00

॥ श्रीः ॥

॥ श्रीगोदारङ्गमन्नारदिव्यदम्पतिभ्यां नमः ॥
॥ श्रीमते रामानुजाय नमः ॥

अभिनन्दनम्

अभिनवव्याख्यालङ्कृतश्रीमद्यतीन्द्रमतदीपिकाप्रकाशनमवलोक्य प्रमुदितान्तरङ्गा अभिनन्दयामस्तावत्प्रकाशनमेतत् । श्रीमद्रामानुजमुनिप्रवर्तितं विशिष्टाद्वैतदर्शनमार्षव्याख्यानानुसारि विना मिथो विरोधेन सकलश्रुतिवाक्यानास्वरसंसिद्धमुख्यमर्थमुपपादयत् त्रय्यन्तवृद्धैस्समाद्रियमाणवेदान्तप्रस्थानेषु विशिष्टं स्थानमञ्चतीत्यपरोक्षमिदं नोपपादनान्तरमपेक्षते । विशिष्टाद्वैतदर्शनग्रन्थेषु प्रविविक्षुभिः प्रथममध्येतव्यमिदं प्रकरणं यतीन्द्रमतदीपिकासमाख्यातं विलसतीति चानुक्तिसिद्धम् । एतस्य चाभिनवामिमां व्याख्यां नाम्ना लघुवर्तिकां निर्माय श्रीस्वामिपादैर्महदुपकृतं श्रीवैष्णवसमाजस्य कृते । इयं च व्याख्या मूलवाक्यानां समन्वयं प्रतिपादयन्ती मूलग्रन्थगूढाशयाविष्करणप्रगल्भा लघुकायाऽपि गरीयसी विषयतः उपादेया वर्तते नितराम् । आशास्महे च मङ्गलानि सव्याख्यानैतद्ग्रन्थमधीत्यादितस्सञ्जातव्युत्पत्तयः श्रीभाष्याद्यध्ययनाधिकारिणो भवन्तो भूयासुस्तत्त्वजिज्ञासवस्तत्त्वज्ञानलक्षणामृतसल्लक्ष्मीभाजः क्रमेणेति ॥

श्रीरङ्गजीमन्दिर
वृन्दावन, ६-५-७६

श्रीगोवर्धनरङ्गाचार्यः

सङ्क्षिप्तजीवनपरिचयः

॥ श्रीमते रामानुजाय नमः ॥

शेषावतारश्रीभाष्यकारश्रीरामानुजस्वामी

तस्मै रामानुजार्याय
नमः परमयोगिने ।
यः श्रुतिस्मृतिसूत्राणाम्
अन्तर्ज्वरमशीशमत् ॥

॥ श्रीरस्तु ॥

  • श्रीमते रामानुजाय नमः *
    विद्याभूषणानां तिरुनांगूरप्रतिवादिभयङ्कराचार्यचरणानां व्याख्याकृतां सङ्क्षिप्तजीवनपरिचयः

श्रीवादिभीकृत् कुलवारिधीन्दुं कृष्णार्यसद्देशिकपुत्ररत्नम् ।
विद्वद्वरिष्ठं सुगुणाभिरामम् अण्णङ्गरार्यं गुरुवर्यमीडे ॥

श्रीयतीन्द्रमतदीपिकाव्याख्यातॄणां श्रीस्वामिपादानां जन्माभूत् दक्षिणभारते चोलमण्डले तिरुनांगूरित्यभिख्याते दिव्यदेशे सौरमानेन परिधावीनामकसंवत्सरे सिंहमासे कृष्णद्वितीयायां (सन १९७२ आगस्तमासे) ।

[[5]]

गर्भाष्टम एव श्रीमत्पितृचरणैरुभयवेदान्ताचार्यैर्विद्वद्वर्यैः शमदमादिनिखिलात्मगुणपरिपूर्णैः श्रीकृष्णमाचार्यगुरुभिरुपनीता पञ्चसंस्कारसंस्कृताश्चेमे श्रीमत्पितृचरणानां चरणसेवायामेव तत्परास्तत्सन्निधावेव दिव्यप्रबन्धरहस्यग्रन्थभगवद्विषयादिसाम्प्रदायिकग्रन्थानधीतवन्तः । श्रीभगवद्रामानुजाचार्यवतारधन्यायां श्रीभूतपुर्यां परमपवित्राया दिगन्तविश्रान्तकीर्तीनां विद्वत्प्रकाण्डानां श्रीमदासूरिमहा(श्रीमद्रामानुजाचार्या) स्वामिपादानां पादारविन्दयुगलपरिसरे द्वादशवर्षपर्यन्तं परिचर्या रता भूत्वा तेषामेवासीमकृपया न्यायव्याकरणमीमांसावेदान्तशास्त्रेषु पूर्णं पाण्डित्यं चाधिजग्मुरेते ॥ मद्रासयूनिवर्सिटीपरीक्षासु न्यायव्याकरणयोः प्रथमश्रेण्या समुत्तीर्णा इमे शिरोमणिबिरुदं प्राप्तवन्तः । दिगन्तविख्यातैः परमहंसपरिव्राजकाचार्यैः श्रीमन्नारायणजीयर् स्वामिपादैश्चोभयवेदान्ताचार्यपदवीदानेन संमानिताः । पण्डितमण्डलीतश्च विद्याभूषणत्वेन समादृता । श्रीभूतपुर्यामेव वर्षद्वयं यावदध्यापकपदं संस्कृतमहाविद्यालयेऽधिष्ठाय गुर्जरदेशे वडतालनगरे श्रीस्वामिनारायणसंस्कृतमहाविद्यालये च पञ्चविंशतिवर्षाणि यावत् प्रधानाचार्यं पदमलमकार्षुः । श्रीस्वामिनारायणसम्प्रदायस्थाश्च बहवः साधवो महात्मानः श्रीस्वामिपादानां सन्निधौ सामान्यविशेषशास्त्राण्यधीत्य न्यायवेदान्तादिषु तीर्थाचार्यपरीक्षासूत्तीर्णाः विलसन्तितराम् । अथ च श्रीरङ्गक्षेत्रे वर्षद्वयं यावत् श्रीभाष्यादिकमध्याप्यायोध्यायां श्रीरामानुजवेदान्तमहाविद्यालये प्रधानाचार्यपदे वर्षद्वयं स्थित्वा प्रथितानुभावास्सन्तः साम्प्रतवर्षपञ्चकत[[??]] श्रीमति वृन्दावने श्रीरङ्गमन्दिरे उभयवेदान्तादिसद्ग्रन्थप्रवचननिरता विराजन्ते ॥

[[6]]

श्रीस्वामिपादानां दक्षिणभारते बहवः शिष्या जिज्ञासवः सन्त्युपदेशकाङ्क्षिणः । अथापि औत्तराहाणां श्रीवैष्णवानां भाग्यभूम्ना साम्प्रतं वृन्दावने कृतनिवासा योग्यान् छात्रान् बहून् वेदान्तशास्त्रे पूर्णप्रज्ञान् विदधतः श्रीरङ्गमन्दिरोयं शिक्षाप्रचारविभागमुखेन श्रीसम्प्रदायतत्त्वार्थप्रसारणकार्ये व्यापृत्ता श्रीरङ्गलक्ष्मीसंस्कृतादर्शमहाविद्यालये वेदान्तशास्त्रसम्प्रदायविषयेषु मार्मिकप्रवचनद्वारा अनन्तसन्देशश्रीवैष्णसम्मेलनादिपत्रिकासु महत्त्वपूर्णलेखप्रकाशनद्वारा च श्रीसाम्प्रदायिकविषयेषु विशदप्रमितिमुपजनयन्तः श्रीवैष्णवमतप्रचारकार्ये सदा जागरूकाः विलसन्ति । श्रीस्वामिपादैः प्रणीतसिद्धित्रयस्य सिद्धाञ्जननामकव्याख्यानं विद्वद्गोष्ठया प्रथितं वर्तते ग्रन्थरत्नम् । तस्य च मुनर्मुद्रणकारणोयं वर्तते । अन्ये च कतिपये ग्रन्था श्रीस्वामिपादैः विरचिताः मुद्राप्य प्रचिकाशयिषिताः - ब्रह्मसूत्रादर्शः, श्रीविष्णुसहस्रनामविवरणं, श्रीगद्यत्रयविवरणं, तत्त्वमुक्ताकलापश्लोकानां विशदव्याख्या चेति । श्रीमद्रामानुजीयदशश्लोकी च श्रीस्वामिपादैर्विरचिता सङ्क्षिप्तहिन्दीविवरणेन सह प्रकाशिताऽस्ति अनन्तसन्देशे, तस्याः निजभाष्यसमाख्याता व्याख्या श्रीस्वामिपादैरेव विलिख्यते साम्प्रतं शास्त्रार्थविचारपूर्णा । सा चाचिरात् प्रचिकाशयिषिता ॥ दशश्लोकी चात्र समायोजिता । यतीन्द्रमतदीपिकाव्याख्यानप्रकाशनमद्य सञ्जातं भगवत्कृपया । वेदान्तादिशास्त्रेषु दासस्य यज्ज्ञानं वर्तते तच्छ्रीस्वामिपादानामेव निस्सीमकृपाफलम् । पञ्च विद्यार्थिनः श्रीरामानुजवेदान्ते आचार्यपरीक्षायां समुत्तीर्णाः प्रथमश्रेण्यां सुयोग्याधिकारिणः कृताः श्रीस्वामिपादैर्वर्षचतुष्टये ।

[[7]]

अन्येषां च वेदान्तशास्त्राध्ययनं प्रचलत्येवश्रीसन्निधौ । जीवनM चैतेषा शास्त्रविचारेणाध्यात्मचिन्तनेन साप्रदायिकातत्वव्याख्यानेन चौतप्रोत वर्तत इति महदिदं सौभाग्यम् । प्रार्थयामश्च श्रीगोदारङ्गमन्नार् भगवतश्चरणकमलसन्निधौ श्रीस्वामिपादानां दीर्घायुरारोग्यैश्वर्यसमृद्धिसाञ्जलिबन्धम् । यत श्रीसम्प्रदाये वा श्रीस्वामिद्वाराऽव्याहताऽनारतमनुवर्तेत ॥ इति ॥

संवत २०३३
वैशाखशुद्धपञ्चमी श्रीरामानुजजयन्ती
४-५-७६

श्रीस्वामिचरणान्तेवासी व्याकरणवेदान्ताचार्यभागवतरामानुजश्रीवैष्णवदासः श्रीरङ्गजीमन्दिरवृन्दावन

॥ श्रीरस्तु ॥

॥ स नो देवः शुभया स्मृत्या सयुनक्तु ॥
॥ श्रीमते रामानुजाय नमः ॥

नमश्चास्मद्गुरुपरम्पराभ्यः

प्रास्ताविकम्

प्रमाणं च प्रमेयं च प्रमातारश्च सात्त्विकाः ।
जयन्तु क्षपितारिष्टं सह सर्वत्र सर्वदा ॥

०१- व्याख्यानप्रस्तावः

श्रीमन्तो नानाशास्त्रपरिश्रमनिर्मलीकृतधीविलासा वेदान्तविद्यारसास्वादलोलुपा विद्वत्तलजा वेदान्ताध्यापकाध्येतृमहाभागास्सुहृन्मणयश्च ! विशिष्य श्रीमता मनःप्रमोदनाय साम्प्रतश्रीमद्यतीन्द्रमतदीपिकाया व्याख्यामेना प्रणीय नयाम प्राकाश्यम् । बहुशः प्रबन्धमेनमध्यापितवता मनस्यस्माकं समभूद्विचारः, अधीतसामान्यशास्त्रत्वे सत्यनधीतवेदान्तत्वलक्षणबालत्वयुजा वेदान्ततत्त्वमधिजिगमिष्णामद्वैतवेदान्तस्य वेदान्तपरिभाषावद्विशिष्टाद्वैतवेदान्तस्य प्रथमप्रवेशद्वारभूतस्य ग्रन्थस्यास्यातिस्फुटार्थकातिरिक्तसर्ववाक्यविवरणात्मा विषमस्थले तत्र तत्र समुचितपदसमन्वयपदार्थवर्णनमुखेन निगूढविवक्षितार्थाविष्करणचणा च व्याख्या काचन लघ्वी सरसा विधेयेति । सहजकृपामूलकभगवत्प्रेरणाविशेषेणैषविचारस्सम्प्रति समजनि मूर्तः । मासद्वयान्तराल एव लघुवर्तिकानाम्नी व्याख्या व्यरच्यत । रामानुजवेदान्तशास्त्रिपरीक्षादिषु पाठ्यग्रन्थोऽयं साम्प्रतं जातो दुर्लभः । अताम्यश्च बहवः छात्रा एतद्ग्रन्थालाभेन । आशास्महेतरा यत् तेषां कृते व्याख्यासहितोऽयं ग्रन्थो महान्तमुपकारमातनुयादिति । शास्त्रार्थविचारधारा तु ग्रन्थेऽस्मिन् ग्रन्थकारैर्विशिष्य न समादृता ।

[[9]]

यतो ह्येतत्सिद्धान्तपारिभाषिकपदार्थप्रतिपादनसिद्धान्ततत्वार्थाधिगमनं चाधिकृत्यैव ग्रन्थकृतामियं कृतिः । तत्पद्धतिमनुसरद्भिश्चास्माभिर्व्याख्याने मूले निरूपितानामर्थानामपेक्षितसयुक्तिकप्रमाणवचनोदाहरणे विशिष्यदत्ता दृष्टिः । प्रौढग्रन्थतः शास्त्रार्थसरणिस्तु ज्ञेया ।

०२- मूलग्रन्थपरिचयः

अयं च श्रीविशिष्टाद्वैतवेदान्तप्रकरणग्रन्थो भगवानिव श्रीवासुदेवदशावतारघटितमूर्तिको विराजते । भगवतो ह्यवतारा[[??]] रक्षणाय सता तद्द्रुहामभवायाभवन् सज्ज्ञानधर्मप्रवर्तनाय च । तथैवात्रत्या अप्यवतारा सत्पक्षरक्षणतत्प्रतिपक्षिपक्षनिरसनतत्त्वत्रयभक्तिप्रपत्तिलक्षणतत्त्वहितप्रवर्तनाधिकृता विलसन्ति । अत्र च मुख्यो विभागो द्विधा - प्रमाणपरिच्छेदः प्रमेयपरिच्छेदश्चेति । तत्राद्योऽवतारत्रयात्मकः क्रमशः प्रत्यक्षानुमानशब्दप्रमाणनिरूपणप्रवृत्तः । वेदवेदान्तार्थधर्मतत्त्वे ज्ञानसिद्धिं प्रेप्सता निरुक्तप्रमाणत्रयमेव सुष्ठु वेदितव्यमित्यनुशिष्टं मनुना -

प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मसिद्धिमभीप्सुना ॥

इति । धर्मसिद्धिः वेदार्थज्ञानसिद्धिः । त्रिविधमेव प्रमाणनिर्दिष्टकापिलैरायन्येषा त्रिष्वेवान्तर्भावमभिप्रेत्य

दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ (सा० का०) इति ।

ग्रन्थे चास्मिन् प्रमाणान्तराणां प्रत्यक्षादित्रिके यथायथमन्तर्भावो वर्णितः । यथा - प्रथमेऽवतारेऽनुपलब्धेः प्रमाणान्तरतानिरस्ता । उपमानार्थापत्त्योश्चान्तर्भावोनुमानादौ वर्णितो द्वितीयेऽवतारे । सम्भवैतिह्ययोरपि अनुमानशब्दयोरन्तर्भावोऽभिमतो ग्रन्थकर्तुः ।

०३- प्रथमावतारमुख्यविषयः -

ज्ञानानां स्वतः प्रामाण्यम् (प्रमात्तम्) इति वेदान्तिनः । प्रमाणानि ह्युत्सर्गतो यथावस्थितवस्तुग्रहणार्थमेव सङ्कल्पितानि । क्वचित् पुनर्दोषवशात्तेषां संशयः भ्रान्तिजनकत्वम् । अतः स्वतः प्रामाण्यज्ञानानां, परतश्चाप्रामाण्यमिति साधीयानयं पक्षः । मीमांसकसम्मतं चैतत् । श्रीशालिकनाथमिश्रेण प्रकरणपञ्चिकायास्तृतीयप्रकरणे नयवीथीनामके ‘यथार्थं सर्वविज्ञान’मिति गुरूणां (प्राभाकराणां) मतं निरूपितम् ॥ अत्र प्रत्यवतिष्ठन्ते तार्किकाः - परत एव प्रामाण्ये ज्ञानानाम्, अप्रामाण्यवत् ।

[[10]]

प्रयोगश्च भवति । यथा - प्रमा ज्ञानसामान्यकारणातिरिक्तकारणजन्या ज्ञानविशेषत्वात् अप्रमावत् । अप्रमा हि दोषजन्या । तथैव प्रमा गुणजन्या मन्तव्येति । तान् प्रति ब्रूमः - प्रयोगेऽत्र सिद्धसाधनदोषः । ज्ञानसामान्यहेत्वतिरिक्तदोषाभावप्रयोज्यत्वस्य प्रमात्वेऽस्माभिरप्युपगमात् । तादृशभावहेतुजन्यत्वं साध्यते चेत्, तर्ह्यप्रयोजकत्वहेतोः । अनुकूलतर्काभावात् । दोषाभावस्यैव प्रमात्वप्रयोजकत्वे लाघवमिति प्रतिकूलतर्कपराहतत्वाच्च भवत्तर्कस्येति । निर्विकल्पकस्यापि सविशेषविषयकत्वमिति प्रतितन्त्रार्थश्च प्रथमावतारे निरूपितः । तथा भ्रमस्थले सत्ख्यातिरिति च समर्थितः तत्र । द्रव्ये द्रव्यान्तरांशसद्भावः शास्त्रीयपञ्चीकरणप्रक्रियासिद्धः, प्रतिनिधिविधितदुपपादकन्यायसिद्धश्च । सदृशस्यैव प्रतिनिधित्वं युक्तम् । सादृश्यं च तदीयांशसद्भावतः ।

तदेव सदृशं तस्य यत्तद्द्रव्यैकदेशभाक्

इति न्यायात् । अभाषिषत च भगवन्तः श्रीभाष्यकृतः

सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् ।
सोमावयवसद्भावादिति न्यायविदो विदुः

इति । प्राभाकरैर्भ्रान्तिस्थलेऽख्यातिरुच्यते । विशिष्टविषयैकज्ञानाभाव इति यावत् । इदं रजतमितिग्रहणस्मरणयोर्यथार्थयोर्दोषाद्भेदाग्रह एव स्वरूपतो विषयतश्च रजतव्यवहारहेतुरिति तेषां वादः । तेषां मते भ्रान्तिस्थले रजतं पश्यामीत्यनुभवविरोधः । सिद्धान्त्यभिमते सत्ख्यातिवादे च निरुक्तानुभवस्य स्वरसत उपपत्तिः । पुरोवर्तिनि रजतांशस्य सत एव ग्रहणात् ।

प्रसङ्गादत्र वाद्यान्तरसम्मताः[[दा??]] ख्यातीः पर्यालोचयाम । योगाचारमते आत्मख्यातिः । विज्ञानमेवात्मा वासनादोषान्नानार्थाकारेण भासते इति । अत्र वदामः । अर्थभेदमन्तरा निराकारज्ञानवैचित्र्यं दुरुपपादम् । ज्ञाने स्वाकारसमर्पकत्वविषयत्वमिति हि सौगतानां परिभाषा । किं च वासनाऽपि न स्थिरा तैरुपगता । क्षणिकस्य पूर्वज्ञानस्यैव वासनारूपस्योत्तरज्ञानहेतुत्वे घटाकारज्ञानसन्ततौ वर्तमानायां पटाकारप्रतीतेरनुपपत्तिः । किञ्च ज्ञानस्यैवार्थाकारत्वे समूहालम्बने ‘इमे नीलपीते’ इत्यत्रैकस्यैव ज्ञानस्य विरुद्धाकारद्वयवत्त्वप्रसङ्गः । अतो ज्ञानज्ञेयज्ञात्रॄणां वास्तविको भेदाऽबाधितप्रतीतिस्सिद्धो[[??]] नापलपितुं शक्य इति । माध्यमिकानां मतेऽसत्ख्यातिः । अर्थवत् ज्ञानमप्यसदेव सवृत्याख्यदोषात्सदिव भिन्नमिव च भासत इति तदाशयः । एतन्मतमपि न समीचीनम् । असतो भानस्वीकारेऽलोकस्य नरशृङ्गादेरपि भानप्रसङ्गात् । सर्वशून्यत्वस्यासाधकप्रमाणाभावेन तैः साधयितुमशक्यत्वाच्च ।

[[11]]

सर्वं सर्वदा सर्वत्र सर्वथा नास्तीति निरुपाधिके निषेधे वदतो व्याघातः । वदतः स्वस्यैव सत्त्वात् । अत्रेदानीमिदं नास्तीति सोपाधिके निषेधे साध्यमाने च देशान्तरादौ वस्तुनः सद्भावः सिद्ध एवेति । अन्यथाख्यातिस्तार्किकाणां भाट्टानां च । तन्मतेऽपि सादृश्यादुपस्थितस्यैव रजतस्येदमिति पुरोवर्तिनि उपनीतमर्यादया भानस्वीकाराद्रजतं पश्यामीत्यनुभवविरोधः । मायावादिनां मतेऽनिर्वचनीयख्यातिः । तत्रेदं प्रतिवक्तव्यम् अनिर्वचनीयवस्त्वनिर्वचनीयत्वेन भासते आहोस्विन्निर्वचनीयत्वेन । नाद्यः कल्पः । तथा सति रजतादेर्व्यवहारस्यायोगात् । अन्त्ये च कल्पेऽन्यथाख्यातिरेवेति । किञ्च प्रतीतिबाधाभ्यां सदसत्त्वे एव कुतो न सिध्येताम् । विरोधादिति चेत्तुल्यं सदसद्विलक्षणत्वेऽपि । परस्परविरोधे हि न प्रकारान्तरस्थितिरिति न्यायात् । एवं वादान्तरेष्वसामञ्जस्यदर्शनात्सिद्धान्त्यभिमतः सत्ख्यातिवाद एव समादरणीय इति ग्रन्थकृदाशयोऽत्र व्यक्तः प्रतीयते ।

०४- द्वितीयावतारसारः-

द्वितीयेऽवतारेऽनुमानप्रमाणं निरूपितम् । प्रसङ्गाच्चासिद्धिविरोधानैकान्त्यबाधसत्प्रतिपक्षाः पञ्च हेत्वाभासाः (हेतुदोषाः) निरूपिताः । अत्यन्तातीन्द्रियस्याप्यर्थस्य साधकमनुमानं, केवलव्यतिरेकि च लिङ्गं तार्किकैरभ्युपगतम् । तदुभयविषये समीक्षा कृताऽत्रावतारे । अत्रापि किञ्चिद्ब्रूमः । पृथिवी इतरभिन्ना गन्धवत्त्वात् यन्नैवं तन्नैवं यथा जलादीति केवलव्यतिरेकि कथ्यते तार्किकैः । अत्रोच्यते । यथा पक्षमात्रवृत्तेरसाधारणस्य हेतोरसाधकत्वशब्दो नित्यः शब्दत्वादित्यादेः । एवं केवलव्यतिरेकिणोऽपि । सपक्षान्वयविरहात् । यदि पक्ष एव साध्यान्वयग्रह इष्यते । तर्ह्यसाधारणेऽपि तथा किं न स्यात् । अत एवासाधारणानैकान्तिके केवलव्यतिरेकिणोऽपि समावेशः स्थापितो न्यायपरिशुद्धौ । किञ्च केवलव्यतिरेकिणि अनुमानात् पूर्वं साध्यं क्वचित् प्रसिद्धं वा न वा । नेति चेत्साध्या प्रसिद्धिः । आद्ये कल्पे पक्षे चेत् सिद्धसाधनम् । पक्षभिन्ने चेत् तत्र हेतोः सत्त्वेऽन्वयित्वम् । असत्त्वे चासाधारण्यम् । ननु केवलव्यतिरेकिणोऽनङ्गीकारे लक्षणस्य व्यावर्तकत्वादि न स्यादिति चेन्न । अन्वयिविधयैव तत्सम्भवात् । यथा सा गौरिति व्यवहर्तव्या, अश्वादिभिन्ना वा सास्नावत्त्वात् यथा मदीया गौरिति । यथा वा द्रुते घृते पार्थिवत्वजलीयत्वसन्देहे इदं पार्थिवगन्धवत्त्वात् कुसुमादिवत् इति ।

[[12]]

दृष्टान्ते चेतरभेदव्यवहारौ लोकत एव सिद्धौ । सन्दिग्धस्थल एव हि न्यायप्रवृत्तिः । एकव्यक्तीश्वरलक्षणे कथम् उच्यते । तत्र शास्त्रत एवेश्वरस्येतरव्यावृत्त्यादिसिद्धेः कृत व्यतिरेकिणा । ईश्वरत्वेन शङ्कितेषु चानीश्वरेषु केषुचिदीश्वरलक्षणव्यतिरेकेणेश्वरभेदसाधनत्वन्वय्येवेति । अनुमानेनात्यन्तातीन्द्रियोऽशरीरः कर्ता न सिध्यति । सावयवेषु कार्येषु शरीरिकर्तृकत्वेन कार्यत्वस्य व्याप्तेर्घटादिषु दृष्टतया मह्यादौ सावयवे कार्येऽपि सिषाधयितकर्त्रशरीरत्वविरुद्धकर्तृशरीरित्वाक्षेपकत्वाद्विरुद्धत्वहेतोः । अभिमतमिदमीमांसकानामपि । उक्तं च मानमेयोदये नारायणीये भाट्टप्रकरणे बाधको हेतुर्विरुद्धो विशेषविरुद्ध इति द्विधा । साध्यविशेषस्य विपरीतविशेषेण व्याप्तो विशेषविरुद्धः । यथा क्षित्यादिकसकर्तृके घटवदित्यत्र साध्यस्य क्षित्यादिकर्तुरशरीरत्वं नाम विशेषोऽभिमतः । तस्य विपरीतेन शरीरित्वेन व्यप्त[[??]]घटादिषु कार्यत्वं दृष्टमित्यशरीरत्वस्य बाधकं भवतीति ॥ अतो नैकान्ततोऽनुमानेनात्यन्तातीन्द्रियार्थसाधनसम्भव इति । विषयोऽयं समासत उक्तोऽत्रावतारे । अत्रैव निरूपिते हेत्वाभासे च किञ्चिद्विवेचनं प्रकुर्मोऽपेक्षितम् । पक्षसत्वादिरूपपञ्चकोपेतो हि सद्धेतुः । हेतुभिन्नो हेतुवदाभासमानो हेत्वाभासो दुष्टहेतुः । रूपपञ्चकान्यतमराहित्यनिश्चितव्याप्तिपक्षधर्मत्वाभावक्त्व वा तल्लक्षणम् । स च पञ्चधा न्यायसूत्रे वर्णितः । न्यायपरिशुद्धौ च त एव परिष्कृत्य निरूपिताः श्रीमन्निगमान्तगुरुभिः । ‘असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः’ (न्यायतत्वे) इति श्रीमन्नाथमुनिभिस्त्रेधा निर्दिष्टाः कालात्यापदिष्टस्य पक्षभासत्व, प्रकरणसमस्य बाधेऽनैकान्त्येऽसाधारणेवान्तर्भावमभिप्रेत्य । भाट्टानामपि सेयं रीतिर्दृश्यते । यथोक्तमानमेयोदये ‘असिद्धोऽनैकान्तिको विरुद्धोऽसाधारणश्चेति तदाभासाः’ इति । असाधारणस्यानैकान्त्यान्तर्भावे तु यो हेत्वाभासा इति तत्रोक्तम् । यद्वा श्रीमनाथमुनिवचनप्रदर्शनार्थमिति युक्तम् । नैयायिकाभिमतस्यानुपसहारिनाम्नोऽनैकान्तिकभेदस्य तु असाधारण एवान्तर्भावो सिद्धान्त्यभिमतः । सर्वस्यैव पक्षत्वे सपक्षस्यैवाभावात् साध्यहेतुसहचारग्रहासम्भवात्पक्षमात्रवृत्तिहेतोरसाधारणत्वमित्यसाधारणलक्षणाक्रान्तत्वादनुपसहारिणो हेतोस्सर्वमनित्यप्रमेयत्वादित्यादौ ।

पक्षे साध्याभावरूपबाधनिश्चयस्थले तु जिज्ञासितसाध्यवत्त्वरूपपक्षतानिवृत्तेर्बाधस्य पक्षदोषत्वमेव सिद्धसाधनवदिति भाट्टा वदन्ति ।

[[13]]

तार्किकास्तु पक्षादिदोषाणामपि परम्परया व्यातिपक्षधर्मत्वासिद्धिरूपहेतुदोष एव पर्यवसानमामनन्ति । तन्मते साध्यसिद्धेस्त्वनुमितिप्रतिबन्धकत्वकामिनीजिज्ञासावत् स्वातन्त्र्येणैव । न तु तद्वत्ताबुद्धौ तदभावतदभावव्याप्यवत्तानिश्चयविधया । तदभाववत्तानिश्चयविधया तदभावव्याप्यवत्तानिश्चयविधयावाऽनुमितितत्करणव्याप्तिपक्षधर्मताज्ञानप्रतिबन्धकज्ञानविषया एव हेतोराभासाः दोषाः, इत्युररीकृतम् । अत एव सिद्धसाधनस्थलेन हेतोराभासत्वम् । बाधस्थले तु हेतोराभासत्वमिति तदाशयः । सिद्धान्तिना त्वयमाशयः सिद्धिस्थलेऽपि सिषाधयिषा बालादनुमित्युत्पत्तेर्न सिद्धसाधनस्थले नियमेन पक्षत्वासिद्धिः । बाधस्थले तु आहार्यपरोक्षानङ्गीकारात् सिषाधयिषयाऽप्यनुमित्युत्पत्त्युत्पत्त्यसम्भावात् नियमेन पक्षत्वासिद्धिरिति कालात्ययापदिष्टस्य बाधितस्य हेत्वाभासकोटौ घटना साधीयसीति । बाधस्य तदभाववत्तानिश्चयविधया, विरुद्धसत्प्रतिपक्षयोः तदभावव्याप्यवत्ता निश्चयविधयाऽनुमिति प्रतिबन्धकत्वम् । अनैकान्त्यज्ञानस्य तु व्याप्तिज्ञानविरोधित्वम् । आश्रयासिद्धिस्वरूपासिद्धिज्ञानयोस्तु पक्षधर्मताधीविरोधित्वम् । व्याप्यत्वासिद्धिस्थले चोपाधिना व्यभिचारानुमानेन हेतोर्व्याप्तिज्ञानप्रतिबन्ध इति हेत्वाभासेषु दोषज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धकत्वबोध्यम् ।

०५ - तृतीयावतारसारः-

तृतीयेऽवतारे वैदिकलौकिकभेदेन द्विविधशब्दप्रमाणं निरूपितसपरिकरम् । वेदानामपौरुषेयत्वनित्यत्वं च । ननु वर्णोत्पत्तिविनाशवादिना भवतां मते कथं वेदानां नित्यत्वादिसम्भवतीति चेत्, उच्यते । वैदिकरूपानुपूर्व्या पठ्यमानत्वमेव नित्यत्वम्, वेदानुपूर्व्याः पुरुषस्वातन्त्र्याधीनरचनत्वाभावादपौरुषेयत्वम् । तथा च श्रीभाष्ये ‘इदमेव च वेदस्यापौरुषेयत्वं नित्यत्वं च, यत् — पूर्वपूर्वोच्चारणक्रमजनितसंस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम् । तदस्मासु सर्वेश्वरेऽपि समानम् । इयांस्तु विशेष-संस्कारानपेक्षस्वयमेवानुसन्धत्ते, पुरुषोत्तमः’ इति (ब्र० मी० १ अ० ३ पादे देवताधिकरणे ।) श्रीपाश्चरात्रवैरवा- नसागमयोर्दिव्यसूरिपूर्वाचार्यप्रबन्धानां वेदादितुल्यप्रमाणतमत्वं चोपवर्णितम् । तथा सर्वचिदचिद्वाचिपदानां परमात्मपर्यन्तबोधनशक्तत्वं च व्युदयादि ।

[[14]]

०६ - चतुर्थावतारसारः -

चतुर्थावतारतः प्रमेयपरिच्छेदो दशमावतारं यावत् । स च क्रमेण प्रकृतिकालनित्यविभूतिधर्मभूतज्ञानजीवेश्वराद्रव्यनिरूपकः । तत्र चतुर्थेऽवतारे प्रकृतिप्राकृतात्मकचतुर्विंशतितत्त्वनिरूपणं कृतम् । प्राकृतपञ्चभूतारब्धानि च चतुर्दशभुवनानि । तार्किकैस्तु पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नव द्रव्याण्युपगतानि । तत्र दिग्वर्जं तानि स्वीकृतान्यस्माभिः । दिशस्तूपाधिविशिष्टाकाशरूपत्वान्न पृथक् द्रव्यत्वं मतम् । भाट्टास्तु उक्तैर्नवभिः सह तमश्शब्दावपि[[??]] द्रव्यकोटौ निवेशितवन्तः । तत्र तमसः पृथिव्यामन्तर्भावो ग्रन्थकारैरेव वर्णितः । शब्दस्तु रूपादिवदद्रव्यगुणविशेष एव शास्त्रसिद्धः । यत्तु शब्दस्य द्रव्यत्वे साक्षादिन्द्रियसनिकर्षग्राह्यत्वं घटादेरिव लिङ्गमुक्तम् । तदसिद्धम् । शब्दस्य स्वाश्रयवाय्वाद्यवयवद्वारैव सन्निकर्षेण श्रोत्रग्राह्यत्वोपगमादस्माभिः । चतुर्विंशतिः प्रकृतिप्राकृतात्मकानि तत्त्वानि श्रुत्यन्तपुराणप्रसिद्धानि साङ्ख्यविद्भिरादृतानि चात्र निरूपितानि । परवादिभिरेतदुपेक्षणे कारणं न विद्मः । जीवात्मा च पञ्चविंशकः श्रुतिस्मृतिसिद्धः । ‘त षड्विंशमित्याहुः सप्तविंशमथापरे’ (मान्त्रिकोप०) इति श्रुतौ परमात्मनः षड्विंशत्वं सप्तविंशत्वं वाऽऽम्नातं कालस्य पृथग्गणनागणननिषन्धनम्[[??]] । धर्मभूतज्ञानस्यात्मप्रकारत्वेन तदन्तर्भूतत्वनित्यविभूतेश्च श्रीवैकुण्ठनाथपरवासुदेवपरमात्मान्तर्भूतत्वं चाभिप्रेत्यास्माकं सप्तविंशतितत्त्ववादः प्रवृत्तः । शैवास्तु षट्त्रिंशत्तत्त्ववादिनः । तानि च तत्त्वानि परतत्वं पतिः (पशुपतिः) शुद्धसत्त्वानि पञ्च-शिवतत्त्व, शक्तितत्त्व, सदाशिवतत्त्वम्, ईश्वरतत्त्वं विद्यातत्त्वमिति, माया, मायाकार्याणि प्रधानादिपृथिव्यन्तानि चतुर्विंशतिः, पुंसो, ज्ञकर्तृत्वार्थानि पञ्चतत्त्वानि कालो, नियतिः, कला, विद्या, राग इति मायाजनितानि, इति षट्त्रिंशत् शैवतन्त्रोक्तानि । तत्र शुद्धसत्त्वानां पञ्चानां पतिस्वरूपानन्यत्वं तैरेव वर्णितम् । विद्यारागयोश्च जीवधर्मज्ञानेऽनन्तर्भावो बोध्यः । कालस्य तु न मायाकार्थत्वम्[[??]] । किन्तु पृथक् द्रव्यत्वमेव शास्त्रतः सिद्धम् । नियतेस्तत्तद्वस्तुप्रतिनियतशक्त्यनतिरिक्तत्वं, काला च प्रकृत्यवस्थाविशेष एवाक्षराख्यो नातिरिक्त इति तद्वादनिरासा[[??]] न्यायसिद्धान्तेऽस्तिकृतः ।

[[15]]

०७ - पञ्चमावतारसारः -

पञ्चमावतारे कालतत्त्वनिरूपणम् । तस्य प्राकृतपरिणामहेतुत्वविभुत्वक्षणादिपरिणामित्वमीश्वरीयलीलोपकरणत्वं च वर्णितम् ।

०८ - षष्ठावतारसारः -

षष्ठेऽवतारे नित्यविभूतिवर्णनम् । सा चा त्रिगुणा विशुद्धसत्त्वा ज्ञानानन्दस्वरूपा दिव्यमन्दिरादिविविधविचित्रानन्तदिव्यपरिणामा, तत्रत्यश्च भगवद्दिव्यमङ्गलविग्रहोऽस्त्रभूषणैः सर्वतत्त्वधारकः शुभाश्रयः मुक्तप्राप्यो मुक्तभोग्यश्चेति न्यरूपि ।

०९ - सप्तमवतारसारः -

सप्तमेऽवतारे धर्मभूतज्ञाननिरूपणम् । ज्ञानस्यात्मगुणत्वं द्रव्यत्वं स्वाश्रयाय स्वयंप्रकाशत्वञ्च विषयग्रहणकाले समनुवर्णितम् । तथा ज्ञानविशेषयोः भक्तिप्रपत्योश्च मोक्षप्रयोजकयोः स्वरूपविवेचनं कृतम् ।

१० - अष्टमावतारसारः -

अष्टमेऽवतारे बद्धमुक्तनित्यभेदेन त्रैविध्यं जीवात्मना निरूपितम् । मुक्तभोगप्रकारश्च विस्तरतो वर्णितः ।

११ - नवमावतारसारः -

नवमेऽवतारे ईश्वरस्य सकलजगत्कारणत्वादिना परब्रह्मत्वं, श्रीमत्वं नारायणत्वं, सगुणत्वं, साकारत्वं, परत्वादिपञ्चकं च वर्षितम् ।

१२ - दशमावतारसारः -

दशमेऽवतारे सत्वरजस्तमः शब्दादिपञ्चकं संयोगशक्तिभेदेन दशधाऽद्रव्यं निरूप्य तार्किकाभिमतानां गुणान्तराणां यथायथं संयोगादावन्तर्भावो निरूपितः । कर्माऽप्येकादशमद्रव्यमिति पक्षश्चास्ति । उपसंहारे च समस्तचिदचिद्विशिष्टेऽद्वितीये परब्रह्मणि श्रीनिवास एव सकलवेदान्ततात्पर्यमित्युपवर्ण्य, भगवता बादरायणेन च ब्रह्ममीमांसाया विशिष्टाद्वैतब्रह्मनिरूपणमेव प्रतिज्ञाय तस्यैवाबाधितसकलजगदेककारणत्वं प्रथमद्विके व्यवस्थाप्य द्वितीयद्विकेन च तस्यैव मुमुक्षूपास्यत्वं मुक्तप्राप्यत्वे निर्णीय विशिष्टाद्वैतसिद्धान्तः स्थापित इत्यचकथत् ग्रन्थकारो ग्रन्थेऽस्मिन्नुपसंहारे । एवं विषयसङ्ग्रहः कृतोऽध्ययनप्रवृत्तानां बुद्धिसमाधानार्थं, प्रतिपत्तिसौकर्यार्थं च ।

[[16]]

१३ - श्रीयतीन्द्रमतदीपिकाग्रन्थकर्तुः परिचयः -

यतीन्द्रमतदीपिकाकाराणां श्रीश्रीनिवासाचार्यस्वामिनां जन्मदेशकालावधिकृत्य किञ्चिद्विज्ञापयामः । ‘इति श्रीमद्वाधूलकुलतिलके’त्यादिग्रन्थान्तिमवाक्यानुसन्धानेन श्रीवेङ्कटाद्रिपादस्थितश्रीपद(तिरुपति)क्षेत्रनिवासिश्रीगोविन्दाचार्यस्वामिना सत्पुत्रा एते ग्रन्थकाराः पञ्चविजयचण्डमारुतादिप्रचण्डप्रबन्धप्रबन्धृश्रीमन्महाचार्यापराभिधानवाधूलश्रीरामानुजाचार्यस्वामिपादानां साक्षादन्तेवासिन इति स्फुटमवगम्यते । श्रीमन्महाचार्याणां चावतारः रवैस्तवषोडशशताब्द्या दिनाङ्के (१-२-१५४३) तिरोभावश्च (३-१०-१६०७) दिनाङ्के । अतस्साक्षात्तच्छिष्याणां प्रकृतग्रन्थकृतामपि कालभैरवैस्तव षोडशशताब्दीपरभागः सप्तदशशताब्दीपूर्वार्धं चेति निर्णीयते ।

१४ - मातृकाद्वयम् -

एतद्ग्रन्थमुद्रणावसरे च महामहोपाध्यायैः पद्मभूषणैः श्रीकाञ्चीप्रतिवादिभयङ्करश्रीमदण्णङ्गराचार्यस्वामिपादैर्मुद्रितं मूलमात्रपुस्तकमेकम् । पुण्यपत्तन(पुना)मुद्रितप्रकाशव्याख्यासहितमूलपुस्तकमेकं चेति पुस्तकद्वयमवलम्ब्य मुद्रापितोऽयं ग्रन्थोऽस्माभिः । प्रायश्च विशुद्धत्वात् परिष्कृतत्वाच्च श्रीकाञ्चीमुद्रितमूलकोशानुसारेणैव मूलपाठोऽत्र समावेशितः । तत्र तत्र पुनानगरमुद्रितपाठभेदश्च () एतच्चिह्नितकोष्टकान्ते प्रदर्शितः । अस्मदीयव्याख्यासहितस्यैतद्ग्रन्थस्य मुद्रापणसमये च संशोधनादौ अस्मत्तोऽधिगतसद्विद्येन श्रीमधुसूदनाचार्येण व्याकरणवेदान्ताचार्येणास्मदन्तेवासिना श्रीभागवताचार्येण च यथोचितं साहाय्यकमाचरितमिति तावेतौ शुभाशीर्भिरभिवर्धयामः । दत्तेप्यवधानेऽशुद्धयः काश्चन समापतिता अवर्जनीयाः । ताश्च विशोधनीयाः प्राज्ञैरित्यभ्यर्थयामः ।

१५ - कृतज्ञताप्रकाशनम् -

एतद्ग्रन्थप्रकाशने महदार्थिकं साहाय्यमारचितवतां महता विषये सधन्यवादार्पणं कृतज्ञतां प्रकाशयन्त आत्मानमनृणीचिकीर्षामः ।

[[17]]

श्री० उ० वे० औत्तराहजगद्गुरुअयोध्यास्थश्रीकोसलेशसदनाध्यक्षश्रीरामनारायणत्रिदण्डिश्रीरामानुजजीयरस्वामिभिः रु० ५०१) एकाधिकपञ्चशतमुद्रा उपहारीकृता । श्री० उ० वे० वृन्दावनस्थश्रीहरिदेवमन्दिराध्यक्षैः श्रीत्रिदण्डिदेवनारायणरामानुजजीयरस्वामिभिश्च रु० २५१) एकपञ्चाशदधिकशतद्वयसमर्पितम् । बम्बईस्थसोमाणीकुलाग्रगण्यैर्भगवद्भागवताचार्यसेवापरायणैः श्रीसम्प्रदायपरिपोषणबद्धश्रद्धैः श्रीरामदयालसोमाणीमहाभागैश्च रु० ५०१) रूप्यकाणां सेवा कृता । महात्मना श्रीगोविन्दस्वामिना श्रीवैष्णवदासेन च ५१) मुद्राः समर्पिताः । एतेभ्यो महाशयेभ्यो धन्यवादसमर्पणपूर्वकं मङ्गलान्याशास्महे तराम् । श्रीमदनन्तसन्देशसम्पादकैः श्रीकेशवदेवशास्त्रिभिः स्वप्रचालितश्रीरङ्गनाथमुद्रणालये यथासमयं मुद्रापितोऽयं ग्रन्थः प्रेक्षकलोचनातिथीकृत इति तेभ्योऽपि महोदयेभ्यः मङ्गलान्याशास्महेतराम् ।

१६ - या काचन सेवा -

श्रीसम्प्रदायीयसिद्धान्ततत्त्वमधिजिगमिषूणामधिकारिणा प्रथमतोऽभ्यसनीयस्य प्रबन्धस्यास्य यतीन्द्रमतदीपिकानाम्नो लघुवर्तिकानाम्नी व्याख्या श्रीसम्प्रदायस्य सेवारूपिणी विरचिताऽद्यास्माभिः भगवद्भागवताचार्यकृपा बलमवलम्ब्य । आशास्महे चानयाऽकिञ्चनजननिर्वर्तितया यया कयाचन सेवया भगवान् श्रियः पतिः सहपूर्वाचार्यैः प्रसन्नो भूयादिति । अभिनन्दितं चैतत्प्रकाशनश्रीगोवर्धनस्वामिप्रभृतिभिर्महनीयैरिति श्रीः ॥

श्रीरङ्गजीमन्दिर-पोस्ट-वृन्दावन
जिला-मथुरा (उ०प्र०)

श्रीवैष्णवदासः
विद्याभूषण तिरुनागूर
प्र० भ० अण्णङ्गराचार्यः
४-५-७६