०५

अथाचिद्विशेषः कालो निरूप्यते - कालो नाम गुणत्रयरहितो जडद्रव्यवि- शेषः । स च नित्यो विभुश्च । भूतभविष्यद्वर्तमानभेदेन त्रिविधः । युगपत्क्षि- प्रचिरादिव्यपदेशहेतुः । निमेषकाष्ठकलामुहूर्तदिव सपक्षमा सऋत्वयन संवत्स-

१. घ. द्वारिका । २ घ. द्वारिके । ३ घ. विष्णुपुराणम् । ४. मकुपापात्रेण श्री १० ‘छातस्परादिनाङी कला ।

५०

यतीन्द्रमतदीपिका-

रादिव्यपदेशहेतुश्च । मनुष्यमानेन मासः पितॄणां दिनम् । तेषाममावास्या तु मध्याह्नम् । मनुष्यमानेन वत्सरो देवानां दिनम् । तेषामुत्तरायणमहः । दक्षिणायनं रात्रिः । एवं देवमानेन द्वादशवर्षसहस्र संख्याकं चतुर्युगमित्युच्यते । तत्र चतुःसहस्रवर्षसंख्याकं कृतयुगम् । तत्र पूर्णो धर्मः । त्रिसहस्र वर्ष संख्या कं त्रिपाद्धर्मवत्त्रेतायुगम् । द्विसहस्र वर्षपरिमितं सार्धंपादधर्मवद्वापरम् । सहस्र- वर्षसंख्याकमेकपादधर्मसंयुक्तं कलियुगम् । एतेषां संधिर्द्विसहस्रसंख्याकः । एवं चतुर्युगसहस्राणि ब्रह्मणो दिवसममाणमुच्यत इत्युक्तरीत्या चतुर्युगसह- स्राणि ब्रह्मणो दिवसमात्रप्रमाणकमेव । एवं रात्रिरपि ।

3

ब्रह्मणोऽह्नि चतुर्दश मनवो जायन्ते । इन्द्रा अपि तथैव । तथा सप्तर्षयश्च । एकैकमनोरेकसप्ततिचतुर्युगपरिमाणः कालः । एवं ब्रह्ममानेन ब्रह्मणः शत- वर्षजीवितम् । एतत्सर्वं कालाधीनम् । एवं नित्यनैमित्तिकमा कृतमल या अपि कालाधीनाः । कालस्य स्वकार्यं प्रति स्वस्योपादानत्वम् । अखण्ड- कालो नित्यः । कार्यः पुनरनित्यः । एवंभूतः काल ईश्वरस्य क्रीडापरि- करो भवति । लीलाविभूतावीश्वरः कालाधीन एव कार्य करोति । निव्य- विभूतौ तु कालस्य विद्यमानत्वेऽपि तस्य न स्वातन्त्र्यम् । केचित्तु तत्र कालो नास्तीति वदन्ति । अन्ये तु तामसमहान्काल इति । उभयेषामागमबाधः

I

घ. या मध्यान्न । म । २ क, तं द्विपादध’ । ३ व ‘विस्वम् । ४ अन्ये तु इत्या- एभ्य वाघश्वेत्यन्तः पाठः क्र. च. पुस्तकयोर्न रयते ।प्रकाशसहिता ।

५१

प्रत्यक्षबाधकश्च । केचित्तु षडिन्द्रियवेद्यः काल इत्यध्याहुः । तेनानुमेयवाद• निरासः । इति कालो निरूपितः ।

इति श्रीवाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां कालनिरूपणं

नाम पञ्चमोऽवतारः ॥ ५ ॥