०४

प्रमाणनिरूपणानन्तरं प्रमेयं निरूप्यते— प्रकर्षेण मेयं प्रमेयम् । तच्च द्विविधम् — द्रव्याद्रव्यभेदात् । द्रव्यमुपादानम् । अवस्थाश्रयमुपादानम् ।

ननु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्था इति मता- न्तरस्थैः सप्तचा परिगणनात्कथं द्रव्याद्रव्यभेदेन देवा समर्थनमिति चेदु- च्यते - उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमन भेदात्कर्म पञ्चवाऽवस्थितमिति कल्पने गौरवाच्चलनात्मकं कर्मेत्येकधै वो पत्ते स्तस्यापि संयोगमादायै प•

यतीन्द्र-मत-दीपिका-

एतेन पुरुषेन्द्रियम्, स्त्रीन्द्रियम्, एकेन्द्रिय-वादः, त्वग्-इन्द्रियैकत्व-स्वीकार इत्य् आदि-विमत-पक्षा निरस्ताः ।

राजसाहंकार-सहकृताद् भूतादि-संज्ञक-तामसाहंकाराच् शब्दादि-पञ्च तन्मात्राण्य् आकाशादि-पञ्च महाभूतानि चोत्पद्यन्ते । भूतानाम् अव्यवहित-सूक्ष्म-अवस्था-विशिष्टं द्रव्यं तन्मात्रम् । तद् एव भूतोपादानम् । विशिष्ट-शब्दादि-विषयाधिकरणं भूतम् । तन्मात्राणि शब्द-तन्मात्रं स्पर्श-तन्मात्रं रूप-तन्मात्रं रस-तन्मात्रं गन्ध-तन्मात्रम् इति पञ्च । भूतानि च तथा - आकाश-वायु-तेजो-जल-पृथिवी-भेदात् तु । तत्र तामसाहंकारात् कायोर् मध्यमावस्था-विशिष्टं द्रव्यं शब्द-तन्मात्रम् । क्षीर-दध्नोरन्तराल-परिणामवत् । तस्माद् आकाशो जायते । अस्पर्शवत्त्वे सति विशिष्ट-शब्दाधारत्वं श्रोत्राप्य् आयितृत्वं च आकाशा-लक्षणम् । स च प्रत्यक्षः शब्द-मात्र-गुणकोऽवकाश-हेतुः । नीलं नभ इति प्रतीतेः पञ्चीकरण-प्रक्रियया रूपवांश् च । एतेनाऽऽकाशस्याजन्यत्व-निरासः । सूर्य-परिस्पन्दादिभिर् आकाशस्यैव, प्राच्यादि-व्यवहारोपपतौ दिक् इति ।

१. स. वा !

प्रकाशसहिता

३५

पत्तेः संस्थानमेव जातिरिति संस्थानातिरेकि सामान्यानङ्गीकारात्समवायस्य समवायान्तराङ्गीकारेऽनवस्थानात्तस्यापि संयुक्तविशेषणतयैवोपप सेजवेश्व रथोर व विसुन्वादिविभाजकधर्ममन्तरेण ‘विशेष’ इति किंचित्पदार्थाङ्गीकारे

|

|

/

6

३६

यतीन्द्रमतदीपिका-

गौरवादतः कर्मसामान्यविशेषसमवायानां पृथग्द्रव्यत्वेनानङ्गीकाराच द्रव्य- मद्रव्यमिति द्विविधो विभाग उपपद्यते ।

एतेनाभावः सप्तमपदार्थ इत्यपि निरस्तम् । अभावस्य भावान्तररूपत्वात् । प्रागभावो नाम पूर्वावस्था परम्परा । प्रध्वंसाभावो नामोत्तरावस्थापरम्परा । अत्यन्ताभावान्योन्याभावौ तु धर्म्यन्तरस्वरूपावेव । एतस्य प्रत्यक्षेऽन्तर्भावः पूर्वमुक्तः । उपादानं द्रव्यमित्युक्तम् । गुणाश्रयो द्रव्यमिति सामान्यलक्षणं संभवति ।

तानि च द्रव्याणि षट् प्रकृतिकाल शुद्धसत्त्वधर्मभूतज्ञान जीवेश्वरभेदात् । तत्र जडाजडरूपयोर्विभक्तयोर्मध्ये जडलक्षणमुच्यते-अमिश्रसत्त्वरहितं जडम् । तद्- द्विविधम्- प्रकृतिकालभेदात् । तत्र सत्त्वरजस्तमोरूपगुणत्रयाश्रयरूपा प्रकृतिः ।

१ ख. ‘स्था भावप’ । २ घ. ‘यो वा द्र’ । ३ घ गुणाश्रया प्र° ।

!

प्रकाशसहिता ।

३७

सा नित्याऽक्षराविद्यामायाशब्दवाच्या च । तस्यां भगवत्संकल्पाधीन गुण- वैषम्यात्कार्योन्मुखावस्थाऽव्यक्तशब्देनोच्यते । तस्मान्महानुत्पद्यते । स महान्सात्त्विकराज सतामसभेदात्रिधाऽवस्थितः । महतोऽहंकार उत्पद्यते । सोऽपि सात्त्विकाहंकारो राजसाहंकारस्तामसाहंकारश्चेति त्रिविधो मतः । एतेषां त्रयाणां वैकारिकस्तैजसो भूतादिरिति नामान्तराण्यपि संभवन्ति । तेषु वैकारिक इति प्रसिद्धाद्राजसांहकार सह कृतात्सात्त्विका हंकारादेकादशे- न्द्रियाणि जायन्ते ।

सात्त्विकाहंकारोपादानकं द्रव्यमिन्द्रियमितीन्द्रियलक्षणम् । इन्द्रियं द्विविध. म्-ज्ञानेन्द्रियं कर्मेन्द्रियं चेति । ज्ञानप्रसरणशक्तमिन्द्रियं ज्ञानेन्द्रियम् । तत्पोढा- मनःश्रोत्र चक्षुर्घाणरसनात्वग्भेदात् । स्मृत्यादिकरणमिन्द्रियं मनः । तच्च हृद- यदेशवृत्ति बुद्ध्यहंकारचित्तादिशब्दवाच्यं बन्धमोक्षहेतुभूतं च । शब्दादिपञ्च के शब्दमात्र ग्रहणशक्तमिन्द्रियं श्रोत्रम्। तन्मनुष्यादीनां कर्णशष्कुलवच्छिन्न पदे- शवृत्ति । द्विजिह्नानां नयनवृत्ति । एवं रूपमात्रग्रहणशक्तमिन्द्रियं चक्षुः । तत्स-

३८

यतीन्द्रमतदीपिका-

र्वेषां नयनवृत्ति । गन्धंमात्र ग्रहणशक्तमिन्द्रियं घ्राणम् । नासाग्रवृत्ति | रसमा- त्रग्रहणशक्तमिन्द्रियं रसनेन्द्रियम् । जिह्वाग्रवृत्ति । स्पर्शमात्रग्रहणशक्तमि• न्द्रियं त्वगिन्द्रियम् । सर्वशरीरवृत्ति । नखदन्तकेशादिषु प्राणमान्द्य तारतम्या- स्पर्शानुपलम्भः । श्रोत्रादीन्द्रियाणां भौतिकत्वप्रतिपादनं भूताप्यायितृत्वे- नौपचारिकम् । एतेषां विषयसंबन्धः कचित्संयोगः कचित्संयुक्ताश्रयणापति वृद्धसंप्रदायः ।

उच्चारणादिष्वन्यतमक्रियाशक्तत्वं कर्मेन्द्रिय सामान्यलक्षणम् । तच्च वाक्पा- णिपादपायूपस्थभेदात्पञ्चधाऽवस्थितम् । वर्णोच्चारणकरणमिन्द्रियं वाक् । तच्च हृत्कण्ठजिह्वामूलतालदन्तोष्ठना सामूर्ध रूप स्थान टिकवृत्ति मृगादिष्वदृष्टविर-

/

१ क. ‘न्धय’ ।

प्रकाशसहिता ।

३९

हात्तदभावः । शिल्पादिकरणमिन्द्रियं पाणिः । स च मनुष्यादीनामङ्गुल्या• दिवृत्तिः । वारणादीनां नासावृत्तिः । संचरणकरणमिन्द्रियं पादः । स च मनुष्यादीनां चरणवृत्तिः । भुजगपतंगादीनामुरःपक्षादिवृत्तिः । मला- दिव्यागकरणमिन्द्रियं पायुः । स च तत्तदवयववृत्तिः । आनन्दविशेषकरण · मिन्द्रियमुपस्थः । स च मेहनादिवृत्तिः । एतानीन्द्रियाण्यणूनि । परकायम- वेशे लोकान्तरगमनादिषु च जीवेन सह गमनमिन्द्रियाणाम् । मुक्तिदशायाम- प्राकृत देशगमनासंभवादिहैव यावत्मलयं स्थितिः । करणविधुरैरन्यैः परि- ग्रहो वा । कर्मेन्द्रियाणां शरीरनाशान्नाय इति पक्षस्तु भाष्यविरोधेन नेयः ।

१ ष. ‘राते कलिलप’ | १६ च श’ ३ घ ‘तीत रू° !प्रकाशसहिता ।

न पृथग्द्रव्यकल्पनम् | दिवसृष्टिस्त्वन्तरिक्षादिसृष्टिवदुपपद्यते ।

४१

आकाशात्स्पर्शतन्मात्रम् । आकाशवाय बोर्मध्यमावस्थाविशिष्टं द्रव्यं स्पर्श- तन्मात्रम् । तस्माद्वायुः । विशिष्टस्पर्शवत्त्वे सति रूपशून्यत्वम्, अस्मदादि- स्पर्शनै केन्द्रियग्राह्यद्रव्यत्वम्, अनुष्णाशीतविशिष्टस्पर्शवत्त्रे सति गन्धशून्यत्व • मित्यादिकं वायोर्लक्षणम् । तस्मिन्नानासलिला तपकुसुमाद्यवयव योगच्छी- तोष्णसौरभादिमतीविः । स च त्वगिन्द्रियाप्यायकत्वेनोपकरोति । तस्य शब्दस्पर्शो गुणौ । तत्र शरीरधारणादिहेतुर्वायुविशेषः प्राणसंज्ञकः पञ्चप्रकारः । प्राणापानव्यानोदान समान भेदाद । हृदि प्राणः, गुदेऽपानः, सर्वशरीरगो व्यानः, कण्ठ उदानः, नाभिदेशे समान इति नियमः । जंगमेष्विव स्थाव- रेषु माणसंबन्धस्तुल्य एव । स च स्पर्शनप्रत्यक्षः । एतेनानुमेयवादनिरासः ।

१ घ. ‘प्राणादिसँ । च. ‘तिनं’ । ३ के.. ग ‘मेषु स्था’ । ४ क. ख. गं. ‘षु च प्रा !

४२

यतीन्द्रवतदीपिका-

1

वायुतेजसोर्मध्यमावस्थाविशिष्टं द्रव्यं रूपतन्मात्रम् । तस्मात्तेजः । उष्ण- स्पर्शवत्त्वभास्वररूपवत्त्वादिकं तेजसो लक्षणम् तस्त्र वहिः पचनादिहेतुत्व• मग्निसूर्यात्मना । अन्तर्वैश्वानर संज्ञक जाठराग्ररूपेण । दिवाभीतादिव्यतिरि- क्तानां चाक्षुषज्ञान आलोकादिरूपेण सहकारी भवति । तच्चतुर्धा - भौपदि- व्यौदर्याकरजभेदात् । तत्र पार्थिवपात्रेन्धनं तेजो भौपम् । तद्दीपादि । जल. मात्रेन्धनं दिव्यम् । तत्सूर्यादि । पार्थिवजलेन्धन पौदर्यम् । तज्जाठरम् । निरिन्धनं तेज आकरजम् । तत्सुवर्णादि । सुवर्णस्य द्रव्यान्तरसंसर्गादुष्ण- स्पर्शाभावः । पुनः सामान्येन प्रभावभावांश्चेति विभक्तः । आवरणसदसद्भा- वाधीनसंकोचविकासः प्रसारिततेजोविशेषः प्रभा । सा च प्रभावद्भिः सहो - स्पद्यते । सद् नश्यति । द्रव्यरूपा गुणभूता सावयवा व । अनेन प्रमायाः केचलगुणत्वमतनिरासः । प्रभाविशिष्टं तेजः प्रभावत् । तच्चतुर्विधमिति प्रति- पादितम् । तत्तेजः शब्दस्पर्शरूपगुणवच्च ।

तेजःसलिल योर्मध्यमावस्था विशिष्टं द्रव्यं रसतन्मात्रम् । तस्मादापः । शीत- स्पर्शवत्त्वं निर्गन्धत्वे सति विशिष्टरसवत्त्वमित्याद्यपां कक्षणम् । तासां शुक्ल- मधुरशीतैकस्वभावानामाश्रयादिसंसर्गभेदाद्रूपरसस्पर्शवैचित्र्यारोपः । समुद्रसरिदादिरूपेण बहुप्रकाराः । शब्दस्पर्शरूपरसवत्यश्च सेचनपिण्डीकर- णादिहेतवः ।

ताः

अप्पृथिव्योर्मध्यमावस्याविशिष्टं द्रव्यं गन्धतन्मात्रम् । तस्मात्पृथिवी । विशिष्टगन्धवत्वं रसवत्वे सति विशिष्टस्पर्शवत्त्वमित्यादि पृथिवीलक्षणम् । सा सुरभिर्मधुरा कृष्णादिरूपा चानुष्णाशीतस्पर्श वती । पाकजभेदाद्विचित्र.

पेश्वानरसंज्ञकेति ।

१ घ. विधं प्र’ । २ घ, ‘रिङ्गदादि’ । ३ व ‘दात्तु विचि ।

प्रकाशसहिता ।

४३

वर्णा विचित्ररसा च । अस्याश्च मनोघ्राणाध्यायकत्वे मोपकारकत्वम् | मृत्पा- पाणानौषधादिव हुमकारवती शब्द स्पर्शरूपरसगन्धगुणका धारणहेतुश्च । तमसः पृथिव्यामन्तर्भावः । तद्गुणत्वात्तदवस्थान्तरत्वाद्वा । अत एवाऽऽलो- काभावमात्रं द्रव्यान्तरं वेत्यादिपक्षा निरस्ताः ।

भूतेषु सर्वत्र पञ्चीकरणमक्रियया शब्दादीनां गुणानामुपलम्भः । पञ्चीकः रणप्रक्रिया तु भगवान् भूतानेि सृष्ट्वा, एकैकमेव भूतं द्विवाकृत्य द्वयोर्भागयोः स्वभागमेकं निघाय भागाम्बरं चतुर्धाकृत्य वांचतुर्भागान्भूतान्तरेषु चतुर्षु

४४

यतीन्द्रमतदीपिका—

योजयति । एवं सर्वेषु भूतेषु क्रियमाणेष्वेकैकस्य भूतस्यार्धं स्वभांगतोऽर्घा- न्तरं चतुर्णी भूतानां भागसमुच्चय इति भवति । तथा च स्वभागस्य भूय- इत्वात्परभागस्याऽऽल्पीयस्त्वाच्च पृथिव्यादिव्यपदेशः । वेदे त्रिवृस्करणो- पदेशस्तु पञ्चीकरणस्याप्युपलक्षणम् । भूतैः साकं महदहंकारौ मिलित्वा सप्तीकरणमित्यप्याहुः । एतेषु चतुर्विंशतिसंख्याकेषु पञ्च भूतानि प्रकृतिम- हदहंकाराश्च शरीरोपादानानि । एकादशेन्द्रियाणि प्रत्येकमसंख्यातानि प्रति- पुरुषं भिन्नानि । आभरणार्पित रत्नानीव शरीरमाक्रम्य तिष्ठन्ति ।

शरीरं नाम चैतनं प्रत्याधेयत्व विधेयत्वशे षत्वनियमैरं पृथकू सिद्धो द्रव्यविशेष इत्येकं लक्षणम् । नियमेन यदाधेयं नियमेन यद्विधेषं नियमेन यच्छेषामेति

1

१ घ, भागो ।

प्रकाशसहिता ।

४५

लक्षणत्रयं वा योज्यम् । ईश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं शरीरमीते वा तटस्थलक्षणम् । एतेन चेष्टाथचं शरीरम्, इन्द्रियाश्रयं शरीरम्, भोगाय- `तनं शरीरम्, शिरःपाणिपादादिमयं शरीरमू, इत्यादीनि परोक्तानि शरी- रलक्षणानि निरस्तानि ।

I

४६

यतीन्द्रमतदीपिका-

शरीरं द्विविधम्- नित्वमनित्यमिति । तत्र नित्यं त्रिगुणद्रव्य काळजीवशु- भाश्रयादिकमीश्वरशरीरम् । नित्यसूरीणां च स्वाभाविकं गरुड भुजगादिरूपम् । अनित्यं द्विविधम् । अकर्मकृतं कर्मकृतं चेति । प्रथममीश्वरस्य महदादिरू- पम् । तथाऽनन्तगरुडादीनां चेच्छागृहीतं तत्तद्रूपम् । कर्मकृतमपि द्विविधम्- स्वसंकल्पसहकृतकर्मकृतं केवलकर्मकृतं चेति । पूर्व महतां सौभरिप्रभृती- नामुत्तरं चान्येषाम् । पुनः सामाम्बतो द्विविधम् । स्थावरजंगमभेदात् । स्थावराः शिलावृक्ष गुल्मलवादयः । जंगमाश्चतुर्षा । देवमनुष्य तिर्यङ्कारकि- भेदात् | उद्भिज्जस्वेदजजरायुजाण्डलभेदा अपि विभागजधर्माः । अयोनिज- शरीराण्यपि सन्ति ।

एवं पञ्चीकृतीनां भूतानामेवाण्डोत्पादकत्वम् । अण्डोत्पादनात्पूर्व सृष्टिः समष्टिसृष्टिः। अनन्तरसृष्टिर्व्यष्टिसृष्टिः । महदादीनामुत्पत्तिर्नाम तालीयप- लाशताटङ्कन्यायेनावस्थान्तरापतिरेव । सेनावनराश्यादिव्यवहारवद । पूर्वापरावस्थाविशेषसंबन्धमात्रेण कार्यकारणभेदव्यवहारः । तत्र पूर्वा-

१ क. ‘नित्यसू’ । २ ख. घ. ‘विक ग’ ने घ. “ण्डजादिभे । ४ घ ’ तानामे । ५ घ. ‘लीप’ । ६ ख. शेषः सं’ ।

प्रकाशसहिता ।

४७

वस्था महाणेन विजातीयावस्थान्तरमाप्तौ वस्त्रान्तरव्यपदेशः पृथिवीपर्यन्त एव । इत्थं प्रकृति महद हंका रैकादशेन्द्रिय तन्मात्रपञ्चकभूतपश्चकविभागेन चतुर्विंशतितत्त्वानि वर्णितानि । एतेन न्यूनाधिक संख्याकतत्ववादिनो बाह्याः पाशुपताश्च निरताः । परमाणु कारणत्ववादिनोऽपि निरस्ताः ।

प्रकृत्यादय ईश्वरस्य जीवस्य च भोग्यभोगोपकरणभोगस्थानानि च भवन्ति । भोग्यं विषयाः । भोगोपकरणं चक्षुरारादिकरणानि । भोगस्था- नानि चतुर्दशभुवनान्तर्वर्त्यण्डजातानि । अण्डं नाम कपित्थफलाकारं पञ्ची- कृतपञ्चभूतारब्धं प्राकृतद्रव्यम् । तद्यथा - पद्माकारा भूः । कर्णिकाकारो मेरुः । मेरोर्दक्षिणतो भारतकिंपुरुषहरिवर्षाणि त्रीणि । उत्तरतो रम्यकाह- रण्यककुरुवर्षाणि त्रीणेि । पुरतो भद्राश्ववर्षम् । पश्चात् केतुमालाख्यं वर्षम् । मध्ये विलानृतम् ।

घ. “स्थाप्रा’ !

४८

यतीन्द्रमनदीपिका-

एवं नववर्षयुक्तं जम्बूदीपं लक्षयोजनविस्तीर्ण समपरिमाणेन लवणसा- गरेणऽऽवृतम् । स सिंधुर्द्विगुणेन सप्तवर्षात्मकेन लक्षद्वीपेन वेष्टितः । सोऽ- पीक्षुसमुद्रेण । सोऽब्धिः शाल्मलिद्वीपेन । स पुनः सुरासमुद्रेण । स कुशद्वी- पेन । स सर्पिःसमुद्रेण । सोऽपि क्रौञ्चद्वीपेन । स दध्यर्णवेन । सोऽपि शाकद्वीपेन वेष्टितः । स क्षीरार्णवेन । स वर्षद्वयविभाजकवलयाकारमान- सोत्तरपर्वतसहितेन पुष्करद्वीपेन । स शुद्धजलार्णवेव । एवं द्वीपानामुत्तरोत्तर- द्वैगुण्यं द्रष्टव्यम् । लक्षद्वीपादिपञ्च सप्तवर्षात्मकाः सप्तद्वीपात्मकोऽयं द्विगुणी- कृतथा काञ्चनभूम्या वृतः । काञ्चनभूमिस्तु लोकालोकपर्वतेन । पर्वतस्त्व- न्धतमसा । तदग्धतमो गर्भोदकेन । तदण्डकटाहेन ।

एवं भूमेरघोऽतलवितलरसातल तलातल महातल सुतलपाताल भेदात्सप्त लो- का अधो नारकास्ते च पापकर्मणां पापानुभव भूमयः । रौरवाद्या मुख्य यतयैक- विंशतिप्रभेदाः । ततस्तमः । ततो गर्योदकम् । अनन्तरमण्डकट(हः |

एवं भूमेरुपरि लक्षयोजनात्सूर्यमण्डलम् । तदेव भुवर्लोकः । तदुपरि चन्द्रमण्डलम् । तस्मादुपरि नक्षत्र बुध शुक्राङ्गनरक बृहस्पतिश नि सप्तर्षिमण्डलानि । तदुपरि ध्रुवः । सूर्यमण्डलमारभ्य ध्रुवलोकपर्यन्तं स्वर्लोकः । चतुर्लक्षादुपरि कोटियोजनोच्छ्रायो महलोंकः । तस्माद्विगुणो जनलोकः । ततश्चतुर्गुणस्तपो-

१ ख. र्षात्मिका । प. ‘येन्तः

प्रकाशसहिता ।

४९

लोकः । तस्माद्वादशकोटयुच्छ्रायः सत्यलोकः । ततस्तमो गर्वोदकमण्डक- टाह । एवं तिर्यगूर्ध्वप्रमाणेन पश्चाशत्कोटियोजनत्वं भूमेरुक्तं भवति । शतकोटियोजनविस्तीर्णवादो मानभेदेन । अण्डकटाहस्तु कोटियोजनोच्छ्रायः । तदण्डं दशोत्तरावरणानृतम् । एतादृशान्यण्डान्यनन्तानि जलबुदबुदवत् । युग- पदीश्वरसृष्टानि । ईश्वरस्य चतुर्मुखपर्यन्ता सृष्टिरद्वारका । तदनन्तरं सदार- केति विवेकः । विस्तरस्तु पुराण रत्नादिषु द्रष्टव्यः । इति प्रकृतिर्निरूपिता । इति श्रीवाधूलकुल तिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदा- सेन विरचितायां यतीन्द्रमवदीपिकायां प्रकृतिनिरूपणं नाम चतुर्थोऽवतारः ॥ ४॥