०९ ईश्वरः

१. अथेश्वरो निरूप्यते ।
सर्वेश्वरत्वं सर्वशेषित्वं सर्वकर्माराध्यत्वं सर्वफलप्रदत्वं सर्वाधारत्वं सर्वकार्योत्पादकत्वं स्वस्वज्ञानेतरसमस्तद्रव्यशरीरत्वम् इत्यादीनीश्वरलक्षणानि ।

२ अयमीश्वरः सूक्ष्मचिदचिद्विशिष्टवेषेण जगदुपादानकारणम् भवति; सङ्कल्प-विशिष्टवेषेण निमित्तकारणम् भवति; कालाद्यन्तर्यामिवेषेण सहकारिकारणं च ।

३. कार्यरूपेण विकारयोग्यं वस्तु उपादानकारणम् । कार्यतया परिणामयितृ निमित्तकारणम् । कार्योत्पत्त्युपकरणं वस्तु सहकारि । यद्वा उत्तरोत्तरावस्था-विशिष्टस्वरूपापेक्षया तदनुगुणनियतपूर्वभाव्यवस्थाविशिष्टम् उपादानम् । यथा घटत्वावस्थाविशिष्टमृद्द्रव्यापेक्षया पिण्डत्वावस्थाविशिष्टं तदेव द्रव्यम् ।

परिणामौन्मुख्यातिरिक्ताकारेणापेक्षितं कारणं निमित्तम् । अस्मिन् पक्षे सहकारिकारणस्य निमित्ते अन्तर्भावः ।

४. एवं त्रिविधकारणपक्षे कारणद्वयपक्षे च कारणलक्षणलक्षितत्वादखिलजगत्कारणत्वं भगवतो नारायणस्यैव सम्भवति ।

५. ननु कथं नारायणे कारणत्वपर्यवसानम् ? इति चेत्, उच्यते । न्यायसहित-वेदान्तवाक्यविचारेण एवम् पर्यवस्यति। तद्यथा – आदौ तावत् प्रकृतेः जगत्कारणत्वं नोपपद्यते । ईक्षितृत्वाद्यभावात्। छान्दोग्ये तावत्सदाकाशप्राणशब्दवाच्यानां जगत्कारणत्वम्प्रतीयते । वाजसनेयके ब्रह्मशब्दवाच्यस्य कारणत्वम् प्रतीयते । सर्वशाखाप्रत्ययन्यायेन कारणवाक्यानाम् एकविषयत्वे प्रतिपादयितव्ये छागपशुन्यायेन सामान्यवाचकानां सदादिशब्दानां विशेषे ब्रह्मणि पर्यवसानं वक्तव्यम् ।

६. एवम् उक्तन्यायेन ब्रह्मशब्दवाच्यस्य तैत्तिरीयोक्तात्मशब्दवाच्ये पर्यवसानम्। आत्मशब्दवाच्यः क इत्याङ्काक्षायां श्रुतिप्रसिद्ध इन्द्रो वा, तथा प्रसिद्धोऽग्निर्वा, उपास्यत्वेन प्रसिद्धः सूर्यो वा, कारणत्वेन उक्तः सोमो वा, अभीष्टफलप्रदत्वेन उक्तः कुबेरो वा, यमो वा, वरुणो वेति विषये, एतेषां कर्मवश्यत्वपरिच्छिन्नैश्वर्यवत्त्वसंहार्यत्वश्रवणात् नैते जगत्कारणभूताः।

किन्तु श्वेताश्वतरे शिवस्य कारणत्वम् भासत इति भाति । एवमथर्वणशाखायां शम्भुशब्दवाच्यस्य ध्येयत्वं कारणत्वम् भासते । तथैव अथर्वशिरसि रुद्रशब्दवाच्यस्य सर्वात्मकतोच्यते । तैत्तिरीये हिरण्यगर्भस्य जगत्कारणत्वम् प्रतीयते । अत्रापि सामान्यविशेषन्यायात् शिवशम्भुरुद्रादिशब्दानां हिरण्यगर्भशब्दवाच्यविशेषे पर्यवसानं युज्यते । शिव-शब्दस्य “शिवमस्तु सर्वजगताम्”, “शिवं कर्मास्तु”, “पन्थानः सन्तु ते शिवाः” इत्यादिभिर्मङ्गलवाचकत्वम् । रुद्रशब्दस्य अग्निवाचकत्वम् । एवम् महेश्वर-शम्भ्वादिसामान्यशब्दा अपि अवयवशक्त्या चतुर्मुखे पर्यवस्यन्ति ।

७. कारणवाचिशिवादिशब्दानाम् मुख्यवृत्त्या रुद्रपरत्वं किन्न स्यात् इति न शङ्कनीयम्। रुद्रस्य चतुर्मुखादुत्पत्तिश्रवणात् अनपहतपाप्मत्वश्रवणाच्च न रुद्रस्य कारणत्वम् । अतो हिरण्यगर्भप्रजापतिस्वयम्भ्वादिशब्दवाच्य चतुर्मुखे शिवादिशब्दाः पर्यवस्यन्ति । एवमपि महोपनिषन्नारायणोपनिषत्सुबालोपनिषन्मैत्रायणीयपुरुष-सूक्तनारायणानुवाकान्तर्यामिब्राह्मणादिषु नारायणस्यैव परमकारणत्वसर्वशब्द-वाच्यत्वमोक्षप्रदत्वजगच्छरीरित्वादेः, प्रतिपादनात् स्वयम्भूहिरण्यगर्भप्रजापति-शब्दानां नारायणे पर्यवसानं युक्तम्, इति नारायण एवाखिलजगत्कारणं सर्वविद्यावेद्यश्च ।

८. ननु ( न तु ) अन्तरादित्यविद्या रुद्रपरेति शङ्का (नु ) न कर्तव्या - तस्या विष्णुपरत्वस्यैव बहु-प्रमाणेषु सिद्धत्वात् । भर्गश्शब्दस्य सकारान्तत्वप्रतिपादनाच्च ( ‘हरस्स्मरहरोभर्ग’ इत्यकारान्त एव रुद्रपरः ) ।

९. तर्हि दहरविद्यायाम् आकाशशब्दवाच्यनारायणान्तर्यामितया रुद्रस्य प्रतिपाद-नात् दहरविद्या रुद्रपरा इति न शङ्कनीयम् । नारायणान्तर्वर्तिगुणजातस्यैव उपास्यत्वेन तत्राभिधानात् । एवं सर्वविद्यास्वप्यूह्यम् । अतः समस्तकल्याण-गुणात्मकम् प्रकृतिपुरुषाभ्याम् भिन्नं ताभ्यां विशिष्टम् परम् ब्रह्म जगत्कारणं नारायण एव ।

१०. ननु अद्वैतश्रुत्या ब्रह्मैकमेव सत्यं निर्गुणं च । तदन्यत् ज्ञातृज्ञेया- दिकं तस्मिन्नेव परिकल्पितं सर्वम् मिथ्या । ब्रहौव अविद्यया संसरति । तत्त्वम-सीत्यभेदज्ञानं तन्निवर्तकम् । तस्मान्निर्विशेषचिन्मात्रे ब्रह्माणि वेदान्तानां तात्पर्यमिति मतान्तरस्थैः प्रतिपादनात्, कथं नारायणे तात्पर्यं तस्य समस्त- कल्याणगुणाकरत्वादिकथनं च? इति चेत्, उच्यते । कारणत्वप्रतिपादकश्रुतिभि-र्नारायणस्य कारणत्वे सिद्धे, भेदाभेदश्रुत्योर्घटकश्रुत्या विषयभेदेन विरोधे परिहृते, निर्गुणप्रतिपादकश्रुतीनां हेयगुणनिषेध-कत्वात्, ज्ञातृज्ञेयादिकल्पकाविद्याया एवाप्रामाणिकत्वाद् ब्रह्मकार्यस्य सत्यत्वात्, अविद्यया संसारे जीवगतदोषाणाम् ब्रह्म-ण्यपि सम्भवात्, तन्निवर्तकान्तरस्य वक्तुमशक्यत्वात् । अतोऽद्वैतवादस्या-सम्भवात् न निर्विशेषचिन्मात्रब्रह्मसिद्धिः । अतो नारायणस्यैव जगत्कारणत्व-मोक्षप्रदत्वादिगुणयोगः सम्भबतीति सम्भवतीति ब्रह्म।

११. सूक्ष्मचिदचिद्विशिष्टम् ब्रह्म कारणम्, स्थूलचिदचिद्विशिष्टम् ब्रह्म कार्यमिति कारणादनन्यत् कार्यमिति विशिष्टाद्वैतवेदान्तिनां सम्प्रदायः ।

१२. एवम् ईश्वराङ्गीकारात् निरीश्वरसाङ्ख्यमीमांसकादिमतनिरासः । तस्यैव उपादानत्वस्वीकरात् योगपाशुपतनैयायिकानाम् मतनिरासः । तैः निमित्त- मात्रेश्वराङ्गीकारात् । ईश्वरस्य कार्यम् प्रति उपादानत्वनिमित्तत्ववत् कर्तृत्वप्रेरक-त्वनियन्तृत्वप्रकाशयितृत्वसहकारित्वोदासीनत्वादिकमपि उपपद्यते ।

१३. बाल्ययौवनावस्थादयो दोषा यथा शरीरगताः, न तु शरीरिणि जीवे; एवं चिदचिच्छरीरिणः परमात्मनोऽपीति न निर्विकारश्रुतिविरोधः। नियमेन आधेयत्वविधेयत्वशेषत्वादेः शरीरलक्षणस्य जगति विद्यमानत्वात् जगच्छरीरी ईश्वरः तद्गतदोषैरसंस्पृष्टश्च ।

१४. स च ईश्वरो विभुस्वरूपः । विभुत्वं नाम व्यापकत्वम् । तच्च त्रिधा -स्वरूपतो धर्मभूतज्ञानतो विग्रहतश्च । स चानन्त इत्युच्यते । अनन्तो नाम त्रिविधपरिच्छेदरहितः । त्रिविधः परिच्छेदस्तु देशतः कालतो वस्तुतः ।

१५. सत्यत्वज्ञानत्वानन्दत्वामलत्वादय इश्वरस्य स्वरूपनिरूपकधर्माः । ज्ञान- शक्त्यादयो निरूपितस्वरूपधर्माः । सर्वज्ञत्वसर्वशक्तित्वादयः सृष्ट्युपयुक्ता धर्माः। वात्सल्यसौशील्यसौलभ्यादय आश्रयणोपयुक्ता धर्माः । कारुण्यादयो रक्षणोपयुक्त-धर्माः । एतेषां स्वरूपम् बुद्धिपरिच्छेदे निरूपितमिति इह न प्रपञ्च्यते ।

१६. अयमीश्वरः अण्डसृष्ट्यनन्तरं चतुर्मुखदक्षकालादिषु अन्तर्यामितया स्थित्वा सृष्टिं करोति । विष्ण्ववताररूपेण मनुकालाद्यन्तर्यामिरूपेण च स्थित्वा रक्षको भवति । रुद्रकालान्तकादीनाम् अन्तर्यामितया संहारमपि करोति । अतः सृष्टि-स्थितिसंहारकर्ता च भवति ।

१७. एवम्प्रकार ईश्वरः परव्यूहविभवान्तर्याम्यर्चावताररूपेण पञ्चप्रकारः।

१८. तत्र परो नाम त्रिपाद्विभूतौ कुमुदकुमुदाक्षपुण्डरीकवामनशङ्कुकर्णसर्वनेत्र- सुमुखसुप्रतिष्ठितादिभिः दिव्यायुधभूषणपरिजनपरिच्छदान्वितैः दिव्यनगरपालकैः परिरक्षिते श्रीमद्वैकुण्ठाख्ये पुरे चण्डप्रचण्डभद्रसुभद्र जयविजयधातृविधातृप्रभृतिभिः द्वारपालकैः उपेते श्रीमद्दिव्यालये श्रीमहामणिमण्डपे धर्माद्यष्टपादविरचितसिंहासने शेषपर्यङ्के दिव्यमङ्गलविग्रहविशिष्टश्चतुर्भुजः, श्रीभूनीलासहितः, शङ्खचक्रादि-दिव्यायुधोपेतः, श्रीमत्किरीटादिदिव्यभूषणभूषितः,अनन्तगरुडविष्वक्सेनादिभि-र्नित्यैःसामगानपरैः अन्यैर्मुक्तैश्च अनुभूयमानः, ज्ञानशक्त्याद्यनन्त-कल्याणगुणविशिष्टः,परब्रह्मपरवासुदेवादिशब्दवाच्यो नारायणः ।

१९. व्यूहो नाम पर एव उपासनार्थं जगत्सृष्ट्याद्यर्थं च वासुदेवसङ्कर्षण- प्रद्युम्नानिरुद्ध भेदेन चतुर्द्धावस्थितः। तत्र षड्गुणपूर्णः श्रीवासुदेवः। ज्ञानबलाभ्यां सङ्कर्षणः । ऐश्वर्यवीर्याभ्याम् प्रद्युम्नः । शक्ति तेजोभ्याम् अनिरुद्ध इति गुणविभागः ।

२०. एतेषु चतुर्षु प्रत्येकं त्रयस्त्रयोऽवतीर्णाः केशवादयो व्यूहान्तराणि द्वादश-मासानां द्वादशादित्यानां च अधिदैवतानि । ऊर्ध्वपुण्ड्रेषु तेषामेव स्थापनं विधीयते ।

२१. तत्र कनकप्रभः केशवश्चतुश्चक्रधरः । श्यामो नारायणश्चतुःशङ्खधरः । मणि-प्रभाभो माधवश्चतुर्गदाधरः । चन्द्राभो गोविन्दश्चतुःशार्ङ्गधरः । पद्मकिञ्जल्क-सन्निभो विष्णुश्चतुर्हलधरः । अब्जाभो मधुसूधनश्चतुर्मुसलधरः । अग्निवर्णस्त्रि-विक्रमश्चतुःखड्गधरः । बालसूर्याभो वामनश्चतुर्वज्रधरः । पुण्डरीकाभः श्रीधरश्चतु- ष्पट्टीशधरः । तडित्प्रभो हृषीकेशश्चतुर्मुद्गरधरः । सूर्याभः पद्मनाभः पञ्चायुधधरः। इन्द्रगोपनिभो दामोदरश्चतुष्पाशधरः।

२२. विभवो नाम तत्तत्सजातीयरूपेण आविर्भावः ।
स दशधा – ते च मत्स्यादयोऽवतारविशेषाः ।

२३. तत्र वेदापहारिदैत्यनिरसनद्वारा ब्रह्मणे प्रमाणपदत्वार्थम् अवतीर्णो मत्स्याव-तारः। देवानाम् अजरामृतिहेत्वमृतोत्पादने मन्दराधारत्वेन अवतीर्णः कूर्मावतारः। संसारसागरोन्मग्नजनोद्धर्तुकामः स्वमहिषीभूम्युद्धरणार्थम् अवतीर्णो वराहाव-तारः। आश्रितसंरक्षणार्थम् महासुरं हन्तुं स्तम्भे अवतीर्णो नृसिंहावतारः ।

त्रिविक्रमो भूत्वा स्वपादारविन्दोद्भवेन जलेन जगत्पापहरणेन तद्रक्षणार्थम् अवती-र्णो वामनावतारः । दुष्टक्षत्रियनिरसनार्थम् अवतीर्णः परशुरामावतारः । शरणागत-रक्षणधर्मस्थापनार्थम् अवतीर्णः श्रीरामावतारः । प्रलम्बादिनिरसनार्थम् अवतीर्णो बलरामावतारः । मोक्षोपायदर्शनार्थम् अवतीर्णः श्रीकृष्णावतारः । अर्धर्मिष्ठा-न्निरस्य पूर्णधर्मोत्पादनार्थं कलिनिर्मोचनार्थं कल्क्यवतारः ।

२४. एवं दशावतारेष्वपि एकैकावतारः अनन्तप्रकाराः सन्ति । षट्त्रिंशद्भेद-भिन्नाः पद्मनाभादयोऽपि । पुनर्दधिभक्तहयग्रीवनरनारायणादयोऽपि । एवम् मुख्यगौणपूर्णाशावेशाद्यवतारा बहुप्रकाराः । तेषु उपास्यानुपास्यविभागो द्रष्टव्यः ।

२५. अवताराणामिच्छैव हेतुः, न तु कर्म । प्रयोजनं तु दुष्कृतिविनाशपूर्वकं साधुपरित्राणमेव ।

२६. अन्तर्यामित्वं नाम स्वर्गनरकाद्यनुभवदशायामपि जीवात्मनः सुहृत्त्वेन योगिभिर्द्रष्टव्यतया हृदयप्रदेशावस्थितं रूपम् । जीवेन साकं विद्यमानोऽपि तद्गतदोषैः असंस्पृष्टो वर्तते ।

२७. अर्चावतारो नाम देशकालविप्रकर्षरहित आश्रिताभिमतद्रव्यादिकं शरीरतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टः सन् अर्चकपराधीनस्नानभोजनासनशयन-स्थितिः सर्वसहिष्णुः परिपूर्णो गृहग्रामनगरप्रशस्तदेशशैलादिषु वर्तमानो मूर्ति-विशेषः ।

२८. स च स्वयम्व्यक्तदैवसैद्धमानुषभेदात् चतुर्विधः ।

२९. एवम् उक्तासु पञ्चावस्थास्वपि श्रीविशिष्ट एव भगवान् वर्तत इति श्रुत्यादि-प्रमाणसिद्धोऽर्थः । एतेन एकायनोक्तनिःश्रीकवादो निरस्तः । एवम् ईश्वरो निरूपितः ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायां यतीन्द्रमतदीपिकायाम् ईश्वरनिरूपणम्

नाम नवमोऽवतारः ॥