०१

अथ यतीन्द्रमतदीपिका प्रकाशसहिता ।

श्रीवेन्टेशं करिशैलनाथं श्रीदेवराजं घटिका द्रिसिंहम् । कृष्णेन साकं यतिराजमीडे स्वप्नेऽद्य दृष्टान्मम देशिकेन्द्रान् ॥ १ ॥

यतीश्वरं प्रणम्याहं वेदान्तार्य महागुरुम् । करोमि बालबोधार्थ यतीन्द्रमतदीपिकाम् ॥ २ ॥

श्रीमन्नारायण एवं चिदचिद्विशिष्टाद्वैततत्त्वं भक्तिप्रपत्तिभ्यां प्रसन्नः स एवोपायोऽप्राकृत देशविशिष्टः स एव प्राप्य इति वेदान्तवाक्यैः प्रतिपाद- यतां व्यासबोधायनगुहदेव मारुचिद्रह्मानन्दिद्रविडार्यश्री पराङ्कुरानाथ यामु- नमुनियतीश्वरप्रभृतीनां मतानुसारेण बालबोधार्थं वेदान्तानुसारिणी यति- पतिमतदीपिकारूपा शारीरकपरिभाषा महाचार्यकृपावलम्बिना मया यथा- मति संग्रहेण प्रकाश्यते ।

सर्वं पदार्थजातं प्रमाणप्रमेयभेदेन द्विधा भिन्नम् | प्रमाणानि त्रिण्येव । प्रमेयं द्विविधम् । द्रव्याद्रव्यभेदात् । द्रव्यं द्विविधम् । जडमजडमिति । जडं च द्विधा । प्रकृतिः कालश्चेति । प्रकृतिश्चतुर्विंशेतितत्त्वात्मिका । कालस्तूपाधिभेदात्त्रिविधः ।

१ घ. ‘त्या’ ।

प्रकाशसहिता ।

अजडं तु द्विविधम् । पराक्प्रत्यगिति । अजडं परागपि तथा । नित्यविभूति- धर्मभूतज्ञानं चेति । प्रत्यगपि द्विविधः । जीवेश्वरभेदात् । जीवस्त्रिविधः । बद्धमुक्तनित्यभेदात् । बद्धो द्विविधः । बुभुक्षुमुमुक्षुभेदात् । बुभुक्षुर्द्विविधः । अर्थकामपरो धर्मपरश्वेति । धर्मपरो द्विविधः । देवतान्तरपरो भगवत्परचेति । मुमुक्षुर्द्विविधः । कैवल्यपरो मोक्षपरश्चेति । बोक्षपरो द्विविधः । भक्तः मप- नवति । प्रपन्नो द्विविधः । एकान्ती परमैकान्ती चेति । परमैकान्ती द्वि- विधः । दृप्तार्तभेदात् । पञ्चधाऽवस्थित ईश्वरः । परव्यूहविभवान्तर्याम्यर्चा• वतारभेदात् । पर एकधा । व्यूहचतुर्षा । वासुदेव संकर्षणप्रद्युम्नानिरुद्ध. भेदात् । केशवादि व्यूहान्तरम् । मत्स्यादयो विभवाः पुनरनन्ताश्च । अन्त- र्यामी प्रतिशरीरमवस्थितः । अर्चावतारस्तु श्रीरंङ्गवेङ्कटाद्रिहस्तिगिरियादवा- द्विघटिकाचलादिषु सकलमनुजनयनविषयतां गतो मूर्तिविशेषः । अद्रव्यं तु सत्वरजस्तमः शब्दस्पर्शरूपरसगन्ध संयोगशक्ति भेदादशैव ।

एवमुपदिष्टानामुद्देशक्रमेण लक्षणापरीक्षे क्रियेते । तत्र प्रमाकरणं प्रमाणम् । प्रमाणं लक्ष्यम् । प्रभाकरणत्वं लक्षणम् । यथावस्थितव्यवहारानुगुणज्ञानं प्रमा । प्रमा लक्ष्यम् । यथाबस्थित व्यवहारानुगुणज्ञानत्वं लक्षणम् । ज्ञानं प्रभेत्युक्ते शुक्तिकायामिदं रजतमिति ज्ञानेऽतिव्याप्तिरत उक्तं व्यवहारानुगुणमिति । एवमपि तत्रैवातिव्याप्तिर्भ्रान्तिदशायामपीदं रजतमिति व्यवहियमाणत्वात् । अत उक्तं यथावस्थितमिति । यथावस्थितपदेन संशयान्यथाज्ञानविपरीतज्ञान- व्यावृत्तिः । धर्मिग्रहणे मिथोविरुद्धानेकविशेषस्मरणं संशयः । यथोर्ध्वता - विशिष्टे स्थाणुर्वा पुरुषो वेति ज्ञानम् । अन्यथाज्ञानं नाम धर्मविपर्यासः । यथा कर्तृत्वेन भासवान आत्मनि कुयुक्तिभिः कर्तृत्वस्य भ्रान्तत्वोपपाद-

१ ग. ॰नन्ताः । अ° । २ ग. रङ्गादिषु । ३ ग. गुगं ज्ञा’ । ४ ख. घ. ‘स्थितेतिप’ । ५ क. ख. ग, विशेषे स्था ।

नम् । विपरीतज्ञानं नाम धर्मिविपर्यासः । यथा वस्तुनो वस्त्वन्तरज्ञानम् । लक्षणस्य त्रीणि दूषणानि सन्ति । अव्याप्त्यतिव्याप्त्यसंभव भेदात् । लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः । कपिलवर्णवत्वं गोर्लक्षणामिति लक्षणे कृते शुक्लायामव्याप्तिः । लक्ष्यादन्यत्र वर्तमानत्वमतिव्याप्तिः । लक्ष्ये काव्य- विद्यमानत्वमसंभवः । यथां चक्षुर्विषयो जीव इत्युक्तेऽसंभव एव । अत्रो- क्तदूषणत्रयाभावात्ममालक्षणं स्वस्थम् । साधकतमं करणम् । अतिशयितं साधकं साधकतमम् । यस्मिन्सत्यविलम्बेन ज्ञानमुत्पद्यते तदतिशयितमित्यु- च्यते । तेन प्रमाकरणं प्रमाणमिति सिद्धम् । अनधिगतार्थगन्तृ प्रमाणमि- त्यादिकं तु तत्तद्वादिभिरेव निरस्तत्वादनादरणीयम् ।

तानि प्रमाणानि प्रत्यक्षानुमानशब्दाख्यानि त्रीण्येव । अत्र साक्षात्कारि-

घ. ‘नत्वम’ । २ घ. ‘था चाक्षुषी जी । ३ क. ग. माणल ४ क. ग. त्रीणि । ५ घ.

‘त्कारप्र ̊ ।

प्रकाशसहिता ।

प्रमाकरणं प्रत्यक्षम् । अनुमानादिव्यावृत्त्यर्थं साक्षात्कारीति । दुष्टेन्द्रियज- व्यावृत्त्यर्थं प्रमेति । तच्च प्रत्यक्षं द्विविधम् । निर्विकल्पक सविकल्पकभेदात् । निर्विकल्पकं नाम गुणसंस्थानादिविशिष्टमथमपिण्डग्रहणम् । सविकल्पकं तु संप्रत्यवमर्श गुणसंस्थानादिविशिष्ट द्वितीयादिपिण्डज्ञानम् । उभयविध- मध्येतद्विशिष्टविषयमेव । अविशिष्टग्राहिणो ज्ञानस्यानुपलम्भादनुपपत्तेश्च । ग्रहणप्रकारस्तु-आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेन । इन्द्रियाणां प्रायप्रकाश कारित्वनियमात् । अतो घटादिरूपार्थस्य चक्षूरूपेन्द्रियस्य च

१ क. ॰शिष्टं प्र ं । २ ख. तु गु । ३ घणां वस्तुप्राप्यकारि । ४ ग. ‘प्यकारि । ५ क. ख. घ. ‘चक्षुरादिरू’ ।

सनिकर्ष सत्ययं घटः पट इति चाक्षुषज्ञानं जायते । एवमेव स्पार्शनप्रत्यक्षा- दयोऽपि । द्रव्य ग्रहणे संयोगः संबन्धः । द्रव्यगतरूपादिग्रहणे समवायानङ्गी. कारात्संयुक्ताश्रयैणं संबन्धः । निर्विकल्पक सविकल्पकभिन्नं प्रत्यक्षं द्विवि- धम् । अर्वाचीनमनर्वाचीनं चेति । अर्वाचीनं पुनद्विविधम् । इन्द्रियसापेक्षं तदनपेक्षं चेति । तदनपेक्षं च द्विविधम् । स्वयंसिद्धं दिव्यं चेति । स्वयंसिद्धं योगजन्यम् । दिव्यं भगवत्प्रसादजन्यम् । अनर्वाचीनं त्विन्द्रियनिरपेक्षं मुक्त- नित्येश्वरज्ञानम् | अनर्वाचनं तु प्रसङ्गादुक्तम् । एवं साक्षात्का रिश्मा- करणं प्रत्यक्षामिति सिद्धम् ।

१ ख. ‘ति ज्ञा’ । २ क. ख. घ. ‘यणस° ।

प्रकाशसहिता ।

ननु यथावस्थितव्यवहारानुगुणज्ञानं प्रमेत्युक्तम् । एवं च स्मृतेरपि यथा- वस्थित व्यवहारानुगुणत्वेन प्रामाण्यात्स्मृतेरपि प्रमाणत्वेन परिगणनाच्च त्रीण्येव प्रमाणानीति कथं प्रतिपाद्यत इति चेदुच्यते - स्मृतेः प्रामाण्याङ्गीका रेऽपि संस्कारसापेक्षत्वात्तस्याः प्रत्यक्ष मूळ भूतत्वान्मूलभूते प्रत्यक्षेऽन्तर्भाव इति न पृथक्प्रमाणकल्पनम् । अतस्त्रीण्येव प्रमाणानि संभवन्ति । स्मृतिर्नाम पूर्वानु भवजन्य संस्कारमात्रजन्यं ज्ञानम् । तत्र चोदबुद्धः संस्कारो हेतुः । तदुद्बोधच ’ सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः '

इत्युक्तप्रकारेण कचित्सदृशदर्शनाद्भवति कचिददृष्टात्क चिच्चिन्तया । आदि • शब्देन साहचर्यस्यापि ग्रहणात्तेनापि भवति । सादृश्यजा यथा - देवदत्तयज्ञ- दत्तयोः सदृशयोर्देवदत्त दर्शनेन यज्ञदत्तस्मृतिः । द्वितीया यथा - यादृच्छिकी कालान्तरानुभूतश्रीरङ्गादिदिव्यदेशस्मृतिः । तृतीया यथा-चिन्त्यमाने सवि श्रीवेङ्कटेशस्य कमनीयदिव्य मङ्गलविग्रहस्मृतिः । चतुर्थीीं तु सहचरितयोदें- बदत्तयज्ञदत्तयोर्मध्ये ऽन्यतरदर्शनेन सदन्यतरस्मृतिः । सम्यक्पूर्वमनुभूवस्थ सर्वस्य स्मृतिविषयत्वनियमः । कचित्कालदैर्घ्यद्वयाध्यादिना वा संस्कार- प्रमोषात्स्मृत्य भावः ।

१ ग, ‘णज्ञानस्वे’ । २ ग. घ. ‘ण्येवेति संभवति । स्मृ । ३ घ. ‘स्य स्मृ’ !

यथा स्मृतेः प्रत्यक्षेऽन्त पविस्वया सोऽयं देवदत्त इति प्रत्यभिज्ञाया अपि प्रत्यक्षेऽन्तर्भावः । अस्प्रन्मतेऽभावस्य भावान्तररूपत्वात्त ज्ञानस्यापि प्रत्य- क्षेऽन्तर्भावः । भूतले घटात्यन्ताभावो भूतलमेव । घटमागभावो नाम मृदेव | घटध्वंसश्च कपालमेव । प्रायः पुरुषेणानेन भवितव्यमेतदूहैः । पुरः किंसंज्ञ- कोऽयं वृक्ष इत्यनध्यवसायोज्ञानं संशय उक्तः । एतयोरपि प्रत्यक्षेऽन्तर्भावः । पुण्यपुरुषनिष्ठा प्रतिभाऽपि प्रत्यक्षेऽन्तर्भूता । सर्वं विज्ञानं यथार्थमिति वेदा न्तचिदां मतमित्युक्तस्वात् । भ्रमादिमत्यक्षज्ञानं यथार्थमेव । अख्यात्यात्म

१ ग. व एवं सो । १ . घ. हृः । संज्ञ

पा० ४अनु०६]

कृष्णयजुर्वेदीयं तैत्तिरीय ब्राह्मणम् ।

धात्सम् । काम॑स्य॒ तृप्ति॑मान॒न्दम् ।

तस्य भाजयेह मां, इति ।

५३७

योऽयं प्रजापतिर्जगतः स्रष्टा स्त्रियां यशो भार्यायां गर्भरूपेण यशसः कारणं यद्वीर्थ सन्मुष्कयोरण्डयेोः सर्प संबन्धमदधात्स्थापितवान् । तस्यैव स्थापितस्य विशेषणानि कामस्य तृप्तिं तृप्तिकारणम् । तस्मिन्गलिते सवि योषिन्मे भूयादिति कामो निवर्तते तन्निवृत्तिरेव तृप्तिः । अत एवाऽऽनन्द सुखकारणम् । हेन इह विवाह कर्मणि मां तस्य वीर्यस्य सुखं भाजय

प्रापय ।

श्री प

अथ षोडशीमाह -

मि

मोद॑ः प्रमोद आ॑न॒न्दः ( ५ ) । मुष्कयो निर्हितः सर्पः । सृत्वेव कार्यस्य तृप्पाणि । दक्षि॑णानां प्रतिग्रहे, इति ।

मोदादयस्त्रयस्तारम्येनावस्थिताः सुखावान्तरविशेषाः । वातजन्यः सुख- विशेषो मोदः । दर्शनजन्यः प्रमोदः । भोगजन्य आनन्दः । तेषां सर्वेषां

भोज सपः समवाय हेतुर्मुष्कयोर्निहितः स्थापितः । दक्षिणानां प्रविग्रहे सवि कामस्य सृत्वेव कामितार्थं प्राप्येव तृप्याणि तृप्तो भवानि । अयमर्थ:- ऋत्विजां दक्षिणाकाले कन्याऽपि दीयते । अत एवाऽऽपस्तम्बधर्मेषु स्पर्थ - से - " दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् " इति । दैवे विवादे चिकीर्षिते सति यज्ञप्रयोगमध्य ऋत्विजे कन्यां समर्पयेत् । आश्वलायनोऽपि दक्षिणा- रूपायाः कन्याया अभिपर्शनं विधत्ते - " अभिमृशेदप्राणि कन्यां च इति । तस्माद्दक्षिणानां प्रतिग्रहे सति कन्यां प्राप्तस्य यादृशी तृप्तिस्तादृशी तृप्तिर्भवतीति ।

अथ सप्तदशमाह -

मन॑सश्चित्तमाकृ॑तिम् । वाचः सत्यमंशी-

। ।

महि । पशूनार रूपमन्नस्य । यशः श्रीः

श्रयतां मयि, इति । ।

यशः श्रीः

TR

1075

12

मनसः संबन्धि चित्तं विज्ञानमाकूर्ति संकल्पं वाचः संबन्धि सत्यवदनं

६८

५३८

श्रीमत्सायणाचार्यविरचितथाप्यसमेतम्

[२द्वितीयकाण्डे -

चाशीमहि प्राप्नुयाम । तथा पशूनां गवादीनां रूपमनेकविधं स्वरूपमन्नस्य संबन्धि यशः कीर्तिं चाशीमहि । मयि श्रीर्धनसमृद्धिः श्रयतो सेवताम् ।

अथाष्टदशीमाह-

यथाऽहमस्या अर्तृपः स्त्रियै पुर्मान् । यथा स्त्री तृप्य॑ति पुसि प्रिये प्रि॒या । एवं भग॑स्य तृप्याणि ( ६ ) । य॒ज्ञस्य॒ काम्य॑ः प्रि॒यः, इति ।

अस्यै स्त्रिया अस्यां विवाहेन लब्धायां स्त्रियां पुमानहं यथाऽतृपं येन प्रकारेण तृप्तोऽस्मि यथा च प्रिया स्त्री प्रिये पुंसि तृष्यत्येवमहं भगस्य तृप्याणि सौभाग्येन तृप्तो भवानि । कीदृशोऽहम् । यज्ञस्य काम्यो यतो हि स्वानुष्ठानाय मां कामयते । अत एव यज्ञस्याहं प्रियः ।

अथैकोनविंशीमाह–

/

ददामीत्य॒नवे॑दति । तथेति॑ वा॒युरा॑ह॒

तत् । हन्तेति सत्यं चन्द्रमः ।

आदित्यः सत्यमोमिति, इति ।

PRE

P

एतां कन्यामहं ददामीत्येवमग्निब्रूते । तत्तथाऽस्त्विति वायुरप्याह । चन्द्र- मास्तु तत्सत्यं हन्त ममायं हर्ष इत्याह । आदित्यः सत्यमोमित्यवश्यमङ्गी करोमीति ब्रूते ।

अथ विशमाह -

आपस्तत्सत्यमार्भरन् । यश यज्ञस्य दक्षि-

णाम् । असौ मे काम: समृध्यताम्, इति ।

8

66

यज्ञस्य दक्षिणां यज्ञसंबन्धिदक्षिणारूपं यशो यशसः कारणं तत्कन्यारूपं वस्त्वापः सत्यमाभरन्नन्देवता अवश्यमानयन् । तस्मा॑दसौ पुत्रोत्पादन- रूपो मे काम: समृध्यतां समृद्धो भवतु । प्रजापतिरित्यादिमन्त्रषट्कस्य कन्याप्रतिग्रहे विनियोगमाह बौधायनः – “ अथ यदि दक्षिणाभिः सह दत्ता स्यान्नात्र वरान्प्रहिणुयात्तां प्रतिगृह्णीयात्मजापतिः स्त्रियां यश इत्ये- ताभि: षद्भिरनुच्छन्दसम् " इति । आपस्तम्बमतानुसारिणस्तु वध्वोः शिरसि तण्डुलम क्षेपे विनियोगमाहुः ।प्रपा०४ अनु०९]

अथैकविंशीपाह

कृष्णयजुर्वेदीयं तैत्तिरीयनाह्मणम् ।

५३९

न हि स्पशमवि॑दन्नन्यम॒स्मात् । वैश्वानरात्पुर

ए॒तार॑म॒त्रेः (७)

७ ) । अथ॒ममन्थन्न॒मृ॒तम-

मूराः । वैश्वानरं क्षेत्रजित्यय देवाः इति ।

1

fkrip by

Pap

वैश्वानरनामकादस्मादग्नेरन्यं देवं रूपशं रक्षसां बाधकं पुर एतारं देवानां पुरतो गन्तारं न ह्यवेिदन्देवाः सर्वया नालभन्त । अथानन्तरममूरा अमूढा देवा: क्षेत्र जित्याय कर्मानुष्ठानाङ्ग क्षेत्रजयाय तन्मार्गजयाय वाऽमृतं केना- व्यतिरस्कृतमीं वैश्वानरमिमं वैश्वानराख्यमनिममन्थन्नरण्योर्मथितवन्त: !

अथ द्वाविंशीमाह—

-2215

येषा॑मिमे पूर्वे अर्म॑सि॒ आत॑न् । अपू॒पाः सन

विर्भूता पुरूणि । वैश्वा॑नर त्वया ते

नु॒ताः । पृथिवीम॒न्याम॒भित॑स्थ॒र्जना॑सः, इवि ।

शकि

येषां जनानां यजमानानामयूपा विमोहरहिता इमे वैश्वनरस्य मन्थिवारो हा इश्वरस्य मन्थिवारो देवाः पूर्वेऽर्मासः पूर्वभाविनो गन्तार आसन् । पुरूणि सद्म बहूनि यज्ञगृहाणि च येषां यजमानानां विभृतानि विशेषेण संपादितानि ते जनासो जना यज- माना हे वैश्वानर त्वया नुत्ताः प्रेरिताः सन्तोऽन्यां कांचिद्यज्ञयोग्यां पृथिवीमभितस्थुरभिगम्यावस्थिताः । एतच्चोभयं वैश्वानरदेवत्ये कर्मणि

द्रष्टव्यम् ।

अथ त्रयोविंशमाह -

पृथिवीं मातरं महीम् । अन्तरिक्षमुप॑

ब्रुवे । बृहतीमूतये दिव॑म् इति ।

इमां पृथिवीं महीं महतीं मातरं मातृसमानामहमुपवे । यथा माता पाल- यति तथा त्वं पालयेति ब्रुवे प्रार्थये । अन्तरिक्षमप्यवकाशदानाय प्रार्थये । बृहतीं मौढां दिवमप्युतये दृष्टिप्रदानेन रक्षणाय प्रार्थये

अथ चतुर्विंशीमाह

विश्वविभर्ति पृथिवीम् ( ८ ) । अन्तरिक्षं

५४०

श्रीमत्सायणाचार्यविरचित भाष्यसमेतम् - [२ द्वितीय काण्डे - विप॑प्रथे । दु॒हे यौबृ॑ह॒ती पर्यः, इति ।

इयं पृथिवी विश्वं सर्वं जगद्विभर्ति धारयति पोषयतेि च । अन्तरिक्षमध्य • वकाशप्रदानाय विपप्रथे विस्तीर्णमभूत् । बृहती द्यौः पयो दुहे जलं दोग्धि । एतच्च मन्त्रद्वयं लोकेष्टौ द्रष्टव्यम् । तथा चाऽऽश्वलायन आह— “लोकेष्टिः पृथिव्यन्तरिक्षं द्यौरिति देवताः पृथिवीं मातरम् " इति ।

अथ पञ्चविंशीमाह-

TR

न ता नशन्ति न दभाति तस्करः । नैना अमित्रो

व्याथरादधर्षति । देवाश्च याभिर्यजते ददति च ।

ज्योगित्ताभिः सचते गोपतिः सह इति ।

सह,

4

याभिर्गोभिर्देवानुद्दिश्य यजते च यागमपि करोति ददाति च गवां दान- मपि करोति ता गावो न नशन्ति नैव नाशं प्राप्नुवन्ति । तस्कर चोरोऽपि ता गा न दभाति न हिनस्ति । व्यथिर्व्यथाहेतुरमित्रः शत्रुरप्येना गा नाSS- दधपात नैव धृष्टो भवति ताडयितुं प्रगल्भो न भवति । ताभिर्गोभिः सह गोपतिर्गवां स्वामी ज्योगिच्चिरमेव सचते स्वर्गे समवेतो भवति ।

अथ षड्विंशीमाह-

inay S

न त अव रेणुककाटो अश्नुते । न सस्कृतत्रमु-

प॑यन्ति ता अभि । उरुगायमर्भयं तस्य ता अनुं ।

गावो मर्त्यैस्य विच॑रन्ति॒ यज्वनः ( ९ ), इतेि ।

FIF

रेणुककाटो रेणोर्भूधूलेः ककाट उत्थापकस्तीव्रगतियुक्त इत्यर्थः । अर्वा तादृशोऽश्वस्ता गा नाश्नुते न व्याप्नोति, अश्वादपि शीघ्रगतय इत्यर्थः । अत एव ता अभ्येतादृशीर्गा अभिलक्ष्य संस्कृतत्रं संस्कारेण युक्तं रक्षार्थं दण्डं नोपयन्ति गोपाळा हस्ते दण्डं न स्वी कुर्वन्ति । शक्त्याधिक्येनाश्वादपि शीघ्रं गच्छन्तीनां गवां ताडनार्थो दण्डो नापेक्षितः । यज्वनो यागशीलस्य तस्य मर्त्यस्य मनुष्यस्य वा गाव उरुगायं विस्तीर्णगतियोग्यं मयरहितं स्थानं प्राप्य विचरन्ति विस्रम्भेण चरन्ति । एतच्च मन्त्रद्वयं ब्रह्मण ऋषभमिति विहितस्य पशोरुपहोमार्थे गोसूक्तेऽन्तर्भूतम् । अत एव तत्र प्रतीकद्वय- माम्नातम् - " न ता नशन्ति न ता अर्वा " इति ।

प्रपा० ४ अनु०९]

कृष्णयजुर्वेदीयं तैत्तिरीय ब्राह्मणम् ।

अथ सप्तविंशीमाह–

रात्री व्यख्यदायती । पुरुत्रा

विश्वा अधिश्रियेऽधित, इति ।

देव्यंक्षभिः ।

५४१

पुरुत्रा पुरुषु बहुषु दिवसेष्वायती पुनः पुनरागच्छन्ती रात्री देवी राज्य- भिमानिनी देवताऽक्षभिः सर्वेषां प्राणिनां चक्षुर्भिर्व्यख्यद्विख्याताऽभूत् । अन्य- कारं ज्योत्स्नां वा दृष्ट्वा रात्रिरियमिति निश्चीयते । सा च देवी विश्वाः श्रियः सर्वाः संपदोऽधिष्ठायाधित धारितवती ।

अथाष्टाविंशीमाह–

उप ते गा इवाकरम् । वृणीष्व दुहित-

p

दिवः । रात्री स्तोमं न जिग्युषी, इति ।

propr

F

दिवो दुहितर्युलोकदेवतायाः पुत्रि हे रात्रि गा इव गोभिरुपलक्षितान्गो- महिषादीन्सर्वानपि पशूंस्त उपाकरं तच समीपे कृतवानस्मि । अतो वृणीष्व रक्षार्थं सर्वानपि गवादीन्स्वी कुरु । रात्रौ हि पशवः शाळासु रक्ष्यन्ते । इयं रात्री देवी स्तोमं नास्माभिः कृतं स्तोत्रमापे जिग्युषी जित- वती वशीकृतवती । एतच्च मन्त्रद्वयमरिष्टदर्शनेषु होमेषु विनियोक्तव्यम् | तथा च बद्दट्टचा आरण्यकाण्डे संहितोपनिषदि प्रत्यक्षाणि स्वप्नगवानि चारिष्टान्युपन्यस्यानन्तरमिदमामनन्ति “ स यद्येतेषां किंचित्पश्येत् । उपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रिसूक्तेन प्रत्यृचं हुत्वा " इति ।

अयैकोनत्रिंशमाह -

ि

देवीं वाचमजनयन्त देवाः । तां विश्वरूपाः पशवे

वदन्ति । सा नौ मन्द्रेषमूर्जं दुहना । धेनुर्वागस्मा-

नुप॒ सुष्टुतैतुं ( १ ० ), इति ।

(१०

देवाः सर्वे वाचं देवीमजनयन्त । तां वाचं विश्वरूपा द्विपाच्चतुष्पात्त- दवान्तरभेदेन बहुविधाः पशवः स्वस्वभाषारूपेण वदन्ति । सा बाग्रूपा घेनुर्नोऽस्पदर्थमिषमन्नमूर्जं क्षीरादिरसं दुहाना संपादयन्ती सुष्ठुताऽस्माभिः सुष्ठु वैदिकैः स्तोत्रैः स्तुता मन्द्रा हृष्टा सत्यस्मान्प्रत्यागच्छतु ।

ए-४

५४२

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - (२द्वितीयकाण्डे-

अथ त्रिंशीमाह-

=

यद्वाग्वद॑न्त्यविचेतनानि॑ । राष्ट्र देवानां निषसाद

म॒न्द्रा । चत॑स्र ऊर्जं दुदुहे पयासि । के स्विदस्याः

परमं जंगाम, इति ।

यद्वाण्या वाग्देवताऽविचेतनान्य चेतन सदृशान्मूकाम्याणिनो वदन्त्यभिव दनक्षमान्कुर्वती । देवानां सर्वेषां राष्ट्री राष्ट्रमदा मन्द्रा हृष्टा सती निषसादा रमदीये कर्मण्युपविष्टा । यस्या वाग्देव्याः प्रसादाच्चतस्रो दिग्देवता ऊर्ज क्षीरादिरसद्रव्यं पर्यासि जलानि च दुदुहे दुहन्ति संपादयन्ति । अस्था वाग्देव्याः परमं पदं मनुष्यः कस्विज्जगाम कुत्र वा माप्तवांस्तदीयस्थानं प्राप्तुं न कोऽपि क्षम इत्यर्थः । इदं च मन्त्रद्वयं “ बाचे बेहतम् " इति विहिते पशौ विनियोक्तव्यम् । अत एव तदीये स्तोत्रे प्रतीकद्वयमानातम् - " देवीं बाचमजनयन्त यद्वाग्वदन्ति " इति ।

अथैकत्रिंशमाह -

हम

DESIPS

गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी

1

सा चतु॑ष्पदी । अष्टाप॑दी नवपदी बभूवुष । सह-

सांक्षरा परमे व्योमन् इति ।

PF 105

परमे व्योम्नि ब्रह्मणि प्रतिष्ठिता गौरी गौरवर्णा वाग्देवी सृष्ट्युपक्रमे सलिलसदृशानि वर्णपदवाक्यानि तक्षती सृजन्ती मिमाय शब्दमकरोत् । कथम् । प्रथमं प्रणवात्मनैकपदी ब्रह्मणो मुखान्निर्गता । अनन्तरं व्याहृति- रूपेण सावित्रीरूपेण च द्विपदी । ततो वेदचतुष्टयरूपेण चतुष्पदी । ततो वेदाङ्गः षभिः पुराणधर्मशास्त्राभ्यां चाष्टापदी । ततो मीमांसान्यायसां- ख्ययोगपाश्चरात्रपाशुपतायुर्वेदधनुर्वेद गान्धर्वैर्तवपदी । ततोऽनन्तेर्वाक्यसंद में सहस्राक्षराऽनन्तविधा बभूवुषी संपन्ना ।

अथ द्वात्रिंशीमाह-

तस्यार्थ समुद्रा अघि विक्षरन्ति । तेन जीवन्ति

१ क. ख. सूते ।

6

TYP

शु

प्रपा • ४ अनु० ६ ।

कृष्णयजुर्वेदीय तैत्तिरथिब्राह्मणम् ।

प्रदिशश्चतस्रः ( ११ ) । ततः क्षरत्यक्षरम् । तद्वि-

श्वमुपजीवति, इति ।

५४३

तस्यां वाग्देवतायामधिश्रिताः समुद्राः समुद्रसमाना वेदा विक्षरन्ति विविधं प्रवर्तन्वे । तेन प्रवर्तनेन चतस्रः प्रदिशश्चतुर्विधाः प्राच्यादिदिगवस्थिताः प्राणिनो जीवन्ति वेदोक्तमनुष्ठायैहिकमामुष्मिकं च प्राप्नुवन्ति । ततो वेदा- देवाक्षरं प्रणवात्मकं प्रवर्तते । तदेतदक्षरं विश्वमुपजीवति सर्वे जनाः प्रणवा-

! नुष्ठानेन स्वापेक्षितं फलं प्राप्नुवन्ति । एतच्च मन्त्रद्वयं " वाचे वेहतम् " इत्यत्रैवोपहोमार्थं दृष्टव्यम् ।

अथ त्रयस्त्रिंशीमाह-

इन्द्रा सूरो जनयन्धिश्वकर्मा । मरुत्वा अस्तु गजान् । अस्प स्नुषा श्वशु॑रस्य॒ प्रसि॑-

। इति । ष्टिम् । सपत्ना वाचं मन॑सा उपसताम्,

इन्द्रा परमैश्वर्ययुक्तः सूरा सूर्यो विश्वकर्मा सर्वव्यापारयुक्तो विश्वं जन- यन् । मरुत्वान्मरुद्भिर्युक्तो गणवान्वसु रुद्रादित्यगणैः सहितः सजातवान्स - जाते। स्वेन समानजन्मभिः सर्वैः सहितञ्च सन्यजमानस्यानुग्राहकोsस्तु । ततश्चास्य यजमानस्य श्वशुरस्थानीयस्य सपत्नाः शत्रवः स्नुषा श्रुषावान • लीयमानाः सन्तः प्रशिष्टिं प्रशासनरूपां वाचं मनसोपासतां मनःपूर्व सेवता- (न्ता ) म् ।

अथ चतुस्त्रिंशमाह -

I

इन्द्रः सूरो अतरद्वजाति । स्नुषा स॒पत्नाः श्वशुं- रोऽयम॑स्तु । अव शत्रूंअवतु जाणः । अयं वाजं जयतु वार्जसातौ, इवि ।

इन्द्रः परमैश्वर्ययुक्तः सूरः सूर्यो रजांसि रञ्जकानि प्राणिजातान्यतरत्ती - र्णवान्वशी कृतवानित्यर्थः । तत्प्रसादाद्यजमानस्य सपत्नाः शत्रवः स्नुषाव- स्वाधीनाः सन्तु । अयं तु यजमानः श्वशुरोऽस्तु श्वशुरवत्स्वामी भवतु । । स्वामित्वादेवायं यजमानो नहुषाणोऽत्यन्तं हृष्यञ्शत्रूञ्जपतु । पुनरप्ययं यजमानो वाजसातौ स्वकीयेभ्योऽन्नदाने निमित्ते सति वाजं जयतु वैरिसं- बन्ध्यन्नं वशं करोतु । पते ऋचो स्तुपाश्वरीयायामिष्टो याज्यानुवाक्ये ।

५४४

श्रीमत्सायणाचार्यविरचित भाष्यसमेतम् [र द्वितीयकाण्डै-

अथ पञ्चत्रिंशमाह -

अ॒ग्निः क्षेत्रभृदनि॑भृष्ट॒मोज॑ः । सहस्रियों दीप्यताम- प्र॑यु॒च्छन् । विभ्राज॑मानः समिधान उग्रः । आs -

न्तरिक्षमरुहृदगन्याम् ( १२ ), इति ।

घारर्थन्पुरोडाशं बृह॒स्पति॑ जघन॑च्युतिमानन्दो भग॑स्य तृप्याण्यग्नेः पृथिवी यज्व॑न॒ एतु प्रदिशश्चतस्रो वाज॑सातौ चत्वारिं च ।

इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे द्वितीयाष्टके चतुर्थाध्याये

षष्ठोऽनुवाकः ॥ ६ ॥

अवमग्निः क्षत्रभृद्धलं धारयन्ननिभृष्टमोजः केनाप्यतिरस्कृतं बल स्मभ्यं प्रयच्छन्निति शेषः। सहस्रियो देवसहस्रेण संमितोऽप्रयुच्छन्प्रमादम कुर्वन्दीप्प- ताम् । विभ्राजमानो विशेषेण दीप्यमानः समिधानः समिद्भिर्युक्त उग्रस्तीत्र: सन्नन्तरिक्षमरुहदारोढुमर्हति । ततो द्यामगन्दिवं गच्छतु । अयं मन्त्र आग्नेये कर्मणि द्रष्टव्यः ।

इति श्रीमत्सायणाचार्यविरचिते माघवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीय- ब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥

सप्तमे प्रथमामृचमाह-

अथ चतुर्थप्रपाठके सप्तमोऽनुवाकः ।

वृषा॑ऽस्य॒श्शुयु॑ष॒ज्ञाय॑ गृह्यते । वृषा॒ऽय-

मुग्रो नृचक्षसे । दिव्यः कर्मण्यो हितो

बृहन्नाम | वृषभस्य या कुकुत,

इति ।

अंशुलतात्मकः सोमस्त्वं वृषाऽसि वीर्यवानाले । स त्वं वृषभाय श्रेष्ठाये - न्द्रायाभिषवार्थं गृह्यसे । अयमुपांशुसवनाख्य उग्रः कठिनो ग्रावा वृषा वीर्य • वान्भूत्वा नृचक्षसे नृणां द्रष्ट्रे तस्मा इन्द्राय कर्मण्योऽभिषवकर्मणि कुशलो हितोऽभिषवार्थमुपरे निहितः, स च दिव्यो द्योतनात्मको बृहच्छब्दस्त स्य पाषाणस्य नाम । अत एवान्यत्राऽऽन्नातः - “बृहन सि वृहदशावा " इति ।

प्रकाशसहिता ।

१७

परमाणु कारणत्ववेदपौरुषेयत्वेश्वरानुमानिकत्व जीवविभुत्वानि, सामान्यसम- वायविशेषाणां पदार्थत्वेन स्वीकारः, उपमानादेः पृथक्प्रमाणत्वकल्पनं, संख्यापरिमाणपृथक्त्वपरत्वापरत्वगुरुत्वद्रवत्वादीनां पृथग्गुणत्वकल्पनं, दि- शोऽपि द्रव्यत्वकल्पनमित्यादिसूत्र कारादिविरुद्ध प्रक्रिया नास्माभिः स्वी क्रियत इति न विरोधः ।

इति श्रीबाधूळ कुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां प्रत्यक्षनिरूपणं

नाम प्रथमोऽवतारः ॥ १ ॥

१८

यतीन्द्रमतदीपिका