०८ भक्ति-प्रपत्योर् अद्वारक-मोक्ष-साधनत्वम्

विश्वास-प्रस्तुतिः

१६. ज्ञान-विशेष-भूतयोर् भक्ति-प्रपत्त्योः स्वरूपं किञ्चिद् उच्यते –
भक्ति-प्रपत्तिभ्याम् प्रसन्न ( भक्तिप्रपत्ती व्याजीकृत्य )
ईश्वर एव मोक्षं ददाति ।
अतस् तयोर् एव मोक्षोपायत्वम् ।

अण्णङ्गराचार्यः

**‘ज्ञानविशेषभूतयो’**रिति । अविच्छिन्नस्मृतिसन्तानरूपस्य भगवद्ध्यानस्य स्नेहपूर्वकत्वाद्भक्तिशब्दितस्य, प्रार्थनागर्भभगवदेकोपायत्वाध्यवसायलक्षणप्रपत्तेश्च ज्ञानविशेषरूपत्वमस्त्येवेति ज्ञेयम् । ‘कर्मयोगज्ञानयोगप्रभृतीनां भक्तिद्वारैव साधनत्वम्’ इति वाक्यस्यानन्तरं ‘तत्तत्पुरुषविवक्षयोपायत्वम्’ इति पाठः क्वचित् पुस्तके दृश्यते । तस्यायमर्थः

ज्ञानभक्त्यन्वितकर्म जनकादिषु दृश्यते ।
कर्मभक्त्यन्वितं ज्ञानं भरतादिषु दृश्यते ।
कर्मज्ञानान्विता भक्तिः प्रह्लादप्रमुखाश्रया ॥

इति स्मृतिवचने जनकादितत्तत्तत्पुरुषनिष्ठनिष्ठाविशेषविवक्षया कर्मयोगादेरपि साक्षान्मोक्षोपायत्वमुक्तम् । इति ।

शिवप्रसादः (हिं)

अनुवाद - भक्ति एवं प्रपत्ति ज्ञान के ही प्रकार - विशेष हैं । यहाँ पर उन दोनों के स्वरूप को कुछ बतलाया जा रहा है । भक्ति एवं प्रपत्ति के द्वारा प्रसन्न होकर श्रीभगवान् ही अपने आश्रित जीवों को मोक्ष प्रदान करते हैं । अतएव भक्ति एवं प्रपत्ति मोक्ष के साधन हैं ।

शिवप्रसादः (हिं) - टिप्पनी

भा० प्र० - पीछे कहा जा चुका है कि भक्ति एवं प्रपत्ति भी ज्ञान के प्रकार- विशेष हैं ।
महनीय-विषयिणी प्रीति को ही भक्ति कहते हैं ।
भगवान् को ही एकमात्र शरण रूप से स्वीकार करके
उनकी शरणागति करने को प्रपत्ति कहते हैं ।
भक्ति एवं प्रपत्ति से ही श्रीभगवान् प्रसन्न होते हैं
और प्रसन्न होकर
प्रपन्न जीव को मोक्ष प्रदान करते हैं ।

मूलम्

१६. ज्ञानविशेषभूतयोर्भक्तिप्रपत्त्योः स्वरूपं किञ्चिदुच्यते – भक्तिप्रपत्तिभ्याम् प्रसन्न ( भक्तिप्रपत्ती व्याजीकृत्य ) ईश्वर एव मोक्षं ददाति । अतस्तयोरेव मोक्षोपायत्वम् ।

वासुदेवः

भक्ति-प्रपत्तिभ्याम् इति । अत एव ‘भक्त्या त्व् अनन्यया लभ्यः’ (गी० ११।५४) इति संगच्छते । महनीय-विषये प्रीतिर् भक्तिः । सैवावस्थाभेदात् परमभक्त्यादि-रूपतां भजते । सा चान्तरिक्षान्तरादित्यदहरभूमसन्मधूप-कोसल-शाण्डिल्योद्गीथ-पुरुष-प्रतर्दन-वैश्वानरादि-विद्या-भेदाद् बहुधा । नन्व् एवं भक्तेर् मोक्ष-साधनत्वे ‘तम् एवं विदित्वा ऽतिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय’ (श्वे. ३।८) इति श्रुति-विरोध इति चेन् न । एतासां विद्यानां बुद्धि-विशेष-रूपत्वात् । तयोर् एवेति । तथा च भक्ति-रूपापन्नोपासन-ध्यान-वेदनादि-शब्द-वाच्यो ऽसकृद्-आवृतः आप्रायणाद् अन्वहम् अनुवर्तमानो ज्ञान-विशेषो मोक्ष-हेतुर् इति कर्माङ्ककस्य ज्ञानस्य मोक्ष-हेतुत्वं सिद्धम् । न केवलस्य कर्मणः । नापि ज्ञान-समुच्चितस्य । श्रुतौ वेदनम् एव विधायोपायान्तर-निषेधेन तद्-विरोधात् । वेदनाङ्गतया कर्मानुप्रवेशे तु न विरोधः । तथा सति तस्योपायान्तरत्वाभावात् । न च कर्मानुप्रवेश-रहितस्य केवलस्यैव ज्ञानस्य मोक्ष-हेतुत्वम् अस्त्विति वाच्यम् । तस्याध्ययन-विधि-सिद्ध-साङ्गस-शिरस्काध्ययन-गृहीताक्षर-राशि-विशेषापातप्रतीत-निरतिशय-पुरुषार्थ-साधनार्थ-निर्णय-राग-प्राप्त-श्रवण-मात्रेण निष्पन्नस्याविधेयत्वात् । तावति सिद्धे ऽपि मोक्षादर्शनाच् च । तद् उक्तमापस्तम्बेन -

बुद्धे क्षेम-प्रापणम् । तच्-छास्त्रैर् विप्रतिषिद्धम् । बुद्धे चेत् क्षेम-प्रापणम् इहैव न दुःखम् उपलभेत’ (आ. ध. सू. २।९।२१।१४-१६) ।

अस्यार्थः - ‘आत्मनि बुद्धे ज्ञाते सति तज्-ज्ञानम् एव क्षेमं मोक्षं प्रापयति’ इति यद् औडुलोमिनोक्तं, तच् छास्त्रैर् विप्रतिषिद्धम् । शास्त्रेषु हि वाक्यार्थ-ज्ञानोत्तरं ध्यान-विधिर् बोध्यते । ‘यावद्-आयुषम्’ इति मरण-पर्यन्तं ध्यानानुवृत्तिश् च प्रतिपाद्यते । ‘यावन् न विमोक्ष्ये’ (छा० ६।१४।२) इति शरीरपातावधिश् च मोक्षस्य क्रियते । ‘तयोर्ध्वम् आयन्न् अमृतत्वम् एति’ (छां.८।६।६) इति नाडी-विशेष-निष्क्रमणं च मोक्षाङ्गत्वेन कथ्यते । अर्चिरादि-मार्गेण गतिश् च मोक्षात् पूर्वं श्रूयते । दोषान्तरम् आह - “बुद्धे चेद्” इति । “न दुःखम्” इति । न हि ज्ञानिनां मूर्धाभिषिक्तो ऽपि क्षुधा-दुःखम् एव तावत् क्षणमात्रं सोढुं प्रभवतीति ।

विश्वास-प्रस्तुतिः

१७. ( भक्त्य्–अ-पृथक्–सिद्धानां )
मोक्षोपायत्वेन उक्तानां
कर्म-योग–ज्ञान-योग–प्रभृतीनाम् भक्ति-द्वारैव साधनत्वम् ( तत्-तत्-पुरुष-विवक्षयोपायत्वम् )।

शिवप्रसादः (हिं)

मोक्ष के साधन रूप से कर्मयोग एवं ज्ञानयोग को शास्त्रों में बतलाया गया है, किन्तु ये कर्मयोग तथा ज्ञानयोग भी भक्ति के अङ्ग है, अतएव वे [[१३७]] भी भक्ति के माध्यम से ही मोक्षप्रद होते हैं । ये भिन्न-भिन्न अधिकारियों की दृष्टि से मोक्ष के भिन्न-भिन्न साधन होते हैं ।

शिवप्रसादः (हिं) - टिप्पनी

शास्त्रों में कर्मयोग एवं ज्ञानयोग को भी मोक्ष का साधन बतलाया गया है । किन्तु कर्मयोग एवं ज्ञानयोग साक्षात् मोक्ष के साधन नहीं हैं । ये भक्ति के द्वारा ही मोक्ष प्रदान करते हैं । अतएव इनकी सद्धारक मोक्ष-साधनता है । मोक्ष के साक्षात् साधन भक्ति एवं प्रपत्ति ही हैं ।

मूलम्

१७. ( भक्त्यपृथक्सिद्धानां ) मोक्षोपायत्वेन उक्तानां कर्मयोगज्ञानयोगप्रभृतीनाम् भक्तिद्वारैव साधनत्वम् ( तत्तत्पुरुषविवक्षयोपायत्वम् )।

वासुदेवः

भक्तिद्वारैवेति । तद् उक्तं न्याय-सिद्धाञ्जने - ‘भक्तियोगः परम-प्राप्त्युपायभूतः । तद्-अशक्तस्य तद्-भक्ति-योग-सिद्ध्यर्थम् आत्मावलोकनम् अपेक्षितम् । तस्य च ज्ञान-योग-कर्म-योगौ द्वौ पृथग् उपायौ । तत्र ज्ञान-योगः स्वात्मावलोकने ऽन्तरङ्गः । तथा ऽपि प्रथमं स दुष्करः । तद्-अनधिकारिणस् तुल्यफलः कर्मयोग एव कार्यः । तद्-अधिकारिणो ऽपि व्यपदेश्यस्य लोक-संग्रहार्थं कर्मयोग एव कार्यः । अशक्तस्य ज्ञान-योगशक्तिं कर्मयोग एवोत्पादयति । तदा कर्मयोगं परित्यज्य ज्ञान-योगम् अनुतिष्ठतो ऽपि न दोषः’ इति ।