११ नित्यजीवानां स्वरूपम्

विश्वास-प्रस्तुतिः

२६. नित्या नाम कदाचिद् अपि
भगवद्-अभिमत-विरुद्धाचरणाभावेन
ज्ञान-सङ्कोच-प्रसङ्ग-रहिता अनन्त-गरुड-विष्वक्सेनादयः ।
तेषाम् अधिकार-विशेषा
ईश्वरस्य नित्येच्छयैव अनादित्वेन व्यवस्थिताः
एतेषाम् अवतारास् तु
भगवद्-अवतारवत् स्वेच्छया ।
एवम् बद्ध-मुक्त-नित्य-भेद-भिन्नो जीवो निरूपितः

अण्णङ्गराचार्यः

**‘भगवदभिमतविरुद्धे’**ति । भगवदभिमतस्य यद्विरुद्धं तदाचरणाभावेनेत्यर्थः । भगवदनभिमतविरुद्धेति पाठान्तरे तु कर्मधारय इति बोध्यम् ।

॥ इति अष्टमावतारव्याख्या ॥

शिवप्रसादः (हिं)

अनुवाद - नित्यजीव वे हैं, जो कभी भी भगवान् के अभिमत के विरुद्ध आचरण करते ही नहीं ( वे सदा ऐसा ही आचरण करते हैं, जो श्रीभगवान् के मनोनुकूल होते

[[२१६]]

हैं), अतएव नित्यजीवों के ज्ञान का संकोच और विकास कभी होता ही नहीं है । ऐसे जीव अनन्त, गरुड़ एवं विष्वक्सेन आदि हैं । ऐसे नित्यजीवों के अधिकार- विशेष श्रीभगवान् की नित्य इच्छा से ही व्यवस्थित हैं । नित्यजीवों के अवतार भी उसी प्रकार स्वेच्छा से होते हैं, जिस प्रकार श्रीभगवान् के अवतार स्वेच्छा से ही होते हैं । इस प्रकार जीवों के बद्ध, नित्य एवं मुक्त तीन भेद निरूपित किये गये ।

मूलम्

२६. नित्या नाम कदाचिदपि भगवदभिमतविरुद्धाचरणाभावेन ज्ञानसङ्कोच-प्रसङ्गरहिता अनन्तगरुडविष्वक्सेनादयः । तेषामधिकारविशेषा ईश्वरस्य नित्येच्छयैव अनादित्वेन व्यवस्थिताः । एतेषामवतारास्तु भगवदवतारवत् स्वेच्छया । एवम् बद्धमुक्तनित्यभेदभिन्नो जीवो निरूपितः ।

विश्वास-प्रस्तुतिः

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणम्

नाम अष्ठमोऽवतारः ॥

शिवप्रसादः (हिं)

इस प्रकार श्रीवाधूलकुलतिलक श्रीमन् महाचार्य के प्रधान शिष्य श्रीनिवासाचार्य- प्रणीत यतीन्द्रमतदीपिका नामक शारीरक - परिभाषा का जीव - निरूपण नामक आठवां अवतार पूर्ण हुआ ।

मूलम्

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणम्

नाम अष्ठमोऽवतारः ॥

वासुदेवः

इति श्री-यतीन्द्र-मत-दीपिका-प्रकाशे ऽष्टमो ऽवतारः ॥ ८ ॥