विश्वास-प्रस्तुतिः
२१. तद् अनुमान-बोधक-वाक्यम्
प्रतिज्ञा-हेतूदाहरणोपनय-निगमन–रूप-पञ्चावयव-संयुक्तम् ।
शिवप्रसादः (हिं)
अनुवाद – अनुमान का बोधक वाक्य पाँच अवयवों से सम्पन्न होता है - प्रतिज्ञा, हेतु, उदाहरण, उपनय और निगमन ।
मूलम्
२१. तदनुमानबोधकवाक्यम् प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूपपञ्चावयवसंयुक्तम् ।
विश्वास-प्रस्तुतिः
२२. तत्र (साध्यवत्तया) पक्षवचनम् प्रतिज्ञा ,
यथा – “पर्वतोऽग्निमान्” इति ।
शिवप्रसादः (हिं)
प्रतिज्ञा- वाक्य में पक्ष को साध्य से सम्पन्न बतलाया जाता है । जैसे— पर्वत अग्नि वाला है, यह वाक्य ।
मूलम्
२२. तत्र (साध्यवत्तया) पक्षवचनम् प्रतिज्ञा । यथा – “पर्वतोऽग्निमान्” इति ।
विश्वास-प्रस्तुतिः
२३. लिङ्गस्य वचनं हेतुः । यथा – “धूमवत्त्वात्” इति ।
मूलम्
२३. लिङ्गस्य वचनं हेतुः । यथा – “धूमवत्त्वात्” इति ।
विश्वास-प्रस्तुतिः
२४. व्याप्ति-निर्देश-पूर्वकं दृष्टान्त-वचनम् उदाहरणम् ।
तद् द्विधा (द्विविधम्) – अन्वय-व्यतिरेक-भेदात् ।
यथा – “यो यो धूमवान् स सोऽग्निमान्, यथा महा-नस” इत्य् अन्वयोदाहरणम् ।
‘योऽनग्निः स निर्धूमः, यथा महाह्रद” इति व्यतिरेकोदाहरणम् ।
शिवप्रसादः (हिं)
हेतु वाक्य में साध्य के साधक लिङ्ग का निर्देश किया जाता है, जैसे- क्योंकि पर्वत पर धूम है, यह वाक्य । उदाहरण - वाक्य में साधन एवं साध्य में अव्यभिचरितसंबन्ध रूपा व्याप्ति को बतला-कर दृष्टान्त उपस्थित किया जाता है । उदाहरण दो प्रकार का होता है-अन्वय उदाहरण और व्यतिरेक उदाहरण ।
जहाँ-जहाँ धूम होता है वहाँ-वहाँ अग्नि होती है, यह अन्वय उदाहरण है ।
जो अग्निरहित होता है वह धूमरहित होता है, जैसे- सरोवर, यह व्यतिरेक उदाहरण है ।
मूलम्
२४. व्याप्तिनिर्देशपूर्वकं दृष्टान्तवचनमुदाहरणम् । तत् द्विधा (द्विविधम्) – अन्वयव्यतिरेकभेदात् । यथा – “यो यो धूमवान् स सोऽग्निमान्, यथा महानस” इत्यन्वयोदाहरणम् । ‘योऽनग्निः स निर्धूमः, यथा महाह्रद (ह्रद)” इति व्यतिरेकोदाहरणम् ।
विश्वास-प्रस्तुतिः
२५. दृष्टान्त-निदर्शनेन (दृष्टान्तावमर्शनेन) व्याप्ततया
पक्षे हेतूपसंहार-वाक्यम् उपनयः ।
सोऽपि द्वि-विधः – अन्वय-व्यतिरेक-भेदाद् ।
“तथा धूमवान्” इति अन्वयोपनयः ।
“अयं च न तथा निर्धूम” इति व्यतिरेकोपनयः ।
शिवप्रसादः (हिं)
दृष्टान्त का अवमर्श करने के कारण व्यापक रूप से हेतु का पक्ष में उपसंहार करने को उपनय वाक्य कहते हैं । उपनय भी दो प्रकार का होता है - अन्वय उपनय और व्यतिरेक उपनय । ‘इसी तरह से ( यह पर्वत भी ) [[४४]] धूम वाला है’ यह अन्वय उपनय है । यह वैसा निर्धूम नहीं है, यह व्यतिरेक उपनय है ।
मूलम्
२५. दृष्टान्तनिदर्शनेन (दृष्टान्तावमर्शनेन) व्याप्ततया पक्षे हेतूपसंहारवाक्यमुपनयः । सोऽपि द्विविधः – अन्वयव्यतिरेकभेदाद् । “तथा धूमवान्” इति अन्वयोपनयः । “अयं च न तथा निर्धूम” इति व्यतिरेकोपनयः ।
विश्वास-प्रस्तुतिः
२६. हेतु-पूर्वकम् पक्षे साध्योपसंहार-वाक्यं निगमनम् ।
एतद् अपि द्वि-विधम् ।
यथा –“तस्माद् (असौ) अग्निमान्” इति अन्वयेन निगमनम् ।
“तस्माद् अयं निरग्निर् न भवति” इति व्यतिरेकेण ।
शिवप्रसादः (हिं)
जिस वाक्य में पहले पक्ष में हेतु को वतलाकर पक्ष में साध्य का उपसंहार किया जाय, उसे निगमन वाक्य कहते हैं। निगमन वाक्य भी अन्वय और व्यतिरेक के भेद से दो प्रकार का होता है । जैसे—अतएव यह ( पर्वत ) अग्निवाला है, यह अन्वयपूर्वक निगमन-वाक्य का उदाहरण है । अतएव यह अग्निरहिन नहीं है, यह व्यतिरेक निगमन का उदाहरण है ।
मूलम्
२६. हेतुपूर्वकम् पक्षे साध्योपसंहारवाक्यं निगमनम् । एतदपि द्विविधं (तथैव) । यथा – “तस्मादग्निमान्” इति अन्वयेन निगमनम् । “तस्मादयं निरग्निर्न भवति” इति व्यतिरेकेण ।
अनुमानस्यावयव-मतानि
विश्वास-प्रस्तुतिः
२७. एवम् पञ्चावयव-वादिनो नैयायिकाः ।
शिवप्रसादः (हिं)
अनुवाद – अनुमान के इन पाँच अवयवों को नैयायिक स्वीकार करते हैं ।
मूलम्
२७. एवम् पञ्चावयववादिनो नैयायिकाः ।
वासुदेवः
नैयायिका इति । अयं हि तेषाम् आशयः । प्रतिज्ञा-वाक्यम् अन्तरेण न हेतु-वाक्य-प्रयोगः कर्तव्यः अन्यथा हेतुत्वाप्रतीतेः । नापि हेतु-प्रयोगम् अन्तरेणोदाहरण-प्रसङ्गः । उदाहरण-वाक्यस्य हेतु-साध्ययोर् व्याप्ति-प्रदर्शनात्मकत्वात् । उदाहरणम् अन्तरेण च नोपनयः । उदाहरणेन गृहीत-व्याप्तिकस्य हेतोस् तेनैवा ऽऽकारेण पक्ष-धर्मता-प्रदर्शनार्थत्वाद् उपनयस्य । पक्ष-धर्मता-मात्रं हेतु-वाक्यार्थो व्याप्तस्य पक्ष-धर्मत्वम् उपनय-वाक्यार्थ इति हेतूपनययोर् भेदः । ततो निगमनम् । तच् चा ऽऽवश्यकम् एव । तस्य विपक्षे बाधक-प्रमाणाभाव-द्योतनार्थम् अग्निमान् एवेति सावधारण-साध्य-निर्देशत्वात् । ततश् च पञ्चावयव-युक्तं वाक्यम् एव परिपूर्णोपदेश इति ।
विश्वास-प्रस्तुतिः
२८. प्रतिज्ञा-हेतूदाहरण-रूप-त्र्य्-अवयव-वादिनो मीमांसकाः ।
शिवप्रसादः (हिं)
मीमांसक प्रतिज्ञा, हेतु और उदाहरण, इन तीन अवयवों को स्वीकारते हैं ।
मूलम्
२८. प्रतिज्ञाहेतूदाहरणरूपत्र्यवयववादिनो मीमांसकाः ।
विश्वास-प्रस्तुतिः
२९. उदाहरणोपनय-रूपावयव-द्वय-वादिनः सौगताः ।
शिवप्रसादः (हिं)
बौद्ध अनुमान के उपनय और निगमन, इन दो अवयवों को ही स्वीकारते हैं ।
मूलम्
२९. उदाहरणोपनयरूपावयवद्वयवादिनः सौगताः ।
विश्वास-प्रस्तुतिः
३०. अस्माकं त्व् अ-नियमः -
क्वचित् पञ्चावयवः, क्वचित् त्र्य्-अवयवः (त्रयोऽवयवाः), क्वचित् द्व्य्-अवयवः (द्वाववयवौ) -
उदाहरणोपनयाभ्याम् एव व्याप्ति–पक्ष-धर्मतयोः सिद्धत्वात्
तावतैव अनुमित्य्-उपपत्तेश् च (उपपत्तेः) ।
मृदु-मध्यम-कठोर-धियां विस्तर-सङ्ग्रहाभ्याम् व्यवहार उपपद्यते
इत्य् अ-नियम एव ।
शिवप्रसादः (हिं)
सिद्धान्त में यह कोई नियम नहीं है कि अनुमान के कितने अवयव स्वीकार किये जाये । कहीं पर पाँच अवयव, कहीं पर तीन अवयव और कहीं पर दो अवयव हम स्वीकारते हैं । क्योंकि उदाहरण और उपनय, इन दोनों से ही व्याप्ति तथा पक्षधर्मता के सिद्ध हो जाने से उन दो अङ्गों से ही अनुमान की सिद्धि हो जाती है । कोमल बुद्धि वालों के लिए विस्तारपूर्वक, मध्यम बुद्धि वालों के लिए मध्यम प्रकार से तथा कठोर बुद्धि- वालों के लिए संक्षेप से ही अनुमान का ज्ञान हो जाता है । अतएव हम अवयवों की संख्या का कोई नियम नहीं मानते ।
मूलम्
३०. अस्माकं त्वनियमः । क्वचित् पञ्चावयवः (पञ्चावयवाः), क्वचित्त्र्यवयवः (त्रयोऽवयवाः), क्वचित् द्व्यवयवः (द्वाववयवौ) । उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोः सिद्धत्वात् तावतैव अनुमित्युपपत्तेश्च । मृदुमध्यमकठोरधियां विस्तरसङ्ग्रहाभ्यां व्यवहार उपपद्यते इत्यनियम एव ।
वासुदेवः
द्व्यवयव इति । यद्यप्य् अयं पक्षः साध्य-व्यवस्थापनाभावाद् अनादरणीय एव तथा ऽपि बुद्धिमतः साध्य-व्यवस्थापनस्य सुलभत्वाद् अत्रोक्त इति बोध्यम् ।