विश्वास-प्रस्तुतिः
६९. एवम् भूमेर् अधो
ऽतल-वितल-सुतल-रसातल-तलातल-महातल-पाताल-भेदात् सप्त लोकाः ।
अधो नरकाः ।
ते च पाप-कर्मणाम् पापानुभव-भूमयः ।
रौरवाद्या मुख्यतया एकविंशति-प्रभेदाः ।
ततस् तमः ।
ततो गर्भोदकम् ।
अनन्तरम् अण्ड-कटाहः ।
अण्णङ्गराचार्यः
‘अण्डकटाह’ इति । इदमेव पृथिव्यावरणम् । साण्डकटाह ब्रह्माण्डप्रमाणाद्दशगुणप्रमाणं जलावरणम्, ततो दशगुणं तेजः आवरणम् । एवं पूर्वावरणादुत्तरावरणस्य दशगुणत्वं बोध्यम् । पृथिवीजलतेजोवाय्वाकाशाहङ्कारमहदावरणानि सप्तावरणानि बोध्यानि । महदावरणं चानन्तप्रमाणेनाव्यक्तेनावृतम् । अव्यक्तेनावृतमिति वचनात् ।
शिवप्रसादः (हिं)
अनुवाद - उपर्युक्त प्रकार से वर्णित पृथिवी के नीचे सात लोक हैं - अतल, वितल, नितल, तलातल, महातल, सुतल एवं पाताल । उसके नीचे नरक लोक है । [[९८]] वहाँ पर पापी जीव अपने किये हुए पापों के फलस्वरूप से दुःखों का अनुभव करते हैं । उन नरकों का नाम रौरव आदि है । नरकों के मुख्य रूप से इक्कीस भेद हैं । उन नरकों के नीचे अन्धकार है, इसके बाद गर्तोदक है । इसके पश्चात् अण्डकटाह है ।
मूलम्
६९. एवम् भूमेरधः अतलवितलसुतलरसातलतलातलमहातलपातालभेदात् सप्तलोकाः । अधो नरकाः । ते च पापकर्मणाम् पापानुभवभूमयः । रौरवाद्या मुख्यतया एकविंश- तिप्रभेदाः । ततस्तमः । ततो गर्भोदकम् । अनन्तरमण्डकटाहः (ततोऽण्डकटाहः)।