०५ कालः

१. अथ अचिद्विशेषः कालो निरूप्यते । कालो नाम गुणत्रयरहितो जडद्रव्यविशेषः । स च नित्यो विभुश्च । भूतभविष्यद्वर्तमानभेदेन त्रिविधः । युगपत्क्षिप्रचिरादिव्य-पदेशहेतुः । निमेषकाष्ठकलामुहूर्तदिवसपक्षमासऋत्वयनसंवत्सरादिव्यपदेशहेतुश्च ।

२. मनुष्यमानेन मासः पितॄणां दिनम् । तेषाम् अमावास्या तु मध्याह्नम् । मनुष्य- मानेन संवत्सरो देवानां दिनम् । तेषामुत्तरायणमहः । दक्षिणायनं रात्रिः। एवं देवमानेन द्वादशवर्षसहस्रसङ्ख्याकं चतुर्युगमित्युच्यते ।

३. तत्र चतुःसहस्रवर्षसङ्ख्याकं कृतयुगम् । तत्र पूर्णो धर्मः । त्रिसहस्रवर्ष-सङ्ख्याकं त्रिपाद्धर्मवत् त्रेतायुगम् । द्विसहस्रवर्षपरिमितं द्विपाद्धर्मवत् द्वापरम् । सहस्रवर्षसङ्ख्याकम् एकपादधर्मसंयुक्तं कलियुगम् । एतेषां सन्धिर्द्विसहस्र-सङ्ख्याकः ।

४. एवं चतुर्युगसहस्राणि ब्रह्मणो दिवसप्रमाणम् । एवं रात्रिरपि।

५. ब्रह्मणोऽह्नि चतुर्दश मनवो जायन्ते । इन्द्रा अपि तथैव । तथा सप्तर्षयश्च । एकैकमनोरेकसप्ततिचतुर्युगपरिमाणकालः । एवम् ब्रह्ममानेन ब्रह्मणः शतवर्ष-जीवित्वम्।

६. एतत् सर्वं कालाधीनम् । एवं नित्यनैमित्तिकप्राकृताः प्रलया अपि कालाधीनाः। कालस्य स्वकार्यम् प्रति स्वस्योपादानत्वम् ।

७. अखण्डकालो नित्यः । खण्डकालाः पुनरनित्यः ।

८. एवम्भूतः काल ईश्वरस्य क्रीडापरिकरो भवति । लीलाविभूतौ ईश्वरः कालाधीन एव कार्यं करोति । नित्यविभूतौ तु कालस्य विद्यमानत्वेऽपि स्वातन्त्र्येण ।

९. केचित्तु तत्र कालो नास्तीति वदन्ति । अन्ये तु तामसमहान् काल इति । उभयेषाम् आगमबाधः प्रत्यक्षबाधश्च । षडिन्द्रियवेद्यः काल इत्याचार्याः । तेन अनुमेयवादनिरासः । इति कालो निरूपितः ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन
विरचितायां यतीन्द्रमतदीपिकायां कालनिरूपणम् नाम पञ्चमोऽवतारः॥