१५ जम्बू-द्वीप-वर्णनम्

विश्वास-प्रस्तुतिः

६४. प्रकृत्य्-आदय
ईश्वरस्य जीवस्य च भोग्य-भोगोपकरण–भोग-स्थानानि च भवन्ति ।
भोग्यं विषयाः,
भोगोपकरणं चक्षुर्-आदिक-करणानि ।
भोग-स्थानानि चतुर्दश-भुवन-सहितान्य् अण्ड-जातानि ।

अण्णङ्गराचार्यः

‘प्रकृत्यादय’ इति । ईश्वरस्य विभवादिष्विति बोध्यम् । चशब्देन लीलोपकरणानि चेति सिध्यति । तेनेश्वरस्य लीलोपकरणानि जीवानां भोग्यादिरूपाणि च भवन्ति इत्यर्थो बोध्यः ।
अण्डमिति । चतुर्दशभुवनात्मकं ब्रह्माण्डमण्डकटाहेन समन्तादावृतं कपित्थफलाकारम् । यथोक्तं

एतदण्डकटाहेन तिर्यक् चोर्ध्वमधस्तथा ।
कपित्थस्य यथाबीजं सर्वतो वै समावृतम् ॥

इति (वि० पु०) ।

शिवप्रसादः (हिं)

अनुवाद – प्रकृति आदि जीव तथा ईश्वर के भोग्यपदार्थ, भोग के साधन तथा भोग के स्थान हैं । विषय ही भोग्य पदार्थ हैं । चक्षु आदि इन्द्रियाँ भोग के साधन हैं। चौदह भुवन के साथ अण्डसमूह भोगस्थान हैं ।

शिवप्रसादः (हिं) - टिप्पनी

जम्बूद्वीप का वर्णन

भा० प्र० - प्रकृति आदि जीवों के भोग्य, भोगोपकरण तथा भोग के स्थान हैं तथा ईश्वर के लीलोपकरण हैं, इस बात को ‘प्रकृत्यादयः’ इस वाक्य के ‘च’ पद से सूचित है । किञ्च ईश्वर के भी विभवादि रूप ग्रहण करने पर प्रकृति आदि उसके भोग्य आदि रूप से बनते हैं ।

मूलम्

६४. प्रकृत्यादय ईश्वरस्य जीवस्य च भोग्यभोगोपकरणभोगस्थानानि च भवन्ति । भोग्यं विषयाः भोगोपकरणं चक्षुरादिककरणानि । भोगस्थानानि चतुर्दशभुवनसहितान्यण्डजातानि ।

विश्वास-प्रस्तुतिः

६५. अण्डं नाम कपित्थ-फलाकारम् पञ्ची-कृत-पञ्च-भूतारब्धम् प्राकृत-द्रव्यम् ।

शिवप्रसादः (हिं)

पञ्चीकृत भूतों से बना हुआ तथा कपित्थ ( कैंथ ) के फल के सदृश आकार वाला प्राकृत द्रव्य ही ब्रह्माण्ड कहलाता है ।

मूलम्

६५. अण्डं नाम कपित्थफलाकारम् पञ्चीकृतपञ्चभूतारब्धम् प्राकृतद्रव्यम् ।

विश्वास-प्रस्तुतिः

६६. तद्यथा – पद्माकारा भूः
कर्णिकाकारो मेरुः
मेरोर् दक्षिणतो भारत-किम्पुरुष-हरि-वर्षाणि त्रीणि ।
उत्तरतस् तु रम्यक-हिरण्यक-कुरु-वर्षाणि त्रीणि ।
पुरतो भद्राश्व-वर्षम्, पश्चात् केतु-मालाख्यं वर्षम् ।
मध्यं तु इलाऽऽवृतम् ।

अण्णङ्गराचार्यः

**‘पद्माकारे’**ति । यथोक्तं ‘भूपद्मस्यास्य शैलोऽयं कणिकाकारसंस्थितः’ । (वि० पु०) । समपरिमाणेन - लक्षणयोजनविस्तारेण । द्वीपसमुद्रौ समपरिमाणौ । उत्तरद्वीपा पूर्वद्वीपाद्द्विगुणा । यथोक्तम्

एवं द्वीपास्समुद्रैश्च सप्त सप्तभिरावृताः ।
द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ ॥ (वि० पु०)

इति । द्विगुणया । सप्तद्वीपात्मकाद् भूभागाद्द्विगुणया । तदुपरि - सूर्यमण्डम्योर्ध्वं लक्षयोजनदूरे शशिमण्डलमित्यर्थः ।

भूमेर्योजनलक्षे तु सौरं मैत्रेयमण्डलम् ।
लक्षाद्दिवाकरस्यापि मण्डलं शशिनः स्मृतम् ॥ (वि० पु०) ।

भूभगोलयोर्विस्तरशो वर्णनं भागवतादिषु कृतं वर्तते ।

शिवप्रसादः (हिं)

वह इस प्रकार है— पृथिवी कमल के सदृश आकारवाली है । उस कमल के ऊपर होने वाला कर्णिका के सदृश आकारवाला सुमेरु पर्वत है । सुमेरु पर्वत के दाहिनी तरफ भारतवर्ष, किम्पुरुषवर्ष तथा हरिवर्ष ये तीन वर्ष हैं। उसके उत्तर की ओर रम्यक, हिरण्यक एवं कुरु वर्ष ये तीन वर्ष हैं। उसके आगे भद्राश्ववर्ष, पीछे केतुमालवर्ष तथा मध्य में इलावृत्तवर्ष हैं ।

शिवप्रसादः (हिं) - टिप्पनी

यह चौदह भुवनों वाला ब्रह्माण्ड अण्डकटाह से आवृत है । विष्णुपुराण में कहा भी गया है-

‘एतद्-अण्ड-कटाहेन
तिर्यक् चोर्ध्वम् अधस् तथा ।
कपित्थस्य यथा बीजं
सर्वतो व?? समावृतम् ॥’

अर्थात् जिस प्रकार कपित्थ का बीज कपित्थ के फल से पूर्णरूप से समावृत रहता है, उसी प्रकार चतुर्दश भुवनात्मक ब्रह्माण्ड चारों तरफ से अण्डकटाह से समावृत है ।

इस ब्रह्माण्ड में पृथिवी कमल के सदृश आकार वाली है और जिस प्रकार कमल के बीच में उसकी कणिकाएँ निकली होती हैं, उसी प्रकार पृथिवी पर सुमेरु पर्वत अव- स्थित है।
महर्षि पराशर कहते हैं— ‘भूपद्मस्यास्य शैलोऽयं कणिकाकारसंस्थितः ।’ अर्थात् पृथिवी रूपी कमल पर यह सुमेरु पर्वत कर्णिका के रूप में अवस्थित है ।

इस पृथिवी पर सुमेरु पर्वत के चारो तरफ नव वर्ष हैं। जैसे – सुमेरु पर्वत के दाहिनी ओर तीन वर्ष हैं - भारत, किम्पुरुषवर्ष एवं हरिवर्ष । उत्तर की ओर तीन [[९७]] वर्ष हैं- रम्यक वर्ष, हिरण्यक वर्ष और कुरु वर्ष । उसके पूर्व में भद्राश्व वर्ष है । पश्चिम में केतुमाल वर्ष है तथा बीच में इलावृत्त वर्ष है ।

मूलम्

६६. तद्यथा – पद्माकारा भूः । कर्णिकाकारो मेरुः । मेरोर्दक्षिणतो भारतकिम्पुरुष- हरिवर्षाणि त्रीणि । उत्तरतस्तु रम्यकहिरण्यककुरुवर्षाणि त्रीणि । पुरतो भद्राश्ववर्षम्, पश्चात् केतुमालाख्यं वर्षम् । मध्यं तु इलावृतम् ।

वासुदेवः

पद्माकारेति । तद् उक्तं विष्णु-पुराणे -

भूपद्मस्यास्य शैलो ऽसौ कर्णिकाकार-संस्थितः (२।२।९) । भारतं प्रथमं वर्षं ततः किं-पुरुषं स्मृतम् । हरि-वर्षं तथैवान्यन् मेरोर् दक्षिणतो द्विज ॥ रम्यकं चोत्तरं वर्षं तथैवानु हिरण्मयम् । उत्तराः कुरवश् चैव यथा वे भारतं तथा ( २।२,१२-१३ ) ।

द्वीप-मण्डल-प्रान्तवर्तित्वाद्-भारतवर्षवद् धनुर्-आकारं कुरु-वर्षम् इत्य् अर्थः ।

भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनि-श्रेष्ठ तयोर् मध्य इलावृतम् (२।२।२३) । नव-वर्षं तु मैत्रेय जम्बू-द्वीपम् इदं मया । लक्ष-योजन-विस्तारं संक्षेपात् कथितं तव ॥ जम्बू-द्वीपं समावृत्य लक्ष-योजन-विस्तरः । मैत्रेय वलयाकारं स्थितः क्षारोदधिर् बहिः (२।३।२७-२८) ।

इत्य् आदि-विष्णु-पुराणे द्वितीयां ऽशे स्पष्टम् इति तत एवावधार्यताम् ।