०६ अन्येषां प्रामाण्य-व्यवस्था

विश्वास-प्रस्तुतिः

३१. सर्गादि+++(→सर्ग-लय-वंश-मन्वन्तर-वंशवृत्त)+++-पञ्चक-प्रतिपादक-पुराणेष्व् अपि
सात्त्विक-राजस-तामस-भेद-भिन्नेषु तत्त्वांशे विरोधाभावात्
विरुद्धांशो ऽप्रमाणम् (विरुद्धांशो न प्रमाणम्),
अन्यत् सर्वम् प्रमाणम् ।
पाशुपताद्य्-आगमा अपि तथैव ।

अण्णङ्गराचार्यः

सर्गादीति ।

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥

प्रतिसर्गः - प्रलयः । पुराणं भगवद्विभूतिविस्तारवर्णनात्मकम् ।
तत्त्वांशे इति । हितांशेऽपीति बोध्यम् ।
विरोधाभावादित्याधिकं प्रतीयते । अन्यत्, विरुद्धांशादितरत् प्रमाणं विरोधाभावादिति चाऽन्वयः ।
पाशुपताद्यागमा इति । तथा - अविरुद्धांशे प्रमाणभूताः, विरुद्धांशेष्वप्रमाणभूता इत्यर्थः । विरुद्धांशा एवाधिकास्तेष्विति त्रय्यन्तवृद्धास्तान् न बहुमन्वत इति च बोध्यम् ।

शिवप्रसादः (हिं)

अनुवाद – पुराणों के प्रतिपाद्य विषय सर्ग आदि पाँच है। पुराणों के सात्त्विक, राजस एवं तामस, ये तीन भेद हैं ।
इनमें तत्त्व के विषय में जहाँ कहीं भी विरोध है, उसे प्रामाणिक नहीं माना जाता है ।
उससे भिन्न पुराणों के सभी अंशों को प्रामाणिक माना जाता है ।
पाशुपत आदि आगमों के विषय में भी यही बात है ।

शिवप्रसादः (हिं) - टिप्पनी

पुराणादि के प्रामाण्य की व्यवस्था

भा० प्र० - पुराणों के विषयों की चर्चा करते हुए कहा गया है कि पुराणों के सर्ग आदि पाँच विषय हैं । तथाहि-

‘सर्गश्च प्रतिसर्गश्+++(=प्रलयः)+++ च,
वंशो मन्वन्तराणि च । वंशानुचरितं चेति
पुराणं पञ्च-लक्षणम् ॥’

[[६३]]

पुराणों में निम्न पाँच विषय वर्ण्य हैं - १. सर्ग = सृष्टि । २. प्रतिसर्ग = प्रलय । ३. वंश - विभिन्न वंशों का वर्णन । ४. मन्वन्तरों का वर्णन तथा ५. विभिन्न वंशों के चरितों का वर्णन ।

पुराणों की संख्या अठारह हैं । इन अठारह पुराणों को तीन भागों में विभक्त किया जाता है - सात्त्विक, राजस एवं तामस । कहा भी गया है—

‘वैष्णवं नारदीयं च
तथा भागवतं शुभम् ।
गारुडं च तथा पाद्मं
वाराहं शुभदर्शने ॥
षडेतानि पुराणानि
सात्त्विकानि मतानि मे ।

ब्रह्माण्डं ब्रह्मवैवर्तम्
मार्कण्डेयं तथैव च ॥
भविष्यं वामनं ब्राह्मं
राजसानि निबोध मे ।

मात्स्यं कौर्मं तथा लैङ्गं
शैवं स्कान्दं तथैव च । आग्नेयं च षडेतानि
तामसानि निबोध मे’ ॥

अर्थात् ‘हे मनोहारिणी पार्वती ! विष्णुपुराण, नारदपुराण तथा कल्याणकारी भागवत ( श्रीमद्भागवत ) पुराण, गरुडपुराण, पद्मपुराण तथा वाराहपुराण, ये छह पुराण मुझे सात्त्विक रूप से अभिमत हैं ।

ब्रह्माण्ड, ब्रह्मवैवर्त, मार्कण्डेय, भविष्यत्, वामन तथा ब्राह्म, इन छह पुराणों को राजस जानो ।

मत्स्य, कूर्म, लिङ्ग, शिव, स्कन्द तथा अग्नि, इन छह पुराणों को तामस पुराण जानो ।

इन सभी पुराणों का आपस में तत्त्व के विषय में कोई भी विरोध नहीं है । अतएव इन सभी पुराणों का वेदानुकूल तत्त्वांश के विषय में ही प्रामाण्य स्वीकार किया जाता है । विरोधस्थल में प्रामाण्य नहीं स्वीकारा जाता है । इसी तरह पाशुपत आदि आगमों को भी जहाँ वेदानुकूल तत्त्वांश से विरोध है, वहीं उनका प्रामाण्य नहीं स्वीकार किया जाता है । अन्यत्रे उनका सर्वत्र प्रामाण्य स्वीकार किया जाता है ।

मूलम्

३१. सर्गादिपञ्चकप्रतिपादकपुराणेष्वपि सात्त्विकराजसतामसभेदभिन्नेषु तत्त्वांशे विरोधाभावात् विरुद्धांशोऽप्रमाणम् (विरुद्धांशो न प्रमाणम्), अन्यत् सर्वम् प्रमाणम् । पाशुपताद्यागमा अपि तथैव ।

वासुदेवः

सर्गादीति । तद् उक्तम् -

सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्च-लक्षणम् ॥

इति ।

तच् च त्रिविधम् — सात्त्विक-राजस-तामस-भेदात् । तद् उक्तं पद्म-पुराणे -

वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च तथा पाद्मं वाराहं शुभ-दर्शने ॥ सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥ ब्रह्माण्डं ब्रह्म-वैवर्ते मार्कण्डेयं तथैव च । भविष्यं वामनं ब्राह्मं राजसानि निबोधत ॥ मात्स्यं कौर्मं तथा लैङ्गं शैवम् स्कान्दं तथैव च । आग्नेयं च षड् एतानि तामसानि निबोधत ॥

इति ।

सात्त्विकादि-विभागे कारणं मात्स्ये प्रदर्शितम् -

अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ॥ राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः । संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ सात्त्विकेष्व् अथ कल्पेषु माहात्म्यम् अधिकं हरेः । तेष्व् एव योग-संसिद्धा गमिष्यन्ति परां गतिम् ॥

इति ।

अन्यत् सर्वम् इति । अन्ये तु श्रुत्य्-अविरोधिनां सात्त्विकानाम् एव पुराणानाम् उपादेयत्वं न पुनः श्रुति-विरोधिनां राजसानां तामसानां च पुराणानाम् उपादेयत्वम् । तेषां संसार-वर्धनाय भगवत्-प्रवर्तितैः पितामहादिभिः प्रवर्तितत्वान् न सात्त्विक-परिग्राह्यत्वम् । यतः श्रुत्य्-उक्तम् एवानुसरन्ति सत्त्वोत्तराणि पुराणानि । तामसानि पुनर् अप्रमाणान्य् एवेत्य् आहुः । पाशुपतादीति । अत्र च श्रुति-विरोध-भूयस्त्वात् तत्-सत्त्वोत्तर-स्मृति-पुराणादि-तुल्यत्वं नास्ति । तथा च क्वचित् सत्त्वोत्तरांश-सद्भावे ऽपि न सार्वत्रिक-विश्वासास्पदत्वम् इति भावः । तद् उक्तं सूत-संहितायाम् -

तथा ऽपि र्यो ऽंशो मार्गाणां वेदेन न विरुध्यते । सो ऽंशः प्रमाणम् इत्य् उक्तः केषांचिद् अधिकारिणाम् ॥

इति ।

आदिना कापिल-संग्रहः । यद्यपि सांख्यस्य ‘सांख्यं योगः पाञ्चरात्रम् ’ इति वेदैः सह कथनं तथा ऽपि श्रुति-विरोधे तस्य बाध्यत्वम् एव । न हि साधर्म्य-मात्रेण वैधर्म्यं निवार्यते । अपाम् अग्निना सह द्रव्यत्व-साधर्म्येण स्पर्श-कृत-वैधर्म्याभाव-प्रसङ्गात् ।

विश्वास-प्रस्तुतिः

३२. +++(चतुर्मूर्तिप्रधान-)+++आगम+++(-सिद्धान्त)+++–+++(एक-मूर्ति-प्रधान-)+++दिव्य+++(=मन्त्र-सिद्धान्त)+++-
+++(नवमूर्ति-प्रधान-)+++तन्त्र+++(-सिद्धान्त)+++-+++(बहु-मुख-मूर्ति-प्रधान-)+++तन्त्रान्तर–सिद्धान्त–भेद-भिन्नस्य
श्रीपाञ्चरात्रागमस्य क्वचिद् अपि वेद-विरोधाभावात्
कार्त्स्न्येन प्रामाण्यम् ।
एवं वैखानसागमस्यापि

शिवप्रसादः (हिं)

पाञ्चरात्रागम चार प्रकार के सिद्धान्तों में विभक्त है-
आगम-सिद्धान्त, दिव्यसिद्धान्त, तन्त्रसिद्धान्त एवं तन्त्रान्तरसिद्धान्त । श्रीपाञ्चरात्रागम का वेदों से कहीं भी विरोध नहीं है, अत एव सम्पूर्ण पाञ्चरात्रागम की प्रामाणिकता स्वीकार की जाती है । इसी तरह वैखानसागम की भी पूर्णरूप से प्रामाणिकता स्वीकार की जाती है ।

शिवप्रसादः (हिं) - टिप्पनी

पाञ्चरात्र शास्त्र के प्रवक्ता भगवान् श्रीमन्नारायण को माना जाता है ।
प्राचीनकाल में श्रीभगवान् ने अपने पञ्चायुध के अंश से समुद्भूत औपगायन, शाण्डिल्य, भरद्वाज, कौशिक तथा मौञ्जायन महर्षियों को पृथक्-पृथक् एक-एक रात्रियों में
लोक की रक्षा, संसारी जीवों का उद्धार, सद्धर्म तथा स्वाराधन के प्रवर्तन हेतु,
मोक्षप्रद, आद्यवेद एकायन शाखा नामक रहस्याम्नाय को पढाया,
इसीलिए उसे श्रीपाञ्चरात्रागम के नाम से अभिहित किया जाता है ।
श्रीपाञ्चरात्र की एक सौ आठ संहिताएँ कही गयी हैं ।
इसका दूसरा नाम भगवच्छास्त्र भी है ।

पाञ्चरात्र का कहीं भी वेदों से तत्त्व के विषय में विरोध नहीं है,
अतएव सम्पूर्ण पाञ्चरात्र का प्रामाण्य स्वीकार किया जाता है ।
पाञ्चरात्र में वेदार्थ, धर्म, वेदान्तार्थं तथा परतत्त्व का उपबृंहण किया गया है ।

[[६४]]

सम्पूर्ण पाञ्चरात्र में चार सिद्धान्तों का वर्णन है— आगमसिद्धान्त, दिव्य सिद्धान्त, तन्त्रसिद्धान्त एवं तन्त्रान्तर- सिद्धान्त ।
दिव्यसिद्धान्त को ही मन्त्रसिद्धान्त भी कहा जाता है ।

मन्त्रसिद्धान्त अथवा दिव्यसिद्धान्त एक मूर्तिप्रधान है
अर्थात् श्रीभगवान् के पर-रूप का प्रधान रूप से प्रतिपादन करता है ।

आगमसिद्धान्त चतुर्मूर्तिप्रधान है ।
अर्थात् श्रीभगवान् की वासुदेव, संकर्षण, प्रद्युम्न एवं अनिरुद्ध, इन चार मूर्तियों का वर्णन करता है ।

तन्त्रसिद्धान्त नवमूर्ति-प्रधान है
तथा तन्त्रान्तरसिद्धान्त भगवान् की तीन चार मुखों वाली मूर्तियों की आराधना का प्रधान रूप से प्रतिपादन करता है।
इस तरह सम्पूर्ण पाञ्चरात्रागम का प्रामाण्य सिद्धान्त में स्वीकार किया जाता है ।

श्रीभगवान् के अवतारभूत महर्षि वैखानमि ने वैखानसागम का प्रणयन किया ।
इसमें श्रीभगवान् की आराधना का प्रकार, उनकी प्रतिष्ठा तथा महोत्सव आदि का विस्तृत वर्णन है ।
अतएव इस विषय में वैखानसागम का भी प्रामाण्य स्वीकार किया जाता है ।

मूलम्

३२. आगमदिव्यतन्त्रतन्त्रान्तरसिद्धान्तभेदभिन्नस्य श्रीपाञ्चरात्रागमस्य क्वचिदपि वेदविरोधाभावात् कार्त्स्न्येन प्रामाण्यम् । एवं वैखानसागमस्यापि ।

वासुदेवः

वेद-विरोधाभावाद् इति

पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।

इति भगवद्-अभिहितत्वेन कर्तृ-दोष-संभावनाया अप्य् अभावाच् च ।

पाञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् । वेद-भ्रष्टान् समुद्दिश्य कमला-पतिर् उक्तवान् ॥

इत्य्-अत्र वेद-भ्रष्टान् इत्य्-अस्यासंदिग्ध-वेदार्थ-ज्ञानाभाववत इत्य् अर्थो बोध्यः । अत एव -

अलाभे वेद-मन्त्राणां पञ्चरात्रोदितेन हि । आचारेण प्रवर्तन्ते ते मां प्राप्स्यन्ति मानवाः ॥ ब्राह्मण-क्षत्रिय-विशां पञ्चरात्रं विधीयते । शूद्रादीनां न तच् छ्रोत्र-पदवीम् उपयास्यति ॥

इति वराह-पुराणे भगवतोक्तम् । ननु तत्-कर्तरि भगवति मा भूद् विभ्रमः । विप्रलिप्सा तु स्याद् एव । दृष्टा हि भगवतो ऽपि विप्रलिप्सा -

त्वं हि रुद्र महाबाहो मोह-शास्त्राणि कारय ।

इत्यादौ क्षिपाम्य् अजस्रम् अशुभान् इत्यादौ चेति चेन् न । द्विधा खलु भगवतः प्रवृत्तिः - असुर-मोहनार्थम् आश्रित-संरक्षणार्थं च । पञ्चरात्रे सत्त्वोत्तर-जन-संरक्षणार्थम् एव प्रवृत्तिः । अत एव सत्त्वोत्तराः शाण्डिल्यादय एव तच्-छास्त्र-प्रवक्तारः । अतो नैतच्-छास्त्रं विप्रलिप्सा-मूलकम् । न च साङ्गेषु वेदेषु निष्ठाम् अलभमानः शाण्डिल्यः पञ्चरात्र-तन्त्रम् अधीतवान् इति वेदाच्-छ्रैष्ठ्य-वचनं पञ्चरात्रस्य वेद-विरोध-ख्यापकम् इति वाच्यम् । शाण्डिल्यस्य पञ्चरात्र-शास्त्राभ्यास-पर्यन्तं वेद-वाक्याद् अर्थ-प्रतिपत्तिर् विशदा नाभूद् इति तद्-तात्पर्यात् । यथा भूम-विद्योपक्रमे तद्-विद्या-प्रशंसार्थम् ऋग्-वेदं भगवो ऽध्येमीत्यादिना कृत्स्नस्यापि वेदस्यानादरेण ज्ञान-हेतुत्वाभावम् उक्त्वा भूम-विद्याया एव ज्ञान-हेतुत्वं स्वीक्रियते । नैतावता भूम-व्यतिरिक्त-विद्या-निन्दा । अपि तु भूम-विद्या-प्रशंसैव । तद्-वद् अत्रापीति बोध्यम् । न च ‘वासुदेवात् सङ्कर्षणो नाम जीवो जायते’ इति पञ्चरात्रोक्ता जीवोत्पत्तिर् वेद-विरुद्धेति वाच्यम् । शरीराद्य्-अभिप्रायेण तथोक्तेः । ‘यतो वा इमानि भूतानि जायन्ते’ ( तै. उ. ३।१।१ ) इतिवत् । एवम् इति । वैखानसागमस्यापि साक्षाद् भगवद्-उक्तत्वात् कार्त्स्न्येन प्रामाण्यम् इति भावः ।

विश्वास-प्रस्तुतिः

३३. धर्म-शास्त्राणाम् अपि तथैव ।
शाण्डिल्य-पराशर-भारद्वाज-वसिष्ठ-हारीतादयो धर्मशास्त्र-प्रणेतारः ।

शिवप्रसादः (हिं)

इसी तरह से धर्मशास्त्रों की भी बात है । धर्मशास्त्रों के प्रणेता - शाण्डिल्य, पराशर, भरद्वाज, वसिष्ठ तथा हारीत आदि महर्षि हैं ।

शिवप्रसादः (हिं) - टिप्पनी

इस प्रकार धर्मशास्त्रों का भी वही प्रामाण्य नहीं स्वीकारा जाता, जहाँ उनका वेदों से तत्त्व के विषय में विरोध है । धर्मशास्त्रों के प्रणेताओं में प्रख्यात कुछ निम्न महर्षि हैं - शाण्डिल्य, पराशर, भरद्वाज, वसिष्ठ तथा हारीत आदि ।

मूलम्

३३. धर्मशास्त्राणामपि तथैव । शाण्डिल्यपराशरभा(भ) रद्वाजवसिष्ठहारीतादयो धर्मशास्त्र-प्रणेतारः ।

विश्वास-प्रस्तुतिः

३५. शिल्पो नाम कर्षणादि-गोपुर-प्राकार-निर्माणादि-प्रतिपादकः (प्राकारादिनिर्माणप्रतिपादकः) ।

शिवप्रसादः (हिं)

शिल्पशास्त्र, आयुर्वेदशास्त्र, गान्धर्वशास्त्र, नाट्यशास्त्र आदि का भी उपर्युक्त अंश में ही प्रामाण्य स्वीकार किया जाता है । कर्षण आदि तथा गोपुर एवं प्राकार आदि के निर्माण की प्रतिपादिका शिल्पविद्या है ।

मूलम्

३५. शिल्पो नाम कर्षणादिगोपुरप्राकारनिर्माणादिप्रतिपादकः (प्राकारादिनिर्माणप्रतिपादकः) ।

विश्वास-प्रस्तुतिः

३६. आयुर्वेदो वैद्यकम् ।

शिवप्रसादः (हिं)

वैद्यक को आयुर्वेद कहते हैं ।

मूलम्

३६. आयुर्वेदो वैद्यकम् ।

विश्वास-प्रस्तुतिः

३७. गान्धर्वो नाम गानादि-निरूपकः (गान्धर्वो गानादिनिरूपकः) ।

शिवप्रसादः (हिं)

गान इत्यादि का निरूपण करने वाली गान्धर्वविद्या है ।

मूलम्

३७. गान्धर्वो नाम गानादिनिरूपकः (गान्धर्वो गानादिनिरूपकः) ।

विश्वास-प्रस्तुतिः

३८. भरतागमो नृत्यादि-निरूपकः (विधायकः) ।

शिवप्रसादः (हिं)

भरतागम ( नाट्य- शास्त्र ) नृत्त आदि का विधान करता है।

मूलम्

३८. भरतागमो नृत्यादिनिरूपकः (विधायकः) ।

विश्वास-प्रस्तुतिः

३९. पुनश् चतुः-षष्टि-कला-रूपेषु शास्त्रेषु
तत्त्वोपाय-पुरुषार्थोपयुक्तानि प्रमाणानि ।

शिवप्रसादः (हिं)

इसके अतिरिक्त चौंसठ कलारूपी शास्त्रों में उन्हीं अंशों का प्रामाण्य स्वीकार किया जाता है, जो तत्त्व, हित एवं पुरुषार्थं का प्रतिपादन करते हैं ।

शिवप्रसादः (हिं) - टिप्पनी

इसी तरह शिल्प, आयुर्वेद, गान्धर्ववेद तथा चौसठ कलाओं का भी उपर्युक्त अंश में हम प्रामाण्य स्वीकार करते हैं ।

मूलम्

३९. पुनश्चतुःषष्टिकलारूपेषु शास्त्रेषु तत्त्वोपायपुरुषार्थोपयुक्तानि प्रमाणानि ।

वासुदेवः

चतुःषष्टि-कलेति । चतुःषष्टि-कलाश् च शैव-तन्त्रोक्ताः श्रीमद्-भागवत-टीकायां ( द. पू. अ. ४५ श्लो. ३६ ) श्रीधर-स्वामिभिर् निर्दिष्टाः । तथा हि - गीतम् १ वाद्यम् २ नृत्यम् ३ नाट्यम् ४ आलेख्यम् ५ विशेषकच्छेद्यम् ६ तण्डुल-कुसुम-बलि-प्रकाराः ७ पुष्पास्तरणम् ८ दशन-वसनाङ्ग-रागाः ९ मणि-भूमिका-कर्म १० शयन-रचनम् ११ उदक-वाद्यम् १२ उदक-घातः १३ चित्र-योगाः १४ माल्य-ग्रथन-विकल्पाः १५ शेखरापीड-योजनम् १६ नेपथ्य-योगाः १७ कर्ण-पत्रमङ्गाः १८ सुगन्ध-युक्तिः १९ भूषण-योजनम् २० ऐन्द्र-जालम् २१ कौतुमार-योगाः २२ हस्त-लाघवम् २३ चित्र-शाकापूप-भक्ष-विकार-क्रिया २४ पानक-रस-रागासव-योजनम् २५ सूची-कर्म २६ सूत्र-क्रीडा २७ प्रहेलिका २८ प्रतिमाला २९ दुर्वचक-योगाः ३० पुस्तक-वाचनम् ३१ नाटकाख्यायिका-दर्शनम् ३२ काव्य-समस्या-पूरणम् ३३ पट्टिका-वेत्र-बाण-विकल्पाः ३४ तर्क-कर्माणि ३५ तक्षणम् ३६ वास्तु-विद्या ३७ रूप्य-रत्न-परीक्षा ३८ धातुवादः ३९ मणि-राग-ज्ञानम् ४० आकर-ज्ञानम् ४१ वृक्षायुर्वेद-योगाः ४२ मेष-कुक्कुट-लावक-युद्ध-विधिः ४३ शुक-सारिका-प्रलापनम् ४४ उत्सादनम् ४५ केश-मार्जन-कौशलम् ४६ अक्षर-मुष्टिका-कथनम् ४७ म्लेच्छित-कुतर्क-विकल्पाः ४८ देश-भाषा-ज्ञानम् ४९ पुष्प-शकटिका-निमित्त-ज्ञानम् ५० यन्त्र-मातृका-धारण-मातृका ५१ संवाच्यम् ५२ मानसी काव्य-क्रिया ५३ अभिधान-कोशः ५४ छन्दो-ज्ञानम् ५५ क्रिया-विकल्पाः ५६ छलितक-योगाः ५७ वस्त्र-गोपनानि ५८ द्यूत-विशेषः ५९ आकर्षक-क्रीडा ६० बाल-क्रीडनकानि ६१ वैनायिकानाम् ६२ वैजयिकानाम् ६३ वैतालिकानां च विद्यानां ज्ञानम् ६४ इति ।