०९

अथेश्वरो निरूप्यते - सर्वेश्वरत्वं सर्वशेषित्वं सर्वकर्माराध्यत्वं सर्व फळ- प्रदत्वं सर्वाधारत्वं सर्वकार्योत्पादकत्वं स्वज्ञानस्वेव र समस्त द्रव्य शरीरस्वामि- त्यादीनीश्वरलक्षणानि । अयमीश्वरः सूक्ष्मचिदचिद्विशिष्टवेषेण जग-

१ ख. ॰वस्थिताः । २ क. ख. ‘तारस्तु’ । ३ ख. ‘त्व सर्वकार्यो । ४ ख. ‘सरित्व" ।

66

यतीन्द्रमतदीपिका-

दुपादानकारणं भवति । संकल्पविशिष्टवेषेण निमित्तकारणं भवति कालाद्यन्त-

1प्रकाशसहिता ।

८१

र्यामिवेषेण सहकारिकारणं च । कार्यरूपेण विकारयोग्यं वस्तु, उपादानम् । कार्यतया परिणामंचितृ, निमित्तम् । कार्योत्पत्युपकरणं वस्तु, सहकारि । यद्वोत्तरोतरावस्थाविशिष्टस्वरूपापेक्षया तदनुगुणनियत पूर्व भाव्यवस्थाविशि- ष्टमुपादानम् । यथा घटत्वावस्थाविशिष्टमृद्रव्यापेक्षया पिण्डत्वावस्थावि• शिष्टं सदेव द्रव्यम् । परिणामोन्मुख्यातिरिक्तेनाऽऽकारेणापेक्षितं कारणं निमित्तम् । अस्मिन्पक्षे सहकारिकारणस्य निमित्तेऽन्तर्भावः । एवं त्रिविध- कारणपक्षे कारणद्वयपक्षे च कारणलक्षणलक्षितत्वादखिलजगत्कारणत्वं भग- बतो नारायणस्यैव संभवति ।

8

ननु कथं नारायणे कारणत्वपर्यवसानमिति चेदुच्यते-न्याय सहितवेदान्त- वाक्यविचारेणैवं पर्यवस्यति । तद्यथा - आदौ तावत्मकृतेर्जगत्कारणत्वं नोप- पद्यते । ईक्षितृत्वाद्यभावाद । छान्दोग्ये तावत्सदाकाशमाण शब्दवाच्यानां जगत्कारणत्वं प्रतीयते । वाजसनेयके ब्रह्मशब्दवाच्यस्य कारणत्वं प्रतीयते । सर्वशाखाप्रत्ययन्यायेन कारणवाक्यानामेकविषयत्वे प्रतिपादयितव्ये छागप- शुन्यायेन सामान्यवाचकानां सदादिशब्दाना विशेषे ब्रह्माणि पर्यवसानं वक्त व्यम् । एवमुक्तन्यायेन ब्रह्मशब्दवाच्यस्य तैत्तिरीयोक्त आत्मशब्दवाच्ये पर्यवसान आत्मशब्दवाच्यः क इत्याकाङ्क्षायां श्रुतिमसिद्ध इन्द्रो वो तथा प्रसिद्धोऽग्निर्वोपास्यत्वेन प्रसिद्धः सूर्यो वा कारणत्वेनोक्तः सोमो वाऽभीष्ट- फलमदत्वेनोक्तः कुबेरो वा यमो वा वरुणो वेति विशय एतेषां कर्मव- इयत्वपरिच्छिनैश्वर्यवत्त्व संहार्यत्वश्रवणाचैते जगत्कारणभूताः किंतु श्वेता-

93

१४

१२

श्वतरे शिवस्य कारणत्वं भारत इति भाति । एवमथर्वणशाखाय शंभुशब्द- वाच्यस्य ध्येयत्वं कारणत्वं भासते । तथैवाथर्वशिरसि रुद्रशब्दवाच्यस्य सर्वात्मकतोच्यते । तैत्तिरीये हिरण्यगर्भस्य जगत्कारणत्वं प्रतीयते । अत्रापि सामान्यविशेषन्यायाच्छिवशंभरुद्रादिशब्दानां हिरण्यगर्भशब्दवाच्यविशेषे पर्यवसानं युज्यते । शिवशब्दस्य शिवमस्तु सर्वजगतां, शिवं कर्मास्तु, पन्या. नः सन्तु ते शिवा इत्यादिभिर्मङ्गलवाचकत्वम् । रुद्रशब्दस्याशिवाचकत्वम् । एवं महेश्वरशंभ्वादिसामान्यशब्दा अप्यवयवशक्त्या चतुर्मुखे पर्यवस्यन्ति

१ स॰ ‘मयत्तान्नीम ं । २ क. घ. ‘शिष्टं तदुपा" । ३ घ. ‘रिणो नि ।४ घ. ‘सहकृत’ । ५ घ. ‘चार एवं ं। ६ क. ‘ते । संकल्पज्ञानाद्यभावा । ७ग. घ. ईक्षाद्य । ८ घ. शप्रणवश ९क० ‘स्पेन प्र° १० घ. ‘ब्दस्य’ । ११ घ. ‘सानम् । आ । १२ क. वाऽग्नि । १३ घ. स्वः । १४ घ. “वैशा’ । १५ घ. ‘याँ शिवशब्द’ । १६ घ. ‘गर्मे वाच्य |

११

८२

यतीन्द्रपल दीपिका-

कारणवाचिशिवादिशब्दानां मुख्यवृत्त्या रुद्रपरत्वं वा किं न स्यादिति न शङ्कनीयम् । रुद्रस्य चतुर्मुखो दुत्पत्तिश्रवणादेपहतपाप्मत्यश्रवणाच्च न रुद्रस्य कारणत्वम् । अतो हिरण्यगर्भप्रजापतिस्वयं भवादिशब्दवाच्ये चतुर्मुखे शिवादि- शब्दाः पर्यवस्यन्ति । एवमपि महोपनिषन्नारायणोपनिषत्सु बालोपनिषन्मै. श्रीवरुणीय पुरुषसूक्तनारायणानुवाकान्त यमिब्राह्मणादिषु नारायणस्यैव पर- मकारणत्वसर्वशब्दवाच्यत्वमोक्षप्रदत्व जगच्छरीरत्वादेः प्रतिपादनात्स्वयंभू- हिरण्यगर्भप्रजापतिशब्दानां नारायणे पर्यवसानं युक्तमिति नारायण एवा- खिळजगत्कारणं सर्वविद्यावेद्यश्च ।

नन्वन्तरादित्यविद्या रुद्रपरेवि शङ्का न कर्तव्या । तस्या विष्णुपरत्वस्यैव बहुँषु प्रमाणेषु सिद्धत्वां । मर्गशब्दस्य सकारान्तत्वप्रतिपादनाच्च । वर्हि दहरविद्यायामाकाशशब्दवाच्यनारायणान्तर्यामितया रुद्रस्य प्रतिपादनाद्दहर- विद्या रुद्रपरेति न शङ्कनीयम् । नारायणान्तर्षर्तिगुणजातस्यैवोपास्पत्वेन तंत्राभिधानातु । एवं सर्वविद्यास्वप्यूह्यम् । अतः स्वमस्तकल्याणगुणात्मकः प्रकृतिपुरुषाभ्यां मित्रस्ताभ्यां विशिष्टः परब्रह्म जमत्कारणं नारायण एव । नन्ववया वैक्यमेव सत्यं निर्गुणं च । वदन्यज्ञावृज्ञेयादिकं तस्मिन्नेव परिकल्पियं सर्व मिथ्या । ब्रह्माविधया संसरति । तत्त्वमसीत्यभेदज्ञानं तन्निवर्तकम् । तस्मान्निर्विशेषचिन्मात्रे ब्रह्मणि वेदान्तानां तात्पर्यमिति मतान्तरस्यैः प्रतिपादनात्कथं नारायणे तात्पर्य तस्थ समस्तकरयाणगुणा- करत्थादिकथनं चेतेि चेटुच्यते-कारणत्वप्रतिपादकश्रुतिभिनारावणस्य कार- णत्ये सिद्धे भेदाभेदश्रुत्यो बैटकश्रुत्या विषयभेदेनाविशेषे प्रतिपादिते निर्गु- आगमविपादकश्रुतीनां हेयगुणनिषेधकत्वाज्ज्ञातृज्ञेयादिकल्पकाविद्याया एवामा- मण्याद्ब्रह्मकार्यस्य सस्थत्वादविद्यया संसारे बीवगलदोषाणां ब्रह्मण्यपि संभवात्तन्निवर्तकान्तरस्य वक्तुमशक्यत्वात् । अतोऽद्वैतवादस्यासंभवान्न निर्विशेषचिन्मात्र ब्रह्मसिद्धि । अतो नारायणस्यैव जगत्कारणत्वमोक्षप्रद- त्वादिगुणयोगः संभवतीति सविशेषमेव ब्रह्म । सूक्ष्मचिदचिद्विशिष्टं ब्रह्म- कारणं स्थूलचिदचिद्विशिष्टं ब्रह्म कार्यमिति कारणादनन्यत्कार्यमिति विशि. ष्टाद्वैतवेदान्तिना संप्रदायः ।

,

१ . खादेवोत्प’ । २ घ. ‘दनप’ । ३ ख. ‘स्वयंभू प्रजापत्यादि । ४ ग. घ. ‘त्रायणी’ । ५ ख, ‘नत्वन्त’ । ६ ख. वाक’ । ७ घ. ‘हुप्रमाणैः ति । ८ ख. ‘तू गर्भश। ९ घ. “समकं प्र’ । १० घ. ‘भिन्नं ताभ्यां विशिष्टं परं व्रत जमत्कारणम् । नं। ११ व. ब्रह्मात्मैक्य १२ घ. “नव । १३ घ. ‘णप्रतिषे । १४ घ. माणिकत्वात् । १५ ख. “विद्यायाः सं’ ।

G

प्रकाशसहिता ।

८३

एवमीश्वराङ्गनकारान्निरीश्वरसांख्यमीमांसकादिमतनिरासः। तस्यैवोपादानं त्वस्वीकाराद्योगपाशुपतनैयायिकानां मतनिरासः । तैर्निमित्तमात्रेश्वराङ्गी- कारात् । ईश्वरस्य कार्य प्रत्युपादानत्वनिमित्तत्वं वत्कर्तृत्वप्रेरकत्वनियन्तृत्व- प्रशास्तृत्व सहकारित्वोदासीनत्वादिकमप्युपपद्यते । बाल्ययौवनावस्थादयो दोषा यथा शरीरगता न तु शरीरिणि जीव एवं चिदचिच्छरारिणः पर- मात्मनोऽपीति न निर्विकारश्रुतिविरोधः । नियमेनाऽऽधेयत्वाविधे यत्वशेषत्वादेः शरीरलक्षणस्य जगति विद्यमानत्वाज्जगच्छरीर ईश्वरस्तद्गतदोषैरसंस्पृष्टश्च ।

स चेश्वरो विशुस्वरूपः । विभुत्वं नाम व्यापकत्वम् । तच्चेश्वरस्य त्रिभा स्वरूपतो धर्मभूतज्ञानतो विग्रहतश्च । स चानन्त इत्युच्यते । अनन्तो नाम त्रिविधपरिच्छेदरहितः । त्रिविधपरिच्छेदस्तु देशतः कालतो वस्तुतः परि- च्छेदः । सत्यत्वज्ञानत्वानन्दत्वामलत्वादय ईश्वरस्य स्वरूपनिरूपकथर्माः । ज्ञानश्वक्त्यादयो निरूपितस्वरूपधर्माः । सर्वज्ञत्व सर्वशक्तित्वादयः सृष्ट्युप- युक्ता धर्माः । वात्सल्य सौशील्य सौलभ्वादय आश्रयणोपयुक्ता धर्माः । कारुण्यादयो रक्षणोपयुक्ता धर्माः । एतेषां स्वरूपं बुद्धिपरिच्छेदे निरूपिस- मितीह न पच्यते । अयमीश्वरोऽण्डसृष्ट्यनन्तरं चतुर्मुखदक्षकालादिष्वन्त- यमितया स्थित्वा सृष्टिं करोति । विष्ण्ववताररूपेण मनुकालाद्यन्तर्यामिस्व- रूपेण च स्थित्वा रक्षको भवति । रुद्रकालान्तकादीनामन्तर्यामितया संहारमपि करोति । अतः सृष्टिस्थितिसंहारकर्ता च भवति ।

एवंप्रकार ईश्वरः परव्यूहविभवान्वचम्यचवताररूपेण पञ्चप्रकारः । तत्र परो नाम त्रिपाद्विभूतौ कुमकुमुदाक्ष पुण्डरीकवामनशङ्कुकर्ण सर्व नेत्र सुमुख- सुप्रतिष्ठितादिभिर्दिव्यायुधभूषणपरिजन परिच्छदा म्वितैर्दिव्यनगरपालकैः परि-

१ ख. ‘नत्वादिस्वी । २ ख. ‘खकर्तृ । ३ ग. ‘प्रकाशयितृत्व’ । घ. ‘प्रकाशितृत्व’ । ४ ख. ग. ‘कमुप’ । ५ न. ‘रीरोध’ । ६ व. ‘ज्ञानानन्द’ । ७ व पविशेषका घ । ८ घ. ‘मिरू’ । घ ९ थ. ‘दीनां चान्त’ ।

८४

यतीन्द्रमतदीपिका-

रक्षिते श्रीवैकुण्ठाख्ये पुरे चण्डप्रचण्डप्रचण्डभद्र भद्रसुभद्रजयविजय धातृविधा- तृप्रभृतिभिर्द्वारपाल के रुपेतश्रीमद्दिव्यालये श्रीमहामणिमण्डपे धर्मायष्टपादविर- चितसिंहासने शेषपर्यङ्के दिव्य मङ्गलविग्रहविशिष्टश्चतुर्भुजः श्रीभूनी ला साहवः शङ्खचक्रादिदिव्यायुधोपेतः श्रीमत्किरीटा दिदिव्यभूषणभूषितोऽनन्तगरुड चि- व्वक्सेनादिभिर्नित्यैः सामगान परैरन्यैर्मुक्तेश्चानुभूयमानो ज्ञानशक्त्याद्यनन्त- कल्याणगुणविशिष्टः परब्रह्मपरवासुदेवादिशब्दवाच्यो नारायणः ।

व्यूहो नाम पर एवोपासनार्थं जगत्सृष्ट्याद्यैर्थं च वासुदेवसंकर्षणप्रद्युम्नानि. रुद्धभेदेन चतुर्घाऽवस्थितः । तत्र पँड्गुणपूर्णः श्रीवासुदेवः । ज्ञानबलाभ्यां

१ घ. ‘क्षितश्रीमद्वैकु’ । २ ग. ‘ण्डभद्रसुभद्रज’ । घ. ‘ण्डसुभद्रज’ । ३ क. ग. ‘पेते श्री । ४ क. ‘ये म° । ख. °ये श्रीमणि’ । ५ ख. ‘मानज्ञा । ६ घ. ’ द्यर्थे च । ७ ख. ‘षडैश्वर्यगुणः श्री । घ. ‘षड्गुणपरिपू ।

प्रकाशसहिता ।

८५

संकर्षणः । ऐश्वर्यवीर्याभ्यां प्रद्युम्नः । शक्तितेजोभ्यामनिरुद्ध इति गुणविभागः । एतेषु चतुर्षु प्रत्येकं त्रयस्त्रयोऽवतीर्णाः केशवादयो व्यूहान्तराणि द्वादशमासान द्वादशादित्यानां चाधिदेवतानेि ऊर्ध्वपुण्ड्रेषु तेषामेव स्थानं विधीयते । तत्र

यतीन्द्रमतदीपिका-

किनकप्रभः केशवश्चतुश्चक्रधरः । इषामो नारायणश्चतुःशङ्खधरः । मणिप्रेभो माधवश्चतुर्गदाधरः । चन्द्राभो गोबिन्दतुः शार्ङ्गधरः । पद्मकिञ्जल्कसंनिभो विष्णुश्च तुर्हलधरः । अब्जा भो मधुसूदनश्चतुर्मुशलधरः । अग्निवर्णस्त्रिविक्रमश्च- तुः खड्गधरः । बालसूर्याभो वामनश्चतुर्वज्रधरः । पुण्डरीकाभः श्रीधरचतुष्- ट्टिशधरः । तडित्प्रभो हृषीकेशश्चतुर्मुङ्गरथरः । सूर्याभः पद्मनाभः पञ्चायुध- घरः । इन्द्रगोपनिभो दामोदरश्चतुष्पाशधरः ।

विभवो नाम तत्तत्सजातीयरूपेणाऽऽविर्भावः । स दशधा - ते च मत्स्याद- योऽवतारविशेषः । तत्र वेदापहारिदैत्यनिरसनद्वारा ब्रह्मणे प्रमाणदत्वार्थो मत्स्यावतारः । देवानामजरांमृतिहेत्व मृतोत्पादने मन्दराधारत्वेनावतीर्णः कूर्मावतारै: । संसारसागरोन्मनजनोद्धर्तुकामः स्वमहिषी भूम्युद्धरणार्थमवती र्णो वराहः । आश्रित संरक्षणार्थं महासुरग्रहस्तम्भेऽवतीर्णो नृसिंहावतार: । त्रिविक्रमो भूत्वा स्वपादारविन्दोद्भवेन जलेन जगत्पौपापहरणेन तद्रक्षणार्थ - मवतीर्णो वामनः । दुष्टक्षत्त्रियनिरसनार्थं परशुरामः । शरणागतरक्षणार्थी धर्मस्थापनार्थः श्रीरामः प्रलम्बादिनिरसनार्थ बलभद्रः । मोक्षोपायदर्शनार्थ श्रीकृष्णः । अधर्मिष्ठान्निरस्य पूर्णधर्मोत्पादनार्थं कलिनिर्मोचनार्थं कल्क्यव- तारः । एवमेकैकावतारेष्वनन्तप्रकाराः सन्ति । षट्त्रिंशद्भेदभिन्नाः पद्मना-

१ ग. घ. ‘प्रभाभो । २ ख. ‘तुः पद्मध’ । ३ घ. ‘र्मुसल° । ४ क. पदध । ५ घ.. ‘चतुःपा ं । ६ घ॰ ंषाः । ब्र’ । ७ ग. ‘निरासपूर्वकं । ८ ग. ‘प्रदानार्थमवतीर्णो म । ९ घ. ‘रः । अमृ’। १० घ. ‘रामरणहे । ११ घ. रः । भूमेरुद्ध’ । १२ ग. ‘तर’। १३ घ. ‘पापह° । १४ घ. ‘णार्थोऽव’ । १५ ख. घ. ‘क्षण’ । १६ घ. ‘नार्थश्री’ । १७ ख. रामचन्द्रः | १८ ग

ष्णः कलि ।

प्रकाशसहिता |

८७

भादयोऽपि पुनर्दविभक्त हयग्रीवनरनारायणादयोऽपि ।
एवं मुख्यगौणपूर्णा आवेशाद्यवतारा बहुप्रकाराः । तेषूपास्यानुपास्यविभागो द्रष्टव्यः ।

अवताराणाम् इच्छैव हेतुर् न कर्म ।
प्रयोजनं तु दुष्कृतविनाशपूर्वकं साधुपरित्राणमेव ।

१ . ख्यगुण ।

८८

यतीन्द्रमतदीपिका-

अन्तर्यामित्वं नाम स्वर्ग नरकाद्यनुभवदशायामपि जीवात्मनः सुहृत्वेन योगिभिर्द्रष्टव्यतया हृदयमदेशावस्थितं रूपम् । जीबेन साकं विद्यमानोऽपि तद्वतदोषैरसंस्पृष्टो वर्तते ।

अवतारो नाम देशकालविप्रकर्षरहित आश्रिताभिमतद्रव्यादिकं शरी- रतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टः सन्नर्चकपराधीनस्नानभोजना- सनशयनस्थितिः सर्वसहिष्णुः परिपूर्णो गृहग्रामनगर मैदेशशैलादिषु वर्त मानो मूर्तिविशेषः । स च स्वयंव्यक्तदैव सैद्धमानुष भेदाच्चतुर्विधः । एवमुक्तासु

१ क. ‘ष्टो द्रष्टव्यः । घ. ‘हितात्रि’ । ३घ, प्रशस्तदे ग. “प्रशस्त शै’ ।

प्रकाशसहिता ।

८९

पञ्चावस्थास्वपि श्रीविशिष्ट एव भगवान्वर्तत इति श्रुत्या प्रमाणसिद्धोऽर्थः । तेनैकायनोक्तनिःश्रीकवादो निरस्तः । एवमीश्वरो निरूपितः ।

इति श्रीबाधूलकुलतिळकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायामोश्वरनिरूपणं नाम नवमोऽवतारः ॥ ९ ॥

११

१ ख॰ ‘पि वि’ । २ ख. ‘गनिषितार्थः । ३ ग. ‘र्थः । एतेनै’ ।

यतीन्द्रमतदीपिका-