१. अथ क्रमप्राप्तं धर्मभूतज्ञानं निरूप्यते । स्वयम्प्रकाशाचेतनद्रव्यत्वे सति विषयित्वं, विभुत्वे सति प्रभावद्द्रव्यगुणात्मकत्वम्, अर्थप्रकाशो बुद्धिरित्यादि तल्लक्षणम् ।
२. तद्धर्मभूतज्ञानम् ईश्वरस्य नित्यानां च सर्वदा नित्यमेव विभु च । बद्धानां तिरोहितमेव । मुक्तानाम् पूर्व तिरोहितम् अनन्तरमाविर्भूतम् ।
३. ननु ज्ञानस्य नित्यत्वे “ज्ञानमुत्पन्नं, ज्ञानं नष्टम्” इति व्यवहारः कथम्? इति चेत्, न । ज्ञानस्य सङ्कोचविकासावस्थामादाय तत्सम्भवात् । दृतेः पात्राद्यथा उदकं क्षरति तथा ज्ञानमपि इन्द्रियद्वारा निःसृत्य अर्थेन सन्निकृष्यते । अहि- कुण्डलवत् सङ्कोचविकासौ।
४. सर्वं ज्ञानं स्वत एव प्रमाणं स्वयम्प्रकाशं च । “विप्रतिपन्ना संवित् स्वगतव्यवहारम् प्रति स्वाधीनकिञ्चित्करा, स्वजातीयसम्बन्धानपेक्ष व्यवहार-हेतुत्वात्, अर्थेन्द्रियदीपवत् । न च चक्षुरालोकयोः सजातीयत्वम्, आहाङ्कारिक- तैजसभेदाद्भेदः ।
५. अनेन ज्ञानस्य क्षणिकत्वं, त्रिक्षणावस्थायित्वं, प्रातिभासिकवत् व्यावहारिक-स्यापि मिथ्यात्वम्, परतः प्रामाण्यम्, ज्ञानस्यैव आत्मत्वम् इत्यादिपक्षा निरस्ताः ।
६. “स्तम्भः स्तम्भ” इत्यादिधारावाहिकज्ञानं तु एकमेव ।
७. ननु आगमबलात् ज्ञानस्य नित्यत्वाङ्गीकारे कथं जागरसुषुप्त्यादिभेद-सिद्धिः? इति चेत्, न । यथा दाहकस्य वह्नेर्दाह्यसन्निधौ मण्यादिप्रतिबन्धका-द्दाहाभावः तद्वत् ज्ञानस्य तिरोधायकतमोविशेषसन्निधानासन्निधानाभ्यां स्वापादिसिद्धिः । पुंस्त्वादिवच्च । पुंस्त्वादिकम् बाल्येतिरोहितं यौवने आविर्भवति ।
८. “यो यदाश्रितस्वभावः स तस्य गुणः, विशेषणादिवत्” इति लक्षणलक्षितत्वात् ज्ञानं गुणः ।
९. यतः सङ्कोचविकासावस्थावत्, अतो द्रव्यमपि भवति । आत्मगुणभूतस्य ज्ञानस्य द्रव्यत्वं कथमिति न शङ्कनीयम् । प्रभावत् एकस्यैव द्रव्यत्वगुण-त्वयोर्विरोधाभावात् । अवस्थाश्रयो द्रव्यमिति द्रव्यलक्षणम् । स्वाश्रयादन्यत्र वर्तमानत्वमपि प्रभावत् एवोपपद्यते । प्रयोगश्च – “गुणभूता बुद्धिर्द्रव्यम्, प्रभावत्” । “ज्ञानं द्रव्यम्, संयोगादृष्टान्यत्वे सति भावनाकारणत्वात्, आत्मवत्” इति ।
१०. मुक्तज्ञानस्य युगपदनन्तदेहसंयोगो नयनसूर्यादितेजोवत् सम्भवति ।
११. ज्ञानम् मतिः प्रज्ञा संवित् धिषणा धीः मनीषा शेमुषी मेधा बुद्धिरित्येव-मादयः शब्दा ज्ञानपर्यायाः । बुद्धिरेवोपाधिभेदात् सुखदुःखेच्छाद्वेषप्रयत्नरूपा । सुखादिजनकज्ञानातिरेके प्रमाणाभावात् । “इच्छामि द्वेष्मि” इति व्यवहारस्य “स्मरामि” इत्यादिवत् ज्ञानविशेषेणोपपत्तेः ।
१२. ननु “कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्वम् मन एव” इत्युक्तानां ज्ञानरूपत्वं कथम्? इति चेत्, न । ज्ञानस्य मनस्सहकारित्वनियमात् मन एवेत्युपचारादुक्तमिति न विरोधः ।
१३. एवम् प्रत्क्षानुमानागमस्मृतिसंशयविपर्ययभ्रमविवेकव्यवसायमोहरागद्वेष- मदमात्सर्यधैर्यचापल्यदम्भलोभक्रोधदर्पस्तम्भद्रोहाभिनिवेशनिर्वेदानन्दादयः सुमतिर्दुर्मतिः प्रीतिस्तुष्टिः पुष्टिरुन्नतिः श्रान्तिः कीर्तिविरक्ती
रतिर्मैत्री दया
मुमुक्षा लज्जा तितिक्षा विचारणा
विजिगीषा मुदिता क्षमा चिकीर्षा
जुगुप्सा भावना कुहनाऽसूया
जिघांसा तृष्णा दुराशा वासना दुर्वासना
चर्चा भक्तिः प्रपत्तिरित्येवमादयश्च जीवगुणा अनन्ता धर्मभूतज्ञानावस्थाविशेषा एव ।
१४. एवं ज्ञानशक्तिबलैश्वर्यवीर्यतेजःसौशील्यवात्सल्यमार्दवार्जवसौहार्दसाम्य-कारुण्यमाधुर्यगाम्भीर्यौदार्यचातुर्यस्थैर्यपराक्रमादयो भगवतोऽनन्तकल्याण-गुणाः ज्ञानशक्त्योर्विततिभूताः ।
१५. तत्र ज्ञानं नाम सर्वसाक्षात्काररूपम् । शक्तिरघटितघटनासामर्थ्यम् । बलं धारणसामर्थ्यम् । ऐश्वर्यं नियमनसामर्थ्यम् । वीर्यमविकारित्वम् । तेजः पराभिभवनसामर्थ्यम् । महतो मन्दैः सह नीरन्ध्रेण संश्लेषस्वभावत्वं सौशील्यम् । वात्सल्यं दोषेऽपि गुणत्वबुद्धिः, दोषादर्शित्वं वा । आश्रितविरहासहत्वम् मार्दवम् । मनोवाक्कायैकरूप्यमार्जवम् । स्वसत्तानपेक्षत- द्रक्षापरत्वं सौहार्दम्। जन्मज्ञानवृत्तगुणाद्यनपेक्षाया सर्वैराश्रयणीयत्वं साम्यम् । स्वार्थानपेक्षपरदुःखनिराचिकीर्षा कारुण्यम्, परदुःखासहिष्णुत्वं वा । क्षीरवत् उपाध्यभावेऽपि स्वादुत्वम् माधुर्यम्। भक्तानुग्रहवदान्यत्वादेरामूलतो दुरवगाहत्वं गाम्भीर्यम्। अपरिमितं दत्वापि अतृप्तत्वमौदार्यम्। आश्रितदोषगोपनं चातुर्यम् । अकम्पनीयत्वं स्थैर्यम् । अभग्नप्रतिज्ञात्वं धैर्यम् । परबलप्रवेशनसामर्थ्यं शौर्यम् । तन्निराकरणम् पराक्रमः इत्याद्यूह्यम् ।
१६. ज्ञानविशेषभूतयोर्भक्तिप्रपत्त्योः स्वरूपं किञ्चिदुच्यते – भक्तिप्रपत्तिभ्याम् प्रसन्न ईश्वर एव मोक्षं ददाति । अतस्तयोरेव मोक्षोपायत्वम् ।
१७. मोक्षोपायत्वेन उक्तानां कर्मयोगज्ञानयोगप्रभृतीनाम् भक्तिद्वारैव साधनत्वम्।
१८. कर्मयोगो नाम उपदेशात् जीवपरयाथात्म्यज्ञानवता शक्त्यनुसारेण फलसङ्ग- रहितानिषिद्धकाम्यनित्यनैमित्तिकरूपपरिगृहीतकर्मविशेषः । स तु देवार्चनातप-स्तीर्थयात्रा-दानयज्ञादिभेदभिन्नः। अयं तु जीवगत-कल्मषापनयनद्वारा ज्ञान- योगमुत्पाद्य तद्द्वारा वा साक्षाद्वा भक्त्युत्पादको भवति ।
१९. ज्ञानयोगो नाम कर्मयोगान्निर्मलान्तःकरणस्य ईश्वरशेषत्वेन प्रकृतिवियुक्त-स्वात्मचिन्ताविशेषः । एतस्य साक्षाद्भक्त्युपयोगित्वम् । एवं साधनान्त-राणामपि भक्त्युपयोगित्वमूह्यम् ।
२०. भक्तियोगो नाम यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधि- रूपाष्टाङ्गवाँस्तैलधारावदविच्छिन्नस्मृतिसन्तानरूपः ।
२१. स च विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षरूपसाधनसप्तकजन्यः ।
२२. तत्र विवेको नाम जात्याश्रयनिमित्तादुष्टादन्नात्कायशुद्धिः । विमोकः कामान-भिष्वङ्गः । अभ्यासः पुनः पुनरालम्बनसंशीलनम् । शक्तितः पञ्चमहायज्ञा- द्यनुष्ठानं क्रिया । सत्यार्जवदयादानाहिंसानभिध्याः कल्याणानि । अनवसादो दैन्याभावः । अनुद्धर्षस्तुष्ट्यभावः । अतिसन्तोषश्च विरोधीत्यर्थः ।
२३. एवं साधनसप्तकानुगृहीता भक्तिः दर्शनसमानाकारा अन्तिमप्रत्ययावधिका च भवति। स चान्तिमप्रत्यय एतच्छरीरावसाने वा शरीरान्तरावसाने वा भवति ।
२४. वेदनध्यानोपासनादिशब्दवाच्या भक्तिः परभक्तिपरज्ञानपरमभक्तिरूपक्रमवती प्रपत्त्यङ्गिका च ।
२५. सा द्विविधा – साधनभक्तिफलभक्तिभेदात् । उक्तसाधनजन्या साधनभक्तिः । फलभक्तिस्तु ईश्वरकृपाजन्या श्रीपराङ्कुशनाथादिनिष्ठा । “मद्भक्तजनवात्सल्यम्” इत्यादिषु स्तुतिनमस्कारादिषु च भक्तिशब्दप्रयोग औपचारिकः ।
२६. ननु वेदान्तेषु श्रवणमननयोरपि विधानात् कथं ध्यानमेव विधीयते? इति चेत्, उच्यते । अधीतसाङ्गवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात् तन्निर्णयाय स्वयमेव श्रवणे प्रवर्तते इति श्रवणस्य प्राप्तत्वात् अनुवादः । श्रवणप्रतिष्ठार्थत्वात् मननस्यापि अनुवादः । तस्मात् ध्यानमेव विधीयते इति न विरोधः ।
२७. ध्यानशब्दवाच्या भक्तिविद्याभेदात् बहुविधा । ताश्च विद्या द्विविधाः – ऐहिक-फलाः मुक्तिफलाश्चेति । तत्रैहिकफला उद्गीथविद्यादयः । मुक्तिफलास्तु अन्तरक्षि-विद्या, दहरविद्या, सद्विद्या, मधुविद्या, उपकोसलविद्या, शाण्डिल्यविद्या, पुरुषविद्या, वैश्वानरविद्या, पञ्चाग्निविद्या इत्यादिकाः ब्रह्मविद्याः ।
२८. न्यासविद्या प्रपत्तिः । सा च अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । प्रपत्तिर्नाम –
“आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥
आत्मनिक्षेपकार्पण्यम्”
इत्यङ्गपञ्चकयुक्ता । एतद्देहावसाने मोक्षप्रदा सकृत्क-र्तव्या न्यासः शरणागतिरित्यादिशब्दवेद्या ज्ञानविशेषरूपा । एषा प्रपत्तिर्गुरुमुखा-द्रहस्यशास्त्रेषु सम्प्रदायतया वेदितव्येति इह बालबोधनार्थं प्रवृत्ते ग्रन्थे न प्रकाश्येति विरम्यते ।
२९. भक्तिप्रपत्त्योरेव मोक्षसाधनत्वेन स्वीकारात् परोक्तोपायनिरासः । यथा वेदबाह्यानाम् मध्ये केषाञ्चिन्मते देहातिरिक्तात्मनः अनङ्गीकारात् मोक्षप्रवृत्तिरेव न सम्भवति । अन्येषाम् मते ज्ञानस्य क्षणिकत्वात्, तस्यैवात्मत्वात् कस्य प्रवृत्तिः? । सन्तानस्येति चेत्, न । अन्यं प्रति अन्येन यत्नो न कर्तव्य इति न प्रवृत्तिः अपरेषाम् मते धर्माधर्मादिसप्तभङ्गीरीत्या अनैकान्त्यवादात् न प्रवृत्तिः । वैशेषिकादिपक्षे पाषाणकल्पे मोक्षे प्रवृत्तिः कस्यापि ने सम्भवति । साङ्ख्यादि-पक्षेषु ईश्वरानङ्गीकारात् पुरुषस्य प्रकृतेर्वा मोक्ष इति संशयात् न प्रवृत्तिः । मायिमते व्यावहारिकस्य वाक्यस्य पारमार्थिकाभेदज्ञानाजनकत्वात् न प्रवृत्तिः । भास्करयादवयोस्तु कर्मज्ञानसमुच्चयवादोऽपि उक्तादेव निरस्तः । शैवमते तु पशुपतेः प्राप्यत्वस्वीकारात् वेदविरुद्धभस्मधारणादेः साधनत्वेन स्वीकाराच्च तन्निरासः एवम् मतिर्निरूपिता ।
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां धर्मभूतज्ञाननिरूपणम् नाम सप्तमोऽवतारः ॥