०६ नित्यविभूतिः


१. अथ नित्यविभूतिर्निरूप्यते । शुद्धसत्त्वधर्मभूतज्ञानजीवेश्वरसाधारणं लक्षणम् अजडत्वम् । अजडत्वं नाम स्वयम्प्रकाशत्वम् । तत्र शुद्धसत्त्वधर्मभूतज्ञान-साधारणं लक्षणम् – पराक्त्वे सति अजडत्वम् - तत्तु स्वयम्प्रकाशत्वे सति परस्मा एव भासमानत्वम् ।

२. शुद्ध सत्त्वं नाम त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सत्त्ववत्त्वम्; निःशेषाविद्या- निवृत्तिदेशविजातीयान्यत्वं वा । सा विभूतिरूर्ध्वप्रदेशे अनन्ता । अधःप्रदेशे परिच्छिन्ना अचेतना स्वयम्प्रकाशा च । आनन्दावहत्वादानन्दनामिका । पञ्चो-पनिषन्मन्त्रप्रतिपाद्यतया पञ्चोपनिषदात्मिका । अप्राकृतपञ्चशक्तिमत्तयापञ्च-शक्तिमयीति निगद्यते ।

३. सा विभूतिरीश्वरस्य नित्यानाम् मुक्तानां च ईश्वरसङ्कल्पात् भोग्यभोगोप- करणभोगस्थानरूपा च भवति । भोग्यमीश्वरशरीरादि । भोगोपकरणानि चन्दन-कुसुमवस्त्रभूषणायुधादीनि । भोगस्थानानि तु पुरगोपुरप्राकारमण्डपविमानोद्यान-पद्मिन्यादीनि ।

४. तत्र ईश्वरस्य नित्यानां च शरीराणि भगवन्नित्येच्छासिद्धानि । मुक्तानां शरीराणि तेषाम् पित्रादिसृष्टिः युगपदनेकशरीरपरिग्रहा इत्यादीनि भगवत्सङ्कल्पा- देव भवन्ति ।

५. भगवतो व्यूहविभवार्चावतारशरीराणि अप्राकृतानि । अर्चावतारेषु प्रतिष्ठानन्त-रम् प्रसादोन्मुखेश्वरसङ्कल्पाधीनम् अप्राकृतं शरीरमत्राविर्भवति । प्राकृताप्राकृत- संसर्गः कथमिति न शङ्कनीयम् । रामकृष्णाद्यवतारशरीरवदिति प्रमाणानुसारेण परिहारो द्रष्टव्यः ।

६. मुक्तानां शरीरपरिग्रहस्तु वसन्तोत्सववेषपरिग्रहादिवत् स्वामिनः कैङ्कर्यमेव।

७. ईश्वरशरीरस्य षाड्गुण्यमिति व्यवहारः पाड्गुण्यप्रकाशकत्वात्। नित्यनिरवद्य- निरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनमार्दवार्जवादयो दिव्य-मङ्गलविग्रहगुणाः । तस्य व्यापकत्वं गीतादिषु प्रसिद्धम् ।

८. मुक्तस्य शरीरादिकं नास्तीति वचनं तु कर्मकृतशरीराभावपरम् । तत्रत्येन्द्रियाणां नित्यत्वात्, अत एव कार्यकारणभावाभावात् प्राकृतवन्न तत्त्वान्तरव्यपदेशः ।

९. एतेन तत्र शरीरादिकं नास्तीति मतनिरासः । ‘तमसः परस्तात्’ इत्युक्त्वा प्रकृत्येकदेशवादिमतनिरासः । अप्राकृतशब्दस्पर्शरूपरसगन्धाश्रयत्वात् आकाशा-दिव्यावृत्तिः । ज्ञानात्मकत्वप्रतिपादनात् जडत्वमतनिरासः ।

१०. भगवतोऽप्राकृतदिव्यमङ्गलविग्रहस्तु अस्त्रभूषणाध्यायोक्तसर्वोपाश्रयः । तद्यथा -पुरुषस्य कौस्तुभाकारत्वम्, प्रकृतेः श्रीवत्सरूपत्वम्, महतो गदारूपत्वम्,सात्त्विका – हङ्कारस्य शङ्खरूपत्वम्, तामसाहङ्कारस्य शार्ङ्गरूपत्वम्, ज्ञानस्य खड्गरूपत्वम्, अज्ञानस्य तदावरकरूपत्वम्, मनसश्चक्ररूपत्वम्, कर्मज्ञानेन्द्रियाणां शररूपत्वम्, सूक्ष्मस्थूलभूतानां वनमालाकारत्वम् ।

“चेतश्चक्रति चेतनासिरमतिस्तत्संवृतिर्मालिका
भूतानि स्वगुणरहङ्कृतियुगं शङ्खेन शार्ङ्गायते ।
बाणाः खानि दशापि कौस्तुभमणिर्जीवः प्रधानम् पुनः
श्रीवत्सः कमलापते तव गदामाहुर्महान्तम् बुधाः ॥”

इति सङ्गृह्योक्तम् पद्यमनुसन्धेयम् ।

११. सा विभूतिर् आमोदप्रमोदसम्मोदवैकुण्ठाख्यरूपेण चतुर्विधा पुनरनन्ता त्रिपा-द्विभूतिपरमपदपरमव्योमपरमाकाशामृतनाकाप्राकृतलोकानन्दलोकवैकुण्ठायोध्यादि-शब्दवाच्या च । एतस्यां विभूतौ द्वादशावरणोपेतम् अनेकगोपुरप्राकारैरावृतं वैकुण्ठं नाम नगरम् । तत्र आनन्दनामको दिव्यालयः । तदन्तः रत्नमयानेक-स्तम्भसहस्रैर्विरचिता महामणिमण्डपाख्या सभा । तस्यां सहस्रफणामणितेजो- विराजितोऽनन्तः । तस्मिन् धर्मादिमयदिव्यसिंहासनम्। तदुपरि चामरहस्ताभि- र्विमलादिभिः सेवितम् अष्टदलात्मकं पद्मम् । तदुपरि प्रकृष्टविज्ञानधामा शेषः । तदुपरि वाचः परमद्भूतम् । एवं नित्यविभूतिः निरूपिता ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन
विरचितायां यतीन्द्रमतदीपिकायां नित्यविभूतिनिरूपणम्

नाम षष्ठोऽवतारः ॥