१२ वेदान्तेषु ध्यानस्यैव विधानम्

विश्वास-प्रस्तुतिः

२६. ननु वेदान्तेषु श्रवण-मननयोर् अपि विधानात्
कथं ध्यानम् एव विधीयते?

इति चेत्, उच्यते ।
अधीत-साङ्गवेदः पुरुषः
प्रयोजनवद्-अर्थावबोधित्व-दर्शनात्
तन्-निर्णयाय स्वयम् एव +++(अर्थ-)+++श्रवणे प्रवर्तते
इति +++(अर्थ-)+++श्रवणस्य प्राप्तत्वात् अनुवादः ।
श्रवण-प्रतिष्ठार्थत्वात् +++(अर्थ-)+++मननस्यापि +++(प्राप्तत्वात्)+++ अनुवादः ।
तस्मात् +++(स्वभावतोऽप्राप्तं)+++ ध्यानम् एव विधीयते इति न विरोधः ।

अण्णङ्गराचार्यः

वेदान्तेषु ‘श्रोतव्यो मन्तव्य’ इति श्रवणमननयोरपि विधानात् कथं ध्यानमेव विधीयत इत्युच्यते इति शङ्का परिहरति ‘उच्यते’ इत्यादिना ।
**‘प्रयोजनवदि’**ति । वेदे इत्यादि ।
अनुवाद इति । विधिप्रत्ययस्तु रागप्राप्तस्यैव वैधत्वे झटिति प्रवृत्तिसम्पादकत्वात्सार्थक इति द्रष्टव्यम् । **‘ध्यानमेवे’**ति । ‘निदिध्यासितव्यो द्रष्टव्य’ इति दर्शनसमानाकारत्वविशिष्टं ध्यानविधिरिति हार्द्दम् ।

शिवप्रसादः (हिं)

अनुवाद - प्रश्न उठता है ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ श्रुति में
श्रवण एवं मनन का भी विधान किया गया है,
अतएव विशिष्टाद्वैती कैसे मानते हैं कि
उक्त श्रुति में केवल ध्यान का ही विधान किया गया है ?

तो इस शंका का समाधान यह है कि
साङ्गवेद का जिसने अध्ययन किया है,
वह प्रयोजनों से युक्त वेदवाक्यों का अर्थ बोधकत्व देखकर,
उन वाक्यों का अर्थ-निर्णय करने के लिए
स्वयम् ही उन वाक्यों के अर्थ-श्रवण में प्रवृत्त होता है ।
इस प्रकार श्रवण के स्वभावतः प्राप्त होने के कारण
श्रुति श्रवण का अनुवाद करती है।
श्रुत-अर्थ को मन में स्थिर करने के लिए
मनन के आवश्यक होने के कारण वह भी प्राप्त अर्थ है,
अतएव ’ मन्तव्यः’ श्रुति उसका भी अनुवाद ही करती है ।

अतएव अप्राप्त अर्थ ध्यान का ही
श्रुति यहाँ विधान करती है,
यह मानने में कोई भी विरोध नहीं है ।
अतएव ‘निदिध्यासितव्यः’ श्रुति दर्शन-समानाकारत्व-विशिष्ट-ध्यान का विधान करती है,
विशिष्टाद्वैतियों की यह मान्यता युक्तियुक्त है ।

मूलम्

२६. ननु वेदान्तेषु श्रवणमननयोरपि विधानात् कथं ध्यानमेव विधीयते? इति चेत्, उच्यते । अधीतसाङ्गवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात् तन्निर्ण- याय स्वयमेव श्रवणे प्रवर्तते इति श्रवणस्य प्राप्तत्वात् अनुवादः । श्रवणप्रतिष्ठार्थ- त्वात् मननस्यापि अनुवादः । तस्मात् ध्यानमेव विधीयते इति न विरोधः ।

वासुदेवः

वेदान्तेष्वेति । ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः’ (बृ० २।४।५) इति श्रुतौ श्रवण-मननयोर् विधिर् अस्तीति शङ्काशयः । प्रयोजनवादिति । स्वाध्यायस्य स्वभावत एव प्रयोजनवद्-अर्थावबोधित्व-दर्शनाद् इत्य् अर्थः । श्रवणस्य प्राप्तत्वाद् इति । ननु पुस्तक-निरीक्षणादि-व्यावृत्त्यर्थं श्रोतव्य इति विधिः किं न स्याद् इति चेन् न । वेदान्त-वाक्यानाम् अपि पुस्तक-निरीक्षणादि-व्युदासस्याध्ययनावोवसिद्धत्वात् । विलेखन-पठनादि-प्रतिषेधस् तु ब्रह्ममीमांसायाम् अनिष्ट एव । न च गुरूपसत्त्यर्थम् अयं विधिर् अस्त्विति वाच्यम् । गुरूपसत्तौ श्रवण-शब्दस्य मुख्यार्थत्वाभावात् । तस्याश् चात्राविहितत्वे ऽपि ‘गुरुम् एवाभिगच्छेत्’ (मुं० १।२।१२) इति वाक्यान्तर-सिद्धत्वाच् च । श्रवण-प्रतिष्ठार्थत्वाद् इति । आचार्योपदिष्टस्यार्थस्य स्वात्मन्येवम् एव युक्तम् इति हेतुतः प्रतिष्ठापनम् एव मननम् इति इति भावः । एतेन मन्तव्य इति आरम्भण-संशीलन-रूपम् अननाविविरयम् इत्य् अपास्तम् । श्रवणशब्दस्य न्यायोपेत-वाक्य-जन्यज्ञान इव मनन-शब्दस्य तत्-प्रतिष्ठापने ऽर्थे प्रसिद्धि-प्राचुर्यात् ।