अनुमाननिरूपणानन्तरं शब्दो निरूप्यते – अनाशानुक्तवाक्यजनित तदर्थ- विज्ञानं शाब्दज्ञानम् । तत्करणं शब्दप्रमाणम् । अनाप्तानुक्त इत्युक्तत्वाद्वेदस्य पौरुषेयत्वमतनिरासः । करणदोषबाधकप्रत्ययाभाववद्वाक्यं वा । सर्गादौ भगवांश्चतुर्मुखाय पूर्व पूर्वक्रमविशिष्टान् वेदान्स्मृत्वा स्मृत्योपदिशतीत्युक्त्या वेदस्य नित्यत्वमपौरुषेयत्वं च सिद्धमिति करणदोषाभावो बाधकप्रत्ययाभावश्च ।
१ नः तार
४
२६
यतीन्द्रमतदीपिका-
ननु वेदवाक्यानां मीमांसकैः कार्यपरतयैव प्रामाण्यस्वीकारात्सिद्धब्रह्मपर- वाक्यानां व्युत्पत्त्यसंभवाच्च कथं प्रामाण्यमिति चेन्न । सिद्धब्रह्मपरवाक्या- नामप्युपासनान्वय स्वीकारात् । पिता ते सुखमास्त इति लोकसिद्धपरवाक्य- स्वापि बोधकत्वदर्शनाद्वालानां लोके मातृपितृमभृतिभिरम्बा तातमातुल-
१ च. “व प्रमाणत्वस्वी ‘नारूपकार्यान्व ३ घ. ‘ति लौकिक
प्रकाशसहिता ।
२७
चन्द्रादिष्वङ्गुल्या निर्दिश्य तदभिर्धायिनः शब्दान्मयुञ्जानैः क्रमेण भूयः शिक्षितानां तत्तदर्थ बुद्ध्युत्पत्तिदर्शनाद्वेदेऽपि परिनिष्पन्नेऽप्यर्थे शब्दस्य बोध • कत्वं संभवतीति नाप्रामाण्यशङ्कावकाशः । वर्ह्यभिचारादिप्रतिपादकवेदां- शस्य कथं प्रामाण्यमिति न शङ्कनीयम् । तस्य दृष्टफलदर्शनेनादृष्टस्वर्गादि- फलसाधनादौ प्रवृत्तिप्रयोजकत्वात् । यूपादित्यवाक्यं त्वादित्यवधूपपकाश- नकरम् । अतः कृत्स्नस्य वेदस्य प्रामाण्यम् ।
स वेदः कर्मब्रह्मप्रतिपादक पूर्वोत्तर भागाभ्यां द्विधा भिन्नः । आराधनकर्म- प्रतिपादकं पूर्वकाण्डम् । आराध्यप्रतिपादकमुत्तरकाण्डम् । उभयोर्मीमांसयो • रैकशाख्यम् । भागद्वयात्मको वेद ऋग्यजुःसामाथर्वरूपेण चतुर्घाऽवस्थितः । पुनरनन्तप्रकारश्च । ऋगादि बहुप्रका रवान्वेदो मन्त्रार्थवादविधिरूपेण त्रिविधः । अनुष्ठेयार्थप्रकाशको मन्त्रः । विध्यधीनप्रवृत्त्युत्तम्भकवाक्यविशेषोऽर्थवादः ।
१ घ. ‘घायकश ं । २ ख. ‘फलाद’ ।
२९
अतीन्द्रमतदीपिका-
हितानुशासनवाक्यमिह विधिः । स च त्रिविधः - अपूर्वपरिसंख्यानियमभे- दात् । ते पुनर्नित्यनैमित्तिककाम्यादिभेदाद्बहुविधाः । व्रीहीन्मोक्षवीत्य- पूर्वविधिः । मनोमयत्वाद्युपासनविधिर्विशिष्टविधिः । इमामगृभ्णभन्नित्यश्वर- शनाविधिः परिसंख्याविधिः । गुर्वभिगमेनविधिर्नियमविधिः । संध्योपास- नादिविधिर्नित्यविधिः । जातेष्ट्यादिविधिनैमित्तिकविधिः । ज्योतिष्टोमादि- विधिः काम्यविधिः ।
एवं विध्यर्थवादमन्त्रात्मकस्य वेदस्य च्छन्दः कल्पः शिक्षा निरुक्तं ज्योतिषं व्याकरणमित्येतान्यङ्कगाने | छन्दोऽनुष्टुत्रिष्टुवादि । श्रौतस्मार्त प्रतिपादनपरः कल्पः । शिक्षा वर्णात्मिका । निरुक्तं पूर्वार्थमतिपादकम् । ज्योतिषमध्ययन- तदर्थानुष्ठान कालनिर्णयात्मकम् । व्याकरणं तु शब्दस्वरादि समर्थनपरम् । एवं साङ्गस्य वेदस्य प्रामाण्यं सिद्धम् ।
१ ग. मनादिनि । २ घ ‘दिप्रतिपादनरूपम् । श्री । ३ घ. ‘रुकमपू । ४ ख. भ. तु झुश ।
प्रकाशसहिता ।
१९
अथ श्रुत्यविरुद्धाचारव्यवहारप्रायश्चित्तादिपतिपादक प्रणीता स्मृतिः प्रमाणम् । हिरण्यगर्भादीनामासत्वेऽपि तेषां गुणत्र्यावश्यकत्व संभवात्तत्कर्तृक- योगकपिलादिस्मृतीनां मन्वादिस्मृत्यविरुद्धांश एव प्रमाणम् | तत्त्वविपर्या- साद्विरुद्धांशोऽप्रमाणम् । वेदोपबृंहणरूपेतिहासपुराणयोरपि प्रामाण्यं स्वतः सिद्धम् । तत्र भारतरामायणयोः क्वचिद्विरोध भानेऽपि तत्त्वांशे वेदान्तवाक्य- वदविरोधो ज्ञेयः । सर्गादिपञ्चप्रतिपादक पुराणेष्वपि सात्त्विकराजसतामस-
भेदभिन्नेषु तत्त्वांशे विरोधाभाव।
विरुद्धांशोऽप्रमाणम्, अन्यत्सर्वं प्रमाणम् ।
पाशुपताद्यागमा अपि तथैव । आगम-दिव्य–तन्त्र-तन्त्रान्तर-सिद्धान्त-भेदभिन्नस्य श्रीपञ्चरात्रागमस्य क्वचिद् अपि वेदविरोधाभावात् कात्स्न्र्त्स्न्येन प्रामाण्यम् ।
धर्मशास्त्राणाम् अपि तथैव ।
शाण्डिल्यपाराशर भरद्वाज वसिष्ठ हारीतादयो धर्म- शास्त्रपणेतारः । शिल्पायुर्वेदगान्धर्व भरतादिकमप्युपयुक्तांशे तथैव । शिल्लो नाम कर्षणादिगोपुरमाकारनिर्माणादिप्रतिपादकः । आयुर्वेदो वैद्यकम् । गान्धर्वो नाम गानादिनिरूपकः । भरतागमो नृत्यादिनिरूपकः । पुनश्चतुः • षष्टिकलारूपेषु शास्त्रेषु तत्त्वोपाय पुरुषार्थोपयुक्तानि प्रमाणानि । बकुला भर-
=======
१ क. ख. विविधास्यकः । २ शठकोपाचार्यस्यैष नामान्तरमेतत् ।
३२
यतीन्द्रमतदीपिका-
णादिसूरि सूक्तयः कार्त्स्न्येन प्रमाणतराः । श्रीमद्रामानुजाचार्य प्रभृतिभिः प्रणीताः श्रीभाष्यादिप्रबन्धाः प्रमाणतमाः । पुरुषस्वातन्त्र्याधीनरचनाविशेष- विशिष्टं पौरुषेयम् । एतेन काव्यनाटकालंकारादीनामपि लक्षणमुक्तं स्यात् । एवमाकाङ्क्षायोग्यतासंनिधि मल्लौकिक वाक्यान्यपि प्रमाणानि । यथा नद्या- स्तीरे पञ्च फलानि सन्तीत्यादीनि ।
एवं वैदिकलौकिकसाधारणं द्विविधम्- मुख्यवृत्तिगौणवृत्तिभेदात् । मुरुषवृत्तिरभिषावृत्तिः । यथा - सिंहशब्दस्य मृगेन्द्रे । साऽभिषावृत्तियों गरू- दयादिभेदवशाद्बहुविधा । मुख्यार्थबाधे सति तदासन्नेऽर्थे वृत्तिरौपचारिकी । सा द्विधा - लक्षणागौणीभेदात् । प्रथमा यथा - गङ्गायां घोष इत्यत्र घोषा •
प्रकाशसहिता ।
३३
धिकरणस्य बाधात्तीरे लक्षणा । द्वितीया यथा - सिंहो देवदत्त इत्यत्र देव दत्ते शौर्यादिगुणयोगः ।
एवं वैदिकलौकिकरूपं सर्वे वाक्यजातं सविशेषविषयकं भेदविषयकं च । शरीरवाचकशब्द्दानां यथा शरीरिणि पर्यवसानम्, एवं भगवच्छरीरभूत ब्रह्म रुद्राग्नीन्द्रादिचिद्वाचक शब्दानां तथा शरीरभूतमृतिकाळा कायमाणाद्यचिद्वाच- कशब्दानां शरीरिणि परमात्मनि श्रीनारायणे पर्यवसानमुपपादयन्त्याचार्याः । वेदान्तज्ञानाद्व्युत्पत्तिः पूर्यव इत्युक्तन् । नारायणस्य सर्वशब्दवाच्यत्वं
यतीन्द्रमतदीपिका-
सर्वशरीरत्वमित्यादिकं तूपरीश्वरनिरूपणे प्रतिपादयिष्यामः । इति शब्दो निरूपितः ।
इति श्रीवाधूल कुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवास- दासेन विरचितायां यतीन्द्रमतदीपियां शब्दनिरूपणं
नाम तृतीयोऽवतारः ॥ ३ ॥