०४ इन्द्रिय-निरूपणम्

विश्वास-प्रस्तुतिः

८. सात्त्विकाहङ्कारोपादानकं द्रव्यम् इन्द्रियम् इति इन्द्रिय-लक्षणम् ।
इन्द्रियं द्वि-विधम् – ज्ञानेन्द्रियं कर्मेन्द्रियं चेति ।

शिवप्रसादः (हिं)

अनुवाद - जिसका सात्त्विकाहङ्कार उपादानकारण हो, उसे इन्द्रिय कहते हैं । यह इन्द्रिय सामान्य का लक्षण है । इन्द्रियों के दो भेद हैं-ज्ञानेन्द्रियाँ एवं कर्मेन्द्रियाँ ।

शिवप्रसादः (हिं) - टिप्पनी

इन्द्रियनिरूपण

भा० प्र० - प्रश्न यह है कि जो नेत्र, नासिका, जिह्वा इत्यादि के रूप में दिखलायी पढ़ते हैं, वे ही इन्द्रियाँ हैं, अथवा इन सबों से भिन्न कोई इन्द्रिय नामक वस्तु है ? इस शंका का समाधान करते हुए कहा गया है कि इन्द्रियाँ प्रत्यक्ष का विषय नहीं है । वे अतीन्द्रिय हैं तथा अणुपरिमाणक हैं । इन्द्रिय द्रव्य का उपादानकारण सात्त्विका- हङ्कार है ।

इन्द्रियों के दो भेद हैं— ज्ञानेन्द्रियाँ तथा कर्मेन्द्रियाँ ।

मूलम्

८. सात्त्विकाहङ्कारोपादानकं द्रव्यमिन्द्रियम् इति इन्द्रियलक्षणम् । इन्द्रियं द्विविधम् – ज्ञानेन्द्रियं कर्मेन्द्रियं चेति ।

वासुदेवः

इन्द्रिय-लक्षणम् इति । शरीर-संयुक्तं ज्ञान-करणम् अतीन्द्रियम् इन्द्रियम् इति परोक्त-लक्षणं कर्मेन्द्रियेष्व् अव्याप्तम् ।

ज्ञानेन्द्रियम्

विश्वास-प्रस्तुतिः

९. ज्ञान-प्रसरण-शक्तम् इन्द्रियं ज्ञानेन्द्रियम्
तत् षोढा – मनः-श्रोत्र-चक्षुर्-घ्राण-रसना-त्वग्-भेदात् ।

शिवप्रसादः (हिं)

ज्ञानेन्द्रिय उसे कहते हैं, जो ज्ञान का प्रसरण करने में समर्थ हो । ज्ञानेन्द्रियाँ छह प्रकार की होती हैं— मन, श्रोत्र, चक्षु, घ्राण, रसना एवं त्वक् ।

शिवप्रसादः (हिं) - टिप्पनी

ज्ञानेन्द्रियाँ छः है - मन, श्रोत्र, चक्षु, घ्राण, रसना एवं त्वक् ।

मूलम्

९. ज्ञानप्रसरणशक्तमिन्द्रियं ज्ञानेन्द्रियम् । तत् षोढा – मनःश्रोत्रचक्षुर्घ्राणरसना- त्वग्भेदात् ।

वासुदेवः

मनःश्रोत्रेति । मनसः कर्मेन्द्रियत्वं तु न । तस्य ज्ञान-द्वारैव कर्म-हेतुत्वात् । तावतैव कर्मेन्द्रियत्वे चक्षुरादाव् अप्य् अतिप्रसङ्गः । मानसं कर्मेति व्यवहारे तु कर्म-शब्दः शुभाशुभ-संकल्पादि-रूप-ज्ञान-वाचीति बोध्यम् ।

विश्वास-प्रस्तुतिः

१०. स्मृत्य्-आदि-करणम् इन्द्रियम् मनः
तच् च हृदय-प्रदेश-वृत्ति,
बुद्ध्य्-अहङ्कार-चित्तादि-शब्द-वाच्यम्
बन्ध-मोक्ष-हेतु-भूतं च ।+++(5)+++

अण्णङ्गराचार्यः

**‘तच्चे’**ति । मन एवाध्यवसायाभिमानचिन्तालक्षणधर्मभूतज्ञानावस्थाहेतुव्यापारवत्त्वेन बुद्ध्यहङ्कारचित्रशब्दवाच्यं

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासङ्गि मुक्त्यै निर्विषयं पुनः ॥

इति निरुक्तरीत्या जीवात्मना बन्धमोक्षप्रयोजकं च वर्तते इत्यर्थः । एतेनान्तःकरणचतुष्टयवादिनः, अध्यवसायादीनामनोधर्मत्वं च वदन्तः कापिलादयो निरस्ताः ।

शिवप्रसादः (हिं)

स्मरण आदि क्रियाओं के साधकतम इन्द्रिय को मन कहते हैं । मन हृदय- प्रदेश में रहता है । उसे ही बुद्धि, अहङ्कार तथा चित्त आदि शब्दों से अभिहित किया जाता है । मन ही जीवों के बन्ध एवं मोक्ष का कारण है ।

शिवप्रसादः (हिं) - टिप्पनी

मन को भी ज्ञानेन्द्रिय के अन्तर्गत इसलिए माना जाता है कि
गीता के ‘मनः षष्ठानीन्द्रियाणि’
इस वाक्य में मन को भी इन्द्रियों के अन्तर्गत गिना गया है ।
मन को सिद्ध करते हुए गौतम ने कहा है – [[७६]]
‘युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्’
अर्थात् सभी इन्द्रियों के यथायथ अपने विषयों के सन्निकृष्ट होने पर भी
समकाल में सभी विषयों का ज्ञान न होकर
क्रमशः होता है ।
जिस इन्द्रिय की सहायता के बिना
इन्द्रियाँ अपने-अपने विषयों का प्रकाश नहीं कर पाती हैं,
वह इन्द्रिय मन है ।

मन के द्वारा जो इन्द्रिय सहकृत होती है,
वही इन्द्रिय अपने विषय का प्रकाश कर पाती है ।
अतएव मन का ज्ञान साधकतमत्व सिद्ध होता है।

किञ्च जिस प्रकार - बाह्य - रूप, रस, गन्ध, स्पर्श एवं शब्द का ज्ञान प्राप्त करने में
चक्षुः, रसना, घ्राण, त्वक्, श्रोत्र नाम की इन्द्रियाँ साधकतम हैं,
उसी प्रकार सुख-दुःखादि आभ्यन्तर विषयों के ग्रहण करने में
साधकतम किसी इन्द्रिय को अवश्य होना चाहिए।
सुख-दुःखादि के ग्रहण में जो इन्द्रिय साधकतम होती है,
उसे मन कहा जाता है ।
इस तरह मन का इन्द्रियत्व सिद्ध होता है ।

मन के इस इन्द्रियत्व प्रतिपादन से
मन को इंन्द्रिय नहीं मानने वाले
वेदान्तपरिभाषाकार इत्यादि के मत का खण्डन हो जाता है ।

मूलम्

१०. स्मृत्यादिकरणम् इन्द्रियम् मनः । तच्च हृदयप्रदेशवृत्ति बुद्ध्यहङ्कारचित्तादिशब्द- वाच्यम् बन्धमोक्षहेतुभूतं च ।

वासुदेवः

हृदय-देश-वृत्तीति । इन्द्रियान्तराणाम् अपि हृत्-प्रदेश एव कन्द-स्थानम् । स्थानान्तरेष्व् अपि तेषां यथा-संभवं वृत्तिः । तद् उक्तं भाष्ये- हृदय-स्थानां चेन्द्रियाणां तत् तन् नाडी-भेदैस् तत् तत्-प्रदेश-विशेष-प्रसर्पात् तत्र तत्र कार्य-करत्वम् इति । आत्मनो ऽपि हृत्-प्रदेशे भूयसा वृत्तिः । बुद्ध्यहंकारेति । तथा च भाष्यम् - अध्यवसायाभिमान-चिन्ता-रूप-वृत्ति-भेदान् मनः एव बुद्ध्यहंकार-चित्त-शब्दैर् व्यपदिश्यत इति ।

विश्वास-प्रस्तुतिः

११. शब्दादि-पञ्चके शब्द-मात्र-ग्रहण-शक्तम् इन्द्रियं श्रोत्रम्
तन्-मनुष्यादीनां कर्ण-शष्कुल्य्-अवच्छिन्न-प्रदेश-वृत्ति ।
द्वि-जिह्वानां नयन-वृत्ति ।+++(4)+++

अण्णङ्गराचार्यः

‘शब्दादिपञ्चक’ इति । श्रोत्रेणात्वकत्वादेर्वर्णधर्मस्यापि ग्रहणादसम्भवः स्यात् । तद्वारणाय शब्दादिपञ्चके इति विशेषणमुक्तम् । मनस्यतिव्याप्तिवारणाय मात्रपदम् । द्विजिह्वसर्पः चक्षुश्रवाः । एकस्मिन्नेव स्थाने चक्षुश्रोत्रे तस्यार्थः ।

शिवप्रसादः (हिं)

शब्द आदि पाँच विषयों में से शब्दमात्र समर्थ इन्द्रिय को श्रोत्रेन्द्रिय कहते हैं । श्रोत्रेन्द्रिय मनुष्य आदि के रहती है । सर्प आदि के वह नेत्र- प्रदेश में रहती है ।

मूलम्

११. शब्दादिपञ्चके शब्दमात्रग्रहणशक्तमिन्द्रियं श्रोत्रम् । तन्मनुष्यादीनां कर्णशाशष्कुल्यवच्छिन्नप्रदेशवृत्ति /श्रवणकुहरवृत्ति। द्विजिह्वानां नयनवृत्ति ।

विश्वास-प्रस्तुतिः

१२. एवं रूप-मात्र-ग्रहण-शक्तम् इन्द्रियं चक्षुः
तत् सर्वेषां नयन-वृत्ति ।

शिवप्रसादः (हिं)

इसी तरह के ग्रहण करने में कर्णकुहर में स्थित रूपमात्र का ग्रहण करने में समर्थ इन्द्रिय को चक्षुरिन्द्रिय कहते हैं । यह सभी के नेत्र प्रदेश में रहती है ।

मूलम्

१२. एवं रूपमात्रग्रहणशक्तमिन्द्रियं चक्षुः । तत् सर्वेषां नयनवृत्ति ।

विश्वास-प्रस्तुतिः

१३. गन्ध-मात्र-ग्रहण-शक्तम् इन्द्रियं घ्राणम् । नासाग्र-वृत्ति । ( गजादेः कराग्रवृत्ति )

शिवप्रसादः (हिं)

गन्धमात्र के ग्रहण करने में समर्थ इन्द्रिय को घ्राणेन्द्रिय कहते हैं । यह इन्द्रिय नासिका के अग्रभाग में विद्यमान रहती है । हाथी आदि के सूँड के अग्रभाग में रहती है।

मूलम्

१३. गन्धमात्रग्रहणशक्तमिन्द्रियं घ्राणम् । नासाग्रवृत्ति । ( गजादेः कराग्रवृत्ति )

विश्वास-प्रस्तुतिः

१४. रस-मात्र-ग्रहण-शक्तम् इन्द्रियं रसनेन्द्रियम् । जिह्वाग्र-वृत्ति।

शिवप्रसादः (हिं)

रस- मात्र के ग्रहण करने में समर्थ इन्द्रिय को रसनेन्द्रिय कहते हैं । यह इन्द्रिय जिह्वा के अग्रभाग में रहती है ।

मूलम्

१४. रसमात्रग्रहणशक्तमिन्द्रियं रसनेन्द्रियम् । जिह्वाग्रवृत्ति।

विश्वास-प्रस्तुतिः

१५. स्पर्श-मात्र-ग्रहण-शक्तम् इन्द्रियं त्वग्-इन्द्रियम् । सर्वशरीर-वृत्ति ।
नख-दन्त-केशादिषु प्राण-मान्द्य-तारतम्यात् स्पर्शानुपलम्भः ।

अण्णङ्गराचार्यः

**‘नखे’**ति । प्राणसञ्चारे मन्दे ईषत्स्पर्शग्रहः । अत्यन्तमान्द्ये च तस्य, स्पर्शाग्रहः ।

शिवप्रसादः (हिं)

स्पर्शमात्र के ग्रहण करने में समर्थ इन्द्रिय को त्वगिन्द्रिय कहते हैं । यह सम्पूर्ण शरीर में रहती है। दांत, नख तथा केश आदि में प्राण अत्यल्प मात्रा में विद्यमान रहता है, अतएव उनमें स्पर्श की प्रतीति बहुत कम होती है ।

मूलम्

१५. स्पर्शमात्रग्रहणशक्तमिन्द्रियं त्वगिन्द्रियम् । सर्वशरीरवृत्ति । नखदन्तकेशादिषु प्राणमान्द्यतारतम्यात् स्पर्शानुपलम्भः ।

विश्वास-प्रस्तुतिः

१६. श्रोत्रादीन्द्रियाणाम् भौतिकत्व-प्रतिपादनम्
भूताप्यायितृत्वेनौपचारिकम् ।

अण्णङ्गराचार्यः

नन्विन्द्रियाणामाहङ्कारिकत्वे भौतिकत्वं स्मृतं कथङ्घटत इत्यत्राह **‘श्रोत्रादी’**ति । श्रोत्रादीनामाकाशादिभूतांशैः पोषणं भवतीति भूताप्यायितत्वपरं भौतिकत्वं वचनमिति भावः । भूताप्यायितृत्वेनेति पाठे भूतानां पोषकत्वेनेत्यर्थो वाच्यः । आप्यायितत्वम् - पोषितत्वम् ।

शिवप्रसादः (हिं)

श्रोत्र आदि इन्द्रियों को भौतिक इसलिए कहा जाता है कि इन्द्रियां भूतों से आप्या- यित होती हैं, अतएव उनका भौतिकत्व व्यपदेश औपचारिक हैं ।

मूलम्

१६. श्रोत्रादीन्द्रियाणाम् भौतिकत्वप्रतिपादनम् भूताप्यायितृत्वेनौपचारिकम् ।

वासुदेवः

भौतिकत्वेति । यत् तु वैशेषिका अनुमानेन भौतिकत्वं साधयन्ति । तथा हि - त्वग्-इन्द्रियं वायवीयम् । रूपादिषु मध्ये स्पर्श-मात्राभिव्यञ्जकत्वात् । स्वेद-शैत्याभिव्यञ्जक-पवनवत् । चक्षुर्-इन्द्रियं तैजसम् । रूपादिषु मध्ये रूप-मात्राभिव्यञ्जकत्वात् । दीप-प्रभावत् । रसनेन्द्रियम् आप्यम् । रूपादिषु मध्ये रस-मात्राभिव्यञ्जकत्वात् । दन्तान्तर्गत-तोयवत् । घ्राण-इन्द्रियं पार्थिवम् । रूपादिषु मध्ये गन्ध-मात्राभिव्यञ्जकत्वात् । कुङ्कुम-गन्धाभिव्यञ्जक-घृतवद् इति । तच् चिन्त्यम् । व्यञ्जकत्वं किं व्यक्तिं प्रति करणत्वं हेतुत्व-मात्र वा । ना ऽद्यः । स्वरूपासिद्धेः । यस्मिन् सत्य् अविलम्बेन कार्योत्पत्तिस् तस्य करणत्वेनेन्द्रिय-संयोगस्य करणत्वे ऽपीन्द्रियाणाम् अकरणत्वात् । नान्त्यः । इन्द्रियाधिष्ठान-तत्-संस्कारादिभिर् व्यभिचरितत्वात् । भूताप्यायितृत्वेनेति । पोषकत्वेनेत्य् अर्थः । शरीर-विनाशे च तत्-स्थानीन्द्रियाणीन्द्रियाप्यायकैर् भूतैर् अंशतो हीयन्ते शरीरान्तरे पुनर् आपूर्यन्त इति भावः । अत एव-

आप्यायन्ते च ते नित्यं तद्-अवस्थैस् तु पञ्चभिः ।

इति मोक्ष-धर्म उक्तम् ।

[[७४]]

विश्वास-प्रस्तुतिः

१७. एतेषां विषय-सम्बन्धः
क्वचित् संयोगः, क्वचित् संयुक्ताश्रयणम्
इति वृद्ध-सम्प्रदायः ।

अण्णङ्गराचार्यः

‘वृद्धसम्प्रदाय’ इति । तथा चाहुः भट्टपराशरपादास्तत्त्वरत्नाकरे

अत्र वृद्धा विदामासुः सयोगं सन्निकर्षणम् ।
संयुक्ताश्रयणं चेति यथासम्भवमूह्यताम् ॥

इति ।

शिवप्रसादः (हिं)

इन्द्रियों का विषयों के साथ संयोग होने में
कहीं पर संयोग नामक सम्बन्ध होता है
तथा कहीं पर संयुक्ताश्रय संबन्ध होता है ।
यह अर्थज्ञान वृद्धों के सम्प्रदाय से प्राप्त है ।

मूलम्

१७. एतेषां विषयसम्बन्धः क्वचित् संयोगः क्वचित् संयुक्ताश्रयणमिति वृद्ध-सम्प्रदायः ।

वासुदेवः

एतेषाम् इति । तद् उक्तं तत्त्व-रत्नाकरे -

तत्र वृद्धा विदामासुः संयोगं संनिकर्षणम् । संयुक्ताश्रयणं चेति यथा-संभवम् ऊह्यताम् ॥

इति ।

तत्र वाय्वादि-चतुष्टयं यथा-योग्यं संयोग-संबन्धेन गृह्यते । स्पर्शादयस् तु संयुक्ताश्रयण-संबन्धनेति विवेकः ।

कर्मेन्द्रियाणि

विश्वास-प्रस्तुतिः

१८. उच्चारणादिषु अन्यतम-क्रिया-शक्तत्वं कर्मेन्द्रिय-सामान्य-लक्षणम् ।
तच् च वाक्-पाणि-पाद-पायूपस्थ भेदात् पञ्चधा ऽवस्थितम् ।

शिवप्रसादः (हिं)

[[७५]]
उच्चारण आदि क्रियाओं में से किसी भी क्रिया को करने में समर्थ जो इन्द्रिय होती है, उसे कर्मेन्द्रिय कहते हैं। कर्मेन्द्रिय पाँच हैं-वाकू, पाणि, पाद, पायु और उपस्थ ।

शिवप्रसादः (हिं) - टिप्पनी

सतरह ज्ञानेन्द्रियां ज्ञान का साधकतम हैं, उसी तरह कर्मेन्द्रियाँ तत् तत् कर्मों की साधकतम हैं । कर्मेन्द्रियों की संख्या पांच है। पाक, पाणि, पाद, पायु तथा उपस्थ ये पाँच कर्मेन्द्रियाँ हैं ।

मूलम्

१८. उच्चारणादिषु अन्यतमक्रियाशक्तत्वं कर्मेन्द्रियसामान्यलक्षणम् । तच्च वाक्पाणिपादपायूपस्थ भेदात् पञ्चधावस्थितम् ।

विश्वास-प्रस्तुतिः

१९. वर्णोच्चारण-करणम् इन्द्रियं वाक् ।
सा च हृत्-कण्ठ–जिह्वा-मूल–तालु-दन्तोष्ठ-नासा-मूर्द्ध-रूप-स्थानाष्टक-वृत्तिः ।
(मूक-)मृगादिषु अ-दृष्ट-विरहात् तद्-अभावः ।

शिवप्रसादः (हिं)

वर्णों के उच्चारण की क्रिया में जो साधकतम होती है, उस इन्द्रिय को वाक् कहते । वह वागिन्द्रिय हृदय कण्ठ, जिह्वामूल, तालु, दाँत, ओष्ठ, नासिका और मूर्धा, इन आठ स्थानों में रहती है । मूक ( गूँगे आदमी ) तथा मृग आदि में के अभाव के कारण वागिन्द्रिय का अभाव होता है ।

मूलम्

१९. वर्णोच्चारणकरणमिन्द्रियं वाक् । सा च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासा- मूर्द्धरूपस्थानाष्टकवृत्तिः । (मूक-)मृगादिषु अदृष्टविरहात् तदभावः ।

विश्वास-प्रस्तुतिः

२०. शिल्पादि-करणम् इन्द्रियम् पाणिः
स च मनुष्यादीनाम् अङ्गुल्यादिवृत्तिः । वारणादीनां नासावृत्तिः ।

शिवप्रसादः (हिं)

शिल्पक्रिया में साधकतम अदृष्ट आदि इन्द्रिय को पाणि कहते हैं । पाणीन्द्रिय मनुष्य आदि के अंगुलियों के अग्रभाग में रहती है। हाथी आदि की नासिका के अग्रभाग में पाणि इन्द्रिय रहती है ।

मूलम्

२०. शिल्पादिकरणमिन्द्रियम् पाणिः । स च मनुष्यादीनाम् अङ्गुल्यादिवृत्तिः/अङ्गुल्यप्रवर्ती । वारणादीनां नासावृत्तिः ।

वासुदेवः

अङ्गुल्यादिष्टतिर् इति । ननु तालु-पादादिभिर् अपि मौक्तिक-ग्रथन-लिपिकरणादि-शिल्प-दर्शनात् तत्राप्य् एतद्-इन्द्रिय-वृत्तिर् अङ्गीकार्येति चेत् सत्यम् । तत्रांशतो वृत्तिर् अस्त्य् एव । न हीन्द्रियाणां मिथो विरोधः । इन्द्रियान्तर-व्याप्ते देशे इन्द्रियान्तरावस्थानस्य चक्षुः - स्पर्शनादौ दर्शनात् ।

विश्वास-प्रस्तुतिः

२१. सञ्चरण-करणम् इन्द्रियम् पादः
स च मनुष्यादीनां चरण-वृत्तिः ।
भुजङ्-ग-पतङ्गादीनाम् उर-पक्षादि-वृत्तिः ।

शिवप्रसादः (हिं)

चलने की क्रिया में जो इन्द्रिय साधकतम होती है, उसे पादेन्द्रिय कहते हैं । पादेन्द्रिय मनुष्यों आदि के चरणों में रहती है । यह इन्द्रिय सर्पों के उरः प्रदेश में तथा पक्षि आदि के पँख आदि में रहती है ।

मूलम्

२१. सञ्चरणकरणमिन्द्रियम् पादः । स च मनुष्यादीनां चरणवृत्तिः । भुजङ्ग- पतङ्गादीनामुरपक्षादिवृत्तिः ।

विश्वास-प्रस्तुतिः

२२. मलादि-त्याग-करणम् इन्द्रियम् पायुः ।
स च तत्-तद्-अवयव-वृत्तिः +++(नाम मेहने ऽपि)+++।

शिवप्रसादः (हिं)

मलादि के त्याग में साधकतम इन्द्रिय को पायु कहते हैं । पायु इन्द्रिय तत् तत् जीवों के तत् तत् अवयवों में रहती है ।

मूलम्

२२. मलादित्यागकरणमिन्द्रियम् पायुः । स च तत्तदवयववृत्तिः ।

वासुदेवः

तत् तद्-अवयवेति । मान्थालादीनां मुखादि-वृत्तिः । तेषाम् आस्येनैव विण्-मूत्र-विसर्गात् ।

विश्वास-प्रस्तुतिः

२३. आनन्द-विशेष-करणम् इन्द्रियम् उपस्थः +++(नैतद् अवमेहनकरणम्!)+++ ।
स च मेहनादि-वृत्तिः।

शिवप्रसादः (हिं)

आनन्दविशेष के करने में साधकतम इन्द्रिय को उपस्थ कहते हैं । उपस्थ इन्द्रिय मनुष्यों के शिश्न आदि में रहती है ।

मूलम्

२३. आनन्दविशेषकरणमिन्द्रियम् उपस्थः । स च मेहनादिवृत्तिः।

सूक्ष्मता

विश्वास-प्रस्तुतिः

२४. एतानीन्द्रियाण्य् अणूनि
पर-काय-प्रवेश-लोकान्तर-गमनादिषु च
जीवेन सह गच्छन्ति ।
इन्द्रियाणाम् मुक्ति-दशायाम् अप्राकृत-देश-गमनासम्भवाद्
इहैव यावत्-प्रलयं स्थितिः,
करण-विधुरैर् अन्यैः परिग्रहो वा ।+++(4)+++
कर्मेन्द्रियाणां शरीर-नाशान् नाश
इति पक्षस् तु श्रीभाष्यादि-विरोधेन हेयः ।

अण्णङ्गराचार्यः

**‘जीवेन सहे’**ति ।

तमुत्क्रामन्त प्राणोऽनूत्क्रामति ।
प्राणमनूत्क्रामन्त सर्वे प्राणा अनूत्क्रामन्ति

‘गृहीत्वैतानि संयाति’ (गीता) इति श्रुतिस्मृतितः सर्वेषामिन्द्रियाणां जीवेन सह गमनं सिद्धम् ।
‘भाष्यादिविरोधेन हेय’ इति । अत्र ‘भाष्यविरोधेन नेय’ इति, ‘भाष्याविरोधेन ज्ञेय’ इति च पाठान्तरमुपलभ्यते । यथाश्रुत[[म्??]] मूलार्थः स्फुट एव । भाय्यादौ एकादशानामपीन्द्रियाणां शरीरं परित्यज्य देहान्तरं प्रति जीवस्य गमने सह तेन गमनस्य प्रतिपादनान् । पाठान्तरे तु अन्वारुह्यवादत्वेन नेतव्य इत्यर्थः । शरीरेण सहोत्पत्ति[[??]] कमन्द्रियाणां[[??]] शरीरनाशान्नाशश्च यादवप्रकाशमते ।

शिवप्रसादः (हिं)

ये सभी ( ज्ञानेन्द्रियाँ एवं कर्मेन्द्रियां ) सूक्ष्म परिमाण वाली होती हैं । ये परकाय- प्रवेश की क्रिया में तथा मृत्यु के पश्चात् लोकान्तरों में जाने ( तथा लोकान्तरों से आने आदि की क्रिया ) में जीव के साथ जाती ( तथा आती ) हैं । इन्द्रियाँ अप्राकृत वैकुण्ठ आदि लोकों में नहीं जा सकती हैं, अतएव इनका सम्बन्ध मुक्तावस्था में जीव से नहीं रह जाता । ये प्राकृत-मण्डल में प्रलय - पर्यन्त रहती हैं । अथवा मुक्त जीवों की इन्द्रियाँ उन जीवों को मिल जाती हैं, जो इन्द्रियहीन होते हैं । शरीर के विनष्ट हो जाने पर कर्मेन्द्रियाँ विनष्ट हो जाती हैं, यह कहने वालों का मत भाष्य आदि के विरुद्ध होने के कारण त्याज्य है ।

शिवप्रसादः (हिं) - टिप्पनी

इन्द्रियों के अतीन्द्रियत्व आदि का निरूपण –
इन्द्रियां अत्यन्त सूक्ष्म हैं ।
ये इन्द्रियाँ सबों की अलग-अलग होती हैं ।
यह जीवों के साथ लोकान्तर में भी जाती हैं ।
इसलिए जब योगी अपनी योगक्रिया के द्वारा परकायप्रवेश करता है—
अथवा मृत्यु के पश्चात् जीव जब लोकान्तरों में जाता है
तो जीव के साथ उसकी इन्द्रियाँ भी
तत् तत् लोकों में जाती हैं ।

इन इन्द्रियों का जीव के साथ तब तक संबन्ध बना रहता है,
जब तक जीव प्रकृति- मण्डल के अन्तर्गत रहता है ।
जीव जब मुक्त हो जाता है
तो उसकी इन्द्रियाँ प्रकृति-मण्डल में ही रह जाती हैं।
क्योंकि प्राकृत इन्द्रियाँ दिव्य वैकुण्ठलोक में नहीं जा सकती हैं।
मुक्त जीव जिन इन्द्रियों का त्याग कर देता है,
वे इन्द्रियाँ या तो प्राकृत-मण्डल में ही विनष्ट हो जाती हैं
अथवा उन इन्द्रियों को करण-वियुक्त जीव अपना लेते हैं।

कुछ लोग कहते हैं कि शरीर के विनष्ट हो जाने पर
कर्मेन्द्रियाँ विनष्ट हो जाती हैं, किन्तु यह मत इसलिए त्याज्य है कि
श्रीभाष्य आदि में इन्द्रिय सहकृत जीवों का लोकान्तर में गमन
तथा लोकान्तरों से आगमन प्रतिपादित किया गया है।

मूलम्

२४. एतानीन्द्रियाण्यणूनि। परकायप्रवेशलोकान्तरगमनादिषु च जीवेन सह गच्छन्ति। इन्द्रियाणाम् मुक्तिदशायाम् अप्राकृतदेशगमनासम्भवादिहैव यावत्प्रलयं स्थितिः । करणविधुरैरन्यैः परिग्रहो वा । कर्मेन्द्रियाणां शरीरनाशान्नाश इति पक्षस्तु श्रीभाष्यादिविरोधेन हेयः ।

वासुदेवः

अणुनीति । अणुत्वं चैषाम् उपलब्ध्य-योग्य-परिच्छिन्न-परिमाणत्व-मात्रम् । सह गमनम् इति । अणुत्वाद् एवोपपद्यत इति शेषः । ‘त एते सर्व एव समाः सर्वे ऽनन्ताः’ (बृ० १।५।१३) इत्य् आनन्त्य-श्रुतिस् तु ‘अव यो ह वैतान् अनन्तान् उपास्ते’ (बृ० १।५।१३) इत्य् उपासन-विधानाद्-उपासन-फल-बाहुल्य-विषया । इन्द्रियाणाम् इति । ननु कर्मेन्द्रियाणां शरीरेण सहोत्पत्ति-विनाशौ । न तु शरीरान्तर-गमनम् इति चेन् न । ‘प्राणम् उत्क्रामन्तं सर्वे प्राणा अनुत्क्रामन्ति’ (बृ० ४।४।२) इति श्रुतेः । सर्प-शब्देन कर्मेन्द्रियाणाम् अपि संग्रहात् । विना प्रमाणं संकोचे मानाभावात् । ‘यत्रास्य पुरुषस्य मृतस्याग्निं वाग् अप्येति’ (बृ० ३।२।१३) इति श्रुतौ शरीर-नाशे ऽपि कर्मेन्द्रियस्यापि वाचश् चक्षुरादीन्द्रियवद् अविनाश-दर्शनाच् च । अत एव भाष्ये सप्त-गत्यधिकरणे (ब्र० सू० २।४।४) हस्तादीनां जीवेन सह गमनाभावाद् इन्द्रियत्वम् आशङ्क्य तेषाम् इन्द्रियत्वं सिद्धान्तितम् । हस्तादीनि कर्मेन्द्रियाण्य् अपि जीवेन साकं गच्छन्त्य् एव न तु विनश्यन्तीति तद्-आशयः । इहैवेति । मुक्त-परित्यक्तानीन्द्रियाणि केनचित् करण-रहितेन जीवेन न गृहीतानि चेत् तेषाम् इहैव जीव-संबन्धं विना ऽपि प्रलय-पर्यन्तं स्थितिः । गृहीतानि चेत् तेन साकम् एव । भाष्य-विरोधेनेति । इदम् अनुपदम् एवोक्तम्, ‘भाष्याविरोधेन ज्ञेयः’ इति पाठे यद्यपि कर्मेन्द्रियाणि जीवेन साकं न गच्छन्ति तथा ऽपि चक्षुरादीनाम् इव तेषाम् अपि जीवोपकरणत्वाविशेषाद् इन्द्रियत्वम् अस्त्य् एवेति न तद्-भाष्य-विरोध इत्य् अर्थः । अत एव वेदान्त-दीपे कर्मेन्द्रियाणि जीवेन साकं न गच्छन्तीत्य् उक्तम् ।

विश्वास-प्रस्तुतिः

२५. एतेन पुरुषेन्द्रियम्, स्त्रीन्द्रियम्, एकेन्द्रिय-वादः, त्वग्-इन्द्रियैकत्व-स्वीकार
इत्य्-आदि-विमत-पक्षा निरस्ताः ।

शिवप्रसादः (हिं)

इस प्रतिपादन के द्वारा — पुरुषेन्द्रियवाद, मनुष्येन्द्रियवाद, एकेन्द्रियवाद तथा केवल त्वक् ही एकमात्र इन्द्रिय है इत्यादि प्रति- पादन करने वालों का विरोधी विचार खण्डित हो गया ।

शिवप्रसादः (हिं) - टिप्पनी

इस प्रकार पुरुषों तथा स्त्रियों की भी इन्द्रियाँ एकसमान होती हैं,
केवल पुरुषों एवं स्त्रियों की इन्द्रियों के संस्थान - विशेष ही भिन्न-भिन्न होते हैं ।
अतएव पुरुषों की इन्द्रियों तथा स्त्रियों की भिन्नता का प्रतिपादन अनुचित है ।

मूलम्

२५. एतेन पुरुषेन्द्रियम्, स्त्रीन्द्रियम्, एकेन्द्रियवादः, त्वगिन्द्रियैकत्वस्वीकार इत्यादिविमतपक्षा निरस्ताः ।

वासुदेवः

पुरुषेन्द्रियम् इति । जीव-भेदेनेन्द्रिय-भेदस्यात्राविवक्षितत्वात् । तथात्वे चेन्द्रियानन्त्यस्यैव वक्तव्यत्वात् । एकेन्द्रियेति । ननु यथैकस्यैव मनसो वृत्ति-भेदास् तस्यैवेन्द्रियस्य पञ्च वृत्तयः । तच् चेन्द्रियम् अन्यद् वा कल्प्यं त्वग्-इन्द्रियम् एव वा ऽस्त्व् इति चेन् न । तथा सति रूपादि-प्रकाशन-शक्ति-नियमो न स्यात् । सर्वत्र शब्दाद्य्-उपलब्धि-प्रसङ्गात् ।