०१ ब्रह्मणोऽह्नो वर्णनम्

वासुदेवः

अथ पञ्चमो ऽवतारः ।

विश्वास-प्रस्तुतिः

५. ब्रह्मणोऽह्नि चतुर्-दश मनवो जायन्ते ।
इन्द्रा अपि तथैव ।
तथा सप्त-र्षयश् च ।

एकैक-मनोर् एक-सप्तति–चतुर्-युग-परिमाण-कालः ।

एवम् ब्रह्म-मानेन ब्रह्मणः शत-वर्ष-जीवित्वम्।

शिवप्रसादः (हिं)

अनुवाद — ब्रह्मा के एक दिन में चौदह मनु होते हैं । उतने ही इन्द्र तथा सप्तर्षि भी होते हैं। एक-एक मनु का जीवन-काल इकहत्तर- इकहत्तर चतुर्युग होता है । इस प्रकार ब्रह्मा के मान से ब्रह्मा की आयु सौ वर्ष की होती है ।

शिवप्रसादः (हिं) - टिप्पनी

ब्रह्मा की आयु

भा० प्र० - लीलाविभूति में काल की सबसे बड़ी सीमा ब्रह्मा की आयु है । ब्रह्मा के एक दिन में चौदह मनु, चौदह इन्द्र तथा चौदह सप्तर्षिमण्डल होते हैं । [[१०३]]

इनमें से प्रत्येक मनु की आयु इकहत्तर चतुर्युग है । ब्रह्मा भी काल के वशवर्ती हैं । उनकी भी अपनी सौ वर्ष की आयु समाप्त होने पर मृत्यु होती है ।

मूलम्

५. ब्रह्मणोऽह्नि चतुर्दश मनवो जायन्ते । इन्द्रा अपि तथैव । तथा सप्तर्षयश्च । एकैकमनोरेकसप्ततिचतुर्युगपरिमाणकालः । एवम् ब्रह्ममानेन ब्रह्मणः शतवर्ष-जीवित्वम्।

विश्वास-प्रस्तुतिः

६. एतत् सर्वं कालाधीनम् ।
एवं नित्य-नैमित्तिक-प्राकृताः प्रलया अपि कालाधीनाः।
कालस्य स्व-+++(क्षण-लव-निमेषादि-)+++कार्यम् प्रति स्वस्योपादानत्वम् ।

अण्णङ्गराचार्यः

**‘एवं नित्ये’**ति । नित्यप्रलयो जनानां जन्तूनां मरणरूपः । नैमित्तक[[??]] चतुर्मुखस्य दिनावसाने जायमानः त्रिलोकीनाशः । प्राकृतः द्विपरार्धब्रह्मायुरवसाने जायमानः प्राकृतानां सर्वेषां प्रकृतौ लयः । महाप्रलयानन्तरसृष्टिस्तु भगवत्कर्तृका । भगवदुपासनासिद्धानां प्रारब्धफलानुभवान्तरभावी प्रकृतिबन्धविनिर्मोक्षः आत्यन्तिकप्रलयः इत्यूचुः । प्रलया अपीत्यपिना नित्यनैमित्तिकप्राकृतसृष्टिस्थितिप्रवृत्तयो ग्राह्याः । स्वकार्यं - क्षणलवादिकम् । खण्डकालाः क्षणादयः । खण्डकालस्य क्षणस्यापि विभुत्वमङ्गीकृतं न्यायसिद्धाञ्जनादौ - यथा,

एकेनैव क्षणेनास्य विश्वस्यापि विशेषणात् ।
कालवत्तत् क्षणानाञ्च व्यापित्वमवमीयते ॥

इति ।
‘कालाधीन’ इति । स्वसङ्कल्पानुसारितत्तत्कालागमप्रनीक्षक एवेत्यर्थः । न स्वातन्त्र्यम् - न नित्यविभूतिगतपदार्थपरिणामनप्रागल्भ्यम् । ‘न कालस्तत्र वै प्रभु’रिति वचनात् ।

शिवप्रसादः (हिं)

ब्रह्मा भी काल के अधीन हैं ।
इस प्रकार नित्य, नैमित्तिक एवं प्राकृत आदि प्रलय भी काल के अधीन होते हैं ।
काल अपने कार्यभूत क्षण, लव, निमेष, मास, पक्ष आदि के प्रति स्वयम् उपादान कारण होता है ।

मूलम्

६. एतत् सर्वं कालाधीनम् । एवं नित्यनैमित्तिकप्राकृताः प्रलया अपि कालाधीनाः। कालस्य स्वकार्यम् प्रति स्वस्योपादानत्वम् ।