विश्वास-प्रस्तुतिः
९. लक्षणस्य त्रीणि दूषणानि सन्ति -
अव्याप्त्य्-अतिव्याप्त्य्-असम्भव-भेदात् ।
लक्ष्यैकदेशे लक्षणस्यावर्तमानत्वम् अव्याप्तिः।
“कपिल-वर्णवत्त्वं गोर् लक्षणम्” इति लक्षणे कृते
शुक्लायाम् अव्याप्तिः ।
लक्ष्याद् अन्यत्र प्रवर्तमानत्वम् अतिव्याप्तिः ।
लक्ष्ये क्वाप्य् अविद्यमानत्वम् असम्भवः ।
यथा –
“जीवो गुणत्रयवश्य” इत्युक्ते अव्याप्ति,
ज्ञान-गुणक इत्युक्ते अतिव्याप्तिः,
“चक्षुर्-विषयो जीव” इत्युक्ते असम्भव एव ।
अत्रोक्त-दूषण-त्रयाभावात् - +++(पूर्वोक्तम्)+++ प्रमा-लक्षणम् स्व-स्थम् ।
अण्णङ्गराचार्यः
‘यथा जीव’ इति । गुणत्रयवश्यत्वं जीवात्मलक्षणं नित्यमुक्तेष्वव्याप्तम् । लक्ष्यैकदेशावृत्तित्वमव्याप्तिः । ज्ञानवत्त्वं जीवात्मनां लक्षणमीश्वरेऽतिव्याप्तम् । लक्ष्यालक्ष्यवृत्तित्वमतिव्याप्तिः । चक्षुर्ग्राह्यत्वं चेदात्मनां लक्षणमुच्यते, तर्ह्यसम्भवः । लक्ष्यसामान्येऽवर्तमानत्वमसम्भवः । एतद्दोषत्रयरहितो धर्मो लक्षणं भवति । असाधारणधर्मो लक्षणमिति यावत् । लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम् । तच्च स्वव्यापकलक्ष्यतावच्छेदकव्यापकत्वम् । स्व-लक्षणम् । जीवात्मना शेषचेतनत्वलक्षणं साधु ।
आदिदेवानन्दः (En)
- A definition has three defects: avyāpti (non- pervasion), ativyāpti (over-pervasion) and asambhava (absolute inapplicability).
Avyapti is the absence of the definition in a thing sought to be defined; for inst- ance, in the definition, ’the characteristic of the cow is the possession of orange-brown colour’, there is non- pervasion in respect of (the cows) possessing white colour.
Ativyāpti is the presence of the definition in something else other than the things sought to be defined. 33
Asambhava is the absence of definition any- where in the thing defined.
The statement, ’the self is an object of ocular perception’ is an example of total inapplicability. Therefore the definition of prama is established, because of the absence of the above-said three defects.
मूलम्
९.लक्षणस्य त्रीणि दूषणानि सन्ति । अव्याप्त्यतिव्याप्त्यसम्भवभेदात् (अव्याप्तिरतिव्याप्तिरसम्भवश्चेति ।) । लक्ष्यैकदेशे लक्षणस्यावर्तमानत्वमव्याप्तिः । (लक्ष्यादन्यत्र वर्तमानत्वमतिव्याप्तिः । लक्ष्ये क्वाप्यवर्तनमसम्भवः ।) “कपिलवर्णवत्त्वं गोर्लक्षणम्” इति लक्षणे कृते शुक्लायामव्याप्तिः । लक्ष्यादन्यत्र प्रवर्तमानत्वमतिव्याप्तिः । लक्ष्ये क्वाप्यविद्यमानत्वमसम्भवः । (लक्ष्यादन्यत्र वर्तमानत्वमतिव्याप्तिः । लक्ष्ये क्वाप्यवर्तनमसम्भवः ।) यथा – “जीवो गुणत्रयवश्य” इत्युक्ते अव्याप्तिः, ज्ञान-गुणक इत्युक्ते अतिव्याप्तिः, “चक्षुर्विषयो जीव” इत्युक्ते असम्भव एव ।
अत्रोक्तदूषणत्रयाभावात् प्रमालक्षणं (प्रमाणलक्षणं) स्वस्थम् ।
वासुदेवः
अतिव्याप्तिर् इति । यथा शृङ्गित्वं गोर् लक्षणम् इति लक्षणे कृते महिष्यादाव् अतिव्याप्तिः । अत्र च लक्ष्ये विद्यमानत्वे सतीत्य् अपि बोध्यम् । अन्यथा ऽसंभवेन संकरः स्यात् । तत्रापि लक्ष्याद् अन्यत्र लक्षणस्य विद्यमानत्वात् ।