०८ जीवः

१. अथ जीवो निरूप्यते । प्रत्यक्त्वचेतनत्वात्मत्वकर्तृत्वादीनि ईश्वरजीवसाधार-णानि लक्षणानि । प्रत्यक्त्वं नाम स्वयमेव स्वस्मै भासमानत्वम् । चेतनत्वं ज्ञानाश्रयत्वम् आत्मत्वं शरीरप्रतिसम्बन्धित्वम् । कर्तृत्वं सङ्कल्पज्ञानाश्रयत्वम् ।

२. एवं सामान्यलक्षणलक्षितस्य जीवस्य विशेषलक्षणानि उच्यन्ते – अणुत्वे सति चेतनत्वम्, स्वतः शेषत्वे सति चेतनत्वम् । एवम् आधेयत्वविधेयत्व-पराधीनकर्तृत्वपरतन्त्रत्वादिकमूह्यम् ।

३. स च देहेन्द्रियमनःप्राणादिभ्यो विलक्षणः । यथा “मम शरीरम्” इति प्रतीत्या देहात् व्यावृत्तः । “चक्षुषा पश्यामि”, ”श्रोत्रेण शृणोमि”, “वाचा वदामि” इत्यादि-प्रत्यायत् बाह्येन्द्रियेभ्यो व्यावृत्तः । “मनसा जानामि” इति मनसो ज्ञानकरणत्व-प्रतीतेः, “मम प्राणा” इति व्यतिरेकोक्तेः, “जानामि अहम्” इति ज्ञानाच्च मनःप्राण- ज्ञानेभ्यो व्यावृत्तः ।

४. स चाणुपरिमाणः । उत्क्रान्त्यादेः श्रवणात् प्रमाणानुसाराच्च । अणुत्वे युगपदनेकविषयानुभवः कथमिति न शङ्कनीयम् । धर्मभूतज्ञानव्याप्त्या उपपत्तेः। एतेनैव सौभरिप्रभृतीनाम् मुक्तानां च युगपदनेकशरीरपरिग्रहोऽपि सम्भवति ।

५. स च नित्यः । पूर्वानुभूतार्थप्रतिसन्धानात् । नित्यश्चेत् “जीव उत्पन्नो, जीवो नष्ट” इति प्रतीतिः कथम्? इति चेत, न। जीवस्य देहसम्बन्ध उत्पत्तिः, तद्वियोगो नाश इति प्रतिपादनात् । जीवस्वरूपं नित्यमेव ।

६. स च प्रतिशरीरम् भिन्नः । एकपरिमाणेषु अनेकेषु सुवर्णघटेषु “एको घट” इति प्रतीतिवत्, व्रीहिराशौ “एको व्रीहिः” इतिवच्च ज्ञानैकाकारतया एकत्वव्यवहारः । न तु स्वरूपैक्यम्, प्रमाणविरोधात् ।

७. स्वतःसुखी, उपाधिवशात् संसारः । अयं च कर्ता भोक्ता शरीरी शरीरं च भवति । प्रकृत्यपेक्षया शरीरी, ईश्वरापेक्षया शरीरम् । अस्य प्रत्यक्षश्रुतिभ्यां स्वयम्प्रकाशत्वं च सिद्धम् । प्रयोगश्च – ‘आत्मा स्वयम्प्रकाशः, ज्ञानत्वात्, धर्मभूतज्ञानवत्’ इति । ज्ञानत्वाणुत्वामलत्वादय एतस्य स्वरूपनिरूपकधर्माः।

८. एतेन ज्ञानस्य क्षणिकत्वात् क्षणिकसन्तानरूप आत्मेति बौद्धपक्षः, भूतचतुष्टयात्मकत्वात् देहस्य देहावधिक आत्मेति चार्वाकपक्षः, गजदेहे गजपरिमाणः पिपीलिकादेहे तत्परिमाणः अतो देहपरिमाण आत्मेति जैनपक्षः, कर्तृत्वभोक्तृत्वादिकम् प्रकृतेरेव न तु पुरुषस्येति साङ्ख्यपक्षः, ब्रह्मांशो जीव इति यादव-पक्षः, सोपाधिब्रह्मखण्डो जीव इति भास्करपक्षः, अविद्याकल्पितैकजीववादपक्षः, अन्तःकरणावच्छिन्नानेकजीववादपक्ष इत्येवमादयो विरुद्धपक्षा निरस्ताः । विभुत्ववादपक्षोऽपि ।

९. ननु जीवस्य विभुत्वानङ्गीकारे अदृष्टजनितदेशान्तरफलोपलब्धिः कथम्? इति चेत्, न । जीवस्य सम्बन्धाभावेऽपि अदृष्टवशादेव उपपद्यते । अदृष्टं नाम भगव-त्प्रीत्यप्रीतिजनकजीवकर्तृककर्मविशेषजन्यो ज्ञानविशेषः । स विशेषो भगवत्स-ङ्कल्प एव विभुस्वरूपम् भगवन्तमाश्रितः । अतः फलोपलब्धिरेवेति न विरोधः ।

१०. स जीवस्त्रिविधः – बद्धमुक्तनित्यभेदात् । तत्र बद्धा नाम अनिवृत्तसंसाराः । ते चतुर्दशभुवनात्मकाण्डकटाहवर्तिनो ब्रह्मादिकीटपर्यन्ताश्चेतनविशेषाः ।

११. श्रीमन्नारायणनाभिकमलात् उत्पन्नो ब्रह्मा। ब्रह्मणो रुद्रः। पुनर्ब्रह्मणः सनकादि- योगिनो नारदादिदेवऋषयो वसिष्ठभृग्वादिब्रह्मऋषयः पुलस्त्यमरीचिदक्षकश्यपादि- नवप्रजापतयो बभूवुः। तेभ्यो देवा दिक्पालाश्चतुर्दशेन्द्राश्चतुर्दशमनवः असुराः पितरः सिद्धगन्धर्वकिन्नरकिम्पुरुषविद्याधरादयो वसवो रुद्रा आदित्या अश्विनौ च दानव-यक्षराक्षसपिशाचगुह्यकादयः एवं देवयोनयः ।

१२. मनुष्या अपि ब्राह्मणक्षत्रियवैश्यशूद्रादिजातिभेदात् बहुविधाः । तिर्यञ्चोऽपि पशुमृगपक्षिसरीसृपपतङ्गकीटादिभेदात् बहुविधाः । स्थावरा अपि वृक्षगुल्मलता-वीरुधतृणादिभेदात् बहुविधाः । वृक्षादीनां जलाहरणोपयुक्तकिञ्चिज्ज्ञान-सम्बन्धोऽस्त्येव । “अप्राणवत्सु स्वल्पा सा” ग्रयुक्तत्वात् । अतो देवमनुष्य-तिर्यक्स्थावरभेदभिन्ना बद्धाः ।

१३. एते पुनः जरायुजाण्डजोद्भिज्जस्वेदजाश्च भवन्ति । देवमनुष्या जरायुजाः । तेषु ब्रह्मरुद्रादयः सनकादयश्च सीताद्रौपदीधृष्टद्युम्नप्रभृतयोः भूतवेतालादयश्च अयोनिजाः । तिर्यगादयश्च जरायुजा अण्डजाः स्वेदजाश्च भवन्ति । स्थावरादय उद्भिज्जाः।

१४. एवम्भूता बद्धा बीजाङ्कुरन्यायेन विषमप्रवाहतया अनादिकालप्रवृत्ताविद्या- कर्मवासनारुचिप्रकृतिसम्बन्धैः चक्रवत्परिवर्तमानैः गर्भजन्मबाल्ययौवनजागर- स्वप्नसुषुप्तिमूर्छाजरामरणस्वर्गनरकगमनादिविविधविचिन्नावस्थावन्तः अनाद्य-नन्तप्रकारातिदुः – सहतापत्रयाभितप्ताः स्वतः प्राप्तभगवदनुभवविच्छेदवन्तश्च।

१५. ते द्विविधाः – शास्त्रवश्याः तदवश्याश्चेति । तयोर्मध्ये कारणायत्तज्ञानानाम् बद्धानां शास्त्रवश्यतास्ति । तिर्यक्स्थावरादीनां तन्नास्ति।
शास्त्रवश्या द्विविधाः – बुभुक्षवो मुमुक्षवश्चेति । तत्र बुभुक्षवस्त्रैवर्गिकपुरुषार्थनिष्ठाः पुरुषाः । ते द्विविधाः – अर्थकामपरा धर्मपराश्चेति । केवलार्थकामपरा देहात्माभिमानवन्तः । धर्मपराश्च – “अलौकिकश्रेयःसाधनं धर्मः, चोदनालक्षणोऽर्थो धर्म” इति लक्षणलक्षितयज्ञदानतपस्तीर्थयात्रादिनिष्ठाः । ते च देहातिरिक्तात्मनः परलोकोऽस्तीति ज्ञानवन्तः। धर्मपरा द्विविधाः – देवतान्तरपरा भगवत्पराश्चेति । देवतान्तरपरा ब्रह्मरुद्रेन्द्रा-ग्न्याद्याराधनपराः । भगवत्पराश्च – “आर्तो जिज्ञासुरर्थार्थी" इत्युक्ताधिकारिणः । आर्तो भ्रष्टैश्वर्यकामः अर्थार्थी तु अपूर्वैश्वर्यकामः ।

१६. मुमुक्षवो द्विविधाः – कैवल्यपरा मोक्षपराश्चेति । कैवल्यं नाम ज्ञानयोगात् प्रकृतिवियुक्तस्वात्मानुभवरूपम् । सोऽनुभवः अर्चिरादिमार्गेण परमम् पदं गत-वत एव क्वचित् कोणे पतित्यक्तपत्नीन्यायेन भगवदनुभवव्यतिरिक्तस्वात्मानुभव इत्याहुः। केचित् अर्चिरादिमार्गेण गतस्य पुनरावृत्त्यश्रवणात् प्रकृतिमण्डल एव क्वचिद्देशे स्वात्मानुभव इत्यप्याहुः ।

१७. मोक्षपराश्च द्विविधाः – भक्ता प्रपन्नाश्चेति । भक्ताः पुनरधीतसाङ्गसशिरस्क-वेदाः पूर्वोत्तरमीमांसापरिचयात् चिदचिद्विलक्षणम् अनवधिकातिशयानन्दस्वरूपं निखिलहेयप्रत्यनीकं समस्तकल्याणगुणात्मकम् ब्रह्म अवधार्य तत्प्रारप्त्युपायभूतां साङ्गभक्ति स्वीकृत्य तया मोक्षम् प्राप्तुकामाः ।

१८. भक्तावधिकारस्त्रैवर्णिकानामेव । देवादीनामप्यस्ति । अर्थित्वसामर्थ्ययोः सम्भवात् ।

१९. न शूद्राधिकारः । अपशूद्राधिकरणविरोधात् ।

२०. भक्तिस्वरूपं तु बुद्धिपरिच्छेदे प्रतिपादितम् । भक्ता द्विविधाः – साधनभक्ति- निष्ठाः साध्यभक्तिनिष्ठाश्च । व्यासादयः साधनभक्तिनिष्ठाः । श्रीपराङ्कुशादयः साध्यभक्तिनिष्ठाः ।

२१. आकिञ्चन्यानन्यगतिकत्वधर्मविशिष्टो भगवन्तमाश्रितः प्रपन्नः । सोऽपि द्विविधः – त्रैवर्गिकपरो मोक्षपरश्चेति । त्रैवर्गिकपरो नाम भगवत एव धर्मार्थकामाभिलाषी। मोक्षपरस्तु सत्सङ्गान्नित्यानित्यविवेके सति संसारे निर्वेदात् वैराग्ये उत्पन्ने मोक्षेच्छायां जातायां तत्सिद्ध्यर्थम् “आचार्यो वेद- सम्पन्न” इत्याद्याचार्यलक्षणलक्षितं गुरुं संश्रित्य तद्द्वारा पुरुषकारभूतां श्रियम् प्रतिपद्य भक्त्याद्युपायान्तरे अशक्तः, अत एवाकिञ्चनानन्यगतिः, श्रीमन्ना- रायणचरणावेव उपायत्वेन यः स्वीकरोति स प्रपन्नः । प्रपत्तिः सर्वाधिकारा।

२२. स च प्रपन्नो द्विविधः – एकान्ती परमैकान्ती चेति । यो मोक्षफलेन साकम् फलान्तराण्यपि भगवत एवेच्छति स एकान्ती । देवतान्तरशून्य इत्यर्थः । भक्ति-ज्ञानाभ्यामन्यत्फलम् भगवतोऽपि यो नेच्छति स परमैकान्ती । स द्विविधः – दृप्त आर्तश्चेति भेदात् । अवश्यमनुभोक्तव्यमिति प्रारब्धकर्म अनुभवन् एतद्देहावसान-समये मोक्षमपेक्षमाणो दृप्तः । जाज्वल्यमानाग्निमध्यस्थितेरिव संसारावस्थिते- रतिदुःसहत्वात् प्रपत्त्युत्तरक्षणमोक्षकाम आर्तः ।

२३. मुक्तो नाम उपायपरिग्रहणानन्तरं नित्यनैमित्तिकभगवदाज्ञाकैङ्कर्यरूपाणि स्वयम्प्रयोजनतया कुर्वन्, भगवद्भागवतापराधाँश्च वर्जयन्, देहावसानकाले सुकृत-दुष्कृते मित्रामित्रयोर्निक्षिपन्, “वाङ् मनासि” इत्यादिप्रकारेण हार्दे परमात्मनि विश्रम्य मुक्तिद्वारभूतसुषुम्नाख्यनाड्याम् प्रविश्य ब्रह्मरन्ध्रान्निष्क्रम्य हार्देन साकं सूर्यकिरणद्वारा अग्निलोकं गत्वा दिनपूर्वपक्षोत्तरायणसंवत्सराभिमानि-देवताभिर्वायुना च पथि सत्कृतः, सूर्यमण्डलम् भित्वा नभोरन्ध्रद्वारा सूर्यलोकं गत्वा अनन्तरं चन्द्रविद्युद्वरुणेन्द्रप्रजापतिभिर्मार्गदर्शिभिः आतिवाहिकगणैः सोपचारैः सह तत्तल्लोकानतीत्य प्रकृतिवैकुण्ठसीमपरिच्छेदिकां विराजां तीर्त्वा सूक्ष्मशरीरं विहाय अमानवकरस्पर्शात् अप्राकृतदिव्यविग्रहयुक्तः, चतुर्भुजो ब्रह्मा-लङ्कारेणालङ्कृतः, इन्द्रप्रजापतिसञ्ज्ञकनगरद्वारपालकाभ्यनुज्ञया श्रीवैकुण्ठाख्यं दिव्यनगरम् प्रविश्य गरुडानन्तयुक्तपताकालङ्कृतदीर्घप्राकारसहितगोपुरमतीत्य ऐरम्मदाख्यामृतसरः सोमसवनाख्याश्वत्थं च दृष्ट्वा “शतम् मालाहस्ता” इत्युक्तपञ्चशतदिव्याप्सरोगणैरुपचरितः, ब्रह्मगन्धादिभिरलङ्कृतः, तत्रस्थानन्त-गरुडविष्वक्सेनादीन् प्रणम्य तैर्बहुमतः, महामणिमण्डपमासाद्य पर्यङ्कसामीपे स्वाचार्यान् प्रणम्य पर्यङ्कसमीपं गत्वा तत्र धर्मादिपीठोपरिकमले अनन्ते विमलादिभिश्चामरहस्ताभिः सेव्यमानं श्रीभूनीलासमेतं शङ्खचक्रादिदिव्या-युधोपेतं जाज्वल्यमानकिरीटमकरकुण्डलग्रैवेयहारकेयूरकटकश्रीवत्सकौस्तुभ-मुक्तादामोदरबन्धनपीताम्बरकाञ्चीगुणनूपुराद्यपरिमितदिव्यभूषणभूषितम् अपरिमि-तोदारकल्याणगुणसागरम् भगवन्तं दृष्ट्वा तत्पादारविन्दयुगले शिरसा प्रणम्य पादेन पर्यङ्कमारुष्य तेन स्वाङ्के स्थापितः, “कोऽसि” इति पृष्टः, “ब्रह्मप्र- कारोऽस्मि” इत्युक्त्वा तेन कटाक्षितः, तदनुभवजनितहर्षप्रकर्षात् सर्वदेशसर्वकाल-सर्वावस्थोचितसर्वविधकैङ्कर्यरतिः, आविर्भूतगुणाष्टकः,उत्तरावधिरहितब्रह्मानुभववान्।

२४. मुक्तस्य ब्रह्मसाम्यापत्तिश्रुतिस्तु भोगसाम्यमाह - जगद्व्यापारवर्जनस्य प्रतिपादनात् । तस्य नानात्वं सर्वलोकसञ्चरणं च सम्भवति ।

२५. ननु मुक्तस्य अनावृत्तित्वप्रतिपादनात् अस्मिन् लोके सञ्चारः कथमिति चेत् न; कर्मकर्तृत्वस्यैव निषेधात् स्वेच्छया सञ्चरणोपपत्तेः । अतो मुक्तोभगवत्सङ्कल्पायत्तस्वेच्छया सर्वत्र सञ्चरति ।

२६. नित्या नाम कदाचिदपि भगवदभिमतविरुद्धाचरणाभावेन ज्ञानसङ्कोच-प्रसङ्गरहिता अनन्तगरुडविष्वक्सेनादयः । तेषामधिकारविशेषा ईश्वरस्य नित्येच्छयैव अनादित्वेन व्यवस्थिताः । एतेषामवतारास्तु भगवदवतारवत् स्वेच्छया । एवम् बद्धमुक्तनित्यभेदभिन्नो जीवो निरूपितः ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणम्

नाम अष्ठमोऽवतारः ॥