विश्वास-प्रस्तुतिः
१९. एवं विध्य्-अर्थवाद-मन्त्रात्मकस्य वेदस्य
छन्दः कल्पः शिक्षा निरुक्तं ज्योतिषं (ज्यौतिषं) व्याकरणम्
इत्य् एतान्य् अङ्गानि ।
अण्णङ्गराचार्यः
मनोमयेति । ‘स क्रतुः कुर्वीत, मनोमयः प्राणशरीर’ (छा०) इति मनोमयत्वादिगुणविशिष्टब्रह्मोपासनविधिर्विशिष्टविधिः । विशेष्यविशेषणयोर्द्वयोरप्राप्तौ विशिष्टविधिरूरीकृतः । एवं सोमेन यजेतेति सोमविशिष्टयागविधिर्बोध्यः ।
शिक्षा इति । वर्णानां स्थानप्रयत्नस्वरमात्रादिनिरूपिका शिक्षा वर्णनिर्णयात्मिका - वर्णनिर्णयार्थत्वादित्यर्थः । वर्णशास्त्रं शिक्षा । निरुक्तम् - यास्कादिप्रणीतं प्रायशो वैदिकानां पदानां निरुक्तिनिर्वचनाभ्यामलौकिकापूर्वस्वार्थप्रतिपादकम् ।
शिवप्रसादः (हिं)
अनुवाद - इस तरह विधि, अर्थवाद एवं मन्त्र स्वरूप वेद के छः अङ्ग हैं- छन्द, शिक्षा, कल्प, निरुक्त, ज्योतिष एवं व्याकरण ।
मूलम्
१९. एवं विध्यर्थवादमन्त्रात्मकस्य वेदस्य छन्दः, कल्पः, शिक्षा, निरुक्तं, ज्योतिषं (ज्यौतिषं), व्याकरणम् इत्येतान्यङ्गानि ।
विश्वास-प्रस्तुतिः
२०. छन्दो ऽनुष्टुप्-त्रिष्टुब्-आदि-प्रतिपादन-रूपः (रूपम्) ।
शिवप्रसादः (हिं)
अनुष्टुप् त्रिष्टुप् आदि छन्दों के स्वरूप का निरूपण करने वाला शास्त्र छन्दः शास्त्र कहलाता है ।
मूलम्
२०. छन्दो ऽनुष्टुप्त्रिष्टुबादिप्रतिपादनरूपः (रूपम्) ।
विश्वास-प्रस्तुतिः
२१. श्रौत-स्मार्त-प्रयोग-प्रतिपादन-परः कल्पः ।
शिवप्रसादः (हिं)
श्रौत एवं स्मार्त यागों के स्वरूप आदि का निरूपण करने वाला शास्त्र कल्प कहलाता है ।
मूलम्
२१. श्रौतस्मार्तप्रयोगप्रतिपादनपरः कल्पः ।
विश्वास-प्रस्तुतिः
२२. शिक्षा वर्ण-निर्णयात्मिका ।
शिवप्रसादः (हिं)
वर्णों के स्वरूप, संख्या, उच्चारणस्थान, स्वर, मात्रा आदि का निरूपण करने वाला वेदाङ्ग शिक्षा शब्द से अभिहित किया जाता है ।
मूलम्
२२. शिक्षा वर्ण-निर्णयात्मिका ।
विश्वास-प्रस्तुतिः
२३. निरुक्तम् (खा) अपूर्वार्थ-प्रतिपादकम् ।
शिवप्रसादः (हिं)
निरुक्त तथा निर्वचन के द्वारा वैदिक पदों के अलौकिक तथा अपूर्व अर्थ का प्रतिपादन करने वाला शास्त्र निरुक्त कहलाता है
मूलम्
२३. निरुक्तम् (खा) अपूर्वार्थ-प्रतिपादकम् ।
विश्वास-प्रस्तुतिः
२४. ज्योतिषम् (ज्यौतिषम्) अध्ययन–तद्-अर्थानुष्ठान-काल-निर्णयात्मकम् ।
शिवप्रसादः (हिं)
अध्ययन तथा अधीत अर्थों के अनुष्ठान आदि के लिए उचित काल का निर्णय करने वाला शास्त्र ज्योतिष कहलाता है ।
मूलम्
२४. ज्योतिषम् (ज्यौतिषम्) अध्ययनतदर्थानुष्ठानकालनिर्णयात्मकम् ।
विश्वास-प्रस्तुतिः
२५. व्याकरणं तु सु-शब्द-स्वरादि-समर्थन-परम् ।
अण्णङ्गराचार्यः
सुशब्देति । साधुशब्देत्यर्थः । शब्दसाधुत्वान्वाख्यानं व्याकरणम् । पदशास्त्रमिदम् । साधुशब्दप्रयोगस्यैव श्रेयस्करत्वम्
एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग् भवति
इत्याम्नातम् । ‘न म्लेच्छितवै नापभाषितवै’ इति प्रतिषिद्धश्चापशब्दप्रयोग इति बोध्यम् ।
शिक्षाया वर्णशिक्षा पदसमधिगमो व्याक्रियानिर्वचोभ्यां छन्दः छन्दश्चितौ स्याद् गमयति समयं ज्यात्थ रहना[[??]] । कल्पेऽनुष्ठानमुक्तं ह्यु[[?]]तगमितयोर्न्यायमीमांसयोः स्यादर्थव्यक्ति[[??]]पुराणस्मृतिषु तदनुगास्त्वां विचिन्वन्ति वेदाः ॥ (श्रीरङ्ग-स्तव)
इति श्लोकोऽत्रानुसन्धेयः ।
शिवप्रसादः (हिं)
व्याकरणशास्त्र में तो साधु पदों के अर्थ, उनकी व्युत्पत्ति तथा साधुत्वान्वाख्यान एवं उनके स्वर इत्यादि का समर्थन किया जाता है।
मूलम्
२५. व्याकरणं तु सुशब्दस्वरादिसमर्थनपरम् ।
विश्वास-प्रस्तुतिः
२६. एवं साङ्गस्य वेदस्य प्रामाण्यं सिद्धम् ।
शिवप्रसादः (हिं)
इस तरह साङ्ग वेद की प्रामाणिकता सिद्ध होती है ।
मूलम्
२६. एवं साङ्गस्य वेदस्य प्रामाण्यं सिद्धम् ।