१९ उपसंहारः

विश्वास-प्रस्तुतिः

तद् अण्डं दशोत्तरावरणावृतम् ।

एतादृशानि अण्डानि अनन्तानि - जल-बुद्-बुदवद् -
युगपद् ईश्वर-सृष्टानि ।

ईश्वरस्य चतुर्-मुख-पर्यन्ता सृष्टिर् अद्वारिका,
तद्-अनन्तरं स-द्वारिकेति विवेकः ।
विस्तरस् तु पुराण-रत्नादिषु द्रष्टव्यः ।

इति प्रकृतिर् निरूपिता ।

अण्णङ्गराचार्यः

**‘जलबुद्बुदव’**दिति ।

न क्रमेण विवृद्धं तत् जलबुद्बुदवत्समम्

‘एककालेन सृज्यन्ते’ इत्यादिवचनमत्रानुसन्धेयम् ॥

सद्वारिकेति । ब्रह्मादिद्वारिकेत्यर्थः ॥

॥ इति चतुर्थावतारव्याख्या ॥

शिवप्रसादः (हिं)

अनुवाद - उस ब्रह्माण्ड के ऊपर दश आवरण हैं । इस तरह के ब्रह्माण्ड अनन्त हैं । ईश्वर ने समकाल में उसी प्रकार इन सबों की सृष्टि की, जिस प्रकार जल में बुल्ले उठते हैं । चतुर्मुख की सृष्टि- पर्यन्त ईश्वर की सृष्टि साक्षात् सृष्टि है । उसके पश्चात् ईश्वर की सृष्टि सद्धारक सृष्टि है । अर्थात् उसके पश्चात् श्रीभगवान् ब्रह्माजी को प्रेरित कर उनके माध्यम से सृष्टि कराते हैं । इन बातों का विस्तार से वर्णन विष्णुपुराण आदि ग्रन्थों में देखना चाहिए । इस प्रकार प्रकृति का निरूपण किया गया ।

मूलम्

तदण्डं दशोत्तरावरणावृतम् । एतादृशानि अण्डानि अनन्तानि जलबुद्-बुदवत् । युगपदीश्वर-सृष्टानि । ईश्वरस्य चतुर्मुखपर्यन्ता सृष्टिरद्वारिका, तदनन्तरं सद्वारिकेति विवेकः । विस्तरस्तु पुराणरत्नादिषु द्रष्टव्यः । इति प्रकृतिर्निरूपिता ।

विश्वास-प्रस्तुतिः

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायाम् प्रकृतिनिरूपणम्

शिवप्रसादः (हिं)

इस प्रकार श्रीवाधूलकुलतिलक श्रीमन्महाचार्य के प्रधान शिष्य श्रीनिवासाचार्य द्वारा प्रणीत यतीन्द्रमतदीपिका नामक शारीरक- परिभाषा का प्रकृति- निरूपण नामक चतुर्थ अवतार पूर्ण हुआ ।

मूलम्

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायाम् प्रकृतिनिरूपणम्

वासुदेवः

इति श्री-यतीन्द्र-मत-दीपिका-प्रकाशे चतुर्थो ऽवतारः ॥ ४ ॥

[[९९]]