०२ कालभेदः

विश्वास-प्रस्तुतिः

७. अ-खण्ड-कालो नित्यः ।
खण्ड-कालाः पुनर् अ-नित्यः ।

शिवप्रसादः (हिं)

अखण्डकाल नित्य है ।
एवं सखण्डकाल अनित्य है ।

शिवप्रसादः (हिं) - टिप्पनी

काल के दो भेद

काल का दो विभाग किया गया है - अखण्डकाल तथा सखण्डकाल । अखण्डकाल नित्य है । सखण्डकाल अनित्य है । वह उत्पन्न और विनष्ट होता है । कला- निमेष से के लेकर ब्रह्मा की आयु पर्यन्त सभी जितने भी विभाग किये गये हैं, वे सब सखण्डकाल अन्तर्गत आते हैं । अखण्डकाल का एक विभाग है सखण्डकाल । वह अखण्डकाल का कार्य है । क्षण, निमेष इत्यादि जितने भी काल के कार्य हैं, उन सबों का उपादान- कारण काल ही है ।

मूलम्

७. अखण्डकालो नित्यः । खण्डकालाः पुनरनित्यः ।

विश्वास-प्रस्तुतिः

८. एवम्भूतः काल ईश्वरस्य क्रीडा-परिकरो भवति ।
लीला-विभूतौ ईश्वरः कालाधीन एव कार्यं करोति +++(स्वावतारेष्व् अपि)+++ ,+++(5)+++
नित्य-विभूतौ तु कालस्य विद्यमानत्वेऽपि स्वातन्त्र्येण ।

शिवप्रसादः (हिं)

इस प्रकार काल ईश्वर की क्रीडा का साधन बनता है ।
लीलाविभूति में श्रीभगवान् विभव रूप से आकर
काल के अधीन ही रहकर सभी कार्यों को सम्पादित करते हैं ।

नित्य- विभूति में यद्यपि काल रहता है,
किन्तु वहाँ वह स्वतन्त्र न रहकर श्रीभगवान् के सत्य संकल्प के अधीन रहता है ।

शिवप्रसादः (हिं) - टिप्पनी

काल लीलाविभूति में स्वतन्त्र रहता है, किन्तु नित्यविभूति में वह श्रीभगवान् की इच्छा के परतन्त्र रहता है ।

मूलम्

८. एवम्भूतः काल ईश्वरस्य क्रीडापरिकरो भवति । लीलाविभूतौ ईश्वरः कालाधीन एव कार्यं करोति । नित्यविभूतौ तु कालस्य विद्यमानत्वेऽपि स्वातन्त्र्येण ।

वासुदेवः

नित्य इति । “सदेव सोम्येदम् अग्र आसीत्” (छा०६।२।१) इति श्रुताव् अग्रे-शब्देन, “नासद् आसीन् नो सद् आसीत् तदानीम्” (तै.ब्रा.२।८।९।३) इत्य् अत्र तदानीं-शब्देन च कालस्यैवाभिधानात् सृष्टेः प्राग् अपि कालस्यास्तित्वं सिध्यति । तद् उक्तं पराशरेणापि -

अनादिर् भगवान् कालो नान्तो ऽस्य द्विज विद्यते ॥

इति ।

केचित् तु ‘विद्या कालो भवत्-कृतौ ’ इत्यादि-काल-उत्पत्ति-वचनात् कालस्यानित्यत्वम् आहुः । तन् न । प्राग्-उक्त-पराशर-वचनानुसारेणैतद्-उत्पत्ति-वचनस्योपाध्युत्पत्त्यभिप्रायकत्वात् । किंचोत्पत्तेः पूर्वं नाशतः पश्चाच् च कालो नास्तीति तैर् अङ्गी-क्रियते न वा । अन्त्ये ऽस्मन् मतं न निषिद्धम् इति नास्माभिस् तत्र किंचिद् उत्तरं दीयते । आद्ये पूर्व-पश्चाच्-छब्दयोर् निरर्थकत्वं सार्थकत्वं वा । प्रथमे निरर्थक-निग्रह-स्थानापत्तिः । द्वितीये कालस्यैव तद्-अर्थत्वात् तत्र काल-निषेधे स्व-वचन-विरोधः । तथा चोक्तम् -

यतः कुतश्चित् कालांशात् परतः पूर्वतोऽपि वा । कालो न चेत् त्वद्-उक्ति-स्थं पौर्वापर्यं न सिध्यति ॥

इति ।

विभुरिति । सर्वत्र काल-विशेषणतया प्रतीतेर् इति भावः । निमेषेति । निमेषः प्रसिद्धः । पञ्चदश निमेषाः काष्ठा । त्रिंशत् काष्ठाः कला । त्रिंशत् कला मुहूर्तम् । मुहूर्तानि त्रिंशद् दिवसः । त्रिंशद् दिवसाः पक्ष-द्वय-रूपो मासः । द्वौ मासाव् ऋतुः । ऋतवस् त्रयो ऽयनम् । अयने द्वे संवत्सरः । एतेषां संविर् इति । कृत-युगस्य पूर्व-संधिश् चत्वारि शतानि वर्षाणि । अपर-संधिर् अपि तथैव । त्रेता-युगस्य पूर्व-संधिस् त्रीणि शतानि । अपर-संधिर् अपि तथैव । द्वापरस्य पूर्व-संधिर् द्वे शते । अपर-संधिर् अपि तथैव । कलि-युगस्य पूर्व-संधिः शतम् । अपर-संधिर् अपि तथैवेति संकलनतया द्वि-सहस्र-संख्या संपद्यते ।