१. एवं द्रव्यनिरूपणानन्तरं क्रमप्राप्तम् अद्रव्यं निरूप्यते । संयोगरहितम् अद्रव्यम् । तत् अद्रव्यं च सत्त्वरजस्तमांसि शब्दस्पर्शरूपरसगन्धाः संयोगः शक्तिरिति दशप्रकारमेव ।
२. तत्र प्रकाशसुखलाघवादिनिदानमतीन्द्रियं शक्त्याद्यतिरिक्तम् अद्रव्यं सत्त्वम्। तत् द्विविधम् – शुद्धसत्त्वम् मिश्रसत्त्वं चेति । रजस्तमशून्यद्रव्यवर्ति सत्त्वं शुद्धसत्त्वम् । तन्नित्यविभूतौ उपचारात् तत्प्रवर्तकेश्वरे च । रजस्तमः- सहवर्ति सत्त्वम् मिश्रसत्त्वम् । तत् त्रिगुणे तत्सम्बन्धिनि जीवे च उपचारात् इति ज्ञेयम् ।
३. लोभप्रवृत्त्यादिनिदानमतीन्द्रियं शक्त्याद्यतिरिक्तम् अद्रव्यं रजः ।
४. प्रमादमोहादिनिमित्तमतीन्द्रियं शक्त्याद्यतिरिक्तम् अद्रव्यं तमः ।
५. त्रीण्यपि एतानि यावत्प्रकृतिव्याप्तानि, प्रकृतिवश्यपुरुषसम्बद्धानि, अनित्यानि, नित्यसन्तानानि, प्रलयदशायां समानि, सृष्ट्यादौ विषमाणि, सृष्टिस्थितिसंहारोप-युक्तानि, ईश्वरसङ्कल्पादिसहकारिभेदात् परस्पराभिभवोद्भवकराणि इत्येतानि साधारणानि ।
६. सत्त्वगुणस्तु संयग्ज्ञानसुखादिहेतुः मोक्षप्रदश्च । रजोगुणस्तु रागाद्यात्मकः कर्मसङ्गदुःखादिहेतुः स्वर्गाद्यामुष्मिकप्रदः । तमोगुणस्तु अज्ञानरूप आलस्यादि-हेतुर्नरकप्रदश्च । अतः सत्त्वादयो गुणा न द्रव्यरूपाः ।
७. अस्मदादिश्रोत्रग्राह्यः पञ्चभूतवर्ती शब्दः । स च द्विविधः – वर्णात्मकः अवर्णा-त्मकश्चेति । अकचटतपयादिपञ्चाशदक्षरात्मको वर्णात्मकः । स देवमनुष्या-दीनां ताल्वादिव्यङ्गयः। भेर्यादिजन्यः अवर्णात्मकः । एवम्भूतः शब्दः श्रोत्रेन्द्रि- येण गृह्यते । श्रोत्रेन्द्रियगमनाद्वा व्यञ्जकवाय्वागमनात् वा शब्दग्रहः ।
८. ननु श्रुत्या शब्दस्य द्रव्यत्वम् प्रतीयते । अद्रव्यत्वं कथम् ? इति चेत्, न। अकारादेः प्रणवोत्पादकत्वं वाच्यद्वारा सम्भवतीति परिहारात् अद्रव्यत्वमुप-पद्यते। इति शब्दः ।
९. अस्मदादिस्पर्शनेन्द्रियग्राह्यविजातीयव्यावृत्तम् अद्रव्यं स्पर्शः । स च त्रिविधः – शीतोष्णानुभयात्मक भेदात् । अप्सु शीतस्पर्शः । तेजसि उष्णस्पर्शः । क्षिति-पवनयोः अनुष्णाशीतस्पर्शः । स च पुनर्द्विविधः – पाकजः अपाकजश्चेति । पृथिव्याम् पूर्वः, इतरेषु त्रिषु इतरः । तत्र अमृतगरलतूलोपलगोब्राह्मणचण्डालादि-स्पर्शविशेषाः पाकजभेदाः । इति स्पर्शः ।
१०. अस्मदादिचक्षुरिन्द्रियैकग्राह्यविजातीयव्यावृत्तम् अद्रव्यं रूपम्।
तच्चतुर्धा – श्वेतरक्तपीतकृष्णभेदात् । तत्र सलिलकलधौतशङ्खशुक्तिशशाङ्कादीनां रूप-विशेषाः श्वेतभेदाः । हुतवहजपादाडिमबन्धुजीवविद्रुमपद्मरागादीनां तु रूपविशेषाः रक्तभेदाः । काञ्चनहरितालहरिद्रादीनां रूपविशेषाः पीतभेदाः । मरकतमधुकर-जलधरतिमिरतमालदूर्वादीनां रूपविशेषाः कृष्णभेदाः । पीतमपि रक्तावान्तर-भेदं केचिदिच्छन्ति, श्रुत्यनुसारात् ।
प्रकारान्तरेण रूपं द्विविधम् – भास्वरा-भास्वरभेदात् । तेजोगतम् भास्वरम् । क्षितिसलिलगतम् अभास्वरम् । एवं चत्वार्येव रूपाणि । तेन चित्रं नाम पञ्चमं रूपमिति मतनिरासः । अत एव चित्रगन्धस्पर्शरसानामपि निरासः । इति रूपम् ।
११. अस्मदादिजिह्वैकग्राह्यविजातीयेतरो रसः ।
स षोढामधुराम्ललवणतिक्त- कटुकषायभेदात् ।
तत्र इक्षुक्षीरगुडादिरसा मधुरभेदाः ।
चूतचिञ्चामलकादिरसा आम्लाः ।
सैन्धवोषरविकारादिरसा लवणभेदाः ।
किम्पाकनिम्बादिरसाः तिक्तभेदाः ।
शुण्ठीमरीचीसर्षपादिरसाः कटुभेदाः ।
हरीतकीविभीतकचूताङ्कुरादिरसाः कषायभेदाः ।
इति रसः ।
१२. अस्मदादिघ्राणग्राह्य विजातीयेतरः अद्रव्यविशेषो गन्धः ।
स द्विविधः – सुरभिः असुरभिश्चेति । पाटीरमृगमदघुसृणचम्पकादिगन्धाः सुरभिभेदाः । तदन्येषु असुरभिगन्धाः । अयं च गन्धः पृथिव्येकवर्ती पाकभेदात् भिन्नः पवनसलिलादिषु गन्धोपलब्धिः पार्थिवसंसर्गात् अयो दहतीतिवत् औपचारिकी ।
१३. पञ्चीकरणप्रक्रियया सर्वभूतेषु सर्वगुणानां विद्यमानत्वेऽपि प्राधान्याभि-प्रायेण उक्तमिति न विरोधः । पाकात् गुणान्तरोत्पत्तिः स्वाश्रये। स्वाश्रयनाशाभावादेव उपपत्तेः पीलुपाकवादिमतनिरासः । इति गन्धः ।
१४. संयुक्तप्रत्ययनिमित्तं संयोगः । स च सामान्यगुणः षड्द्रव्यवृत्तिः अस्य च स्वाभावसादेश्यम् उपलभ्यमानम् अंशभेदप्रयुक्ततया न विरोधावहम् ।
स कार्याकार्यभेदात् द्विविधः ।
पूर्वः परिमितानाम् उभयप्रेरणात् - यथा मेषयोर्मल्ल-योर्वा ।
क्वचित् अन्यतरप्रेरणात् - यथा स्थाणुश्येनयोः संयोगः ।
केचित् संयोगजसंयोगमपि वदन्ति -
हस्तपुस्तकसंयोगात् कायपुस्तकसंयोग इति ।
तन्न - हस्तसंयोगादेव कायसंयोगस्य जातत्वात् ।
एतेन विभागज-विभागो निराकृतः ।
विभागोऽपि संयोगाभाव एव, न पृथग्गुणः ।
१५. अकार्यसंयोगस्तु विभुद्रव्ययोः ।
अजद्रव्यसंयोगः श्रुत्या अङ्गीक्रियते ।
अनुमानादपि अजद्रव्यसंयोगसिद्धिः ।
यथा – “विभुद्रव्यं विभुद्रव्यसंयोगवत्, द्रव्यत्वात्, घटवत्” ।
“विभुद्रव्यम् ईश्वरसंयुक्तम्, द्रव्यत्वात्, घटवत्” ।
“ईश्वर, कालादिसंयुक्तः, द्रव्यत्वात्, घटवत्”
इत्यादिभिः विभुसंयोगसिद्धिः ।
१६. अथ शक्तिः।
सर्वकारणानां कारणत्वनिर्वाहकः कश्चित् अद्रव्यविशेषः शक्तिः। तर्कागमाभ्यां तत्सिद्धेः । प्रतिबन्धकमणिमन्त्रादिसन्निधौ स्वरूपसहकारिवैक-ल्याभावेऽपि यदुपरोधात् दहनो न दहति सा ह्यतीन्द्रिया शक्तिः । अयस्कान्तादिषु तत्प्रसिद्धिः । सा शक्तिः षड्द्रव्यवृत्तिः । भगवन्निष्ठत्वम् पुराणरत्नादिषु प्रसिद्धम्। एवं सर्वत्रापि शक्तिनामकधर्मविशेषसिद्धिः ।
१७. ननु चतुर्विंशतिप्रकारा गुणा इत्युक्तत्वात् कथं दशैवेति निर्दिश्यते ? इति चेत्, उच्यते ।
जीवात्मविशेषगुणानाम् बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां षण्णां ज्ञानविततिरूपत्वेन ज्ञानान्तर्भावस्य उक्तत्वात् । धर्माधर्मयोरपि ईश्वरप्रीत्यप्रीति-रूपत्वेन ईश्वरज्ञाने अन्तर्भावात् । भावनाख्यसंस्कारस्य ज्ञानविशेषरूपत्वात् । वेगोत्पादकहेतोरेत वेगाख्यसंस्कारोपपत्तेः । संयोगमादाय स्थितिस्थापकस्यापि सम्भवात् । शब्दस्पर्शरूपरसगन्धानाम् पञ्चानाम् प्रत्यक्षसिद्धत्वेन अङ्गीकारात्। विभागपृथक्त्वयोरपि संयोगाभावमादाय उपपत्तेः । परत्वापरत्वयोः देशकाल-संयोगविशेषमादाय उपपत्तेः । सङ्ख्यापरिमाणद्रवत्वस्नेहानां तत्तद्द्रव्यस्व-रूपमादाय उपपत्तेः । गुरुत्वस्य शक्त्यन्तर्भावस्य वक्तुमुचितत्वाच्च दशैवेति सुष्ठूक्तम् ।
१८. सत्त्वरजस्तमांसि प्रकृतिगुणाः तत्सम्बन्धिजीवगुणाश्च । “सत्त्वरूपं ज्ञानम्”, “सात्विकः कालः” इत्यादिप्रतीतिः उपाधिवशात् औपचारिकी । शब्दादयः पञ्च प्रकृतिकार्यपञ्चमहाभूतगुणत्वेन प्रसिद्धाः । शुद्धसत्त्वं तु त्रिपाद्विभूत्यां तत्प्रवर्तकेश्वरे च । संयोगशक्तिरूपौ गुणौषड्द्रव्यसाधारणौ इति विवेकः । इति अद्रव्यं निरूपितम् ।
१९. एवं द्रमिडभाष्य – न्यायतत्त्व – सिद्धित्रय – श्रीभाष्य – दीप -सार- वेदार्थ सङ्ग्रह – भाष्यविवरण – सङ्गतिमाला – षडर्थसन्क्षेप – श्रुतप्रकाशिका – तत्त्व- रत्नाकर – प्रज्ञापरित्राण – प्रमेयसङ्ग्रह – न्यायकुलिश – न्यायसुदर्शन – मानया-थात्म्यनिर्णय – न्यायसार – तत्त्वदीप – तत्त्वनिर्णय – तत्वमुक्ताकलाप – सर्वार्थ- सिद्धि – न्यायपरिशुद्धि – न्यायसिद्धाञ्जन – परमतभङ्ग – तत्त्वत्रयचुलुक – तत्त्व-त्रयनिरूपण – तत्त्वत्रय – चण्डमारुत-वेदान्तविजय –पाराशर्यविजयादिपूर्वाचार्य- प्रबन्धानुसारेण ज्ञातव्यार्थान् सङ्गृह्य बालबोधार्थं यतीन्द्रमतदीपिकाख्य- शारीरकपरिभाषायाम् अस्या । एते अर्थाः प्रतिपादिताः ।
२०. अध्यात्मशास्त्राणां तत्त्वहितपुरुषार्थप्रतिपादकत्वात् तत्सारे अस्मिन्नपि प्रकृतिजीवेश्वरपरिच्छेदैः तत्त्वस्य निरूपितत्वात्, बुद्धिपरिच्छेदे उपायस्य निरूप-णात्, नित्यविभूतिपरिच्छेदे ईश्वरपरिच्छेदे च पुरुषार्थस्य निरूपणाच्च तत्त्वहित-पुरुषार्था निरूपिता इति निरवद्यम् ।
२१. एकं तत्त्वम् इति प्रतिपादयन्ति सूरयः । “आत्मा अनात्मा” इति विभज्य द्वेधा निरूपयन्ति ऋषयः । श्रुत्यनुसारात् भोक्तृभोग्यनियन्तृरूपं तत्त्वत्रयम् इति प्रतिपादयन्ति आचार्याः । हेयम्, तस्य निवर्तकम्, उपादेयम्, तस्योपायः इति चतुर्धा विभज्य अनुसन्दधते केचिदाचार्याः । प्राप्यम् प्राप्ता उपायः फलं विरोधि इति पञ्चधा निरूपयन्ति अपरदेशिकाः । अर्थपञ्चकमेव सम्बन्धेन साकं षोढा परिगणय्य वर्णयन्ति अन्ये गुरवः । एतेषां तत्तद्विभाजकधर्ममादाय अनुसन्धानम् उपपद्यते ।
२२. वस्तुतस्तु वेदान्तानां चिदचिद्विशिष्टाद्वैतं तत्त्वम् एकमेव ब्रह्म इति तात्पर्यम् । अत एव चिदचिद्विशिष्टम् ब्रह्म एकमेवेति मत्वा भगवान् बादरायणः “अथातो ब्रह्मजिज्ञासा” इति उपक्रम्य तदेव सप्रकारं निरूपितवान्। अतः चिदचि- द्विशिष्टः ब्रह्मशब्दवाच्यः विष्ण्वाख्यः परवासुदेवो नारायण एवैकं तत्त्वम् इति विशिष्टाद्वैतवादिनां दर्शनम् इति सिद्धम् ।
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन
श्रीमद्वेङ्कट-गिरिनाथपदकमलसेवापरायणस्वामिपुष्करिणीगोविन्दाचार्य-सूनुना
श्रीनिवासदासेन विरचिता यतीन्द्रमतदीपिकाख्या शारीरकपरिभाषा समाप्ता ॥