०२

00:00

1

अथानुमानं निरूप्यते । व्याप्यस्य व्याप्यत्वानुसंधानाद्वय पकविशेष पमि - तिरनुमितिः । तत्करणमनुवानम् । व्याप्यस्य धूमस्याग्निव्याप्यत्वानुसंधाना- द्वयापकविशेषप्रमितिर्वह्निप्रमितिः। अनधिकदेशकालनियंतं व्याप्यम् । अन्यू- नदेशकालवृत्ति व्यापकम् । तदिदमविनाभूतं व्याप्यम् । तत्प्रतिसंबन्धि व्यापकामिति । तेन निरुपाधिकतया नियत संबन्धो व्याप्तिरित्युच्यते । सेयं

1 यत्र धूमस्तत्र वह्निरिति व्याप्तिर्भूयो दर्शनाद्गृह्यते । व्याप्तिर्द्विविधा | अभ्यय- व्यतिरेकभेदात् । साधनविधौ साध्यविधिरूपेण प्रवृता व्याप्तिरन्वयव्याप्तिः। यथा यो यो धूपवान्स सोऽग्निमानिति । साध्यनिषेधे साधननिषेधरूपेण प्रवृत्ता व्याप्तिर्व्यतिरेकव्याप्तिः । यथा योऽनग्निः स निर्धूप इति ।

1

सेयमुभयविधा व्याप्तिरुपाधिसंभवे दुष्यति । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । यथा दह्निना धूपे साध्यमान आर्द्रेन्धन संबन्ध उपाधिः । मैत्रीतनयत्वेन श्यामध्ये साध्यमाने शाकपाकजत्वमुपाचिः । स

चोपाधिद्विविधः । निश्चितः शङ्कितश्वेति । निश्चितो यथा — विप्रतिपन्ना सेवा दुःखहेतुः, सेवात्वाद्राजसेवा बदिति । अत्र पापारब्धत्वमुपाधिः । अयं चेश्वर- सेवायां नास्तीति निश्चयादयं निश्चितोपाधिः । शङ्कितो यथा - विपति- पन्नो जीव एतच्छरीरावसाने मुक्तिमानिष्पन्नसमाधित्वाच्छुकादिवदिति । अत्र कर्मत्यन्तपरिक्षय उपाधिः । स च निष्पन्न समाधौ विप्रतिपन्ने जीवेऽस्ति नास्तीति संदिग्धत्वाच्छङ्कितोपाधिः । अतो निरुपाधिक संबन्धवद्व्याप्य- मिति सिद्धम् ।

व्याप्यं साधनं किङ्कमित्यनर्थान्तरम् । तस्य द्वे रूपे अनुमित्यङ्गभूते- व्याप्तिः पक्षधर्मता चेतिं । पञ्च रूपाण्यपि सन्ति । तानि च पक्ष सत्त्वं सपक्ष- सत्त्वं विपक्षाद्व्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । सिसाघयि- षितधर्मविशिष्ट धर्मी पक्षः । यथाऽग्निमत्त्वादिसाधने पर्वतादिः । सिसाधयि - षितसजातीयधर्मवान्सपक्षः । यथा महानसादिः । साध्यतत्सजातीयशून्यो विपक्षः । यथा महाहृदः । प्रबळेन प्रमाणेन पक्षे निश्चितसाध्याभाववत्त्वं बाधितविषयत्वम् । यथा महाइदोऽग्निमानित्यादि । तदभावस्त्वबाधितवि- षयत्वम् । समबलतया प्रतीयमानप्रमाणोपरोधाभावोऽसत्प्रतिपक्षत्वम् ।

एवंभूतं व्याप्यं द्विविधम् - अन्वयव्यतिरेकि केवलान्वयभेदात् । पूर्वो- क्तपञ्चरूपोपपन्नं व्याप्यमन्वयव्यतिरेकि । यथा पर्वतोऽग्निमान्धूमवत्त्वात् । यो यो धूमवान्स सोऽग्निमान्यथा बहानसम् ! योऽनग्निः स निर्धूमो यथा महाहद इति । तादृशमेव विपक्षरहितं व्याप्यं केवलान्वयि । यथा ब्रह्म शब्दवाच्यं वस्तुत्वाद्धटवत् । विपक्षाभावात्केवलान्वयी चतूरूपोपपन्नः । केवलव्यतिरेकिणि साध्यामसिद्धेस्तद्व्यतिरेकव्याप्तिर्दुर्ग्रहा । अतः केवलव्य-

१ घ॰ ॰र्यं त्वीश्व’ । २ ख. ‘स्वात्संदिग्धोपा’ । ३ घ. ‘तज्जाती’ । ४ घ॰ ‘नसः । यो° ।;

0

२०.

यतीन्द्रमतदीपिका-

तिरेकिनिरासः । केवलान्वयिन्यन्वयव्यतिरेकिणि चात्यन्तानीन्द्रियार्थ- गोचरता निरस्ता ।

तदेतदनुमानं स्वार्थ परार्थं वेति द्विधा विभज्य केचिदाहुः । सर्वेषामनुमा- नानां स्वप्रतिसंघानादिवलेन प्रवृत्ततया स्वव्यवहारमात्र हेतुत्वामिति स्वार्था- नुमानमेवेत्यपरे । तदनुमानबोधकवाक्यं प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूपं पञ्चावयवसंयुक्तम् । तत्र पक्षवचनं प्रतिज्ञा । यथा पर्वतोऽग्निमानिति । लिङ्गस्य वचनं हेतुः । यथा धूमवत्त्वादिति । व्याप्तिनिर्देशपूर्वकं दृष्टान्त वचनमुदाहरणम् । तद्विधा । अन्वयिव्यतिरेकिभेदात् । यथा यो यो धूमंचान्स सोऽग्निमान्यथा महानंसमित्यन्वयोदाहरणम् । योऽनन

निर्धूमो यथा महाहद इति व्यतिरेकोदाहरणम् । दृष्टान्तनिदर्शनेन व्यास- तया पक्षे हेतूपसंहारवाक्यमुपनयः । सोऽपि द्विविधः । अन्वयव्यतिरेकभे- दातुं । तथा धूमवानित्यन्वयोपनयः । अयं च न तथा निर्धूप इति व्यति- रेकोपनयः । हेतुपूर्वकं पक्षे साध्योपसंहारवाक्यं निगमनम् । इदमपि द्विविधं तथैव । यथा तस्मादग्निमानित्यन्वयेन निगमनम् । तस्मादयं निरग्निर्न भव- तीति व्यतिरेकेण । एवं पञ्चावयववादिनो नैयायिकाः ।

१ घ. ‘सं इत्य ं । २ क. ख. तू । यथा ।वः ।

प्रकाशसहिता ।

२१

प्रतिज्ञाहेतूदाहरणरूप यवयववादिनो मीमांसकाः । उदाहरणोपनयरूपाव- यवद्वयवादिनः सौगताः । अस्माकं त्वनियमः । कचित्पञ्चावयवः । क्कचित्रप बयवः । कचिद्वयवयवः । उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्म योः सिद्ध- त्वात् । तावतैवानुमित्युपपत्तेश्च । मृदुमध्यमकठोरधियां विस्तरसंग्रहाभ्यां व्यवहार उपपद्यत इत्यनियम एव । एवं पञ्चावयवसंयुक्तः सद्धेतुरेव वह्नय- नुमापकः । सद्धेतुरित्युक्तत्वाद्धूमसदृधूलीपटलान बह्नचनुमितिः ।

अन्ये हेतुवद्भासमाना हेत्वावासाः । ते चासिद्धविरुद्धानैकान्तिकप्रकरण • समकालात्ययापदिष्टभेदन पञ्चमकाराः । तत्रासिद्धस्त्रिविधः – स्वरूपासिद्ध आश्रयासिद्धो व्याप्यत्वासिद्धश्चेति । स्वरूपासिद्धो यथा – अनित्यो जीवश्चाक्षुषत्वादूघटनदिति । आश्रयासिद्धस्तु व्योमारविन्दं सुरभि, अरवि- न्दत्वात्सरोजारविन्दवदिति । व्योमारविन्दमाश्रयः । स चासिद्धः । व्याप्यत्वा- सिद्धो द्विविध:- एको व्याप्तिग्राहक प्रमाणाभावादपर स्तूपाधि सद्भावात् । आयो यथा— यत्सत्तत्क्षणिकमिति । क्षणिकत्वसत्त्वयोर्व्याप्तिग्राहकप्रमाणासिद्धेः । द्वितीयो यथा - अनीषोमीया हिंसाऽधर्मसाधिका, हिंसात्वास्तुबाह्यहिंसा- वदिति । अत्र निषेध्यत्वमुपाधिः । अतो हिंसात्वहेतुः सोपाधिकः । साध्य- विपरीतव्याप्तो हेतुर्विरुद्धः । तद्यथा - नित्या प्रकृतिः कृतकत्वात्कालवत् ।

१ कं. ‘नयनाभ्या ं । २ घ. ‘न्ये तु हे’ । ३ घः निषिद्धत्व’ ।

२२

यतीन्द्रमतदीपिका-

कृतकत्वं हेतुः साध्याभावव्याप्तः । सव्यभिचारोऽनैकान्तिकः । स च द्विविधः । साधारणोऽसाधारणश्चेति । पक्षसपक्षविपक्षवृतिः साधारणः । यथा शब्दो नित्यः प्रमेयत्वात्कालवत् । असाधारणस्तु विपक्ष सपक्षव्यावृत्तः । यथा - भूमिर्नित्या गन्धवत्त्रादिति । प्रकरण समस्तु साध्यविपरीत साधक हेत्व- न्तरवान् । यथेश्वरोऽनित्यो नित्यधर्मरहितत्वात् । ईश्वरो नित्योऽनित्यध- र्मरहित्वादिति । अयमेव सत्यतिपक्षः । कालात्ययापदिष्टो यथा-यस्य हेतोः साध्याभाववान्पक्षः स कालात्ययापदिष्टः । यथाऽग्निरनुष्णः, पदार्थ- त्वाज्जलवत् । अयं च प्रत्यक्षेणोष्णत्वावधारणाद्वाधितः ।

एवमनुमाने निरूपित उपमानादेरनुमानादावन्तर्भावः । यथाऽविदेशवाक्या- थेस्मरणसहकृत गोसादृश्य विशिष्टपिण्डज्ञानमुपमानम् । गवयमजानन्नपि यथा

पशुः

१ घ. सः । साध्याभावव्याप्तो हेतुर्विरुद्धः । स ।

प्रकाशसहिता ।

२३

गौस्तथा गवय इति कुतश्चिदारण्यकोक्यं श्रुत्वा वनं गतो वाक्यार्थ स्मर- न्यदा गोसादृश्याषेशिष्टपिण्डं पश्यति तदा तद्वाक्यार्थस्मरण सह क्रु वगो सादृश्य • विशिष्टपिण्डज्ञानं जायते तदुपमानमित्युच्यते । स्मरणरूपत्वात्तस्य प्रत्यक्षेs- न्तर्भावः । व्याप्तिग्रहणापेक्षत्वादनुपाने ऽन्तर्भावः । वाक्यजन्यत्वाच्छ चान्तर्भावः ।

अर्थापत्तिर्नाम दिवाऽभुञ्जानस्थ पुरुषस्य पीनत्वदर्शनाद्रात्रौ भोजनं कल्प्यते । एतस्यानुमानेऽन्तर्भावः । तर्को नाम व्याप्याङ्गीकारेण व्यापकम- सञ्जनम् । तद्यथा पर्वतोऽग्निमान्धूपवत्वादित्यनुपाने धूपोऽस्तु वह्निर्माsस्त्वि- त्युक्ते यदि वह्निर्न स्वात्तर्हि धूपोऽपि न स्यादित्येतस्य प्रमाणानुग्राहकत्वम् ।

१ क. ख. वाक्याखा । २ घ. ‘गोसाहशपि । २ घ. ब्दे वाऽन्त । ४ घ. तो हि. मान्धूमादिति स्थले घूमी ।

३४

यतीन्द्रमतदीपिका-

तर्कानुगृहीत प्रमाणपूर्वकत्वावधारणं निश्चयः । वीतरागकथा वादः । पक्षद्वय- साधनवती विजिगीषुकथा जल्पः । स्वपक्षस्थापनहीना तु वितण्डा । अविवक्षि- तशब्दार्थारोपेण दूषणं छलम् । स्वव्यापि दूषणं जातिरसदुत्तरं जातिरिति

प्रकाशसहिता |

२५

वा । पराजय हेतुर्निग्रहस्थानमित्येषामनुमानाङ्गत्वादनुमानेऽन्तर्भावः । कचि- त्कचिन्नैयायिकमतानुसारेणोक्तमिति न विरोधः । इत्यनुमानं निरूपितम् ।

इति श्री वाघूळ कुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन. विरचितायां यतीन्द्रमतदीपिकायामनुमाननिरूपणं

नाम द्वितीयोऽवतारः ॥ २ ॥