०८

६७

अथ जीवो निरूप्यते - प्रत्यक्त्व चेतनत्वात्मत्वकर्तृत्वादीनीश्वरजीवसाधा- रणानि लक्षणानि । प्रत्यक्त्वं नाम स्वयमेव स्वस्मै भासमानत्वम् | चेत- नत्वं ज्ञानाश्रयत्वम् । आत्मत्वं शरीरमतिसंबन्धित्वम् । कर्तृत्वं संकल्पज्ञा • नाश्रयत्वम् । एवं सामान्यलक्षणलक्षितस्यं विशेषलक्षणान्युच्यन्ते - अणुस्खे सति चेतनत्वम् । स्वत्तः शेषत्वे सति चेतनत्वम् । एवमाधेयत्वाविधेयत्व- पराधीनकर्तृत्वपरतन्त्रत्वादिकमूह्यम् ।

स च देहेन्द्रियमनःप्राणादिभ्यो विलक्षणः । यथा मम शरीरमिति प्रती- त्या देहाव्यावृत्तः ।

यतीन्द्रमतदीपिका–

चक्षुषा पश्यामि श्रोत्रेण शृणोमि वाचा वदामीत्यादिप्रत्ययाद्वाद्ये- न्द्रियेभ्यो व्यावृत्तः । मनसा जानामीति मनसो ज्ञानकरणत्वप्रतीते:,

6

प्रकाशसहिता ।

मम प्राणा इति व्यतिरेकोक्तेः, जानाम्यहमिति ज्ञानाच्च मनःप्राणज्ञानभ्यो

व्यावृत्तः ।

स चाणुपरिमाणः । उत्क्रान्त्यादेः श्रवणात्प्रमाणानुसाराच्च । अणुत्वे युग. पदने कविषयानुभवः कथमिति न शङ्कनीयम् । धर्मभूतज्ञानव्याप्त्योपपत्तेः ।

यतीन्द्रमतदीपिका-

एतेनैव सौभरि प्रभृतीनां मुक्तानां च युगपदनेकशरीरपरिग्रहोऽपि संभवति ।

स च नित्यः । पूर्वानुभूतार्थप्रतिसंघानां । नित्यश्वेज्जीव उत्पन्नो जीवो नष्टो जीव इति प्रतीतिः कथमिति चेन्न । जीवस्य देहसंबन्ध उत्पत्तिस्तद्वि- योगो नाश इति प्रतिपादनाज्जीवस्वरूपं नित्यमेव ।

७१

स च प्रतिशरीरं भिन्नः । एकपरिमाणेष्वनेकेषु सुवर्णघटेको घट इति

७२

यतीन्द्रमतदीपिका-

प्रतीतिवद्व्रीहिराशावेको व्रीहिरितिवच्च ज्ञानैकाकारतयैकत्वव्यवहारः । न तु स्वरूपैक्यम् । प्रमाणविरोधात् ।

स्वतः सुखी । उपाधिवशात्संसारः । अयं च कर्ता भोक्ता शरीरी शरीरं च भवति । प्रकृत्यपेक्षया शरीरी । ईश्वरापेक्षया शरीरम् । तस्य प्रत्यक्षश्रुतिभ्यां प्रकाशसहिता ।

७३

स्वयंप्रकाशत्वं च सिद्धम् । प्रयोगश्व - आत्मा स्वयंप्रकाशः, ज्ञानत्वाद्धर्म- : भूतज्ञानवदिति । ज्ञांनाणुत्वामलत्वादय एतस्य स्वरूपनिरूपकधर्माः ।

एतेन ज्ञानस्य क्षणिकत्वं क्षणिक संतानरूप आत्मेति बौद्धपक्षः, भूतचतुष्ट- यात्मकत्वाद्देहस्य देहावधिक आत्मेति चार्वाकपक्षः, गजदेहे गजपरिमाणः

१ क. ‘ज्ञानवाणु । १ . क्षणि ।

७४

यतीन्द्रमतदीपिका-

"

पिपीलिका देहे तत्परिमाणोऽतो देहपरिमाण आत्मेति जैनपक्षः, कर्तृत्वभोक्त• त्वादिकं प्रकृतेरेव न तु पुरुषस्येति सांख्यपक्षः, ब्रह्मांशो जीव इति यादवपक्ष:, सोपाधिकब्रह्मखण्डो जीव इति भास्करपक्षः, अविद्यापरिकल्पित एकजीव-

पेणैव

6

प्रकाशसहिता ।

७५

वादपक्षः, अन्तःकरणावच्छिन्नाने कजीववादपक्ष इत्येवमादयो विरुद्धपक्षा निरस्ताः । विभुत्ववादपक्षोऽपि ।

ननु जीवस्य विभुत्वानङ्गीकारेऽदृष्टजनितदेशान्तरफलोपलब्धिः कथमिति चेन्न । जीवस्य संबन्धाभावेऽप्यदृष्टवशादेवोपपैत्तेः । अदृष्टं नाम भगवत्प्रीत्य- प्रीतिजनकजीवकर्तृककर्मविशेषजन्यो ज्ञानविशेषः । स विशेषो भगवत्संकल्प एव विभुस्वरूपं भगवन्तमाश्रितः । अतः फलोपलब्धिरिति न विरोधः ।

स जीविस्त्रिविध:- बद्धमुक्तनित्यभेदात् । तत्र बद्धा नामानिवृत्त संसाराः । ते चतुर्दशभुवनात्मकाण्डकटाहवर्तिनो ब्रह्मादिकीटपर्यंन्ताश्चेतनविशेषाः । श्रीम- नारायणनाभिकमलादुत्पन्नो ब्रह्मा । ब्रह्मणो रुद्रः । पुनर्ब्रह्मणः सनकांदयो योगिनो नारदादिदेवर्षयो वसिष्ठभृग्वादिब्रह्मर्षयः पुलस्त्य मरीचिदक्षैकश्य- पादयो नव प्रजापतयो बभूवुः । तेभ्यो देवा दिक्पालाचतुर्दचेन्द्राश्चतुर्दश मनवोऽसुराः पितरः सिद्धगन्धर्वकिंनर किंपुरुषविद्याधरादयो वसवो रुद्रा आदित्या अश्विनौ च दानवयक्षराक्षस पिशाच गुह्यकादयः । एवं देवयोनयः । मनुष्या अपि ब्राह्मणक्षत्रियवैश्यशूद्रादिजातिभेदाद्बहुविधा: । तिर्यञ्चोऽपि पशुमृगपक्षिसरीसृपपतङ्ग-कीटादिभेदाद्बहुविधाः । स्थावरा अपि वृक्षगुल्म- लतापीरुत्तृणादिमेदाद्बहुविधा: । वृक्षादीना जला हरणोपयुक्त किंचिज्ज्ञान संब-

१ . ख. ‘पद्यते । २ ग कादियोगि । २ घ. काश्यक. ‘वरा ।

७६

यतीन्द्रमतदीपिका-

1

न्धोऽस्त्येव । अर्माणिमत्सु स्वल्पा सेत्युक्तत्वात् । अतो देवमनुष्यतिर्यक्स्था- वरभेदभिन्ना बद्धाः | जरायुजाण्डजोद्भिज्ज स्वेदजाश्च भवन्ति । देवमनुष्या जरायुजाः । तेषु ब्रह्मरुद्रादयः सनकादयश्चं सीताद्रौपदी धृष्टद्युम्नादयो भूतवे- तालादयाश्चायोनिजाः । तिर्यगादयश्च जरायुजा अण्डजाः स्वेदजाश्च भवन्ति । स्थावरादय उद्भिज्जाः । एवंभूता बद्धाँ बीजाङ्कुरन्यायेन विषमप्रवाहतयाs- नादिकालमवृत्ताविद्याकर्मवासना रुचि प्रकृति संबन्धे चक्रवत्परिवर्तमानैर्गर्भज- न्मबाल्य यौवनजग्रत्स्वप्नसुषुप्तिमूर्च्छाजरामरणस्वर्ग नरकगमनादिविविधविचि- त्रावस्थावन्तोऽनाद्यनन्तप्रकारातिदुःसहतापत्रयाभितप्ताः स्वतःप्राप्तभगवदनु- भवविच्छेदवन्तैश्चेति ।

ते द्विविधाः— शास्त्रवश्यास्तदवश्याश्चेति । तयोर्मध्ये करणायत्तज्ञानानां वद्धानां शास्त्रवश्यतऽस्ति । तिर्यक्स्थावरादीनां तन्नास्ति । शास्त्रवश्या द्विवि- धाः । बुभुक्षवो मुमुक्षवश्चेति । तत्र बुभुक्षवस्त्रैवर्गिक पुरुषार्थनिष्ठाः पुरुषाः । ते द्विविधा: - अर्थकामपरा धर्मपराचेति । केवलार्थकामपरा देहात्माभिमानवन्तः । धर्मपराश्च ’ अलौकिकश्रेयःसाधनं धर्मः ’ ’ चोदनालक्षणोऽर्थो धर्मः ’ इर्ति- लक्षणलक्षितयज्ञदानतपस्तीर्थयात्रादिनिष्ठाः । ते च देहातिरिक्तात्मनः पर- लोकोऽस्तीति ज्ञानवन्तः । धर्मपरा द्विविधाः - देवतान्तरपरा भगवत्पराश्चेति । देवतान्तरपरा ब्रह्मरुद्रेन्द्राग्न्याद्याराधनपराः । भगवत्पराश्चाऽऽत जिज्ञासुरर्था ययुक्तरीत्याऽधिकारिणः । आर्तो भ्रष्टैश्वर्यकामः । अर्थार्थी त्वपूर्वैश्वर्यकामः । मुमुक्षवो द्विविधा: - कैवल्यपरा मोक्षपराचेति । कैवल्यं नाम ज्ञानयोगात्ल- कृतिवियुक्तस्वात्मानुभवरूपोऽनुभवः । अर्चिरादिमार्गेण परमपदं गत एव क्वचित्कोणे पतित्यक्त पत्नीन्यायेन भगवदनुभवव्यतिरिक्तस्वात्मानुभव इत्या- हुः । केचिदचिरादिमार्गेण गतस्य पुनरावृत्त्यश्रवणात्मकृतिमण्डल एव कचिदेशे स्वात्मानुभव इत्यप्याहुः । मोक्षपराश्च द्विविधाः - भक्ताः प्रपन्नाश्चेति । भक्ताः पुनरधीतसाङ्गसशिरस्कवेदाः पूर्वोत्तरमीमांसापरिचयाश्चिददच्चिद्वि- लक्षणमनवधिकातिशयानन्दस्वरूपं निखिल हेयमत्यनीकं समस्त कल्याणगुणा- हमकं ब्रह्मावधार्यं तत्प्राप्त्युपायभूतां साङ्गभक्ति स्वीकृत्य तथा मोक्षं प्राप्तु- कामाः। भक्तावधिकारस्त्रैवर्णिकानामेव । देवादीनामप्यस्ति । अर्थित्वसामर्थ्ययोः

१ क. णिषु स्वल्पांत्य । २ घ. ‘श्व द्रौं । ३ घ. द्धा जीवा बी । ४ घ. ‘जागरस्वप्न’ ५ घ. ‘न्तश्च । ते’ । ६ घ. ‘ताति । ७ ग. ‘ते च द्वि’ A ८ क. ‘तिधर्मल’ । ९ घ. ‘रुद्रा एन्या । १० ‘त्युक्ताषि । ११ ख. ‘नुरू’ । १२ घ. ‘तित लक’ । १३ ख. रिक्तास्वा !

5

प्रकाशसहिता ।

७७,

संभवात् । न शूद्राधिकारः । अपशूद्राधिकरणविरोधात् । भक्तिस्वरूपं तु बुद्धिपरिच्छेदे प्रतिपादितम् । भक्ता द्विविधाः – साधनभक्तिनिष्ठा साध्य- भक्तिनिष्ठाश्चेति । व्यासादयः साधनभक्तिनिष्ठाः । श्रीपराङ्कुशादयः साध्य. भक्तिनिष्ठाः ।

1

आकिंचन्यानन्यगतिकत्वधर्मविशिष्टो भगवन्तमाश्रितः प्रपन्नः । सोडाप द्विविधः – त्रैवर्गिकपरो मोक्षपरश्चेति । त्रैवर्गिकपरो नाम भगवत एव धर्मार्थ- कामाभिलाषी । मोक्षपरस्तु सत्सङ्गान्नित्यानित्यविवेके सति संसारे निर्वेदा- द्वैराग्य उत्पन्ने मोक्षेच्छायां जातायां तत्सिद्ध्यर्थमाचार्यों वेदसंपन्न इत्याद्या- चार्यलक्षणलक्षितं गुरुं संश्रित्य तद्द्वारा पुरुषकारभूतां श्रियं प्रतिपद्य म- क्त्याद्युपायान्तरेऽशक्तोऽत एवाकिंचनानन्यगतिः श्रीमन्नारायणचरणाववो- पायत्वेन यः स्वीकरोति स प्रपन्नः । प्रपत्तिः सर्वाधिकारा ।

स च प्रपन्नो द्विविधः - एकान्ती परमैकान्ती चेति । यो मोक्षफलेन साकं फलान्तराण्यपि भगवत एवेच्छति स एकान्ती । देवतान्तरशून्य इत्यर्थः । भक्तिज्ञानाभ्यामन्यत्फलं भगवतोऽपि यो नेच्छति स परमैकान्ती । स द्विविधः – दृप्स आर्तश्वति भेदात् । अवश्थमनुभोक्तव्यमिति प्रारब्धकर्मानु- भवन्नैतद्देहावसान समयमीक्षमाणो दृतः । जाज्वल्यमानाग्निमध्यस्थितस्येव संसारावस्थितेरतिदुःसहत्वात्मपत्युत्तरक्षणमोक्षकाम आर्तः ।

3

मुक्तो नामोपायपरिग्रहोनन्तरं नित्यनैमित्तिक भगवदाज्ञाक हर्यरूपाणि स्वयं प्रयोजनतया कुर्वन्भगवद्भागवतापराधांश्च वर्जयन्देहावसानकाले सुकृतदुष्कृते मित्रामित्र योनिक्षिपन्वाङ्मनसीत्यादिप्रकारेण हार्द परमात्माने विश्रम्य मुक्तिद्वारभूत सुपुन्नाख्यनाड्यां प्रविश्य ब्रह्मरन्ध्र(निष्क्रम्प हार्दन साकं सूर्यकिरणद्वाराऽग्निलेोकं गत्वा दिनपूर्वपक्षोत्तरायण संवत्सराभिपानिदेवता- भिर्वायुना च पथि सत्कृतः सूर्यमण्डलं भित्त्वा नमोरन्ध्रद्वारा सूर्यलोकं गत्वाऽनन्तरं चन्द्रविद्युद्वरुणेन्द्र प्रजापतिभिर्मार्गप्रदर्शिभिरातिवाहिकगणैः सोप- चारैः सह तत्तल्लोकानतीत्य प्रकृतिवैकुण्ठसी पापरिच्छेदिकां विरजां तीर्त्वा सूक्ष्मशरीरं विहायामानव करस्पर्शादिप्राकृतदिव्य विग्रहयुक्तश्चतुर्भुजो ब्रह्मा- लंकारेणालंकृत इन्द्रजापतिसंज्ञकन गरद्वारपाल कौभ्यनुज्ञया श्रीवैकुण्ठारूपं

१ क. ‘अकिञ्चनानं। २ क. घ. रेणाश’ । ३ ग. घ. ‘ति । अ’ । ४ घ. ‘श्यमेव भो । ५ घ. ‘ग्रहणान ं । ६ क. ‘नाड्या प्र’ । ७ घ. ‘द’ ८ ख. घ. ‘सीमप’ ९ घ ‘तवि’ ।

1

0

1

१० ख. ‘तुर्मुखो ब्र’ । ११ क. घ. ‘कानभ्यनुज्ञाप्य श्री ।

७८

यतीन्द्रमतदीपिका-

दिव्यनगरं प्रविश्य गरुडामन्तयुक्त पताकालं कृतदीर्घ प्राकार सहित गोपुरमतीत्यै- रंमदाख्यामृतसरः सोमसवनाख्याश्वत्थं च दृष्ट्वा शतं माल हस्तेत्युक्तं पञ्चश्चैताद- व्याप्सरोगणैरुपचारितो ब्रह्मगन्धादिभिरलंकृत स्तंत्रस्थाननन्तगरुड विष्वक्से- नादीन्प्रणम्य तैर्बहुमतो महामणिमण्डपमासाद्य पर्यङ्कसमीपे स्वाचार्यान्मण- य्य पर्यङ्कन्समीपं गत्वा धर्मादिपीठोपरिकमलेऽनन्ते विमलादिभिश्चामरह्स्ताभिः सेव्यमानं श्रीमूलीलासमेतं शङ्खचक्रादिदिव्यायुधोपेतं जाज्वल्यमान किरीट- मकरकुण्डलग्रेवे यहा र केयूरकटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धनपीताम्बर- काचीगुणनूपुराध परिमितदिव्य भूषणभूषितमपरिमितोदार कल्याणगुणसागरं भगवन्तं दृष्ट्वा तत्पादारविन्दयुगुले शिरसा प्रणम्य पादेन पर्यङ्कमारुह्य तेन स्वाङ्के स्थापितः कोऽसीति पृष्टो ब्रह्ममकोरोऽस्मीत्युक्त्वा तेन कटाक्षितस्त- दनुभवजनित हर्षप्रकर्षात्सर्व देश सर्वकाल सर्वावस्थोचित सर्वविध कैंकर्य रतिरा- विर्भूतगुणाष्टक उत्तरावविरहित ब्रह्मानुभववान्यः स मुक्त इत्युच्यते । मुक्तस्य ब्रह्मसाम्यापत्तिस्तु भोगसाम्यमाह । जगव्यापारवर्जनस्य प्रविपादनातु । तस्य नानात्वं सर्वलोकसंपरणं च संभवति । ननु मुक्तस्यानावृत्तित्वप्रति- पादनादस्मिलोके संचारः कथमिति न शङ्कनीयम् । कर्मकर्तृत्वस्यैव निषे. धात्स्वेच्छया संचरणोपपत्तेः । अतो मुक्तो भगवत्संकल्पायत्त स्वेच्छया सर्वत्र संचरति ।

नित्या नाम कदाचिदपि भगवेदनभिमतविरुद्धाचरणाभावेन ज्ञानसंकोच • सङ्गरहिता अनन्तगरुडविष्वक्सेनादयः । तेषामधिकारविशेषा ईश्वरस्य

१ क. ख. ‘सरसः सो । २ घ. ‘त्युक्त, ३ क. ‘शर्त दि । ४६. पचरि । ५ घ. ‘तस्तत्रत्यानन्त’, ६ घ. ‘हस्तैः से’ । ७. ‘रोट म । ८ ख. ‘परिकरों । ९ घ. काशोऽ• कुमत्सुिक्या ते ! 1. क. ‘रणत्वं च । ११ क. मैकत्व ं 93 क. “बुभि° ! १३ ख. ‘अश्रृङ्कार !

प्रकाशसहिता ।

७९

नित्येच्छयैवानादित्वेन व्यवस्थापिताः । एतेषामवतारास्तु भगवदवतारव’

स्वेच्छया । एवं बद्धमुक्तनित्यभेदभिन्नो जीवो निरूपितः ॥

इति श्रीवाघूळ कुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदा सेन विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणो

नामाष्टमोऽवतारः ॥ ८ ॥