०३ प्रकृति-निरूपणम्

विश्वास-प्रस्तुतिः

७. तत्र सत्त्व-रजस्-तमो–रूप–गुण-त्रयाश्रय-रूपा प्रकृतिः
सा नित्या, अक्षरा, अविद्या, मायेति शब्द-वाच्या च ।

तस्या भगवत्-सङ्कल्पाधीन-गुण-वैषम्यात् कार्योन्मुखावस्था ऽव्यक्त-शब्देनोच्यते ।

तस्मान् महान् उत्पद्यते ।
स महान् सात्त्विक-राजस-तामस-भेदात् त्रि-धा ऽवस्थितः ।

महतो ऽहङ्कार उत्पद्यते ।
सोऽपि सात्त्विकाहङ्कारो, राजसाहङ्कारस्, तामसाहङ्कारश् चेति त्रिविधो भवति ।
एतेषां त्रयाणां वैकारिकस्, तैजसो, भूतादिर् इति नामान्तराण्य् अपि सम्भवन्ति ।

तेषु वैकारिक इति प्रसिद्धाद् राजसाहङ्कार-सह-कृतात् सात्त्विकाहङ्काराद्
एकादशेन्द्रियाणि जायन्ते ।

अण्णङ्गराचार्यः

‘सेति’ प्रकृतिः गुणत्रयसाम्यावस्थेत्युक्तावपि गुणत्रयस्य साम्यावस्था यत्रेति साम्यावस्थगुणत्रयवती सा बोध्या । प्रकृतेर्गुणत्रयवत्त्वं नित्यत्वं च ‘त्रिगुणतज्जगद्योनिरनादिप्रभवाप्ययम्’ ‘नित्या सततविक्रिया’ इत्यादिश्रुतिस्मृतिसिद्धम् । नित्यत्वमक्षरत्वम् । अध्यात्मज्ञानविरोधित्वादविद्यात्वम्, विचित्रार्थं सृष्टिकरत्वान्मायात्वं चास्यां शास्त्रेषु वर्णितमिति बोध्यम् ।
**‘स महानि’**ति । उद्रिक्तसत्त्वप्रधानांशो महान् सात्त्विक इत्यादि बोध्यम् । मनसाऽध्यवसाये जनयितव्ये सहकारी महान् ।
महतस्त्रैविध्यं विष्णुपुराणे वर्णितम् ‘महतोऽहङ्कार’ इति । यद्यपि महदहङ्कारयोस्तत्त्वान्तरत्वं परैर्न मन्यते । परं तु सुबालोपनिषदादिषु स्पष्टमेव चतुर्विंशतितत्त्वानां कीर्तनात्तावपि स्वीकर्तव्यावेव । एवमेव गोलकातिरिक्तमिन्द्रियं तन्मात्राश्च । उक्तं च वेदान्ताचार्यैः

स्वच्छन्देनागमेन प्रकृतिमहदहङ्कारमात्राक्षसिद्धिर्नाध्यक्षेणाप्रतीतेर्न पुनरनुमया व्याप्तिलिङ्गाद्यसिद्धे

इति । अव्यक्तावस्थानाशरूपाऽहङ्कारावस्थाप्रागभावरूपा च याऽवस्था, तद्वत्त्वं महतो लक्षणम् । महत्वास्थाव्यवहितोत्तरावस्थावत्त्वं चाहङ्कारस्य लक्षणं बोध्यम् । अहङ्कारो देहात्माभिमानस्वातन्त्र्याभिमानहेतुमनोवृत्तेरनुग्राहको मतः ।

शिवप्रसादः (हिं)

अनुवाद - प्रकृति सत्त्वगुण, रजोगुण एवं तमोगुण, इन तीनों गुणों का आश्रय- रूप है । वही नित्या, अक्षरा, अविद्या एवं माया आदि शब्दों से अभिहित की जाती है । श्रीभगवान् के सत्यसंकल्प से गुणों के वैषम्य के कारण होने वाली जो प्रकृति की कार्योन्मुखावस्था है, वही अव्यक्त शब्द से कही जाती है । उस कार्योन्मुखावस्था में प्रकृति से महान् ( बुद्धि ) उत्पन्न होता है । उस महान् के तीन भेद होते हैं- सात्त्विक, राजस एवं तामस । महान् से अहङ्कार उत्पन्न होता है । अहङ्कार भी तीन प्रकार का होता है - सात्त्विकाहङ्कार, राजसाहङ्कार एवं तामसाहङ्कार । सात्त्विका- हङ्कार को वैकारिक, राजसाहङ्कार को तैजसाहङ्कार एवं तामसाहङ्कार को भूताद्य- हङ्कार भी कहते हैं । इनमें भी वैकारिक नाम से प्रसिद्ध राजसाहङ्कारसहकृत । सात्त्विकाहङ्कार से ग्यारह इन्द्रियाँ उत्पन्न होती है ।

शिवप्रसादः (हिं) - टिप्पनी

प्रकृतिनिरूपण

[[७३]]

भा० प्र०—– जड़ द्रव्यों में प्रधान प्रकृति है । रजोगुण, तमोगुण एवं सत्त्वगुण आश्रय को प्रकृति कहते हैं । प्रलयावस्था में प्रकृति में तीनों गुणों का साम्य रहता है । इसी अवस्था में रहने वाली प्रकृति को मूल प्रकृति कहते हैं । प्रलय के समाप्त होने पर श्रीभगवान् के ‘एकोऽहं बहु स्याम’ इत्यादि रूप से होने वाले सत्यसंकल्प के द्वारा प्रकृति में क्षोभ उत्पन्न होता है, जिससे उसके तीनों गुणों में वैषम्य उत्पन्न होता है। तीनों गुणों की प्रकृति में विषमता का होना ही प्रकृति की कार्योन्मुखावस्था कहते हैं । प्रकृति की कार्योन्मुखावस्था को ही अव्यक्त शब्द से अभिहित किया जाता है । प्रकृति के जगत्कारणत्व का प्रतिपादन करती हुई श्रुति कहती है- ‘त्रिगुणं तज्जगद्- योनिः अनादिप्रभवाप्ययम्’ । अर्थात् तीनों गुणों के आश्रयरूप प्रकृति जगत् का कारण है । वह आदि एवं अंतरहित है । दूसरी श्रुति उसे नित्य बतलाते हुए कहती है- ‘नित्या सततविक्रिया ।’ अर्थात् प्रकृति नित्य तथा सदा विकृत होते रहने वाली है । अतएव प्रकृति को नित्य तथा अक्षर कहा जाता है। प्रकृति को अविद्या इसलिए कहा जाता है कि वह अध्यात्मज्ञान- विरोधिनी है । विचित्र विषयों की सृष्टि करने के कारण वह माया कहलाती है ।

कार्योन्मुखावस्थावस्थित प्रकृति से महत्तत्त्व उत्पन्न होता है । महत्तत्त्व भी तीन प्रकार का होता है- सात्त्विक, राजस एवं तामस । उस महत्तत्त्व से अहङ्कार की उत्पत्ति होती है । वह अहङ्कार भी तीन प्रकार का होता है- १. सात्त्विक अहङ्कार, इसे वैकारिक भी कहते हैं । २. राजसाहङ्कार, इसे तैजसाहङ्कार भी कहा जाता है । ३. तामसाहङ्कार, इसे भूतादि भी कहा जाता है । इन तीनों प्रकार के अहङ्कारों में से राजसाहङ्कार से सहकृत सात्त्विकाहङ्कार से ग्यारह इन्द्रियों की उत्पत्ति होती है ।

मूलम्

७. तत्र सत्त्वरजस्तमोरूपगुणत्रयाश्रयरूपा प्रकृतिः । सा नित्या अक्षरा अविद्या मायेति शब्दवाच्या च । तस्या भगवत्सङ्कल्पाधीनगुणवैषम्यात् कार्योन्मुखावस्था अव्यक्तशब्देनोच्यते । तस्मान्महानुत्पद्यते । स महान् सात्त्विकराजसतामसभेदात् त्रिधावस्थितः । महतोऽहङ्कार उत्पद्यते । सोऽपि सात्त्विकाहङ्कारो राजसाहङ्कार- स्तामसाहङ्कारश्चेति त्रिविधो भवति । एतेषां त्रयाणां वैकारिकस्तैजसो भूतादिरिति नामान्तराण्यपि सम्भवन्ति । तेषु वैकारिक इति प्रसिद्धाद्राजसाहङ्कारसहकृतात् सात्त्विकाहङ्कारादेकादशेन्द्रियाणि जायन्ते ।

वासुदेवः

जडाजडेति । जडत्वं च परत एव भासमानत्वम् । प्रकृतिर् इति । बद्ध-चेतनानां ज्ञानानन्दयोस् तिरोधायकत्वं विपरीत-ज्ञान-जनकत्वं चास्या एव । इयम् एवेश्वरस्य क्रीडा-साधन-भूता देश-भेदेन काल-भेदेन च सदृशासदृश-विकारोत्पादिका च । तत्र सत्त्वं ज्ञानं सुखं तद्-उभय-सङ्गं जनयति । रजो राग-तृष्णा-सङ्गान् कर्म-सङ्गं च जनयति । तमो विपरीत-ज्ञानम् अनवधानम् आलस्यं निद्रां च जनयतीति तत्त्व-त्रय उक्तम् । अक्षरेति । नित्यत्वं ज्ञान-विरोधित्वं विचित्र-सृष्टि-करत्वं च यथा-क्रमम् अक्षरादि-शब्द-वाच्यत्वे हेतुः । तस्मान् महान् इति । अव्यक्तावस्था ऽव्यवहितोत्तरावस्था-विशिष्टम् अहंकारावस्था ऽव्यवहित-पूर्वावस्था-विशिष्टं द्रव्यं महान् । एवम् उत्तरत्रापि । त्रिधेति । गुण-त्रयाश्रयाद् अव्यक्तात् सत्त्वादि-गुणोन्मेष-भेदेन त्रिधा महान् उत्पद्यत इति भावः । अहंकार इति । अयम् एव देहात्माभिमानादि-जनकः । राजसाहंकार-सहकृताद् इति । अस्य सहकारित्वं नामेन्द्रिय-हेतोः सत्त्वांशस्य चलन-स्वभावेन रजसा प्रेरकेण प्रवर्तनम् ।