विश्वास-प्रस्तुतिः
५. तानि च द्रव्याणि षट् –
प्रकृति-काल–शुद्ध-सत्त्व–धर्म-भूत-ज्ञान–जीवेश्वर–भेदात् ।
शिवप्रसादः (हिं)
अनुवाद – वे द्रव्य छः हैं - प्रकृति, काल, शुद्धसत्त्व, धर्मभूतज्ञान, जीव एवं ईश्वर ।
मूलम्
५. तानि च द्रव्याणि षट् – प्रकृतिकालशुद्धसत्त्वधर्मभूतज्ञानजीवेश्वरभेदात् ।
वासुदेवः
प्रकृतीति । एकस्यापि कालस्यावस्था-भेदेन क्षणादि-भेद इत्य् अवस्थाश्रयत्व-रूप-द्रव्य-लक्षणस्य नाव्याप्तिः । अवस्थाश् चात्रोपाधि-संबन्ध-मात्र-रूपा इत्य् अन्यत् । ज्ञानस्यापि संकोच-विकास-रूपावस्थाश्रयत्वम् अस्त्य् एव । जीवस्यापि शरीर-द्वारा बाल्याद्यवस्थाश्रयत्वं प्रसिद्धम् एव । परमात्मनो ऽपि सूक्ष्मो ऽव्यक्तादि-देहः स्थूल-रूपेण परिणमतीति तद्-द्वारा ऽवस्थाश्रयत्वम् अस्त्य् एवेति न दोषः ।
विश्वास-प्रस्तुतिः
६. तत्र जडाजड-रूपयोर् विभक्तयोर् मध्ये
जड-लक्षणम् उच्यते –
अ-मिश्र–सत्त्व-रहितं जडम् इति ।
तत् द्वि-विधम् – प्रकृति-काल-भेदात् ।
अण्णङ्गराचार्यः
**‘तत्रे’**ति । द्रव्ये जडमण्डमिति द्विधा विभागः । विभक्तयोर्जडाजडयोर्मध्ये जडस्य लक्षणमुच्यत इत्यर्थः ।
**‘अमिश्रे’**ति । अमिश्रसत्त्वं शुद्धसत्त्वम् । तद्रहितं द्रव्यं जडमिति स्वरूपकथनम् । न तु लक्षणम्, जीवादावतिव्याप्तेः । जडस्य लक्षणत्वस्वयम्प्रकाशत्वम् । नियमेन परायत्तप्रकाशत्वमित्यर्थः ।
शिवप्रसादः (हिं)
द्रव्य का एक दूसरे प्रकार से भी विभाग किया जा सकता है— जड एवं अजड । उसमें भी जड़ उसे कहते हैं, जो अमिश्रसत्त्व से रहित हो। जड़ पदार्थ भी दो प्रकार का होता है - प्रकृति एवं काल ।
मूलम्
६. तत्र जडाजडरूपयोर्विभक्तयोर्मध्ये जडलक्षणमुच्यते – अमिश्रसत्त्वरहितं जडमिति । तत् द्विविधम् – प्रकृतिकालभेदात् ।