अथ नित्यविभूतिर्निरूप्यते - शुद्धसत्त्व धर्मभूत ज्ञान जीवेश्वरसाधारणं लक्ष - णमजडत्वम् । अजडत्वं नाम स्वयंप्रकाशत्वम् । तत्र शुद्धसत्वधर्मभूतज्ञानसा-’ धारणलक्षणं पराक्त्वे सत्यजडत्वम् । तत्तु स्वयंप्रकाशत्वे सति परस्मा एव भासमानत्वम् ।
५२
यतीन्द्रमतदीपिका-
शुद्धसत्त्वं नाम त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सत्त्ववत्त्वं निःशेषाविद्या- निवृत्तिदेशविजातीयान्यत्वम् । सा विभूतिरूर्ध्वप्रदेशेऽनन्ता : अधःप्रदेशे
१ घ. वृत्त ।
प्रकाशसहिता ।
५३
परिच्छिन्ना । अचेतना स्वयप्रकाशा च । आनन्दावहत्वादानन्दनामिका । पञ्चोपनिषन्मन्त्रप्रतिपाद्यतया पञ्चोपनिषदात्मिका । अप्राकृतपञ्चशक्तिमेत्तया पश्ञ्चशक्तिमयेति निगद्यते ।
सा विभूतिरीश्वरस्य नित्यानां मुक्तानां चेश्वरसंकल्पाद्धोग्य भोगोपकरण- भोगस्थानरूपा च भवतेि । भोग्यमीश्वरशरीरादि । भोगोपकरणं चन्दनकुसुम- वस्त्रभूषणायुधादीनि । भोगस्थानं तु गोपुरपुरप्राकारमण्डपविमानोद्यानप- द्मिन्यादिकम् । तत्रेश्वरस्य नित्यानां च शरीराणि भगवन्नित्येच्छा सिद्धानि । मुक्तानी शरीराणि तेषां पित्रादिसृष्टिर्युगपदनेकशरीरपरिग्रहा इत्यादीनि भगवत्संकल्पादेव भवन्ति । भगवतो व्यूहविभवाचवतारशरीराण्यप्यमा के- तमयानि । अर्चावतारेषु प्रतिष्ठानन्तरं प्रसादोन्मुखेश्वरसंकल्पाधीनमप्राकृत- शरीर्रमात्रमाविर्भवति । प्राकृतापाकृतसंसर्गः कथमिति न शङ्कनीयम् । श्रीरामकृष्णाद्यवतारशररिवदिति प्रमाणानुसारेण परिहारो द्रष्टव्यः ।
१. “मयतया । २ घ. “मयीति । ३ घ. त्या । मुक्तानामश्वि’ । ४ . नां । ५ क. कृतानि । ६ घरमन्त्राऽवि ।
21
५४
पतीन्द्रमतदीपिका-
1
मुक्तानां शरीरपरिग्रहस्तु वसन्तोत्सववेषपरिग्रहादिवत्स्वामिनः कैंकर्यमेव । ईश्वरशरीरस्य षाड्गुण्यमिति व्यवहारः । षाड्गुण्यप्रकाशकत्वात् । नित्यनि- रवद्येनिरतिशयौज्ज्वल्य सौन्दर्य सौगन्ध्य सौकुमार्यलावण्य यौवनमार्दवार्जवाद- यो दिव्यमङ्गलविग्रहगुणाः । तस्य व्यापकत्वं गीतादिषु प्रसिद्धम् । मुक्तस्य शरीरं नास्तीति वचनं तु कर्मकृतशरीराभावपरम् । तत्रत्येन्द्रियाणां नित्य • त्वात् । अत एव कार्यकारणभावा भावात्मा कृतवन्न तत्त्वान्तरव्यपदेशः । एतेन तत्र शरीरादिकं नास्तीति मतनिरासः । तमसः परस्तादित्युक्त्या प्रकृत्येकदेशवादिमतनिरासः। अप्राकृतशब्दस्पर्शरूपरसगन्धाश्रयत्वादाकाशा- दिव्याहृत्तिः । ज्ञानात्मकत्व प्रतिपादनाज्जडैमिति मतनिरासः ।
४
भगवतोऽप्राकृत दिव्यमङ्गलविग्र हस्त्वस्त्रभूषणाध्यायोक्त सर्वोपाश्रयः । तथ- था-पुरुषस्य कौस्तुभाकारत्वम् । प्रकृतेः श्रीवत्सरूपत्वम् । मँहतो गदारूपत्वम् ।
१. ख॰ प्रहादिस्तु ं । १२ ख. ‘द्यनिर्दोषनिर । ३ क. ख. ‘ग्रहा मु° । ४ घ. रीरेन्द्रियादि ।
५ घ. ‘उत्तम’ । ६ महतो इत्यारभ्य चक्रत्वमित्यन्तः पाठः क, पुस्तके न दृश्यते ।
प्रकाशसहिता ।
५५
सात्त्विकाईंकारस्य शङ्खरूपत्वम् । तामसाईंकारस्य शार्ङ्गत्वम् । ज्ञानस्य खड्गरूपत्वम् । अज्ञानस्य तदावरकत्वम् । मनसश्चक्रत्वम् । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां शररूपत्वम् | स्थूलसूक्ष्मभूतानां वनमालात्वम् । चेतश्चऋति चेतनासिरमविस्वत्संवृतिर्मालिका
भूतानि स्वगुणैर कृतियुगं शङ्खन शायते ।
बाणाः खानि दशापि कौस्तुभमणिजीवः प्रधानं पुनः
श्रीवत्सं कमलापते तब गदामाहुर्महान्तं बुधाः ||
४
इवि संगृह्यो ( ग्रहो ) कं पथमनुसंधेयम् ।
सा विभूतिरामोदप्रमोद संमोद वैकुण्ठाख्यरूपेण चतुर्विधा पुनरनन्ता च। त्रिपा द्विभूतिपरमपदपरमथ्योपपरमाकाशामृतना कामाकृतको कानन्द लोक बैकुण्ठायो - ध्यादिशब्दवाच्या । एतस्यां विभूतौ द्वादशावरणोपेतमनेकगोपुरमाकारैरावतं वैकुण्ठं नाम नगरम् । तत्राऽऽनन्दनामेकं दिव्यालयम् । तदन्तः, रत्नमयानेक- स्तम्भसहस्त्रैर्विरचिता महामणिमण्डपाख्या सभा । तस्यां सहस्रफणामणि- तेजोविराजितोऽनन्तः । तस्मिन्धर्मादिमयदिव्यसिंहासनम् । तदुपरि चामर- हस्तैर्विमलादिभिः सेवितमष्टदलात्मकं पद्मम् । तदुपरि प्रकृष्टविज्ञानघामा शेषः । तदुपरि वाचः परमद्भुतम् । एवं नित्यविभूतिर्निरूपिता ।
इति श्रीवाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवास- दासेन विरचितायां यतीन्द्रमतदीपिकायां नित्यविभूति- निरूपणं नाम षष्ठोऽवतारः ।। ६ ।।
ख. ‘रस’, घ. ‘जांश’ । २ घ. कृ तियु’ । ३ क. मणि जीवं प्र ‘तेरस ५ ख.न. ‘मको षिष्यालयः । त । १ ५. ‘णिषि । ७. ग. हस्ताभिर्षि
।
५६
यतीन्द्रमतदीपिका-