=0:00:
अथ क्रमप्राप्तं धर्मभूतज्ञानं निरूप्यते - स्वयंप्रकाशाचेतनद्रव्यत्वे सति विषयित्वम् । विभुत्वे सति प्रभावद्द्द्रव्यगुणात्मकत्वम् | अर्थप्रकाशो बुद्धि- रिति तल्लक्षणम् । तद्धर्मभूतज्ञानमीश्वरस्य नित्यानां च सर्वदा नित्यमेव विभु च । बद्धानां तिरोहितमेव | मुक्तानां पूर्वं तिरोहितमनन्तरपाविर्भूतम् । ज्ञानस्य नित्यत्वे ज्ञानमुत्पन्नं ज्ञानं नष्टमिति व्यवहारः कथमिति चेन्न । ज्ञानस्व संकोचविकाशावस्थामादाय वत्संभवात् । दृतेः पादाद्ययोदकं क्षरवि तथा ज्ञानमपीन्द्रियद्वारा निःसृत्यार्थेन संनिकृष्यते । अहिकुण्डल वत्संकोचविका सौ |
प्रकाशसहिता ।
५७
सर्व ज्ञानं स्वत एव प्रमाणं स्वप्रकाशं च । विप्रतिपन्ना संवित्स्वग - तब्धवहारं प्रति स्वाधीनकिंचित्कारा स्वजातीयसंबन्धानपेक्षव्यवहारहेतुत्वात् । अर्थेन्द्रियदीपवत् । न च चक्षुरालोकयोः सजातीयत्वम् । अहंकारिकतैज- सभेदाद्भेदः । अनेन ज्ञानस्य क्षणिकत्वं त्रिक्षणावस्थायित्वं प्रातिभासिक- वन्द्यवहारस्य मिध्यात्वं परतः प्रामाण्यं ज्ञानस्यैवाऽऽत्मत्वमित्यादिपक्षा निरस्ताः ।
6
| स्तम्भः स्तम्भ इत्यादिधारावाहिकं ज्ञानं त्वेकमेव । नन्वागमबलाज्ज्ञानस्य नित्यत्वाङ्गीकारे कथं जागर सुषुप्त्यादिभेदसिद्धिरिति चेन्न । यथा दाहकस्य वह्नेर्दाह्यसंनिधौ मण्यादिप्रतिबन्ध के दाहाभावस्तद्वज्ज्ञानस्य विरोधायक-
१ घ. ‘चित्करी स्वस्वजा’ |
यतीन्द्रमतदीपिका-
I
तमोविशेष संनिधानासंनिधानाभ्यां स्वापादिसिद्धिः । पुंस्त्वादिवच्च । पुंस्त्वा- दिकं बाल्ये तिरोहितं यौवन आविर्भवति । यो यदाश्रितस्वभावः स तस्य गुण इति लक्षणलक्षितत्वाज्ज्ञानं गुणः । विशेषणादिवत् । यतः संकोचवि काशावस्थावत्, अतो द्रव्यमपि भवति । आत्मगुणभूतज्ञानस्य द्रव्यत्वं कथ• मिति न शङ्कनीयम् । प्रभावदेकस्यैव द्रव्यत्वगुणत्वयोर्विरोधाभावात् । अवस्थाश्रयो द्रव्यमिति द्रव्यलक्षणम् । स्वाश्रयादन्यत्र वर्तमानत्वमपि प्रभा - वदेवोपपद्यते । प्रयोगश्च - गुणभूता बुद्धिर्द्वं प्रसारणादिमत्त्वात्मभावत् । ज्ञानं द्रव्यं संयोगादृष्टान्यत्वे सति भावनाकारणत्वादात्मवदिति । मुक्तज्ञा • नस्य युगपदनन्तदेहसंयोगो नयनसूर्यादितेजोवत्संभवति ।
२
१ न. “राजन्य’ । १ . सोन। ३ . ‘योगः साय’ ।
·
प्रकाशसहिता ।
ज्ञानं, मतिः, प्रज्ञा, संचित, धिषणा, धीः, मनीषा, शेमुषी, मेघा, बुद्धिरि- त्येवमादयः शब्दा ज्ञानपर्यायाः । बुद्धिरेवोपाधिभेदात्सुखदुःखेच्छाद्वेषप्रयत्न- रूपा । सुखादिजनकतया ज्ञानातिरेके प्रमाणाभावात् । ’ इच्छामि द्वेष्पि ’ इति व्यवहारस्य स्मरामीत्यादिवज्ज्ञानविशेषेणैवोपपत्तेः । ननु कामः संकल्पो विचिकित्सा श्रद्धा श्रद्धा धृतिरधृतिहींर्धीभरित्येतत्सर्वं मन एवेत्युक्तम् । ज्ञानरूपत्वं कथमिति चेन्न । ज्ञानस्य मनःसहकारित्वनियमात्मन एवेत्युपचा• रादुक्तमिति न विरोधः ।
एवं प्रत्यक्षानुपानागमस्मृतिसंशयविपर्ययभ्र पविवेकव्यवसायमोहरागद्वेष- मदमात्संयधैर्य चापल्यदम्भ लोभ क्रोध दर्पस्तम्भद्रो हामिनिवेशनिर्वेदानन्दा-
1
१. क. घ॰ ॰कज्ञा ं । २. क. ग्र, घ, ‘त्सर्यचा’ । ३६. ‘पद’
यतीन्द्रमतदीपिका-
दयः सुमतिदुर्मतिसुप्रीतितुष्टयुन्नतिशान्तिविरक्तिरतिमैत्रीद या मुमुक्षालज्जाति- तिक्षाविचारणा जिगीषा मुदिताक्षमाचिकीर्षाजुगुप्सा भावना कुइनासूबाजिघां- सातृष्णादुराशा वासनाचचश्रद्धा भक्तिः पतिरित्येवमादयश्च जीवगुणा अनन्ता धर्मभूतज्ञानावस्थाविशेषा एव । एवं ज्ञानशक्ति व लैश्वर्यवीर्यतेज:- सौशील्य वात्सल्य मार्दवार्जव सौहार्दधैर्य साम्यकारुण्यमाधुर्यगाम्भीयौदार्यस्ये-
पराक्रमादयो भगवतोऽनन्तकल्याणगुणां ज्ञानशक्तिविततिभूताः ।
तत्र ज्ञानं नाम सर्वसाक्षात्काररूपम् । शक्तिरघटित घटनासामर्थ्यम् । बलं धारणसामर्थ्यम् । ऐश्वर्यं नियमनसामर्थ्यम् । वीर्यमविकारित्वम् । तेजः पराभिभवैसामर्थ्यम् । महतो मन्दैः सह नीरन्ध्रेण संश्लेषस्वभावत्त्वं सौशी- ल्यम् । वात्सल्यं दोषेऽपि गुणत्व बुद्धिर्दोषादर्शित्वं वा । आश्रितविरहासहत्वं मार्दवम् | मनोवाक्कायैकरूपमार्जवम् । स्वसत्तानपेक्षतद्रक्षापरत्वं सौहार्दम् ।
1
१ घ. ‘शादुर्वास । २ क. प्रतिप । ३ ख. ‘णादयो ज्ञा । ४ ग घ ‘शक्त्योर्वित ५ न. ‘ताः । हृा । ६ ग. घ. ‘वनसा । ७ क. ‘विहारस’ । ८ ख, “पेक्ष्यं तः ।प्रकाशसहिता ।
६१
जन्मज्ञानवृत्तगुणानपेक्षया सर्वेराश्रयणीयत्वं साम्यम् । आश्रितदोषगोपनं चातुर्यम् । अकम्पनीयत्वं स्थैर्यम् । अभग्नप्रतिज्ञत्वं धैर्यम् | परबलप्रवेश- नसामर्थ्य शौर्यम् । तन्निराकरणं पराक्रमः । स्वप्रयोजनमनपेक्ष्य परदुःख- निराचिकीर्षा दया । परदुःखदुःखित्वं वा । क्षीरवदुप | ध्यभावेऽपि स्वादुत्वं माधुर्यम् । भक्तानुग्रहवदाम्यत्वादेरामूलतो दुरवगाहत्वं गाम्भीर्यम् । भूतं दत्त्वाऽप्यतृप्तत्वमौदार्यम् । एवं वदान्य इत्यादावप्यूह्यम् ।
1
ज्ञानविशेषभूतयोर्भक्तिप्रपस्योः स्वरूपं किंचिदुच्यते - मतिप्रपत्तिभ्यां प्रसन्न ईश्वर एव मोक्षं ददाति । अतस्तयोरेव मोक्षोपायत्वम् । मोक्षोपायत्वे-
I
6
1
6
१ ख. ‘वृत्ते गु० । २ ख. ‘सामर्थ्यम् । ३ घ. ‘त्वादिमत्त्वं दु । ४ प. प्रभुखं द !
६२
यतीन्द्रमतदीपिका-
3
नोकानां कर्मयोगज्ञानयोगप्रभृतीनां भक्तिद्वारेव साधनत्वम् । कर्मयोगो नामोपदेशाज्जीव परयाथात्म्यज्ञानवता शक्त्यनुसारेण फलसङ्गरहितानिषिद्ध- काम्यनित्यनैमित्तिक रूपपरिगृहीतकर्मविशेषः । स तु देवाचेन तपस्तीर्थदान- यज्ञादिभेदभिन्नः । अयं तु जीवगतकल्मषापनयनद्वारा ज्ञानयोगमुत्पाद्य तद्- द्वारा साक्षाद्दा भक्त्युत्पादको भवति । ज्ञानयोगो नाम कर्मयोगान्निर्मलान्त:- करणस्येश्वरशेषत्वेन प्रकृतिवियुक्तस्वात्मचिन्ताविशेषः । एतस्य साक्षाद्भ. वत्युषयोगित्वम् । एवं साधनान्तराणामपि भक्त्युपयोगित्वमूह्यम् ।
Ε
भक्तियोगो नाम यमनियमासनप्राणायामप्रत्याहारं वारणाध्यानसमाधिरू. पाष्टाङ्गवांस्तैलधारावद विच्छिन्न स्मृतिसंतानरूपः । स च विवेकविमोकाभ्यास-
०
१ ख, ‘वत्ताय ं । २ ग॰ घ. ‘चनात’ । ३ ग॰ ॰र्थयात्रादा’ । ४ घ ‘क्षात्कारभ’ । ५ ख. ‘तियु’ । ६ ग. ‘चिन्तनवि । ७ ख, ‘रध्यानधारणास° ।
9
प्रकाशसहिता ।
६३
क्रियाकल्पाणानव सादानुद्धर्षरूप साधन सप्तकजन्यः । तंत्र विवेको नाम जात्याश्रयनिर्मित्तादुष्टादन्नात्कायशुद्धिः । विमोकः कामानभिष्वङ्गः । अ· भ्यासः पुनः पुनरालम्बन संशीलनम् । शक्तितः पञ्चमहायज्ञाद्यनुष्ठानं क्रिया । कल्याणानि सत्यार्जवदयादानाहिंसादीनि । अनवसादो दैन्याभावः । अनु- दुर्षस्तुष्टयभावः । अतिसंतोषश्च विरोधीत्यर्थः ।
एवं साधन सप्तकानुगृहीता भक्तिदर्शनसमानाकाराऽन्तिम मत्य यावधिका च भवति । स चान्तिमप्रत्यय एतच्छरीरावसाने शरीरान्तरावसाने वा भवति । वेदनध्यानोपासनादिशब्दवाच्या भक्तिः परभक्तिपरज्ञानपरंमभ- क्तिरूपक्रमवती मपत्त्यङ्गका च । सा द्विविधा - साघन भक्तिफल भक्तिभेदात् । उक्तसाधनजन्धा साधनभक्तिः । फलभक्तिस्त्वीश्वरकृपाजन्या श्रीपराङ्कु- शनायादिनिष्ठा । मद्भक्तजनवात्सल्यमित्यादिषु स्तुविनमस्कारादिषु च
ख. ‘तादुष्यद’ । घ. ‘ताददु’ । १ ६. ‘रमज्ञा । ३ ख. ‘रमा भक्तिरूपक्रिया क्रमवती
त्या च । ४ ख. घ. न्या प ।
६४
यतीन्द्रपसदीपिका-
भक्तिशब्दप्रयोग औपचारिकः । ननु वेदान्तेषु श्रवणमननयोरपि विधाना- त्कथं ध्यानमेव विधीयत इति चेदुच्यते-अधीतसाङ्गवेदः पुरुषः प्रयोजन - वदर्थावबोधित्वदर्शनात्तन्निर्णवाय स्वयमेव श्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वादनुवादः । श्रवणप्रतिष्ठार्थत्वान्मननस्याप्यनुवादः । तस्माद्धयानमेव विधीयत इति न विरोधः ।
-
ध्यानशब्दवाच्या भक्तिर्विद्या भेदाद्बहुविधा । काश्चन विद्या उच्यन्ते- अन्तरिक्षविद्या, अन्तररादित्यविद्या, दहरविद्या, धूमविद्या, सद्विद्या, मधु- विद्या, उपकोसलविद्या, शाण्डिल्यविद्या, उद्गीथविद्या, पुरुषविद्या, प्रतर्दन- विद्या, वैश्वानरविद्या, इत्यादिका ब्रह्मविद्या । न्यासविद्या प्रपत्तिः । प्रपत्तिर्नाम -
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा । आत्मनिक्षेपकार्पण्यम् ’ इत्याद्यङ्गपञ्चकयुक्ता । एवदेहावसाने मोक्षमदा सकृत्कर्तव्या न्यासः शरणागतिरित्यादिशब्दवेद्या ज्ञानविशेषरूप। । एषा पत्तिर्गुरुमुखाद्रहस्वशा- स्त्रेषु संमदायतया वेदितव्येतीह बालबोधनायें वृत्ते ग्रन्थे न प्रकाश्येति विरम्यते ।
१ घ. न्ते । २ क. ‘द्यान्यस ३ ख. ‘ब्दवाच्या शापा । ५ क० “प्रतिप” । ६ ख. “वृत्तगुम्फे न° ।
प्रकाशसहिता ।
६५
भक्तिर्मपत्योरेव मोक्षसाधनत्वेन स्वीकारात्परोक्तोपायनिरासः । यथा वेदाह्यानां मध्ये केषांचिन्मते देहातिरिक्तात्मनोऽनङ्गीकारान्मोक्षे प्रवृत्तिरेव न संभवति । अन्येषां मते ज्ञानस्य क्षणिकत्वात्तस्यैवाऽऽत्मत्वात्कस्य प्रवृत्तिः । संतानस्येति चेन्न | अन्यं प्रत्यन्येन यत्नो न कर्तव्य इति न प्रवृत्तिः । अप- रेषां मते धर्माधर्मादिसप्तभङ्गीरीत्याऽनेकान्तवादान्न प्रवृत्तिः । वैशेषिका दिपक्षे
A
१ क. ‘प्रतिप’ । २ क. स्वात्क । ३ घ. या चने ।
६६
यतीन्द्रमतदीपिका-
।
पाषाणकल्पे मोक्षे प्रवृत्तिः कस्यापि न संभवति । सांख्यादिपक्षेष्वीश्वरान- ङ्गीकारात्पुरुषस्य प्रकृतेर्वा मोक्ष इति संशयान्न प्रष्टत्तिः । मायिमते व्यावहा- रिकवाक्यस्य पारमार्थिकाभेदज्ञानाजनकत्वान्न प्रवृत्तिः । भास्करयादैवये । - स्तु कर्मज्ञानसमुच्चयवादोऽप्युक्तादेव निरस्वः । शैवमते तु पशुपतेः प्राप्यत्व- स्वीकाराद्वेदविरुद्ध भस्मधारणादेः साधनत्वेन स्वीकाराच्च तन्निरासः । एवं मतिर्निरूपिता ।
इति श्रीवाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवास- दासेन विरचितायां यतीन्द्रमतदीपिकायां बुद्धि- निरूपणं नाम सप्तमोऽवतारः ॥ ७ ॥
===
१’ घ. कस्य ं । २ ग. घ. दवोक्तक” ।
प्रकाशसहिता ।