०१ नित्य-विभूति-निरूपणम्

वासुदेवः

अथ षष्ठो ऽवतारः ।

विश्वास-प्रस्तुतिः

१. अथ नित्य-विभूतिर् निरूप्यते ।
शुद्ध-सत्त्व–धर्म-भूत-ज्ञान–जीवेश्वर-साधारणं लक्षणम् अ-जडत्वम्अ-जडत्वं नाम स्वयम्-प्रकाशत्वम् ।
तत्र शुद्ध-सत्त्व–धर्म-भूत-ज्ञान–साधारणं लक्षणम् –
पराक्त्वे सति +अजडत्वम् -
तत्तु स्वयम्-प्रकाशत्वे सति, परस्मा एव भासमानत्वम् ।

अण्णङ्गराचार्यः

॥ अथ षष्ठावतारव्याख्या ॥

‘स्वयप्रकाशत्वम्’ ज्ञानान्तरानपेक्षप्रकाशवत्त्वम् । स्वनिरूपितविषयत्वस्वतादात्म्यो भयसम्बन्धेन किञ्चिद्विशिष्टत्वमिति फलितम् ।
‘पराक्त्व’ इति । धर्मभूतज्ञानं शुद्धसत्त्वं च प्रकाशेते स्वाश्रयचेतनाय ईश्वरादिभ्यश्च स्वयमेव । ‘स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम्’ (पाञ्चरात्रे) इति स्वयम्प्रकाशत्वं नित्यविभूतेरुक्तम् । शुद्धं सत्त्वं यस्येति नित्यविभूतिद्रव्यं शुद्धसत्त्वमुच्यते ।

शिवप्रसादः (हिं)

अनुवाद -काल- निरूपण के पश्चात् नित्यविभूति का निरूपण किया जा रहा है । शुद्धसत्त्व, धर्मभूतज्ञान, जीव तथा ईश्वर, इन चारों में पाया जाने वाला धर्म अजड़त्व है ।
स्वयम्प्रकाशत्व को अजड़त्व कहते हैं । पराक् होते हुए अजड़ होना यह धर्मं शुद्धसत्त्व तथा धर्मभूतज्ञान, इन दोनों में समान रूप से पाया जाता है ।
पराक् होते हुए अजड़ होने का अर्थ है स्वयम् प्रकाश होते हुए दूसरे के लिए प्रकाशित होना ।

शिवप्रसादः (हिं) - टिप्पनी

नित्यविभूति का निरूपण

भा० प्र० - प्रकृति तथा काल का निरूपण करने के पश्चात् इस छठे अवतार में नित्यविभूति का निरूपण किया जाता है । विशिष्टाद्वैतदर्शन में स्वीकार किया जाता है कि परमात्मा की दो विभूतियाँ हैं— श्रीविभूति तथा नित्यविभूति ।
लीला विभूति के अन्तर्गत सम्पूर्ण जगत् आ जाता है.
तथा नित्यविभूति श्रीभगवान् के दिव्य वैकुण्ठधाम को कहते हैं ।
नित्यविभूति को शुद्धसत्त्व तथा त्रिपाद्विभूति भी कहा[[१०५]] जाता है ।
पुरुषसूक्त का निम्न मन्त्र भी परमात्मा की इन दोनों विभूतियों का निर्देश करता है ।

‘पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि । एतावानस्य महिमा ततो ज्यायांश्च पूरुषः ।’+++(5)+++
अर्थात् परमात्मा की पादविभूति में यह सम्पूर्ण जगत् है
तथा परमात्मा की अमृत त्रिपाद विभूति द्युलोक ( वैकुण्ठलोक ) में है ।
इतना परमात्मा का ऐश्वर्य है और परमपुरुष उससे महान् है ।

यतीन्द्रमतदीपिकाकार शुद्धसत्त्व, धर्मभूतज्ञान, जीव तथा ईश्वर,
इन चारों में अजड़त्व नामक धर्म को लेकर समानता मानते हैं ।
यह अजड़त्व स्वयम्प्रकाशत्व रूप है ।
स्वयम्प्रकाश उसे कहते हैं, जो अपने प्रकाश के लिए किसी दूसरे प्रकाशक पदार्थ की अपेक्षा न रखे ।
इसी प्रकार स्वयम्प्रकाशत्व नित्यविभूति में है ।

मूलम्

१. अथ नित्यविभूतिर्निरूप्यते । शुद्धसत्त्वधर्मभूतज्ञानजीवेश्वरसाधारणं लक्षणम् अजडत्वम् । अजडत्वं नाम स्वयम्प्रकाशत्वम् । तत्र शुद्धसत्त्वधर्मभूतज्ञान-साधारणं लक्षणम् – पराक्त्वे सति अजडत्वम् - तत्तु स्वयम्प्रकाशत्वे सति परस्मा एव भासमानत्वम् ।

वासुदेवः

नित्यविभूतिर् इति । इयम् एव शुद्ध-सत्त्व-शब्देन व्यवह्रियते । शुद्धं सत्त्वं यत्रेत्य्-अर्थात् । पराक्त्वे सतीति । धर्मभूत-ज्ञानस्येव शुद्ध-सत्त्वस्यापि परस्मै भासमानत्वात् पराक्त्वम् । बन्धकाले तु शुद्धसत्त्वं न प्रकाशते । सुषुप्तौ धर्मभूत-ज्ञानवत् । अजडत्वम् इति । ननु प्रसिद्ध-शास्त्रेषु तावद् अजडत्वं शुद्धस्य सत्त्वस्य न पश्यामः । अथ रहस्यागमवाक्य-विशेषैस् तद् इष्येत तर्हि षाड्गुण्यमयत्वम् अपि तस्येष्टव्यम् । तथा च चेतनत्वप्रसङ्गः । अतस् त्रिगुण-विभूतेर् इवास्या नित्यविभूतेर् अपि जडत्वम् एवेति चेद् अत्र केचित् — निःशेषाविद्यानिवृत्ति-हेतुतया निरुपाधिक-ज्ञान-विकास-स्थानतया वा आयुर् घृतम् इतिवज् जडे ऽप्य् अजडत्वोपचार इति । वस्तुतस् तु किम्-आत्मिकैषा भगवतो व्यक्तिर् इति प्रश्ने यद्-आत्मकः भगवान् इति प्रतिवचनात् किम्-आत्मको भगवान् इति पुनः प्रश्ने ज्ञानात्मक इत्य् उक्तत्वाज् ज्ञानात्मकत्वेन मुख्यम् एवाजडत्वम् अस्याः ।

स्वसत्ता-भासकं सत्त्वं गुणसत्त्वाद् विलक्षणम् ।

इत्य् उपबृंहण-स्वारस्याच् च । नन्व् इयं नित्य-विभूतिः प्राकृत-त्रिगुण-मय्येवेत्य् अनित्यैव । नित्यत्वं त्वापेक्षिकम् । अत एव ‘सदेव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्’ इति कारणवाक्य एकत्वावधारणम् उपपद्यते । नित्य-विभूतेर् नित्यत्वे तु जगत्कारणस्य सद्वितीयत्वापत्तिः । शुद्ध-सत्त्व-व्यवहारस् तु रजस्-तमसोर् अभिभूततया ऽप्य् उपपद्यते इति चेन् मैवम् । श्रुताव् एकत्वावधारणं स्त्रक्ष्यमाणव्यपेक्षम् । सृष्टिकालापेक्षया स्त्रक्ष्यमाणस्य जगत उपदेश-कालापेक्षयेदंकारगोचरस्य प्रलय-दशायाम् अविभक्त-नाम-रूपतयैकत्वम् अवधार्यते । तथा चोक्तं संवित्सिद्धौ -

यथा चोल-नृपः सम्राड् अद्वितीयो ऽद्यं भूतले ।

इति तत् तुल्य-नृपति-निवारण-परं वचः ॥

न तु तद् भृत्य-तत् पुत्र-कलत्रादि-निषेधकम् ॥

इति ।

अवश्यं चैतत् सर्वैर् अभ्युपेयम् । अन्यथा मायावादिमते ऽप्य् एकत्वावधारणेन प्रलये मायाया विलयापत्तिः । औपाधिक-भेदवादिमते चोपाध्यंशप्रध्वंसः स्यात् । यदि मायोपाधिविलयस् तैर् अभ्युपगम्येत तर्हि ब्रह्मणस् तद्-उपहितत्वाभावेन विश्व-प्रसूत्यभावाद् अनुपहितस्य जगत्कारणत्वान् अभ्युपगमात् कारण-वाक्यं दत्त-जलाञ्जलि स्याद् इत्य् अवधेयम् ।

विश्वास-प्रस्तुतिः

२. शुद्ध-सत्त्वं नाम त्रि-गुण-द्रव्य-व्यतिरिक्तत्वे सति सत्त्ववत्त्वम्;
निःशेषाविद्या-निवृत्ति-देश-विजातीयान्यत्वं वा ।
सा +++(नित्य-)+++विभूतिर् ऊर्ध्व-प्रदेशे अनन्ता,
ऽधःप्रदेशे परिच्छिन्ना,
अचेतना, स्वयम्-प्रकाशा च ।
आनन्दावहत्वाद् आनन्द-नामिका ।
पञ्चोपनिषन्-मन्त्र-प्रतिपाद्यतया पञ्चोपनिषद्-आत्मिका ।
अ-प्राकृत-पञ्च-शक्तिमत्तया पञ्च-शक्तिमयीति निगद्यते ।

अण्णङ्गराचार्यः

अस्य लक्षणमाह **‘त्रिगुणे’**ति । ईश्वरादावतिव्याप्तिवारणाय विशेष्यदलम् । प्रकृतावतिव्याप्तिवारणाय सत्यन्तम् । ‘तमसः परस्तात्’ ‘रजसः पराके’ (प्रकृतिमण्डलात्परदेशे वर्तमानम् इत्यर्थः ।) इति

रजस्तमोराहित्यं ‘विशुद्धसत्त्वं तव धाम शान्तम्’ (भागवते) इति शुद्धसत्त्वं चास्य सिद्धम् । लक्षणान्तरमाह **‘निश्शेषे’**ति । निश्शेषाविद्यानिवृत्तिः विरजातीरेऽमानवकरस्पर्शात् श्रीमन्महामणिमण्डपे भगवदुपसत्तेर्वा भवति नित्यविभूत्येकदेश एवेति तत्प्रदेशान्तरेष्वव्याप्तिवारणाय ‘निश्शेषाविद्यानिवृत्तिदेश’ इत्यनुक्त्वा तद्विजातीयान्यत्वर्ण्यन्तानुधावनं कृतम् । तादृशं देशविजातीयम् प्रकृत्यादि । तद्भिन्नत्वं नित्यविभूतौ सर्वत्रास्तीति लक्षणसमन्वयः ।
**‘से’**ति । नित्यविभूतिरूर्ध्वं तिर्यक्चापरिच्छिन्ना । अधस्तु प्रकृतिमण्डलेन परिच्छिन्ना । तम परत्वश्रुते । ‘परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु’ इति हि श्रूयते । (पृष्ठेषु - उपरितनेषु) । अचेतना - ज्ञातृत्वरहिता ।
**‘आनन्दे’**ति । ‘ज्ञानानन्दमया लोका’ (भगवच्छास्त्रे) इति नित्यविभूतिस्थलोकानां ज्ञानानन्दत्वं स्मृतम् । तच्चानुकूलतया स्वयम्प्रकाशत्वमिति बोध्यम् ।
**‘पञ्चे’**ति । उपनिषन्मन्त्राः - रहस्यनामानि । ‘परमेष्ठीपुमान् विश्वो निवृत्तिः सर्व एव हि’ इत्युक्तरहस्यनामकाप्राकृतपञ्चभूतात्मकेत्यर्थः । अप्राकृतपञ्चभूतानि पञ्चशक्तय इति व्यवह्रियन्ते भगवच्छास्त्रे । तद्गुणाश्चाप्राकृताः दिव्याः शब्दादयः पञ्च ।

शिवप्रसादः (हिं)

यहाँ पर शुद्धसत्त्व के दो लक्षण दिये गये हैं-
त्रिगुण द्रव्य से भिन्न होते हुए सत्त्वगुणवान् होना इसका पहला लक्षण है ।
इसका दूसरा लक्षण है – सम्पूर्ण अविद्या की निवृत्ति जहाँ हो जाती है, उस प्रदेश से विसजातीय जो प्राकृतिक प्रदेश, उससे भिन्न होना; यह नित्यविभूति का दूसरा लक्षण है ।

यह नित्यविभूति ऊपर की ओर अनन्त है तथा नीचे की ओर यह सीमित है ।
यह ज्ञानरहित तथा स्वयम् प्रकाश है ।
आनन्दप्रद होने के कारण इसका एक नाम आनन्द भी है ।
पञ्चोपनिषत् के मन्त्र इस विभूति का प्रतिपादन कराते हैं, अतएव यह पञ्चोपनिषन्मयी है ।
दिव्य पञ्चशक्तियों से युक्त होने के कारण यह पञ्चशक्तिमयी कही जाती है ।

शिवप्रसादः (हिं) - टिप्पनी

शुद्धसत्त्व पदार्थ

नित्य विभूति को शुद्धसत्त्व भी कहा जाता है, क्योंकि इस विभूति में रहने वाला सत्त्वगुण प्राकृतिक न होकर दिव्य है । प्रकृति में रहने वाला सत्त्वगुण रजोगुण एवं तमोगुण से मिश्रित रहता है, किन्तु नित्यविभूति में पाए जाने वाले सत्त्वगुण में रजो- गुण एवं तमोगुण का मिश्रण नहीं है । अतएव यह शुद्धसत्त्व है । प्रकृति में पाया जाने वाला सत्त्वगुण मिश्रसत्त्व कहलाता है । शुद्धसत्त्व में अजड़त्व होते हुए पराक्त्व भी है । पराक् का अर्थ है - ‘परस्मै अञ्चति’ अर्थात् जो अपने से भिन्नों के लिए प्रका- शित हो । नित्यविभूति भी अपने से भिन्न ईश्वर तथा नित्य-मुक्त जीवों के लिए प्रकाशित होती है । उसके उपभोक्ता ईश्वर तथा नित्य-मुक्त जीव ही हैं ।

शुद्धसत्त्व के दो लक्षण

यतीन्द्रमतदीपिकाकार ने शुद्धसत्त्व के दो लक्षणों का निर्देश किया है ।
पहला लक्षण है- ‘त्रिगुण-द्रव्य-व्यतिरिक्तत्वे सति सत्त्ववत्त्वम्’ ।
अर्थात् त्रिगुणद्रव्य से भिन्न होकर भी सत्त्वगुण से युक्त होना विभूति का लक्षण है ।
नित्यविभूति में शुद्धसत्त्व है, अतएव वह सत्त्ववती है ।
वह प्रकृति से भिन्न है ।
प्रकृति में अतिव्याप्ति का वारण करने के लिए ‘त्रिगुणद्रव्यव्यतिरिक्तत्वे सति’ कहा गया है।
जीव में अतिव्याप्ति का वारण करने के लिए
‘सत्त्ववत्त्व’ कहा गया है ।
इस प्रकार यहाँ लक्षण का समन्वय हो गया है ।
नित्यविभूति का दूसरा लक्षण कहा गया है कि -
‘निःशेषाविद्या निवृत्ति- देशविजातीयान्यत्वम् ।’
अर्थात् नित्यविभूति में पहुँचने पर जीव पर अमानव कर-स्पर्श होता है,
उससे उस मुक्तात्मा की सम्पूर्ण अविद्या की निवृत्ति हो जाती है ।
इस प्रकार नित्यविभूति निःशेषाविद्यानिवृत्ति देश है।
उससे विजातीय है प्रकृत्यादि देश ।
उस प्रकृत्यादि देश से भिन्न है सम्पूर्ण नित्यविभूति ।
अर्थात् जिस प्रकार निःशेषाविद्या-निवृत्तिदेश
शुद्धसत्त्व-गुण वाला है,
उसी प्रकार सम्पूर्ण नित्य-विभूति शुद्ध-सत्त्वगुण वाली है ।

[[१०६]]

वह नित्यविभूति ऊपर की ओर अनन्त है किन्तु नीचे की ओर लीलाविभूति से परिच्छिन्न है । वह विभूति स्वयम् प्रकाश होते हुए भी ज्ञातृत्व रहित है ।
यह विभूति आनन्दप्रद है, अतएव वह आनन्दात्मिका है ।
‘ज्ञानानन्दमया लोकाः’ ये भगवच्छास्त्र के वाक्य
नित्यविभूति को ज्ञानमय एवं आनन्दमय बतलाते हैं ।

रहस्य नामक जो उपनिषदों के मन्त्र हैं,
वे उस विभूति का दिव्य पञ्चभूतात्मक रूप से प्रतिपादन करते हैं,
अतएव नित्यविभूति को पञ्चोपनिषन्मयी कहा जाता है ।

नित्य-विभूति के जो पांच दिव्य महाभूत हैं,
वे ही पञ्चशक्ति शब्द से अभिहित किये जाते हैं ।
उन सबों से सम्पन्न होने के कारण नित्यविभूति को पञ्चशक्तिमयी कहा जाता है ।

मूलम्

२. शुद्धसत्त्वं नाम त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सत्त्ववत्त्वम्; निःशेषाविद्या- निवृत्तिदेशविजातीयान्यत्वं वा । सा विभूतिरूर्ध्वप्रदेशे अनन्ता । अधःप्रदेशे परिच्छिन्ना अचेतना स्वयम्प्रकाशा च । आनन्दावहत्वादानन्दनामिका । पञ्चो-पनिषन्मन्त्रप्रतिपाद्यतया पञ्चोपनिषदात्मिका । अप्राकृतपञ्चशक्तिमत्तया पञ्च-शक्तिमयीति निगद्यते ।

वासुदेवः

शुद्धसत्त्वं नामेति । तमोरहितत्वे सति सत्त्ववत्त्वम् इत्य् अपि लक्षणं बोध्यम् । शुद्धसत्त्वे प्रमाणं तु ‘आदित्य-वर्णं तमसः परस्तात्’ (श्वे० ३।८) ‘यो अस्याध्यक्षः परमे व्योमन्’ (तै० ब्रा० २।८।९) ‘सहस्र-स्थूणे विमिते दृढ उग्रे यत्र देवानाम् अधि देव आस्ते’ ‘तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः’ (नृ० पू० ५।१०) इत्यादि श्रुतयः । तद्-विष्णोः इत्य् अत्र व्यतिरेक-निर्देश-बलात् स्वरूपाद् भेदे सिद्धे पद-शब्द-स्वारस्यात् सदा दृश्यत्व-बलाच् च सदा पश्यद् अनेकद्रष्टृ विशिष्ट-स्थान-विशेष-विधिर् इति विशिष्ट-विधिर् बोध्यः । तच् चा ऽकाशं सनातनम् इति रामायणं दिव्यं स्थानम् अजरं चाप्रमेयम् इति महाभारतं चात्र प्रमाणम् । अनन्तेति । श्रुतौ नित्य-विभूतेर् आनन्त्यस्य तमः-परत्वस्य च प्रतिपादनेना ऽऽनन्त्यतमः-परत्वयोर् विरुद्धयोर् एकत्र समावेशाय केनचित्-प्रदेशेना ऽऽनन्त्यं केनचित्-प्रदेशेन च तमः-परत्वम् अगत्या कल्प्यत इत्य् आशयः । स्वयं-प्रकाशेति । केचित् तु निरतिशय-दीप्ति-योगाद् अस्याः स्वयं-प्रकाशत्व-व्यपदेशः । एवम् एवात्यन्तानुकूल-रूप-रस-गन्धादि-योगाद् आनन्द-व्यपदेश इत्य् आहुः ।