विश्वास-प्रस्तुतिः
७०. एवम् भूमेर् उपरि
लक्ष-योजनात् सूर्य-मण्डलम् ।
तद् एव भुवर्-लोकः ।
तद्-उपरि चन्द्र-मण्डलम् ।
तस्माद् उपरि नक्षत्र-बुध-शुक्राङ्गारक-बृहस्पति-शनि–सप्तर्षि-मण्डलानि ।
तद्-उपरि ध्रुवः ।
सूर्य-मण्डलम् आरभ्य
ध्रुव-लोकपर्यन्तं स्वर्-लोकः ।
चतुर्-लक्षाद् उपरि कोटि-योजनोच्छ्रायो महर्-लोकः ।
तस्माद् द्वि-गुणो जन-लोकः ।
ततश् चतुर्-गुणस् तपो-लोकः ।
तस्माद् द्वादश-कोटय्-उच्छ्रायः सत्य-लोकः ।
ततस् तमो, गर्भो-दकम् अण्ड-कटाहश् च ।
शिवप्रसादः (हिं)
अनुवाद - इस प्रकार भूमि से एक लाख योजन ऊपर सूर्यमण्डल है । वहीं तक भुवर्लोक है । उसके ऊपर चन्द्रमण्डल है । उसके ऊपर नक्षत्रमण्डल, बुधमण्डल, शुक्रमण्डल, भौममण्डल, बृहस्पतिमण्डल, शनिमण्डल तथा सप्तर्षिमण्डल हैं । उसके ऊपर ध्रुवलोक है । सूर्यमण्डल से लेकर ध्रुवलोक - पर्यन्त स्वर्लोक है । चौदह लाख के ऊपर करोड़ योजन ऊपर महर्लोक है । उसका दुगुना जनोलोक है । उसका चार गुना तपोलोक है । उसमे ऊपर बारह करोड़ योजन ऊँचा सत्यलोक है । उसके बाद अन्ध- कार है । अन्धकार के पश्चात् गर्तोदक है और गर्तोदक के बाद अण्डकटाह है ।
मूलम्
७०. एवम् भूमेरुपरि लक्षयोजनात् सूर्यमण्डलम् । तदेव भुवर्लोकः । तदुपरि चन्द्रमण्डलम् । तस्मादुपरि नक्षत्रबुधशुक्राङ्गारकबृहस्पतिशनिसप्तर्षि मण्डलानि । तदुपरि ध्रुवः । सूर्यमण्डलमारभ्य ध्रुवलोकपर्यन्तं स्वर्लोकः । चतुर्लक्षादुपरि कोटियोजनोच्छ्रायो महर्लोकः । तस्मात् द्विगुणो जनलोकः । ततश्चतु-र्गुणस्तपोलोकः । तस्मात् द्वादशकोटयुच्छ्रायः सत्यलोकः । ततस्तमो गर्भो-दकम् अण्डकटाहश्च ।
विश्वास-प्रस्तुतिः
७१. एवं तिर्यग्-ऊर्ध्व-प्रमाणेन
पञ्चाशत्-कोटि-योजनत्वम् भूमेर् उक्तम् भवति ।
शत-कोटि-योजन-विस्तीर्ण-वादो मान-भेदेन ।
अण्ड-कटाहस् तु कोटि-योजनोच्छ्रायः ।
शिवप्रसादः (हिं)
इस प्रकार तिर्यक् ऊपर की ओर पचास करोड़ ऊँची भूमि बतलायी गईं हैं। प्रमाण-भेद से उसका सौ करोड़ योजन विस्तार भी बतलाया गया है । अण्डकटाह करोड़ योजन ऊँचा है ।
मूलम्
७१. एवं तिर्यगूर्ध्वप्रमाणेन पञ्चाशत्कोटियोजनत्वम् भूमेरुक्तम् भवति । शत-कोटियोजनविस्तीर्णवादो मानभेदेन । अण्डकटाहस्तु कोटियोजनोच्छ्रायः ।