१२ शरीरलक्षणम्

विश्वास-प्रस्तुतिः

५२. एतेषु चतुर्विंशति-सङ्ख्याकेषु
पञ्च-भूतानि प्रकृति-महद्-अहङ्काराश् च शरीरोपादानानि ।
एकादशेन्द्रियाणि प्रत्येकम् असङ्ख्यातानि,
प्रतिपुरुष भिन्नानि,
आभरणार्पित-रत्नानीव शरीरम् आक्रम्य तिष्ठन्ति ।

अण्णङ्गराचार्यः

एतेष्विति । ‘अष्टौप्रकृतयः’ ‘महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च’ इति श्रुतिस्मृतितः शरीरोपादानान्यष्टौ । शरीराश्रिताश्च षोडश विकाराः - एकादशेन्द्रियाणि, शब्दादयश्च पञ्चविषया इति ‘षोडशविकाराश्शरीरे’ ‘इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा’ इति प्रतिपादिता ।
**‘एकादशे’**ति । तैजससहकृताद्वैकारिकात् समष्टिरूपाण्येकादशेन्द्रियाणि जायन्ते । तत्तदंशैश्च प्रत्यात्ममेकादशैकादशेन्द्रियाणि व्यवस्थितानि वर्तन्ते । आत्मानन्त्यात्तानीमानि व्यष्टीन्द्रियाण्यनन्तानि - असङ्ख्यातानि सन्तीति भावः ।

पाञ्चभौतिकं देवमनुष्यादि जीवानां शरीरं प्रसिद्धमेव । अव्यक्तादीनामीश्वरशरीरत्वं च शास्त्रसिद्धम् । अतः सर्वशरीरानुगतं शरीरलक्षणमाह **‘शरीर’**मिति । चेतनेन ज्ञानावच्छिन्नेनात्मना नियमेन धार्यं प्रवर्त्यं च द्रव्यं न चेतनं प्रतिशरीरं भवति, तथा चेतनस्य नियमेन यावत्सत्तं शेषभूतं च द्रव्यम् । नियमेन धार्यत्वादिश्चापृथक्सिद्धिः प्रकारविशेषः । तथा च फलितं चेतनापृथक्सिद्धप्रकारभूतं द्रव्यं शरीरमिति । चैतन्यावच्छिन्नानुयोगिताकापृथक्सिद्धिसम्बन्धप्रतियोगितत्वविशिष्टद्रव्यत्वं शरीरत्वमिति निष्कर्षः । ज्ञानस्यात्मापृथक्सिद्धविशेषणद्रव्यत्वेऽपि तदपृथक्सिद्ध्यनुयोगितायाम् आत्मनिष्ठाया ज्ञानावच्छिन्नत्वाभावान्न ज्ञानस्य स्वाश्रयमात्मानं प्रतिशरीरत्वं भवति । अयमेकलक्षणपक्षः ।

शिवप्रसादः (हिं)

प्रकृति के इन चौबीस तत्त्वों में पञ्चभूत, प्रकृति, महान् और अहङ्कार शरीर के उपादानकारण हैं । ग्यारह इन्द्रियाँ प्रत्येक जीव की अलग-अलग होने से असंख्य हैं । ये आभूषणों में जड़े गए रत्नों के समान शरीर में व्याप्त होकर रहती हैं ।

शिवप्रसादः (हिं) - टिप्पनी

प्राकृतिक चौवीस तत्त्व हैं । उनमें पांच महाभूत, प्रकृति, महान् एवं अहङ्कार- ये आठ तत्त्व शरीर के उपादानकारण हैं । ‘महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च।’ यह गीता का वाक्य भी इन आठ तत्त्वों को शरीर का उपादानकारण बतलाते हैं । ‘अष्टौ प्रकृतयः’ यह श्रुति भी इन आठ तत्त्वों को शरीर का उपादनकारण बतलाती है ।

एकादश इन्द्रियाँ प्रत्येक जीव की पृथक्-पृथक् होती हैं, अतएव ये असंख्य हैं । जिस प्रकार आभूषण की शोभा के लिए उसमें विभिन्न रत्न जटित होते हैं, उसी प्रकार प्रत्येक शरीर को ये इन्द्रियाँ समलङ्कृत करती हैं। शरीर के उपादानभूत आठ तत्त्वों से भिन्न सोलह तत्त्व विकारमात्र हैं । इनकी चर्चा करते हुए श्रीभगवान् गीता में कहते हैं—– ‘इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः । तेजसाहङ्कार से सहकृत सात्त्विकाहंकार से इन इन्द्रियों की उत्पत्ति होती है; यह पहले कहा जा चुका है ।

मूलम्

५२. एतेषु चतुर्विंशतिसङ्ख्याकेषु पञ्चभूतानि प्रकृतिमहदहङ्काराश्च शरीरोपादानानि । एकादशेन्द्रियाणि प्रत्येकमसङ्ख्यातानि प्रतिपुरुष भिन्नानि, आभरणार्पितरत्नानीव शरीरमाक्रम्य तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

५३. शरीरं नाम चेतनम् प्रति
आधेयत्व-विधेयत्व-शेषत्व-नियमैर् अ-पृथक्-सिद्धौ द्रव्य-विशेष
इत्य् एकं लक्षणम् ।
+++(यावच्चेतोऽवस्थानं तावच्छरीरम् इत्य् आधेयत्वं शरीरस्य। )+++
नियमेन यद्-आधेयम्, नियमेन यद्-विधेयम्, नियमेन यच्-छेषम्
इति लक्षण-त्रयं वा योज्यम् ।
ईश्वर–तज्-ज्ञान-व्यतिरिक्तं द्रव्यं
शरीरम् इति वा +++(ईश्वरापेक्षया)+++ तट-स्थ-लक्षणम् ।+++(5)+++

अण्णङ्गराचार्यः

लक्षणत्रयपक्षमाह ‘नियमेन’ इति । येन चेतनेन यद्द्रव्यं नियमेन यावत्सत्तं धार्यं वर्तते तत्तस्य शरीरम् । येन चेतनेन यद्द्रव्यं नियमेन यावत्सत्तं स्वशक्यार्थे प्रेरयितुं योग्यं वर्तते, तत्तस्य शरीरम् । यस्य चेतनस्य यद्द्रव्यं नियमेन - यावत्सत्तं शेषभूतं तत्तस्य शरीरमिति लक्षणत्रयम् । शेषिणो यथेष्टविनियोगार्हं द्रव्यं शेष इति भगवच्छास्त्रे वर्णितम्

यथेष्टं विनियोगार्हं शेषशब्देन कथ्यते ।
विष्णुना च जगत् सर्वं यथेष्टं विनियुज्यते ॥

इति । यथामनुष्यादिशरीरं तदन्तर्वर्ति जीवात्मना यावत्सत्तं स्वार्थे धारयितुं स्वशक्यार्थे प्रेरयितुं च योग्यं वर्तते, तस्यैव शेषभूतं च, अतस्तं प्रति शरीरं भवति । भार्यापुत्रस्रक्चन्दनादि तु पृथक्सिद्धत्वान्न नियमेन भोक्तृचेतनाधीनमिति न तच्छरीरत्वं तस्य । सर्वं चिदचिज्जातं च परमात्मना नियमेन धार्यं नियाम्यं तस्यव [[तस्यैव??]] [[तस्यविशेषभूतं??]] शेषभूतं च वर्तत इति परमात्मशरीरं तद्भवति । श्रुतिस्मृतिसिद्धं च भगवच्छरीरत्वं चिदचित्प्रपञ्चस्येति बोध्यम् । स्थापितं चैतच्छ्रीभाष्यादौ ।
**‘ईश्वरे’**ति । तटस्थलक्षणं कूटस्थलक्षणम् । साधारणमिति यावत् । ईश्वरतज्ज्ञानातिरिक्तद्रव्यत्वं शरीरसामान्यलक्षणमित्यर्थः । विशेषरूपेणास्येदं शरीरमिति व्यवहारव्यवस्थापकं तु शरीरलक्षणं ‘यस्य चेतनस्य यद्द्रव्य’मित्यादिना पूर्वोक्तमेवेति बोध्यम् ।

शिवप्रसादः (हिं)

अनुवाद - अपने आश्रय चेतन के प्रति जो नियमतः आधेय, विधेय एवं शेष तथा अपृथसिद्ध द्रव्य हो, उसे शरीर कहते हैं ।
यह शरीर का एक लक्षण है ।
जो आश्रय के प्रति नियमतः आधेय होता है,
उसे शरीर कहते हैं,
अथवा जो अपने आश्रय चेतन के प्रति नियमतः विधेय हो,
उसे शरीर कहते हैं ।
जो अपने आश्रय चेतन के प्रति नियमतः शेष हो,
उसे शरीर कहते हैं ।
ये शरीर के तीन लक्षण भी किये जाते हैं ।
अथवा शरीर का यह तटस्थ लक्षण किया जा सकता है कि
ईश्वर तथा ईश्वर के ज्ञान से भिन्न द्रव्य को शरीर कहते हैं ।

शिवप्रसादः (हिं) - टिप्पनी

शरीर का लक्षण

भा० प्र० - पहले के अनुच्छेद में यह चर्चा आयी है कि इन्द्रियों का आश्रय शरीर है । इस प्रसङ्ग-सङ्गति के अनुसार प्रश्न उठता है कि शरीर किसे कहते हैं।
इस पर यतीन्द्रमतदीपिकाकार कहते हैं कि शरीर का स्वरूप लक्षण दो प्रकार से किया जा सकता है ।
पहला तो यह है कि - जिस चेतन का जो द्रव्य नियमतः आधेय, विधेय एवं शेष होते हुए उसका अपृथसिद्ध द्रव्य हो, उसे उसका शरीर कहते हैं ।

शरीर चेतन का आधेय है, क्योंकि जब तक शरीर के भीतर चेतन रहता है,
तबतक ही शरीर रहता है ।
चेतन के निकलते ही वह विनष्ट हो जाता है,
अतएव चेतनाश्रित होने के कारण
चेतनों का आधेय है ।

शरीर अपने आश्रय चेतन का विधेय होता है ।
वह जैसे चाहता है, वैसे ही उसे तत् तत् कार्यों में लगा देता है ।
चेतन के द्वारा नियम्य होने के कारण शरीर चेतन का विधेय है ।

शरीर अपने आश्रय चेतन का शेष है
तथा चेतन उसका शेषी ( स्वामी ) है ।
साथ ही साथ शरीर अपने आश्रयभूत चेतन का अपृथसिद्ध द्रव्य है ।
वह अपने आश्रयभूत चेतन से पृथक् होकर नहीं रह सकता है ।

अपने आश्रय चेतन के प्रति शरीर का
नियमतः आधेयत्व, विधेयत्व एवं शेषत्व
शरीर के पृथक्-पृथक् तीन लक्षण हो सकते हैं ।
‘न तु दृष्टान्तभावात्’ इस ब्रह्मसूत्र के श्रीभाष्य में भी
शरीर का यही लक्षण किया गया है -

‘यस्य चेतनस्य यद् द्रव्यं
सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यं
तच्छेषतैकस्वरूपं च
तत् तस्य शरीरम् ।’

शरीर का लक्षण लोक तथा वेदों में वर्णित जितने शरीर हैं,
उन सबों में समन्वित होता है ।
अतएव इस शरीर के लक्षण में किसी भी प्रकार का दोष नहीं है ।

यतीन्द्रमतदीपिकाकार ने शरीर का एक तटस्थ लक्षण भी किया है । वह यह है - जो ईश्वर तथा ईश्वर के ज्ञान से भिन्न द्रव्य हो, उसे शरीर कहते हैं ।

मूलम्

५३. शरीरं नाम चेतनम् प्रति आधेयत्वविधेयत्वशेषत्वनियमैरपृथक्सिद्धौ द्रव्यविशेष इत्येकं लक्षणम् । नियमेन यदाधेयम्, नियमेन यद्विधेयम्, नियमेन यच्छेषमिति लक्षणत्रयं वा योज्यम् । ईश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं शरीरमिति वा तटस्थलक्षणम् ।

वासुदेवः

शरीरम् इति । आधेयत्वम् आश्रितत्वम् । विधेयत्वं नियाम्यत्वम् । शेषत्वम् अङ्गत्वम् । अपृथक्-सिद्ध इति । यावत्-सत्तम् असंबन्धानर्हत्वम् अपृथक्-सिद्धत्वम् । नियमेना ऽऽधेयत्वं नियमेन विधेयत्वं नियमेन शेषत्वम् इत्य् एते ऽपृथक्-सिद्धेर् अवान्तर-भेदाः । एकं लक्षणम् इति । अस्मिन्-पक्ष आधेयत्व-विधेयत्व-शेषत्वेष्व् अन्यतमेनैव सिद्ध इतर-द्वयोच्चारणं व्यर्थम् इति व्यवच्छेद्य-परिक्लेशः । इत एव वा ऽरुचेर् आह - नियमेनेति । अत्रायं निष्कर्षः- यस्य चेतनस्य यद् अवस्थं द्रव्यं यावत्-सत्तम् असंबन्धानर्हं स्व-शक्ये नियन्तव्य-स्वभावं तद्-अवस्थं तस्य शरीरम् इति प्रथम-लक्षणम् । चेतनस्येत्यस्य चैतन्य-विशिष्टस्येत्य् अर्थः । तेन चैतन्यस्य तत्तद्-आश्रयं प्रति शरीरत्व-व्यवच्छेदः । यद्-अवस्था-इत्य् अव्याप्ति-परिहारः । तस्यैव द्रव्यस्यावस्थान्तरे वियोगात् । द्रव्यम् इति क्रियादि-व्यवच्छेदः । यावत्-सत्तम् इत्यादिना जीवं प्रति परकाय-प्राणेन्द्रिय-कुठारादि-व्यवच्छेदः । प्राणादीनां हि पृथग् एव सृष्टानां शरीर-निर्माणात्-पूर्व-भावात् । तथा मोक्षात्-पश्चाद् अपि तेषाम् आप्रलयावसानात् । स्व-शक्य इत्य् असंभव-परिहारः । न हि विहङ्गमसाध्यं विहायोगमनं मानुष-मृग-सरीसृपादि-शरीरस्य शक्यम् । न च तावता तेषाम् अशरीरत्वम् । नियन्तव्येत्य् अनियन्तव्य-व्याध्यादि-व्यवच्छेदः । व्याध्यादीनां ज्वराद्य्-आत्मिकानां तदीयत्वात्, स्व-शक्ये प्रवर्तमानत्वाच् च । एवं पुत्रशरादीनाम् अपि स्वभाव-शब्देना-व्याप्ति-परिहारः । व्याध्यादि-दशायां स्व-शक्ये ऽप्य् अशक्य-नियमनानां मानुष-शरीरादीनाम् अपि शरीरत्वात् तदानीम् एतस्याशक्य-नियमनत्वस्यौपाधिकत्वात् । यस्य चेतनस्य यद् अवस्थं-द्रव्यं यावत्-सत्तं धार्यं तद्-अवस्थं तस्य शरीरम् इति द्वितीयं लक्षणम् । पुत्र-शरीरादिकं न यावत्-सत्तं धार्यम् इति व्यवच्छिद्यते । शेषं प्राग्वत् । यस्य चेतनस्य यद्-अवस्था-द्रव्यं यावत्-सत्तम् अशेषतान्-अर्हं तद्-अवस्थं तस्य शरीरम् इति तृतीयं लक्षणम् । अशेषतानर्हम् इति पूर्ववद् एव पुत्रादि-व्यवच्छेदः । दानादिना तेषां स्व-शेषत्व-निवर्तनस्य शक्यत्वात् । शरीरस्य तु दासत्वाद्यापादनेन पर-शेषत्वे ऽपि सांसिद्धिकस्य स्व-स्व-शेषत्वस्य निवर्तयितुम् अशक्यत्वाद् इति न्याय-सिद्धाञ्जने स्पष्टम् । न च शिला-काष्ठादिष्व् अव्याप्तिः । तत्रापि स्वल्पतर-चैतन्य-सत्त्वात् । शिलादि-शरीरिणो ऽपि जीवा विद्यन्त इत्य् अहल्यादि-वृत्तान्त-श्रवणात् सिध्यति । अत एव वेदार्थ-संग्रहे शिला-काष्ठादि-शब्दानामपि तद्-अन्तर्यामि-जीव-तद्-अन्तर्यामि-परमात्म-पर्यन्तार्थ-वाचकत्वम् उक्तम् । लक्षण-त्रये ऽपि शरीरत्वस्य पुत्रत्वादि-वत् स-प्रतियोगित्वम् एव । तटस्थ-लक्षणम् आह - ईश्वरेति । ईश्वर-तज्-ज्ञान-व्यतिरिक्तं द्रव्यं ‘जीव-नित्य-विभूति-प्रकृति-काल’ एतच्-चतुष्टयम् । अस्मिंल्लँक्षणे शिला-काष्ठादिष्व् अव्याप्ति-शङ्का ऽपि नेति बोध्यम् ।

विश्वास-प्रस्तुतिः

५४. एतेन चेष्टाश्रयं शरीरम्,
इन्द्रियाश्रयं शरीरम्,
भोगायतनं शरीरम्,
शिरः-पाणि-पादादिमयं शरीरम्
इत्य्-आदीनि परोक्तानि शरीर-लक्षणानि निरस्तानि ।

अण्णङ्गराचार्यः

‘परवाद्यभिमतानि शरीरलक्षणानि दूषयति प्रसङ्गतः **‘एतेने’**ति । ‘चेष्टेन्द्रियार्थाश्रयं शरीरम्’ इति न्यायसूत्रम् । चेष्टाश्रयत्वम्, इन्द्रियाश्रयत्वम्, भोगायतनत्वमिति शरीरस्य लक्षणत्रयमत्र विवक्षितम् । एतत्त्रयमप्यव्याप्त्यतिव्याप्तिभ्यां न लक्षणं भवितुमर्हति । तथाहि - चेष्टाशब्देन चलनात्मकक्रियामात्रविवक्षायां घटादावतिव्याप्तिः । तस्य तार्किकैः शरीरत्वानभ्युपगमात् । प्रयत्नवदात्मसंयोगासमवायिकारणकक्रियाविवक्षायां च तन्मते परमाण्वादावतिव्याप्तिः, शिलादिशरीरेऽव्याप्तिश्च । इन्द्रियाश्रयत्वं संयोगेन चेन् घटादावतिव्याप्तिः । समवायेन चेदिन्द्रियावयवेष्वतिव्याप्तिः । शरीरेऽसम्भवश्च । स्वजन्यज्ञानावच्छेदकत्वसम्बन्धेनेन्द्रियवत्त्वविवक्षायां च शिलादावव्याप्तिः । एवमर्थाश्रयत्वं शब्देन गन्धादिभोग्यपदार्थाश्रयत्वविवक्षायां कुसुमादावतिव्याप्तिः । स्वविषयकभोगावच्छेदकत्वसम्बन्धेन तद्वत्त्वविवक्षायां च शिलादावव्याप्तिस्तदवस्था । तच्छरीरे सुखाद्यनुभवरूपभोगाभावात् । एतेषां च लक्षणानामीश्वरशरीरत्वेन शास्त्रसिद्धेषु प्रकृतिपुरुषादिष्वव्याप्तिः स्थिरा । एवं पञ्चवृत्तिप्राणाधीनधारणत्वम्, करचरणादिमत्त्वमित्यादिशरीरलक्षणेऽपि अव्याप्त्याद्यनुसन्धेयम् । अतो भाष्यकाराभिमतमेव लक्षणत्रयं साधीयः । महताम् – तप आदिना सिद्धानाम् । स्थावरम् - गतिशून्यम् । जङ्गमं - गतिशीलम् ।

शिवप्रसादः (हिं)

इन लक्षणों के करने से

जो [[९१]] चेष्टा का आश्रय हो,
उसे शरीर कहते हैं।
जो इन्द्रियों का आश्रय हो,
उसे शरीर कहते हैं ।
जो भोगों का आयतन ( आश्रय ) हो,
उसे शरीर कहते हैं ।
शरीर शिर, पाणि, पाद आदिमय होता है

इत्यादि तत् तत् वादियों द्वारा किये गये शरीर के लक्षणों का खण्डन हो गया ।

शिवप्रसादः (हिं) - टिप्पनी

कुछ दार्शनिकों ने शरीर का एकदेशीय लक्षण किया है—
कोई चेष्टाश्रय को शरीर बतलाता है,
कोई इन्द्रियाश्रय
तो कोई भोगाश्रय को
तो कोई अङ्गाश्रय को ।
किन्तु ये सभी शरीर के लक्षण दोष दूषित हैं ।
अतएव इन सभी शरीर-लक्षणों का उपर्युक्त सिद्धान्तसम्मत शरीर के लक्षण द्वारा खण्डन हो गया ।

मूलम्

५४. एतेन चेष्टाश्रयं शरीरम्, इन्द्रियाश्रयं शरीरम्, भोगायतनं शरीरम्, शिरः- पाणिपादादिमयं शरीरम् इत्यादीनि परोक्तानि शरीरलक्षणानि निरस्तानि ।

वासुदेवः

नैयायिकाद्य्-उक्तं खण्डयति - एतेनेति । ईश्वर-तज्-ज्ञान-व्यतिरिक्त-सर्व-द्रव्येषु शरीरत्वस्येष्टत्वेनेत्य् अर्थः । किंच चेष्टा-शब्देन क्रिया-मात्र-विवक्षायां घटादिष्व् अतिव्याप्तिः । प्रयत्नवद्-आत्म-संयोगा-समवायि-कारणक-क्रिया-विवक्षायां प्रयत्नवद्-ईश्वर-संयोगा-समवायि-कारणक-क्रियाश्रयेषु भूधरादिष्व् अतिव्याप्तिः । तत्र तैः शरीरत्वस्यानभ्युपगमात् । प्रयत्नवज्-जीवेति विशेषणे प्राणादिष्व् अतिव्याप्तिः । बुद्धि-पूर्वक-प्रयत्नेति विशेषणे ऽपि बुद्धि-पूर्वकाकुञ्चन-प्रसारणादि-दशायां तेष्व् एवातिव्याप्तिः । तथेन्द्रियाश्रयत्वम् इन्द्रिय-समवायित्वम् इन्द्रिय-संयोगित्वं वा । ना ऽद्यः । शरीरेन्द्रिययोः समवायाभावात् । इन्द्रियावयवानां तन्-मते शरीरत्व-प्रसङ्गाच् च । नान्त्यः । घटादिष्व् अपि तत्-संभवात् । न च यावत्-सत्तम् इन्द्रिय-संयोगो विवक्षित इति वाच्यम् । अनिमेष-चक्षुषि प्रेक्षमाणे पुरुषे तत्-कालिकोत्पन्न-विनष्ट-बुद्बुद-प्रभृतिष्व् अतिव्याप्तेः । तथा भोगायतनत्वं भोग-स्थानत्व-मात्रं चेत् तदा गृहादिष्व् अतिव्याप्तिः । न च यद् आश्रित्यैवा ऽऽत्मा भोगवान् भवति तद्-भोगायतनम् इति विवक्षितम् इति वाच्यम् । असंभवात् । अशरीरस्यापि मुक्तस्य भोग-विशेषाभ्युपगमात् । न च दुःखात्मक-भोगो विवक्षित इति वाच्यम् । तथा ऽपीन्द्रियेष्व् अतिव्याप्तेः । ईश्वर-मुक्तादिभिर् इच्छा-गृहीत-शरीरेष्व् अव्याप्तेश् च । तथा शिरः-पाणि-पादादि-मयं शरीरम् इत्य् अपि न लक्षणम् । शिला-पुत्रकादिष्व् अपि तत्-संभवात् । न च प्राणादिमत्त्वे सतीति निवेशान् न दोष इति वाच्यम् । मृत-शरीरे ऽव्याप्तेः । न च यदा कदाचित् प्राणादि-संबन्ध-मात्रं विवक्षितम् इति वाच्यम् । तथा ऽपि स्थावरादि-शरीरेष्व् अव्याप्तेः । तेषु प्राणादि-सत्त्वे ऽपि पाणि-पादादि-संस्थानाभावाद् इति बोध्यम् ।