विश्वास-प्रस्तुतिः
२९. भक्ति-प्रपत्त्योर् एव मोक्ष-साधनत्वेन स्वीकारात्
परोक्तोपाय-निरासः ।
यथा वेद-बाह्यानाम् मध्ये
केषाञ्चिन् मते देहातिरिक्तात्मनः अनङ्गीकारात्
मोक्ष-प्रवृत्तिर् एव न सम्भवति ।
अन्येषाम् मते ज्ञानस्य क्षणिकत्वात्,
तस्यैवात्मत्वात् कस्य प्रवृत्तिः?
सन्तानस्येति चेत्, न -
अन्यं प्रति अन्येन यत्नो न कर्तव्य
इति न प्रवृत्तिः।
अपरेषाम् मते धर्माधर्म-सत्त्वासत्त्वादि-सप्त-भङ्गी-रीत्या ऽनैकान्त्य-वादात् न प्रवृत्तिः ।
वैशेषिकादि-पक्षे पाषाण-कल्पे मोक्षे प्रवृत्तिः कस्यापि ने सम्भवति ।
साङ्ख्यादि-पक्षेषु ईश्वरानङ्गीकारात्
पुरुषस्य प्रकृतेर् वा मोक्ष
इति संशयात् न प्रवृत्तिः ।
मायि-मते
व्यावहारिकस्य वाक्यस्य पारमार्थिकाभेद-ज्ञानाजनकत्वात्
न प्रवृत्तिः ।
भास्कर-यादवयोस् तु
कर्म-ज्ञान-समुच्चय-वादोऽपि उक्ताद् एव निरस्तः ।
शैव-मते तु
पशुपतेः प्राप्यत्व-स्वीकारात्
वेद-विरुद्ध-भस्म-धारणादेः साधनत्वेन स्वीकाराच् च
तन्निरासः॥
एवम् मतिर्निरूपिता ।
अण्णङ्गराचार्यः
‘परोक्तोपायनिरास’ इति । वाक्यजन्यवाक्यार्थज्ञानमात्रम् व्यक्ताव्यक्तज्ञविज्ञानम्, ज्ञानकर्मसमुच्चय इति मायावादिसाङ्ख्ययादवप्रकाशानां मोक्षोपायो मतः । ज्ञानकर्माङ्गकं भगवद्भक्तेर्मोक्षोपायत्वसमर्थनेन तन्निरासः फलितः । केषाञ्चित् - चार्वाकाणाम् । अन्येषां - बौद्धानाम् । अपरेषाम् — आर्हतानाम् । स्यान्मुक्तोऽस्ति, स्यान्मुक्तो नास्तीत्यनेकान्त्यवादसम्भवात्तन्मते मोक्षार्थं निष्कम्पप्रवृत्तिर्न घटते । प्रवृत्तिः रुचिपूर्विका पाषाणकल्पमोक्षार्था च न घटते । साङ्ख्यमते पुरुषस्य नित्यमुक्तत्वात् प्रकृतेर्नित्यविकारित्वाच्च कस्य मोक्षो वा मोक्षार्था प्रवृत्तिरिति संशय एव । ज्ञानमात्रस्य मोक्षहेतुत्वं श्रुतेः ज्ञानकर्मणो समप्राधान्येन समुच्चय इति पक्षो निरस्तः । मत्तान्तराणां दुस्स्थत्वात् श्रीहरिध्यानमेव मोक्षहेतुरिति त्रय्यन्तत्तत्त्वविदां सिद्धान्त एवं समादरणीय इति ग्रन्थकृदाशयः ॥
॥ इति सममावतारव्याख्या ॥
शिवप्रसादः (हिं)
अनुवाद - चूंकि सिद्धान्त में भक्ति एवं प्रपत्ति को ही मोक्ष का साधन माना जाता है, अतएव भिन्न-भिन्न वादियों द्वारा उपदिष्ट तत् तत् मोक्ष के साधनों का मोक्षप्रदत्व खण्डित हो गया । जैसे - अवैदिकों में कुछ ऐसे भी अवैदिक हैं, जो देह को ही आत्मा मानते हैं । उनके मत में देह से भिन्न आत्मा नाम की कोई भी वस्तु [[१५८]] नहीं है, अतएव मोक्षार्थ किसी की भी प्रवृत्ति नहीं होती है ।
बौद्ध ज्ञान को ही आत्मा मानते हैं, किन्तु वह ज्ञान क्षणिक है। क्षणभर के पश्चात् वह विनष्ट हो जाता है, अतएव क्षणान्तर में उसके नहीं रहने के कारण कोई रह ही नहीं जाता है, अतः किसकी मोक्षार्थ प्रवृत्ति होगी ? यदि ज्ञान संतान की मोक्षार्थं प्रवृत्ति मानें तो यह भी संभव नहीं है; क्योंकि यह कभी संभव नहीं है कि दूसरे के मोक्षार्थं दूसरा प्रयास करे । अतएव उनकी भी मोक्षार्थ प्रवृत्ति नहीं हो सकती है ।
जैनों के मत में भी मोक्षार्थ प्रवृत्ति नहीं हो सकती है, क्योंकि जैनमतावलम्बी सप्तभङ्गी नय को स्वीकार करते हैं । उनको हमेशा यह शङ्का बनी रहती है कि मोक्ष है कि नहीं है । अध्यवसाय का अभाव होने के कारण उनके मत में भी मोक्षार्थ प्रवृत्ति असंभव है ।
वैशेषिकों तथा नैयायिकों के मत में माना जाता है कि मुक्त जीव मोक्षावस्था में सभी विशेष गुणों से रहित हो जाता है । मोक्षावस्था में जीव शषाण-कल्प हो जाता है । कोई भी नहीं चाहेगा कि हम पाषाण कल्प हो जाये । सांख्यों आदि के मत में ईश्वर स्वीकार ही नहीं किया जाता है । अतएव संशय होता है कि मोक्ष किसका होता है, प्रकृति का अथवा पुरुष का ?
अद्वैती विद्वानों के मत में किसी की भी मोक्षार्थं प्रवृत्ति इसलिए नहीं हो सकती है कि व्यावहारिक ‘तत्त्वमस्यादि’ वाक्य पारमार्थिक अभेद ज्ञान के जनक नहीं हो सकते हैं । अतएव अद्वैत मत में भी मोक्षार्थ- प्रवृत्ति अनुपपन्न है । उपर्युक्त प्रकार से ही भास्कराचार्य तथा यादव प्रकाशाचार्य के मत में कर्मयोग तथा ज्ञानयोग का समुच्चय भी मोक्षप्रद नहीं हो सकता है ।
शैवमत में स्वीकार किया जाता है कि पशुपति ही प्राप्य हैं तथा मोक्ष के साधन भस्मादि का धारण हैं । अतएव विशिष्टाद्वैतदर्शन में उनका मोक्षप्रदत्व नहीं स्वीकार किया जाता है । इस प्रकार ज्ञान का निरूपण किया गया ।
मूलम्
२९. भक्तिप्रपत्त्योरेव मोक्षसाधनत्वेन स्वीकारात् परोक्तोपायनिरासः । यथा वेदबाह्यानाम् मध्ये केषाञ्चिन्मते देहातिरिक्तात्मनः अनङ्गीकारात् मोक्षप्रवृत्तिरेव न सम्भवति । अन्येषाम् मते ज्ञानस्य क्षणिकत्वात्, तस्यैवात्मत्वात् कस्य प्रवृत्तिः? । सन्तानस्येति चेत्, न । अन्यं प्रति अन्येन यत्नो न कर्तव्य इति न प्रवृत्तिः अपरेषाम् मते धर्माधर्मादिसप्तभङ्गीरीत्या अनैकान्त्यवादात् न प्रवृत्तिः । वैशेषिकादिपक्षे पाषाणकल्पे मोक्षे प्रवृत्तिः कस्यापि ने सम्भवति । साङ्ख्यादि-पक्षेषु ईश्वरानङ्गीकारात् पुरुषस्य प्रकृतेर्वा मोक्ष इति संशयात् न प्रवृत्तिः । मायिमते व्यावहारिकस्य वाक्यस्य पारमार्थिकाभेदज्ञानाजनकत्वात् न प्रवृत्तिः । भास्करयादवयोस्तु कर्मज्ञानसमुच्चयवादोऽपि उक्तादेव निरस्तः । शैवमते तु पशुपतेः प्राप्यत्वस्वीकारात् वेदविरुद्धभस्मधारणादेः साधनत्वेन स्वीकाराच्च तन्निरासः एवम् मतिर्निरूपिता ।
वासुदेवः
केषांचिन्-मते। चार्वाकाणां मते। अन्येषाम्। विज्ञान-वादिनां बौद्धानाम्। अपरेषाम्। जैनानाम्। सप्त-भङ्गीरीत्य् इति। सप्त-भङ्गाश् च स्याद् वाद-मञ्जर्या प्रतिपादिताः। तथा हि — एकत्र जीवादौ वस्तुन्य् एकैक-सत्त्वादि-धर्म-विषय-प्रश्न-वशात् अविरोधेन प्रत्यक्षादि-बाधा-परिहारेण पृथग्-भूतयोः समुदितयोश् च विधि-निषेधयोः पर्यालोचनया कृत्वा स्याच् छब्दाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर् वचन-विन्यासः सप्त-भङ्गीति गीयते। तद्यथा - स्याद् अस्त्य् एव सर्वम् इति विधि-कल्पनया प्रथमो भङ्गः। स्यान् नास्त्य् एव सर्वम् इति निषेध-कल्पनया द्वितीयः। स्याद् अस्त्य् एव स्यान् नास्त्य् एवेति क्रमतो विधि-निषेध-कल्पनया तृतीयः। स्याद् अवक्तव्यम् एवेति युगपद्-विधि-निषेध-कल्पनया चतुर्थः। स्याद् अस्त्य् एव स्याद् अवक्तव्यम् एवेति विधि-कल्पनया युगपद्-विधि-निषेध कल्पनया च पञ्चमः। स्यान् नास्त्य् एव स्याद् अवक्तव्यम् एवेति निषेध-कल्पनया युगपद्-विधि-निषेध-कल्पनया च षष्ठः। स्याद् अस्त्य् एव स्यान् नास्त्य् एव स्याद् अवक्तव्यम् एवेति क्रमतो विधि-निषेध-कल्पनया युगपद्-विधि-निषेध-कल्पनया च सप्तमः। स्व-द्रव्य-क्षेत्र-काल-भाव-रूपेणास्त्य् एव सर्वं कुम्भादि। न पुनः पर-द्रव्य-क्षेत्र-काल-भाव-रूपेण। तथा हि - कुम्भो द्रव्यतः पार्थिवत्वेनास्ति नावादि-रूपत्वेन। क्षेत्रतः पाटलि-पुत्रकत्वेन, न कान्यकुब्जादित्वेन। कालतः शिशिरत्वेन, न वासन्तिकत्वेन। भावतः श्यामत्वेन, न रक्तादित्वेन। अन्यथेतर-रूपापत्त्या स्वरूप-हानि-प्रसङ्ग इति। अववारणं चात्र भङ्गे ऽनभिमतार्थ-व्यावृत्त्यर्थम् उपात्तम्। इतरथा ऽनभिमत-तुल्यतैवास्य प्रसज्येत। प्रतिनियत-स्वार्थानभिधानात्। तत् उक्तम् -
वाक्ये ऽवधारणं तावद् अनिष्टार्थ-निवृत्तये ।
कर्तव्यम् अन्यथा अनुक्त-समत्वात् तस्य कुत्रचित् ॥
इति।
तथा ऽप्य् अस्त्य् एव कुम्भ इत्य् एतावन्-मात्रोपादाने कुम्भस्य स्तम्भाद्य्-अस्तित्वेनापि सर्वप्रकारेणास्तित्व-प्राप्तेः प्रतिनियत-स्वरूपानुपपत्तिः स्यात्। तत्-प्रतिपत्तये स्याद् इति शब्दः प्रयुज्यते। स्यात् कथंचित्। स्व-द्रव्यादिभिर् एवायम् अस्ति न पर-द्रव्यादिभिर् अपीत्य् अर्थः। यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेद्-अफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव। यथोक्तम् -
सो ऽप्रयुक्तो ऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते। यथैवकारो ऽयोगादि-व्यवच्छेद-प्रयोजनः।
इति।
तथा चैतन्-मते ऽनैकान्त-वादात् सर्वत्रानिश्चयान् न क्वापि प्रवृत्तिः स्याद् इत्य् आशयः। मायि-मते। शंकराचार्य-मते। व्यावहारिक-वाक्यस्य। व्यावहारिक-सत्यस्य वाक्यस्य। मायि-मते हि ब्रह्मण एव पारमार्थिक-सत्यत्वं नान्यस्य कस्यापीति तत्-त्वम्-अस्यादि-वाक्यस्यापि व्यावहारिक-सत्यत्वम् एव। तथा च यथा प्रातिभासिक सर्पादेर् व्यावहारिक-विषाद्य्-अजनकत्वं तथा व्यावहारिक-वाक्यस्यापि पारमार्थिक-ज्ञानाजनकत्वम् एव स्याद् इति भावः।
विश्वास-प्रस्तुतिः
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां धर्मभूतज्ञाननिरूपणम् नाम सप्तमोऽवतारः ॥
शिवप्रसादः (हिं)
इस प्रकार श्रीवाधूलकुलतिलक श्रीमन्महाचार्य के प्रधान शिष्य श्रीनिवासाचार्य- प्रणीत यतीन्द्रमतदीपिका नामक शारीरक परिभाषा का बुद्धि ( धर्मभूतज्ञान ) - निरूपण नामक सातवाँ अवतार समाप्त हुआ ।
मूलम्
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन शारीरक परिभाषायां विरचितायां यतीन्द्रमतदीपिकायां बुद्धि/धर्मभूतज्ञाननिरूपणम् नाम सप्तमोऽवतारः ॥
वासुदेवः
इति श्री-यतीन्द्र-मत-दीपिका-प्रकाशे सप्तमो ऽवतारः॥ ७॥