशव-नारायण-माधव-रूपं त्रयं वासुदेवाद् विभाव्यते । गोविन्द-विष्णु-मधुसूदन-रूपं त्रयं सङ्कर्षणात् । त्रिविक्रम-वामन-श्रीधर-रूपं त्रयं प्रद्युम्नात् । हृषीकेश-पद्मनाभ-दामोदर-रूपं त्रयम् अनिरुद्धाद् इति भावः ।

विश्वास-प्रस्तुतिः

तत्र षड्गुण-पूर्णः श्री-वासुदेवः,
ज्ञान-बलाभ्यां सङ्कर्षणः,
ऐश्वर्य-वीर्याभ्याम् प्रद्युम्नः,
शक्ति-तेजोभ्याम् अनिरुद्ध
इति गुणविभागः ।

अण्णङ्गराचार्यः

‘ज्ञानबलाभ्याम्’ इति । कार्यवशादुद्भूताभ्यामिति शेषः । एवमन्यत्रापि गुणद्विके बोध्यम् ।

शिवप्रसादः (हिं)

अनुवाद - परवासुदेव ही उपासना तथा सृष्टि आदि कार्यों के लिए जो वासुदेव, संकर्षण, प्रद्युम्न तथा अनिरुद्ध इन चार रूपों को धारण कर लेते हैं, उसे ही श्रीभगवान् का व्यूह रूप कहा जाता है ।
उनमें वासुदेव षाड्गुण्य से परिपूर्ण रहते हैं ।
संकर्षण ज्ञान एवं बल से परिपूर्ण रहते हैं ।
प्रद्युम्न ऐश्वर्यं एवं वीर्य से परिपूर्ण रहते हैं ।
अनिरुद्ध शक्ति एवं तेज से परिपूर्ण रहते हैं ।
इस प्रकार से भगवान् के गुणों का विभाग किया जाता है ।

शिवप्रसादः (हिं) - टिप्पनी

ईश्वर के व्यूह-रूप का वर्णन

भा० प्र०—व्यूह-रूप में परवासुदेव ही चार रूपों को धारण कर लेते हैं- वासुदेव, संकर्षण, प्रद्युम्न और अनिरुद्ध । व्यूहों की संख्या के विषय में मतभेद है। कुछ लोग तीन ही व्यूह को मानते हैं । वे लोग वासुदेव को व्यूह के अन्तर्गत नहीं मानते हैं, क्योंकि व्यूह-रूप में भी वासुदेव षाड्गुण्य से परिपूर्ण रहते हैं । किञ्च संकर्षणादि तीन व्यूह-रूपों में षाड्गुण्य का विभाग होता है । अतएव चार व्यूहों को स्वीकार नहीं करके वे तीन व्यूहों को ही स्वीकारते हैं ।

व्यूह-रूपों का प्रयोजन – यतीन्द्रमतदीपिकाकार श्रीभगवान् के व्यूह-रूप में अवतीर्ण होने के दो प्रयोजनों का निर्देश करते हैं- उपासकों पर अनुग्रह तथा सृष्टि, स्थिति एवं संहार क्रिया का सम्पादन । तत्त्वत्रयकार लोकाचार्य व्यूह - रूप धारण करने का तीसरा प्रयोजन बतलाते हैं-संसारी जीवों का संरक्षण । तथाहि - ‘व्यूहो नाम सृष्टिस्थितिसंहारार्थं संसारिसंरक्षणार्थम् उपासकानुग्रहार्थञ्च सङ्कर्षणप्रद्युम्नानिरुद्धरूपे - णावस्थानम्’ ( तत्त्वत्रयम् ३ । ३६ ) । इससे स्पष्ट है कि लोकाचार्य भी तीन ही व्यूहों को मानते हैं । पाञ्चरात्र की विश्वामित्रसंहिता में कहा गया है-

‘वासुदेवात् ततो जज्ञे सङ्कर्षणसमाह्वयः ।
तस्मात् प्रद्युम्नसम्भूतिरनिरुद्धस्ततोऽभवत् ॥
एते सर्वे चैकवक्त्राः चतुर्बाहुसमन्विताः ॥’
( विश्वामित्रसंहिता ४।१५-१६ )

अर्थात् तदनन्तर वासुदेव से भगवान् संकर्षण नाम से उत्पन्न हुए, उनसे प्रद्युम्न की उत्पत्ति हुई और प्रद्युम्न से अनिरुद्ध हुए । श्रीभगवान् के ये सभी रूप एक मुख वाले एवं चार भुजाओं वाले हैं । भगवत्-शास्त्र में भगवान् के व्यूह-रूपों के प्रयोजन का निर्देश करते हुए कहा गया है कि-

‘उपासकानुग्रहार्थं जगतो रक्षणाय च ।
आविरासीद् भगवतः पश्वायुधपरिष्कृतः ॥
सोऽयं सङ्कर्षणाख्योऽभूत् तदेकान्तवपुर्धरः ।
रुक्माभः सोऽयममलः सर्वशास्त्रेषु शब्दितः ॥
सोऽयं प्रद्युम्ननामाऽभूत् तदेकान्तवपुर्धरः ।
इन्द्रनीलप्रतीकाश एष शास्त्रेषु शब्दितः ॥
ततो नाम्नाऽनिरुद्धोऽयं स्वयमेवाऽभवन् मुने ।
तदेकान्तवपुर्युक्तः तादात्विकघनप्रभः ॥’

[[२५१]]

अर्थात् उपासकों पर कृपा करने के लिए तथा जगत् की रक्षा करने के लिए पञ्चायुधधारी जो भगवान् का रूप आविर्भूत हुआ, वही संकर्षण के नाम से प्रख्यात हुआ । भगवान् का वह रूप सुवर्ण के समान स्वच्छ, पीत वर्ण वाला सभी शास्त्रों में बतलाया गया है । उनसे ही प्रद्युम्न नामक भगवान् का रूप आविर्भूत हुआ, जिसे शास्त्रों में इन्द्रनीलमणि के समान कान्तिवाला बतलाया गया है । उनसे स्वयं भग- वान् अनिरुद्ध नाम से आविर्भूत हुए और उनकी कान्ति तत्कालीन मेघ के समान हुई ।

वासुदेव-रूप का वर्णन -
यतीन्द्रमतदीपिकाकार चार व्यूहों को स्वीकारते हुए कहते हैं - तत्र षाड्गुण्यपरिपूर्ण० इत्यादि - अर्थात् भगवान् का जो वासुदेव व्यूह-रूप होता है, उसमें उनके ज्ञान, शक्ति, बल, ऐश्वर्य, वीर्य एवं तेज – ये छह गुण आविर्भूत स्वरूप रहते हैं । इनका अनुभव नित्य-मुक्तजीव ही कर पाते हैं ।

संकर्षण रूप का वर्णन -
भगवान् के संकर्षण रूप में उनके ज्ञान और बल ये दो गुण उद्रिक्त रहते हैं। इसके अतिरिक्त उनके अन्य चार गुण अभिभूत रहते हैं । भगवान् के संकर्षण-रूप का वर्णन करते हुए विष्वक्सेनसंहिता में कहा गया है कि-

‘तत्र ज्ञानबलद्वन्द्वाद्रूपं सङ्कर्षणं हरेः । बलज्ञानगुणौ तस्य स्फुटौ कार्यवशान्मुने ॥
सोऽयं समस्तजीवानामधिष्ठातल्या स्थितः । जीवतत्त्वमधिष्ठाय प्रकृतेस्तु विविच्य तत् ॥’

अर्थात् श्रीभगवान् के उन छह गुणों में से ज्ञान और बल से परिपूर्ण भगवान् संकर्षण का रूप होता है । हे मुने ! कार्यवशात् संकर्षण रूप में श्रीभगवान् के ज्ञान और बल, ये दो गुण स्फुट रहते हैं । संकर्षण रूप से भगवान् समस्त जीवों के अधि- ष्ठाता - रूप से विद्यमान रहते हैं । जीवतत्त्व को अधिष्ठित करके उसे प्रकृति से विविक्त करते हैं ।

विश्वामित्रसंहिता में आगे कहा गया है कि-

‘विवेकानन्तरं देवः प्रद्युम्नत्वमवाप सः ।
शास्त्रप्रवर्तनञ्चापि संहारञ्चैव देहिनाम् ।
बलेन हरतीदं सं गुणेन निखिलं मुने ।’

प्रकृति से पुरुष को अलग करके भगवान् संकर्षण प्रद्युम्न रूप को धारण कर [[२५२]] लिए । भगवान् संकर्षण ही शास्त्रों का प्रवर्तन तथा शरीरधारियों का विनाश करते हैं । हे मुने ! ये बल नामक गुण के द्वारा सम्पूर्ण जगत् का संहार करते हैं ।

प्रद्युम्न रूप का वर्णन — करते हुए यतीन्द्रमतदीपिकाकार कहते हैं- ऐश्वर्य- वीर्याभ्याम् इत्यादि - अर्थात् भगवान् के प्रद्युम्न-रूप में उनके ऐश्वर्य एवं वीर्य ये दो गुण उद्रिक्त होते हैं । इस रूप से वे मनस्तत्त्व के अधिष्ठाता होते हैं । इस रूप से भगवान् धर्म का उपदेश तथा मनु-चतुष्टय आदि शुद्ध वर्ग की सृष्टि करते हैं । इस अर्थ का प्रतिपादन करते हुए विश्वक्सेनसंहिता में कहा गया है कि-

‘ऐश्वर्य-वीर्य-सम्भेदाद्रूपं प्रद्युम्नमुच्यते ।
मनसोऽयमधिष्ठाता मनोमय इतीरितः ॥
ऐश्वर्येण गुणेनासी सृजते तच्चराचरम् ।
वीर्येण सर्वधर्मान् प्रवर्तयति सर्वशः ॥
मनूनां सर्गमकरोत् मुखबाहूरुपादतः
चतूर्णां ब्राह्मणादीनां सर्गद्वारं जगत्पतिः ॥
द्विजयुग्मं क्षत्रयुग्मं वैश्ययुग्मं तथैव च ।
मिथुनञ्च चतुर्थस्य एतन्मनुचतुष्टयम् ॥’

ऐश्वर्य एवं वीर्यं नामक गुण के उद्रिक्त होने के कारण भगवान् का यह रूप प्रद्युम्न कहलाता है । मनस्तत्त्व का अधिष्ठाना होने के कारण भगवान् का यह रूप मनोमय कहलाता है । भगवान् प्रद्युम्न अपने ऐश्वर्य नामक गुण के द्वारा चराचर की सृष्टि करते हैं । वीर्य नामक गुण के द्वारा ये सभी धर्मों को प्रवर्तित करते हैं । इन्होंने मुख, बाहु, उरु और पाद के द्वारा ब्राह्मण आदि चार मनुओं की सृष्टि की, जो सृष्टि के द्वार हैं । ब्राह्मण युगल, क्षत्रिय युगल, वैश्य युगल तथा शूद्र युगल ही मनु-चतुष्टय कहलाते हैं ।

अनिरुद्ध-रूप का वर्णन करते हुए यतीन्द्रमतदीपिकाकार कहते हैं- ‘शक्ति- तेजोभ्याम् इत्यादि - अर्थात् भगवान् के अनिरुद्ध रूप में उनके शक्ति एवं तेज नामक दो गुण आविर्भूत रहते हैं । अनिरुद्ध रूप से भगवान् जगत् की रक्षा करते हैं । इसी रूप से वे तत्त्वज्ञान-प्रदान, कालसृष्टि तथा मिश्रसृष्टि का निर्वाह करते हैं । पराशरीय धर्मशास्त्र के उत्तरखण्ड में कहा गया है-

‘जगत् सृष्टिस्थितिलयान् कुर्वतो गुणभेदतः ।
ऐश्वर्यवीर्यवान् सर्वे प्रद्युम्नं प्रत्यपद्यत ॥
तेजः शक्तिः समाविश्य ह्यनिरुद्धोऽप्यपालयत् ।
ज्ञानवान् बलवान् लोकान् ग्रसत् सङ्कर्षणोऽव्ययः ॥ '

[[1]]

( पराशरीय धर्मशास्त्र उ० ख० ६।६९-७० )

अर्थात् भगवान् तत् तत् रूपों में होने वाले गुणों के भेद से जगत् की सृष्टि, स्थिति एवं संहार करने का कार्य करते हैं । वे अपने ऐश्वर्य एवं वीर्य सम्पन्न प्रद्युम्न - रूप से जगत् को उत्पन्न करते हैं। तेज तथा शक्ति सम्पन्न अनिरुद्ध रूप से वे जगत् का पालन [[२५३]] करते हैं । ज्ञान एवं बल सम्पन्न अपने संकर्षण - रूप से जगत् का संहार का कार्य करते हैं ।

मूलम्

तत्र षड्गुणपूर्णः श्रीवासुदेवः। ज्ञानबलाभ्यां सङ्कर्षणः । ऐश्वर्यवीर्याभ्याम् प्रद्युम्नः । शक्ति तेजोभ्याम् अनिरुद्ध इति गुणविभागः ।

विश्वास-प्रस्तुतिः

२०. एतेषु चतुर्षु
प्रत्येकं त्रयस्-त्रयो +++(→४*३)+++ ऽवतीर्णाः केशवादयो व्यूहान्तराणि
द्वादश-मासानां द्वादशादित्यानां च अधिदैवतानि ।
ऊर्ध्वपुण्ड्रेषु तेषाम् एव स्थापनं विधीयते ।

अण्णङ्गराचार्यः

**‘ऊर्ध्वपुण्ड्रेषु चे’**ति । द्वादश[[??]]सूर्ध्वपुण्ड्रेषु केशवादिना न्यासो विधीयत इत्यर्थः । ‘शरीररक्षकाश्चैते ध्यायिना खेदशान्तये ॥’ (पाञ्चरात्रे) इति च श्रूयते ।

शिवप्रसादः (हिं)

इस प्रकार इन प्रत्येक चारों में तीन-तीन अवतीर्ण होकर केशवादि व्यूहान्तरों की संख्या द्वादश होती है । ये बारहों व्यूहान्तर द्वादश मासों तथा द्वादश आदित्यों के अधिष्ठातृ देवता होते हैं । धारण किये जाने वाले द्वादश ऊर्ध्वपुण्ड्रों [[२५०]] में उनकी स्थापना की जाती है ।

मूलम्

२०. एतेषु चतुर्षु प्रत्येकं त्रयस्त्रयोऽवतीर्णाः केशवादयो व्यूहान्तराणि द्वादश-मासानां द्वादशादित्यानां च अधिदैवतानि । ऊर्ध्वपुण्ड्रेषु तेषामेव स्थापनं विधीयते ।

विश्वास-प्रस्तुतिः

२१. तत्र कनक-प्रभः केशवश् चतुश्-चक्र-धरः ।
श्यामो नारायणश् चतुः-शङ्ख-धरः ।
मणि-प्रभाभो माधवश् चतुर्-गदाधरः ।
चन्द्राभो गोविन्दश् चतुः-शार्ङ्ग-धरः ।
पद्म-किञ्जल्क-सन्निभो विष्णुश् चतुर्-हल-धरः ।
अब्जाभो मधुसूदनश् चतुर्-मुसल-धरः ।
अग्नि-वर्णस् त्रि-विक्रमश् चतुः-खड्ग-धरः ।
बाल-सूर्याभो वामनश् चतुर्-वज्र-धरः ।
पुण्डरीकाभः श्रीधरश् चतुष्-पट्टीश-धरः ।
तडित्-प्रभो हृषीकेशश् चतुर्-मुद्गर-धरः ।
सूर्याभः पद्म-नाभः पञ्चायुध-धरः।
इन्द्र-गोप-निभो दामोदरश् चतुष्-पाश-धरः।

अण्णङ्गराचार्यः

मणिप्रभ इति । इन्द्रनीलमणिनिभश्याम इत्यर्थः ।
‘चतुर्गदः’ इति । चतुर्गदाधर इति पाठान्तरम् । एवमग्रेऽपि चतुश्शार्ङ्गधर इत्यादि बोध्यम् । ‘पुरस्तात् केशवः पातु चक्री जाम्बूनदप्रभः’ इत्यादि द्वादशनामपञ्जरस्तोत्रे केशवादीनामेतेषां वर्णायुधभेदो मूलोक्तप्रकारेण वर्णितोऽस्ति ।

शिवप्रसादः (हिं)

उनमें केशव स्वर्ण के सदृश कान्तिवाले तथा चार चक्र धारण करने वाले हैं । नारायण श्याम वर्ण के सदृश कान्ति तथा चार शंख धारण करने वाले हैं । मणि के समान प्रभावाले माधव चार गदाओं को धारण करते हैं । चन्द्रमा के समान कान्तिवाले गोविन्द चार शार्ङ्ग धारण करते हैं । पद्मपराग के वाले विष्णु चार हल धारण करते हैं । कमल के समान कान्तिवाले मधुसूदन चार मुसल धारण करते हैं । अग्नि के समान कान्तिवाले त्रिविक्रम चार खड्ग धारण करते हैं। बालसूर्य के समान कान्तिवाले वामन चार वज्र धारण करते हैं । पुण्डरीक के समान कान्तिवाले श्रीधर चार पट्टीस धारण करते हैं । विद्युत् के समान प्रभावाले हृषीकेश चार मुद्गर धारण करते हैं । सूर्य के समान आभावाले पद्मनाभ पश्चायुध ( शंख. चक्र, गदा, कृपाण एवं धनुष्) धारण करते हैं । इन्द्रगोप के समान प्रभावाले दामोदर चार पाश धारण करते हैं ।

शिवप्रसादः (हिं) - टिप्पनी

द्वादश व्यूहान्तरों का निरूपण-चार व्यूहों में से प्रत्येक से तीन-तीन व्यूहान्तरों का आविर्भाव होता है । केशव, नारायण, माधव, गोविन्द, विष्णु, मधुसूदन, त्रिवि - क्रम, वामन, श्रीधर, हृषीकेश, पद्मनाभ और दामोदर, ये द्वादश भगवान् के व्यूहान्तर- रूप कहे जाते हैं । ये क्रमशः बारह महीनों तथा बारह आदित्यों के अधिष्ठातृ देवता होते हैं ( पीछे द्वादश आदित्यों के नाम बतलाए जा चुके हैं ) । इन द्वादश व्यूहान्तरों का स्थान श्रीवैष्णवों के द्वारा धारण किये जाने वाले द्वादश ऊर्ध्वपुण्ड्रों में होता है । इन द्वादश व्यूहान्तरों के स्वरूप का निरूपण यतीन्द्रमतदीपिकाकार ने मूल में यहाँ विस्तृत रूप से किया है ।

मूलम्

२१. तत्र कनकप्रभः केशवश्चतुश्चक्रधरः । श्यामो नारायणश्चतुःशङ्खधरः । मणि-प्रभाभो माधवश्चतुर्गदाधरः । चन्द्राभो गोविन्दश्चतुःशार्ङ्गधरः । पद्मकिञ्जल्क-सन्निभो विष्णुश्चतुर्हलधरः । अब्जाभो मधुसूदनश्चतुर्मुसलधरः । अग्निवर्णस्त्रि-विक्रमश्चतुःखड्गधरः । बालसूर्याभो वामनश्चतुर्वज्रधरः । पुण्डरीकाभः श्रीधरश्चतु- ष्पट्टीशधरः । तडित्प्रभो हृषीकेशश्चतुर्मुद्गरधरः । सूर्याभः पद्मनाभः पञ्चायुधधरः। इन्द्रगोपनिभो दामोदरश्चतुष्पाशधरः।

वासुदेवः

मणि-प्रभः । इन्द्र-नील-निभः ।

इन्द्र-नील-निभ-श्यामं चतुर्हस्तैर् गदाधरम् ।

इत्य् उक्तत्वात् ।

चतुः-शार्ङ्गधर इति । चतुः पद्म-घर इत्य् अपपाठः ।

चतुर्भुज-धनुष्मन्तं चन्द्रमः सदृश-द्युतिम् ।

इत्य् उक्तत्वात् ।

विभव-रूपस्य वर्णनम्

विश्वास-प्रस्तुतिः

२२. विभवो नाम तत्-तत्-सजातीय-रूपेणाविर्भावः ।
स दश-धा –
ते च मत्स्यादयो ऽवतार-विशेषाः ।

शिवप्रसादः (हिं)

अनुवाद - विभव रूप में भगवान् देव-मनुष्यादि के सजातीय रूप से अवतीर्ण होते हैं। श्री भगवान् के प्रसिद्ध तथा प्रधान दश विभव-रूप हैं । ये सभी भगवान् के मत्स्य, कूर्म आदि अवतार - विशेष हैं ।

मूलम्

२२. विभवो नाम तत्तत्सजातीयरूपेणाविर्भावः।
स दशधा – ते च मत्स्यादयोऽवतारविशेषाः ।

वासुदेवः

विभव इति । विभवश् च मुख्य-गौण-भेदाद् द्विविधः । तत्र मुख्यः साक्षाद्-अवतारः । गौणस् त्व् आवेशावतारः । आवेशश् च स्वरूपावेशः शक्त्य्-आवेश इति द्विविधः । तत्र स्वरूपावेशः स्वेन रूपेण सहा ऽऽवेशः । स च परशुरामादीनां चेतनानां शरीरेषु स्वासाधारण-विग्रहेण सहा ऽऽवेशः । शक्त्य्-आवेशः कार्य-काले विधि-शिवादि-चेतनेषु शक्ति-मात्रेण स्फुरणम् । अत्र गौणत्वम् इच्छया ऽऽगतं न स्वरूपेण । यथा राम-कृष्णादि-मनुष्यत्वं मत्स्यादि-तिर्यक्त्वं चेच्छया ऽऽगतं तद्वत् ।

विश्वास-प्रस्तुतिः

२३. तत्र वेदापहारि-दैत्य-निरसन-द्वारा
ब्रह्मणे वेद-प्रमाण-प्रदानार्थम् अवतीर्णो मत्स्यावतारः
देवानाम् अ-जरा-मृति-हेत्व्–अ-मृतोत्पादने
मन्दराधारत्वेन +अवतीर्णः कूर्मावतारः
संसार-सागरोन्मग्न-जनोद्धर्तु-कामः
स्व-महिषी-भूम्य्-उद्धरणार्थम् अवतीर्णो वराहावतारः
आश्रित-संरक्षणार्थम्
महासुरं हन्तुं
स्तम्भे अवतीर्णो नृसिंहावतारः

त्रिविक्रमो भूत्वा
स्व-पादारविन्दोद्भवेन जलेन
जगत्-पाप-हरणेन तद्-रक्षणार्थम् अवतीर्णो वामनावतारः
दुष्ट-क्षत्रिय-निरसनार्थम् अवतीर्णः परशुरामावतारः
शरणागत-रक्षण-धर्म-स्थापनार्थम् अवतीर्णः श्रीरामावतारः
प्रलम्बादि-निरसनार्थम् अवतीर्णो बल-रामावतारः
मोक्षोपाय-दर्शनार्थम् अवतीर्णः श्रीकृष्णावतारः
अर्धर्मिष्ठान् निरस्य पूर्ण-धर्मोत्पादनार्थं कलि-निर्मोचनार्थं कल्क्य्-अवतारः

शिवप्रसादः (हिं)

वेदों का अपहरण करने वाले दैत्य हिरण्याक्ष का वध करके ब्रह्मा को वेद रूपी प्रमाण ( शास्त्र ) प्रदान करने के लिए भगवान् मत्स्यावतार के रूप में अवतीर्ण हुए। देवताओं को अजर-अमर बनाने के लिए अमृत [[२५४]] उत्पन्न करने के लिए मन्दराचल पर्वत के आधार रूप से अवतीर्ण होने वाला भगवान् का कूर्मावतार है । संसारसागर में डूबते हुए जीवों का उद्धार करने के लिए तथा अपनी पत्नी भूदेवी का उद्धार करने के लिए अवतीर्ण होने वाला भगवान् का वराहा- वतार है । अपने आश्रित ( प्रह्लाद ) की रक्षा करने के लिए महाराक्षस (हिरण्य कशिपु ) के घर के स्तम्भ से उत्पन्न भगवान् का नरसिंहावतार है । त्रिविक्रम होकर भगवान् अपने चरणारविन्द से उत्पन्न जल के द्वारा संसार का पाप विनष्ट करके संसार की रक्षा करने के लिए अवतीर्ण श्रीभगवान् का वामनावतार है। दुष्ट क्षत्रियों का विनाश करने के लिए होने वाला भगवान् का परशुरामावतार है । शरणागत जीवों की रक्षा रूपी धर्म की संस्थापना हेतु होने वाला भगवान् का अवतार श्रीरामा- वतार है । प्रलम्ब आदि राक्षसों का विनाश करने के लिए होने वाला भगवान् का अवतार बलरामावतार है । मोक्ष के उपाय का ज्ञान प्रदान करने हेतु होने वाला भगवान् का अवतार श्रीकृष्णावतार है । अधार्मिकों का विनाश करके पूर्ण धर्म को प्रवर्तित करने के लिए होने वाला भगवान् का अवतार कल्की अवतार है ।

मूलम्

२३. तत्र वेदापहारिदैत्यनिरसनद्वारा ब्रह्मणे वेदप्रमाणप्रदानार्थमवतीर्णो अवतीर्णो मत्स्याव-तारः। देवानाम् अजरामृतिहेत्वमृतोत्पादने मन्दराधारत्वेनावतीर्णः कूर्मावतारः। संसारसागरोन्मग्नजनोद्धर्तुकामः स्वमहिषीभूम्युद्धरणार्थम् अवतीर्णो वराहावतारः। आश्रितसंरक्षणार्थम् महासुरं हन्तुं स्तम्भे अवतीर्णो नृसिंहावतारः ।

त्रिविक्रमो भूत्वा स्वपादारविन्दोद्भवेन जलेन जगत्पापहरणेन तद्रक्षणार्थम् अवतीर्णो वामनावतारः । दुष्टक्षत्रियनिरसनार्थम् अवतीर्णः परशुरामावतारः । शरणागतरक्षणधर्मस्थापनार्थमवतीर्णः श्रीरामावतारः । प्रलम्बादिनिरसनार्थम् अवतीर्णो बलरामावतारः । मोक्षोपायदर्शनार्थम् अवतीर्णः श्रीकृष्णावतारः । अर्धर्मिष्ठा-न्निरस्य पूर्णधर्मोत्पादनार्थं कलिनिर्मोचनार्थं कल्क्यवतारः ।

विश्वास-प्रस्तुतिः

२४. एवं दशावतारेष्व् अप्य् एकैकावतारोऽनन्तप्रकारः।
षट्-त्रिंशद्-भेद-भिन्नाः पद्म-नाभादयोऽपि ।
पुनर् दधि-भक्त–हय-ग्रीव–नर–नारायणादयो ऽपि ।

एवम् मुख्य-गौण-पूर्णावेशाद्य्-अवतारा बहु-प्रकाराः ।
तेषु उपास्यानुपास्य-विभागो द्रष्टव्यः ।

अण्णङ्गराचार्यः

‘षट्त्रिंशद्भेदभिन्ना’ इति । यद्यप्यहिर्बुध्न्यसहितायाम् एकोनचत्वारिंशदुक्ता विभवाः । अथापि तेषु कपिलदत्तात्रेयपरशुरामाणामावेशावतारत्वेन गौणत्वान्मुख्यावताराः षट्त्रिंशदिति विष्वक्सेनसंहितायां वर्णनादत्रापि तथैवोक्तम् ।
**‘पुनर्दधिभक्ते’**ति । एकैकस्माद्विभवात् प्रादुर्भूताः प्रादुर्भावान्तरसंज्ञका विभवा दधिभक्तादयः, इत्यर्थः । एतस्य सर्वस्यार्थस्य विवरणं तत्त्वत्रयभाष्ये ईश्वरप्रकरणे द्रष्टव्यम् । अत्रेदं बोध्यम् । क्वचित्

तद्धि वासुदेवाख्यं परं ब्रह्म सम्पूर्णषाड्गुण्यवपुःसूक्ष्मव्यूहविभवभेदभिन्नः यथाधिकारं भक्तैः ज्ञानपूर्वेण कर्मणाऽभ्यर्चितः सम्यक् प्राप्यते

इत्युक्तम् (भगवच्छास्त्रे) ।

विभवार्चनात् व्यूहंप्राप्य व्यूहार्चनात् परं ब्रह्म वासुदेवाख्यं प्राप्यते

इति । एवम्

अर्चोपासनया क्षिप्ते
कल्मषेऽधिकृतो भवेत् ।
विभवोपासने पश्चाद्
व्यूहोपास्तौ ततः परम् ।
सूक्ष्मे तद्-अनु शक्तस् स्याद्
अन्तर्यामिणम् ईक्षितुम्

इति च ।

क्वचिद् विभवाद्य्-उपासनस्यापि साक्षान्-मोक्षसाधनत्वं च श्रूयते ।
अत्र श्रीमन्निगमान्तमहादेशिकैरित्थं व्यवस्थापितं न्यायसिद्धाञ्जने - तत्तत्फलकामनया, उत्तरोत्तरमूलरूपोपासनाधिकारसम्पत्तिकामनया वाऽर्चाद्युपासने तत्तदपेक्षितसिद्धिर्भवति । व्यापकमन्त्रेण मुमुक्षयाऽर्चाद्युपासने क्रियमाणे पुनर्मोक्षफलं तेषामुपासकानां हस्तापचेयं भवतीति ॥

शिवप्रसादः (हिं)

इन दस अवतारों में से प्रत्येक अवतार अनन्त प्रकार के हैं । भगवान् के पद्मनाभ आदि भी छत्तीस अवतार हैं तथा दधिभक्त, हयग्रीव एवं नर-नारायण आदि भगवान् के अवतार हैं । इस प्रकार से भगवान् के अवतार के — मुख्यावतार, गौणावतार, पूर्णावतार तथा आवेशावतार आदि अनेक भेद हैं । इन अवतारों के दो भेद किये जाते हैं- उपास्यावतार तथा अनुपास्यावतार ।

शिवप्रसादः (हिं) - टिप्पनी

ईश्वर के विभव-रूपों का वर्णन

भा० प्र० - श्रीभगवान् के विभवावतारों की संख्या अनन्त है । फिर भी उन अवतारों को दो भागों में विभक्त किया जाता है - मुख्यावतार एवं गौणावतार । भगवान् का मनुष्यादिकों के सजातीय रूप से अवतीर्ण होने को उनका विभवावतार कहा जाता है ।

भगवान् के साक्षात् अवतार मुख्यावतार कहे जाते हैं
और उनके आवेशावतारों को गौण अवतार कहा जाता है ।
राम-कृष्ण आदि के रूप में होने वाले अवतार भगवान् के साक्षात् अवतार हैं । अत एव ये अवतार मुख्यावतार हैं।
और श्रीपरशुराम आदि में शक्ति का आवेश होने से ये अवतार आवेशावतार हैं ।

जिस प्रकार भगवान् अपनी इच्छा से ही
राम-कृष्ण आदि मनुष्य रूप से,
मत्स्य, कूर्म, वाराह आदि तिर्यक् रूप से अवतरित होते हैं,
उसी प्रकार शक्ति आदि के आवेश से होने वाले गौणावतार भी
अपनी इच्छा मात्र से भगवान् धारण करते हैं ।

श्रीभगवान् का गौणावतार भी स्वाभाविक ही है ।

जिस प्रकार किसी प्रदीप से जलाया गया दूसरा प्रदीप अपने कारणभूत प्रदीप के समान स्वभाव से युक्त होता है, उसी प्रकार गौण एवं मुख्य, इन दो भेदों से युक्त [[२५५]] भगवान् के अवतार भी मुमुक्षु जीवों के द्वारा भगवान् के ही समान उपास्य होते हैं, क्योंकि ये अवतार भी दिव्य विग्रह, ऐश्वर्य एवं स्वभाव आदि से युक्त होते हैं ।

केवल नित्य-मुक्त जीवों द्वारा ही अनुभव किये जाने योग्य होने से परवासुदेव को नित्योदित कहा जाता है
तथा व्यूहमूर्ति वासुदेव शान्तोदित कहे जाते हैं ।
विष्वक्सेनसंहिता में श्रीभगवान् के छत्तीस विभवावतार बतलाए गये हैं ।

भगवान् के अवतारों के प्रयोजन को बतलाते हुए कहा गया है कि
भगवान् दुष्टों का निरास
तथा सज्जनों की सुरक्षा करने हेतु
अवतार ग्रहण करते हैं ।

मूलम्

२४. एवं दशावतारेष्वप्येकैकावतारोऽनन्तप्रकारः । षट्त्रिंशद्भेद-भिन्नाः पद्मनाभादयोऽपि । पुनर्दधिभक्तहयग्रीवनरनारायणादयोऽपि । एवम् मुख्यगौणपूर्णावेशाद्यवतारा बहुप्रकाराः । तेषु उपास्यानुपास्यविभागो द्रष्टव्यः ।

वासुदेवः

षट्त्रिंशद्-भेदेति

नन्व् अहिर्बुध्न्य-संहितायाम् एकोन-चत्वारिंशद् उक्ताः । तथा हि -

विभवाः पद्मनाभाद्यास् त्रिंशच् च नव चैव हि । पद्मनाभो ध्रुवो ऽनन्तः शक्त्य्-आत्मा मधुसूदनः ॥ विद्याधिदेव-कपिलो विश्व-रूपो विहङ्गमः । क्रोधात्मा वडवावक्त्रो धर्मो वागीश्वरस् तथा ॥ एकाम्भोनिधि-शायी च भगवान् कमठेश्वरः । वराहो नरसिंहश् च पीयूष-हरणस् तथा ॥ श्रीपतिर् भगवान् देवः कान्तात्मा ऽमृत-धारकः । राहु-जित् कालनेमि-घ्नः पारिजात-हस्त तथा ॥ लोक-नाभस् तु शान्तात्मा दत्तात्रेयो महाप्रभुः । न्यग्रोध-शायी भगवान् एक-शृङ्ग-तनुस् तथा ॥ देवो वामन-देहस् तु सर्वव्यापी त्रिविक्रमः । नरो नारायणश् चैव हरिः कृष्णस् तथैव च ॥ ज्वलत्-परशुधृ-ग्रामो रावाश्-चान्वश् चतुर् गति । वेद-विद् भगवान् कल्की पाताल-शयितः प्रभुः ॥ त्रिंशच् च नव चैवैते पद्मनाभादयो मताः ॥

इति । तत् कथम् अत्र षट्त्रिंशद् इत्य् उक्तम् इति चेन् न । कपिल-दत्तात्रेय-परशुरामाणाम् आवेशावतारत्वात् तान् विहायात्र षट्त्रिंशद् इत्य् उक्तेः । दधि-भक्तेति । तत्रामृत-प्रदानार्थम् अङ्गीकृतो दधि-भक्तावतारः । वेद-प्रदानार्थो हयग्रीवावतारः । शिष्याचार्य-रूपे स्थित्वा श्री-मन्त्र-प्रकाशकृन् नर-नारायणावतारः ।

तेष्व् इति । तद् उक्तं तत्त्व-त्रये -

तत्राप्राकृत-विग्रहा अजहत्-स्वभाव-विभवा दीपाद् उत्पन्न-दीपवत् स्थिता मुख्य-प्रादुर्भावाः सर्वे मुमुक्षूणाम् उपास्याः । विधि-शिव-पावक-व्यास-जामदग्न्यार्जुन-वित्तेशादि-रूपा गौण-प्रादुर्भावाः सर्वे ऽहङ्कार-युक्त-जीवाधिष्ठातृत्वान् मुमुक्षूणाम् अनुपास्याः ।

इति । अत्रा ऽऽदि-शब्देन ककुत्स्थ-मुचुकुन्द-सङ्ग्रहः । विविशिवादयश् च बुभुक्षूणाम् एवोपास्या इति बोध्यम् । इच्छैवेति । ‘सम्भवाम्य् आत्म-मायया’ (गी० ४.६) इत्यत्र ऽत्म-माययेत्यस्या ऽऽत्मेच्छयेत्य् अर्थः । न कर्मेति

न च -

पतिव्रता धर्म-परा हता येन मम प्रिया । स तु प्रिया-विरहितश् चिर-कालं भविष्यति ॥

इत्य् एतादृश-भृगु-शापादिभिर् जात इति कथम् उक्तम् इति वाच्यम् । तत्र शापो व्याज-मात्रम् अवतारस् त्व् इच्छा-प्रयुक्त एवेत्य् आशयात् ।

विश्वास-प्रस्तुतिः

२५. अवताराणाम् इच्छैव हेतुः,
न तु कर्म ।
प्रयोजनं तु दुष्कृति-विनाश-पूर्वकं साधु-परित्राणम् एव ।

शिवप्रसादः (हिं)

भगवान् अपनी इच्छा से ही तत् तत् अवतारों को धारण करते हैं, उनके अवतार कर्म-प्रेरित नहीं होते हैं । अवतारों का प्रयोजन दुष्टों का निरासपूर्वक सज्जनों की सुरक्षा ही हैं ।

शिवप्रसादः (हिं) - टिप्पनी

गीता में भगवान् के अवतार ग्रहण का प्रयोजन बतलाते हुए कहते हैं-

‘परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥’

अर्थात् सज्जनों की सुरक्षा करने के लिए, दुष्टों का विनाश करने के लिए तथा धर्म की संस्थापना करने के लिए मैं प्रत्येक युगों में अवतार ग्रहण करता हूँ । इन सभी अवतार के प्रयोजनों में सज्जनों का परित्राण ही मुख्य प्रयोजन है । धर्मसंस्था- पन तथा दुष्टों का विनाश तो सर्वशक्तिमान् श्रीभगवान् श्रीवैकुण्ठलोक में रहकर अपने सत्यसंकल्पमात्र से भी कर सकते हैं, किन्तु सज्जनों की सुरक्षा का कार्य वैकुण्ठ- लोक में रहकर नहीं किया जा सकता है । जो जीव दीर्घकाल से निरन्तर निरन्तराय इसीलिए तपस्या करते हैं कि मैं श्रीभगवान् के दिव्यमङ्गलमय विग्रह को देख सकूं । उनको अपने पुत्र-रूप में प्राप्त कर सकूं तो ऐसे सज्जनों की सुरक्षा तो भगवान् अपने अवतार को ग्रहण करके ही कर सकते हैं । अतएव अवतार ग्रहण का मुख्य प्रयोजन है— सज्जन-परित्राण ।

मूलम्

२५. अवताराणामिच्छैव हेतुः, न तु कर्म । प्रयोजनं तु दुष्कृतिविनाशपूर्वकं साधुपरित्राणमेव ।

वासुदेवः

प्रयोजनं त्व् इति । अत एव उक्तम् -

परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापनार्थाय सम्भवामि युगे युगे ॥ (गी० ४.८)

इति ।

अन्तर्यामि-रूपस्य वर्णनम्

विश्वास-प्रस्तुतिः

२६. अन्तर्यामित्वं नाम
स्वर्ग-नरकाद्य्-अनुभव-दशायाम् अपि
जीवात्मनः सुहृत्त्वेन
योगिभिर् द्रष्टव्यतया
हृदय-प्रदेशावस्थितं रूपम् ।
जीवेन साकं विद्यमानोऽपि
तद्-गत-दोषैर् अ-संस्पृष्टो वर्तते ।

शिवप्रसादः (हिं)

अनुवाद - जीवों द्वारा स्वर्ग, नरक आदि के अनुभव की दशा में भी जीवात्मा के मित्र रूप से योगियों द्वारा देखे जाने योग्य रूप से जीवों के हृदय प्रदेश में रहने वाला जो भगवान् का रूप है, वही अन्तर्यामी कहलाता है । जीव के साथ रहने पर भी जीव के दोषों से परमात्मा के इस रूप का संस्पर्श नहीं होता है ।

शिवप्रसादः (हिं) - टिप्पनी

ईश्वर के अन्तर्यामी रूप का वर्णन

भा० प्र० - अन्तर्यामी रूप का वर्णन करते हुए भगवान् स्वयं गीता में कहते हैं— ‘ईश्वरः सर्वभूतानां हृद्-देशेऽर्जुन ! तिष्ठति ।’ अर्थात् हे अर्जुन ! ईश्वर सभी जीवों के हृदय में अन्तर्यामी रूप से सदा विद्यमान रहता है । श्रीभगवान् अन्तर्यामी रूप से जीव के साथ सर्वदा रहा करते हैं । वे कभी भी जीव का के स्वर्गादि सुखों के अनुभव तथा नारकीय दुःखादि के साथ नहीं छोड़ते हैं । जीव अनुभव - काल में भी वे उनके [[२५६]] साथ सदा बने ही रहते हैं । वे जीवों के हृदय प्रदेश में सदा विद्यमान रहते हैं ।

यहाँ पर कोई कह सकता है कि यदि भगवान् अन्तर्यामी रूप से सर्वदा उसके साथ विद्य मान रहते हैं तो वे जीवों के द्वारा सुख-दुःखादि का अनुभव करते समय स्वयं भी सुखादि का अनुभव करते होंगे ? तो इस शंका का समाधान करते हुए यतीन्द्रमत- दीपिकाकार कहते हैं कि जीवों के साथ सदा रहते हुए भी अन्तर्यामी भगवान् जीवों के दोषों से उसी प्रकार असंस्पृष्ट रहते हैं, जिस प्रकार जीवात्मा सदा शरीर के साथ रहकर भी शरीर के दोषों से असंस्पृष्ट रहता है । परमात्मा के इस अन्तर्यामी रूप का वर्णन करती हुई श्रुति कहती है- ‘य आत्मानमन्तरो यमयति स ते आत्मान्तर्याम्यमृतः ’ (शतपथब्राह्मण १४।५।३० ) । अर्थात् जो परमात्मा आत्मा के भीतर रहकर उसका नियमन करता है, वही तुम्हारी आत्मा अमृत अन्तर्यामी है । ‘अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा’ ( तै० आ० ३।११।३ ) श्रुति कहती है कि आत्मा सभी जीवों के भीतर प्रवेश करके नियमन करने के कारण सबों की आत्मा है ।

परमात्मा के इस अन्तर्यामी रूप का ही योगिजन साधनसप्तकानुगृहीत अन्तः- करण के हो जाने पर अष्टाङ्गयोग के क्रम से निर्विकल्पक समाधि की अवस्था में पहुँच कर तैलधारावदविच्छिन्नस्मृति-सन्तान के द्वारा क्रमशः विशद, विशदतर, विशदतम तथा अन्ततः यथावत् रूप से साक्षात्कार करते हैं ।

मूलम्

२६. अन्तर्यामित्वं नाम स्वर्गनरकाद्यनुभवदशायामपि जीवात्मनः सुहृत्त्वेन योगिभिर्द्रष्टव्यतया हृदयप्रदेशावस्थितं रूपम् । जीवेन साकं विद्यमानोऽपि तद्गतदोषैः असंस्पृष्टो वर्तते ।

वासुदेवः

अन्तर्यामित्वम् इति । ‘य आत्मानम् अन्तरो यमयति’ (बृ० ३.७.३) इति श्रुतिर् अत्र प्रमाणम् । अस्य चान्तर्यामिणः स्थितिर् द्विधा - तत्रैका स्वर्ग-नरक-प्रवेशादि-सर्वावस्थास्व् अपि सकल-चेतनानां सहाय-भूतस्य तांस् त्यक्तुम् असमर्थस्य स्थितिः । अपरा च शुभाश्रयेण विग्रहेण सहितस्य तेषां ध्येयत्वार्थं तान् रक्षितुं च बन्धु-भूतस्य हृदय-कमले स्थितिः ।

अर्चावताररूपस्य वर्णनम्

विश्वास-प्रस्तुतिः

२७. अर्चावतारो नाम
देश-काल-विप्रकर्ष-रहित आश्रिताभिमत-द्रव्यादिकं शरीरतया स्वीकृत्य
तस्मिन्न् अ-प्राकृत-शरीर-विशिष्टः सन्न्
अर्चक-पराधीन-स्नान-भोजनासनष्शयन-स्थितिः
सर्व-सहिष्णुः, परिपूर्णो,
गृह-ग्राम-नगर-प्रशस्त-देश-शैलादिषु वर्तमानो
मूर्ति-विशेषः ।

शिवप्रसादः (हिं)

अनुवाद - देशविप्रकर्ष तथा कालविप्रकर्ष आदि का त्याग करके आश्रित जीवों के अनुकूल द्रव्य आदि को शरीर रूप से स्वीकार करके, उसी में दिव्य शरीर से युक्त होकर अर्चक के पराधीन स्नान, भोजन, आसन, शयन तथा स्थिति करने वाले सब पर रहने वाले श्रीभगवान् के मूर्तिविशेष को अर्चावतार कहते हैं ।

शिवप्रसादः (हिं) - टिप्पनी

भगवान् का सुलभतम रूप अर्चावतार

भा० प्र० - सहस्रगीति के प्रणेता श्रीशठकोपसूरि ने ‘तमं रुहन् ददेव्वुरुवम्’ इस गाथा में कहा है कि भक्तों की इच्छा के ही अनुसार श्रीभगवान् अपना रूप बना लेते हैं । इस सूक्ति के अनुसार भगवान् अपने आश्रित जीवों का कल्याण करने के लिए अर्चावितार नामक रूप ग्रहण कर लेते हैं । श्रीभगवान् के इस रूप का माहात्म्य बतलाते हुए कृष्णपादसूरि आचार्य हृदय नामक सूत्रग्रन्थ में कहते हैं - ‘सौलभ्य सीमा- भूमिरर्चावतारः ।’ अर्थात् श्रीभगवान् अर्चावतार रूप को धारण कर अपनी सुलभता की सीमा की पराकाष्ठा का स्पर्श कर लेते हैं । पररूप में देश विप्रकर्ष बना रहता है । उस रूप का अनुभव श्रीवैकुण्ठलोकवासी नित्यमुक्त जीव ही कर सकते हैं ।

हम जैसे जीवों के लिए श्रीभगवान् का वह रूप अनुभाव्य नहीं है ।

व्यूहरूप भी देवताओं के ही द्वारा अनुभाव्य है,
सामान्य जीवों के द्वारा नहीं ।+++(5)+++
विप्रकृष्ट देश में विद्यमान उस रूप का साक्षात्कार
हम लोग नहीं कर सकते हैं ।

विभवावतार में श्रीभगवान् अपने देश विप्रकर्ष को त्याग कर
इस मानवी मेदिनी को अवश्य पावित करते हैं,
किन्तु सभी जीव श्रीभगवान् के उस रूप का अनुभव नहीं कर सकते हैं ।

अयोध्या, मथुरा आदि पावन देशों में रहने वाले ही
श्रीभगवान् के श्रीराम, कृष्ण आदि रूपों का साक्षात्कार कर सके ।
किञ्च त्रेता, द्वापर आदि युगों में
श्रीरामावतार, श्रीकृष्णावतार के समय में
शरीर धारण करने वाले जीव ही
श्रीभगवान् के उस रूप का दर्शन कर सकें ।

श्रीभगवान् का अन्तर्यामी रूप
यद्यपि सर्वदेश, सर्वकाल तथा सर्वावस्था में विद्यमान रहता है,
किन्तु उस रूप का साक्षात्कार हम जैसे जीवों के लिए
कहाँ सम्भव है ?
श्रीभगवान् के अन्तर्यामी रूप का साक्षात्कार तो
विवेक- विमोकादि साधनसप्तक से संस्कृत मन वाले
अष्टाङ्गयोग की प्रक्रिया से
निर्विकल्पक समाधि की अवस्था में पहुँचकर
कोई साधनलीन योगी ही
क्रमशः विशद, विशदतर, विशदतम,
अन्ततः यथावत् रूप से कर सकता है ।
अस्मदादि पाप-परायण साधन- विहीन विषय प्रावण्य मन वालों के लिए
श्रीभगवान् का अन्तर्यामी रूप भी सुलभ नहीं है ।

किन्तु श्रीभगवान् का अर्चावतार रूप अपनी सुलभता की पराकाष्ठा को छू लेता है ।

‘वैकुण्ठे तु परे लोके
श्रिया सार्द्धं जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा
भक्तैर्भागवतैः सह ॥ '

इस सूक्ति के अनुसार श्रीदेवी, भूदेवी तथा नीलादेवी जैसी मनःकान्ताओं के साथ नित्य-मुक्त मुक्त जीवों के द्वारा परमपद वैकुण्ठलोक में सर्वदा सेवा किये जाने वाले [[२५८]] श्रीभगवान्
हम अनादिकाल से स्वभावप्राप्त भगवदनुसंधानपराङ्मुख जीवों को अपनाने के लिए ही उस वैकुण्ठलोक को त्याग कर अर्चावतार जैसे रूप को धारण कर लेते हैं । श्रीभगवान् का यह रूप हम लोगों के लिए देश और काल के विप्रकर्ष से रहित है । इस रूप में श्रीभगवान् भक्त जैसा चाहता है, उसके अनुकूल ही द्रव्य- मय अपना शरीर बना लेते हैं । श्रीभगवान् की वे मूर्तियाँ भी दिव्यमङ्गलविग्रह रूप होती हैं । ‘एहि आश्मानमातिष्ठ आश्मा भवतु ते तनुः ।’ अर्थात् हे भगवन् ! आप आएँ, इस आश्मा ( पत्थर की मूर्ति ) में प्रवेश करें, यह आश्मा ही आपका दिव्य मङ्गलविग्रह बन जाय । प्रतिष्ठा के पश्चात् भक्त के द्वारा की जाने वाली इस श्रीत प्रार्थना को सुनकर श्रीभगवान् अपने दिव्यमंगलमय विग्रह को मूर्ति रूप ही बना लेते हैं । अर्चावतार में भगवान् अपने जगन्नियन्तृत्व नामक गुण को छोड़कर स्वयम् अर्चक-परतन्त्र हो जाते हैं । अर्चक की ही इच्छा के अनुसार स्नान, भोजन, शय्या आदि स्वीकार करते हैं । इस रूप में श्रीभगवान् अपने भक्तों द्वारा प्रमादादिवश हुए सभी अपराधों को सहन करते हैं । इस रूप में भी श्रीभगवान् षाड्गुण्य से परिपूर्ण रहते हैं । वे भक्तों के मनोनुकूल ही गृहों, ग्रामों, नगरों तथा श्रेष्ठ वेङ्कटाद्रि, याद- वाद्रि, करिगिरि, वानाद्रि आदि पर्वतों पर तत् तत् रूपों को धारण कर निवास करते हैं तथा अपने सभी भक्तों को श्रीरङ्गनाथ, वेङ्कटेश, वरदराज, सम्पत्कुमार आदि मूर्तियों के रूप में दर्शन दिया करते हैं । इस प्रकार श्रीभगवान् का अर्चावतार रूप सुलभता की पराकाष्ठा है ।

मूलम्

२७. अर्चावतारो नाम देशकालविप्रकर्षरहित आश्रिताभिमतद्रव्यादिकं शरीरतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टः सन् अर्चकपराधीनस्नानभोजनासनशयन-स्थितिः सर्वसहिष्णुः परिपूर्णो गृहग्रामनगरप्रशस्तदेशशैलादिषु वर्तमानो मूर्ति-विशेषः ।

वासुदेवः

अर्चावतारः । प्रतिमा-अवतारः । देशेति । राम-कृष्णाद्य्-अवतारेष्व् अयोध्या-मथुरादि-देश-नियम इवार्चावतारेषु देश-नियमो नास्तीत्य् अर्थः । एवं काल-नियमो ऽपि । आश्रिताभिमत-द्रव्यादिकम् । सुवर्ण-रजत-शिला-आदिकम् । अर्चावतारस्यापि षड्गुणाश्रयत्वम् । तद् उक्तम् —

सर्वातिशय-षाड्गुण्यं संस्थितं मन्त्र-बिम्बयोः । मन्त्रे वाच्यात्मना नित्यं बिम्बे तु कृपया स्थितम् ॥

इति ।

बिम्बं प्रतिमा ।

विश्वास-प्रस्तुतिः

स च स्वयं-व्यक्त–दैव-सैद्ध-मानुष-भेदाच् चतुविधः ।

शिवप्रसादः (हिं)

अर्चावतार के [[२५७]] चार भेद हैं- स्वयम्, व्यक्त, दैव, सैद्ध तथा मानुष । इस प्रकार से वर्णित पाँचो अवस्थाओं में भगवान् श्रीलक्ष्मीजी के साथ ही रहते हैं। इस अर्थ का प्रतिपादन श्रुतियां करती हैं।

शिवप्रसादः (हिं) - टिप्पनी

भगवान् के अर्चावतार - रूपों को चार भागों में विभक्त किया जाता है - स्वयम् - व्यक्त, दैव, सैद्ध एवं मानुष । विशिष्टाद्वैतवादियों के अनुसार सम्पूर्ण भारतवर्ष में अष्टोत्तरशत ऐसे अर्चावतार-स्थल हैं, जो दिव्यदेश के नाम से अभिहित किये जाते हैं । इन दिव्यदेशों का श्रीसम्पदाय के प्रवर्तक दश दिव्यसूरियों में कोई न कोई अथवा सभी दिव्यसूरियों ने मङ्गलानुशासन किया है ।

मूलम्

स च स्वयंव्यक्तदैवसैद्धमानुषभेदाच्चतुविधः ।

वासुदेवः

स चेति । देवालयादिष्व् अयं विद्यमानो मूर्ति-विशेषः क्वचित् स्वयं व्यक्तो भवति । क्वचिद् देवैः स्थापितः । क्वचित् सिद्धैः । क्वचिन् मनुष्यैः । तत्रा ऽऽद्य-त्रयम् ऐतिह्याद् अवगन्तव्यम् । चतुर्थस् तुः प्रसिद्ध एव । आर्षस् तूक्तान्तर्भूत एव ।