०४ प्रकृतिः

१. प्रमाणनिरूपणानन्तरम् प्रमेयं निरूप्यते । प्रकर्षेण मेयम् प्रमेयम् । तच्च द्विविधम् – द्रव्याद्रव्यभेदात् । द्रव्यम् उपादानम् । अवस्थाश्रयमुपादानम् ।

२. ननु “द्रव्यगुणकर्मसामान्य” – इत्यादिना मतान्तरस्थैः षोढा परिगणनात् कथं द्रव्याद्रव्यभेदेन द्विधा समर्थनम्? इति चेत्, उच्यते ।

३. उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनभेदात् कर्म पञ्चधावस्थितमिति कल्पने गौरवात् “चलनात्मकं कर्म” इत्येकधैवोपपत्तेः तस्यापि संयोगमादायैवोपपत्तेः, संस्थानमेव जातिरिति संस्थानातिरेकिसामान्यानङ्गीकारात्, समवाये समवायान्तराङ्गीकारे अनवस्थानात्, तस्यापि संयुक्तविशेषणतयवोपपत्तेः, जीवेश्वरयोरणुत्वविभु- त्वादिविभाजकधर्ममन्तरेण “विशेष” इति किञ्चित्पदार्थान्तराङ्गीकारे गौरवाच्च कर्म- सामान्यविशेषसमवायानाम् पृथक्त्वेनानङ्गीकारात् द्रव्यमद्रव्यमिति द्विधा विभाग उपपद्यते।

४. एतेनाभावस्सप्तमपदार्थ इत्यपि निरस्तम् । अभावस्य भावान्तररूपत्वात् । प्रागभावो नाम पूर्वावस्थापरम्परा । प्रध्वंसाभावो नाम उत्तरावस्थापरम्परा अत्यन्तान्योन्याभावौ तु धर्म्यन्तरस्वरूपावेव । एतस्य प्रत्यक्षेऽन्तर्भावः पूर्वमुक्तः । उपादानं द्रव्यमित्युक्तम् । गुणाश्रयो द्रव्यमिति सामान्यलक्षणं सम्भवति ।

५. तानि च द्रव्याणि षट् – प्रकृतिकालशुद्धसत्त्वधर्मभूतज्ञानजीवेश्वरभेदात् ।

६. तत्र जडाजडरूपयोर्विभक्तयोर्मध्ये जडलक्षणमुच्यते – अमिश्रसत्त्वरहितं जडमिति । तत् द्विविधम् – प्रकृतिकालभेदात् ।

७. तत्र सत्त्वरजस्तमोरूपगुणत्रयाश्रयरूपा प्रकृतिः । सा नित्या अक्षरा अविद्या मायेति शब्दवाच्या च । तस्या भगवत्सङ्कल्पाधीनगुणवैषम्यात् कार्योन्मुखावस्था अव्यक्तशब्देनोच्यते । तस्मान्महानुत्पद्यते । स महान् सात्त्विकराजसतामसभेदात् त्रिधावस्थितः । महतोऽहङ्कार उत्पद्यते । सोऽपि सात्त्विकाहङ्कारो राजसाहङ्कार- स्तामसाहङ्कारश्चेति त्रिविधो भवति । एतेषां त्रयाणां वैकारिकस्तैजसो भूतादिरिति नामान्तराण्यपि सम्भवन्ति । तेषु वैकारिक इति प्रसिद्धाद्राजसाहङ्कारसहकृतात् सात्त्विकाहङ्कारादेकादशेन्द्रियाणि जायन्ते ।

८. सात्त्विकाहङ्कारोपादानकं द्रव्यमिन्द्रियम् इति इन्द्रियलक्षणम् । इन्द्रियं द्विविधम् – ज्ञानेन्द्रियं कर्मेन्द्रियं चेति ।

९. ज्ञानप्रसरणशक्तमिन्द्रियं ज्ञानेन्द्रियम् । तत् षोढा – मनः श्रोत्रचक्षुर्घ्राणरसना- त्वग्भेदात् ।

१०. स्मृत्यादिकरणम् इन्द्रियम् मनः । तच्च हृदयप्रदेशवृत्ति बुद्ध्यहङ्कारचित्तादिशब्द- वाच्यम् बन्धमोक्षहेतुभूतं च ।

११. शब्दादिपञ्चके शब्दमात्रग्रहणशक्तमिन्द्रियं श्रोत्रम् । तन्मनुष्यादीनां कर्णशाशष्कुल्यवच्छिन्नप्रदेशवृत्ति । द्विजिह्वानां नयनवृत्ति ।

१२. एवं रूपमात्रग्रहणशक्तमिन्द्रियं चक्षुः । तत् सर्वेषां नयनवृत्ति ।

१३. गन्धमात्रग्रहणशक्तमिन्द्रियं घ्राणम् । नासाग्रवृत्ति ।

१४. रसमात्रग्रहणशक्तमिन्द्रियं रसनेन्द्रियम् । जिह्वाग्रवृत्ति।

१५. स्पर्शमात्रग्रहणशक्तमिन्द्रियं त्वगिन्द्रियम् । सर्वशरीरवृत्ति । नखदन्तकेशादिषु प्राणमान्द्यतारतम्यात् स्पर्शानुपलम्भः ।

१६. श्रोत्रादीन्द्रियाणाम् भौतिकत्वप्रतिपादनम् भूताप्यायितृत्वेनौपचारिकम् ।

१७. एतेषां विषयसम्बन्धः क्वचित् संयोगः क्वचित् संयुक्ताश्रयणमिति वृद्ध-सम्प्रदायः ।

१८. उच्चारणादिषु अन्यतमक्रियाशक्तत्वं कर्मेन्द्रियसामान्यलक्षणम् । तच्च वाक्पाणिपादपायूपस्थ भेदात् पञ्चधावस्थितम् ।

१९. वर्णोच्चारणकरणमिन्द्रियं वाक् । सा च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासा- मूर्द्धरूपस्थानाष्टकवृत्तिः । मृगादिषु अदृष्टविरहात् तदभावः ।

२०. शिल्पादिकरणमिन्द्रियम् पाणिः । स च मनुष्यादीनाम् अङ्गुल्यादिवृत्तिः । वारणादीनां नासावृत्तिः ।

२१. सञ्चरणकरणमिन्द्रियम् पादः । स च मनुष्यादीनां चरणवृत्तिः । भुजङ्ग- पतङ्गादीनामुरपक्षादिवृत्तिः ।

२२. मलादित्यागकरणमिन्द्रियम् पायुः । स च तत्तदवयववृत्तिः ।

२३. आनन्दविशेषकरणमिन्द्रियम् उपस्थः । स च मेहनादिवृत्तिः।

२४. एतानीन्द्रियाण्यणूनि। परकायप्रवेशलोकान्तरगमनादिषु च जीवेन सह गच्छन्ति। इन्द्रियाणाम् मुक्तिदशायाम् अप्राकृतदेशगमनासम्भवादिहैव यावत्प्रलयं स्थितिः । करणविधुरैरन्यैः परिग्रहो वा । कर्मेन्द्रियाणां शरीरनाशान्नाश इति पक्षस्तु श्रीभाष्यादिविरोधेन हेयः ।

२५. एतेन पुरुषेन्द्रियम्, स्त्रीन्द्रियम्, एकेन्द्रियवादः, त्वगिन्द्रियैकत्वस्वीकार इत्यादिविमतपक्षा निरस्ताः ।

२६. राजसाहङ्कारसहकृतात् भूतादिसञ्ज्ञकतामसाहङ्कारात् शब्दादिपञ्चतन्मात्राणि आकाशादिपञ्चमहाभूतनि च उत्पद्यन्ते ।

२७. भूतानामव्यवहितसूक्ष्मावस्थाविशिष्टं द्रव्यं तन्मात्रम् भूतोपादानम् ।

२८. विशिष्टशब्दादिविषयाधिकरणं भूतम् ।

२९. तन्मात्राणि शब्दतन्मात्रम्, स्पर्शतन्मात्रम्, रूपतन्मात्रम्, रसतन्मात्रम्, गन्ध- तन्मात्रमिति पञ्च ।

३०. भूतानि च तथा – आकाशवायुतेजोप्पृथिवीभेदात् ।

३१. तत्र तामसाहङ्काराकाशयोर्मध्यमावस्थाविशिष्टं द्रव्यं शब्दतन्मात्रम् । क्षीर- दध्नोरन्तरालपरिणामवत् ।

३२. तस्मादाकाशो जायते। अस्पर्शवत्त्वे सति विशिष्टशब्दाधारत्वं श्रोत्राप्यायिकत्वं च आकाशलक्षणमिति । स च प्रत्यक्षः शब्दमात्रगुणकः अवकाशहेतुः । “नीलं नभ” इति प्रतीतेः पञ्चीकरणप्रक्रियया रूपवाँश्च । एतेनाकाशस्य अजन्यत्वनिरासः।

३३. सूर्यपरिस्पन्दादिभिराकाशस्यैव प्राच्यादिव्यवहारोपपत्तौ दिगिति न पृथक् द्रव्यकल्पनम् । दिक्सृष्टिस्तु अन्तरिक्षादिसृष्टिवदुपपद्यते ।

३४. आकाशात् स्पर्शतन्मात्रम् । आकाशवाय्वोर्मध्यमावस्थाविशिष्टद्रव्यं स्पर्श- तन्मात्रम् ।

३५. तस्माद्वायुः । विशिष्टस्पर्शवत्त्वे सति रूपशून्यत्वम्, अस्मदादिस्पर्शनैकेन्द्रिय- ग्राह्यद्रव्यत्वम्, अनुष्णाशीतविशिष्टस्पर्शवत्त्वे सति गन्धशून्यत्वमित्यादिकं वायो- र्लक्षणम्। तस्मिन्नानासलिलातपकुसुमाद्यवयवयोगाच्छीतोष्णसौरभादिप्रतीतिः त्वगिन्द्रियाप्यायकत्वेनोपकरोति । तस्य शब्दस्पर्शै गुणौ ।

३६. तत्र शरीरधारणादिहेतुर्वायुविशेषः प्राणः । स च पञ्चप्रकारः प्राणापानव्यानोदान-समानभेदात् हृदि प्राणो, गुदेऽपानः, सर्वशरीरगो व्यानः, कण्ठे उदानो, नाभिदेशे समान इति नियमः । जङ्गमेष्विव स्थावरेषु च प्राणसम्बन्धस्तुल्य एव । वायोः स्पार्शन- प्रत्यक्षत्वेन अनुमेयवादनिरासः ।

३७. वायुतेजसोर्मध्यमावस्थाविशिष्टं द्रव्यं रूपतन्मात्रम् ।

३८. तस्मात् तेजः । उष्णस्पर्शवत्त्वभास्वररूपवत्त्वादिकं तु तेजसो लक्षणम् । तस्य बहिः पचनादिहेतुत्वम् अग्निसूर्यात्मना । अन्तर्वैश्वानरसञ्ज्ञकजाठराग्निरूपेण दिवा- भीतादिव्यतिरिक्तानां चाक्षुषज्ञाने आलोकादिरूपेण सहकारी भवति ।

३९. तच्चतुर्धा – भौमदिव्यौदर्याकरजभेदात् ।

४०. तत्र पार्थिवमात्रेन्धनं तेजो भौमम् ; तत् दीपादि । जलमात्रेन्धनं दिव्यम् ; तत् सूर्यादि । पार्थिवजलेन्धनम् औदर्यम्; तत् जाठरम् । निरिन्धनं तेज आकरजम्; तत् सुवर्णादि । सुवर्णस्य द्रव्यान्तरसंसर्गादुष्णस्पर्शाभावः ।

४१. पुनः सामान्येन प्रभा प्रभावाँश्चेति विभक्तः ।

४२. आवरणसदसद्भावाधीनसङ्कोचविकासः प्रसारितेजोविशेषः प्रभा । सा च प्रभावद्भिः सहोत्पद्यते सह नश्यति । द्रव्यरूपा गुणभूता सावयवा च । अनेन प्रभायाः केवल- गुणत्वमतनिरासः ।

४३. प्रभाविशिष्टं तेजः प्रभावान् । स चतुर्विध इति प्रतिपादितम् । तत्तेजः शब्दस्पर्शरूपगुणवच्च ।

४४. तेजः सलिलयोर्मध्यमावस्थाविशिष्टं द्रव्यं रसतन्मात्रम् ।

४५. तस्मादापः । शीतस्पर्शवत्त्वं निर्गन्धत्वे सति विशिष्टरसवत्त्वम् इत्यादि अपां लक्षणम् । तासां शुक्लमधुरशीतैकस्वभावानाम् आश्रयादिसंसर्गभेदात् रूपरस- स्पर्शवैचित्र्यारोपः । ताः समुद्र सरिदादिरूपेण बहुप्रकाराः । शब्दस्पर्शरूपरसवत्यश्च सेचनपिण्डीकरणादिहेतवः ।

४६. अप्पृथिव्योर्मध्यमावस्थाविशिष्टं द्रव्यं गन्धतन्मात्रम् ।

४७. तस्मात् पथिवी । विशिष्टगन्धवत्त्वं रसवत्त्वे सति विशिष्टस्पर्शवत्त्वमित्यादि पृथिवीलक्षणम् । सा सुरभिर्मधुरा कृष्णादिरूपा अनुष्णाशीतस्पर्शवती च । पाकज- भेदात्तु विचित्रवर्णा विचित्ररसा च । अस्याश्च मनोघ्राणाप्यायकत्वेन उपकारकत्वम् । मृत्पाषाणान्नौषधादिबहुप्रकारवती शब्दस्पर्शरूपरसगन्धगुणका धारणहेतुश्च ।

४८. तमसः पृथिव्यामन्तर्भावस्तद्गुणत्वात् तदवस्थान्तरत्वाद्वा । अत एव आलोका- भावमात्रं द्रव्यान्तरं वा इत्यादिपक्षा निरस्ताः ।

४९. भूतेषु सर्वत्र पञ्चीकरणप्रक्रियया शब्दादीनां गुणानामुपलम्भः ।

५०. पञ्चीकरणप्रक्रिया तु – भगवान् भूतानि सृष्ट्वा एकैकमेव भूतं द्विधाकृत्य द्वयोर्भागयोः स्वभागमेकं निधाय भागान्तरं चतुर्द्धाकृत्य ताँश्चतुर्भागान् भूतान्तरेषु चतुर्षु योजयति । एवं सर्वेषु भूतेषु क्रियमाणेषु एकैकस्य भूतस्य अर्द्धं स्वभागः, अर्द्धान्तरं चतुर्णाम् भूतानाम् भागसमुच्चय इति भवति । तथा च स्वभागस्य भूयस्त्वात् परभागस्याल्पीयस्त्वाच्च पृथिव्यादिव्यपदेशः ।

५१. वेदे त्रिवृत्करणोपदेशस्तु पञ्चीकरणस्याप्युपलक्षणम् । भूतैः साकम् महदहङ्कारौ मिलित्वा सप्तीकरणमित्यप्याहुः ।

५२. एतेषु चतुर्विंशतिसङ्ख्याकेषु पञ्चभूतानि प्रकृतिमहदहङ्काराश्च शरीरोपादानानि । एकादशेन्द्रियाणि प्रत्येकमसङ्ख्यातानि प्रतिपुरुष भिन्नानि, आभरणार्पितरत्नानीव शरीरमाक्रम्य तिष्ठन्ति ।

५३. शरीरं नाम चेतनम् प्रति आधेयत्वविधेयत्वशेषत्वनियमैरपृथक्सिद्धौ द्रव्यविशेष इत्येकं लक्षणम् । नियमेन यदाधेयम्, नियमेन यद्विधेयम्, नियमेन यच्छेषमिति लक्षणत्रयं वा योज्यम् । ईश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं शरीरमिति वा तटस्थलक्षणम् ।

५४. एतेन चेष्टाश्रयं शरीरम्, इन्द्रियाश्रयं शरीरम्, भोगायतनं शरीरम्, शिरः- पाणिपादादिमयं शरीरम् इत्यादीनि परोक्तानि शरीरलक्षणानि निरस्तानि ।

५५. शरीरं द्विविधम् – नित्यमनित्यमिति । तत्र नित्यं त्रिगुणद्रव्यकालजीव- शुभाश्रयात्मकमीश्वरशरीरम् । नित्यसूरीणां स्वाभाविकगरुडभुजगादिरूपं च ।

५६. अनित्यं द्विविधम् – अकर्मकृतं कर्मकृतं चेति । प्रथममीश्वरस्य महदादि-रूपम् । तथा अनन्तगरुडादीनां च इच्छागृहीतं तत्तत् रूपम् । कर्मकृतमपि द्वि- विधम् – स्वसङ्कल्पसहकृतकर्मकृतं केवलकर्मकृतं चेति । पूर्व महतां सौभरि-प्रभृतीनाम्, उत्तरं चान्येषाम् ।

५७. पुनः सामान्यतो द्विविधम् – स्थावरजङ्गमभेदात् । स्थावराः शिलावृक्षगुल्म-लतादयः । जङ्गमश्चतुर्द्धा – देवमनुष्यतिर्यङ्नारकिभेदात् ।

५८. उद्भिज्जस्वेदजजरायुजाण्डजादिभेदा अपि विभागजधर्मः । अयोनिजशरीराण्यपि सन्ति ।

५९. एवम् पञ्चीकृतानाम् भूतानामेवाण्डोत्पादकत्वम् । अण्डोत्पादनात् पूर्वसृष्टिः समष्टिसृष्टिः, अनन्तरसृष्टिर्व्यष्टिसृष्टिः ।

६०. महदादीनामुत्पत्तिर्नाम तालीयपलाशताटङ्कन्यायेन अवस्थान्तरापत्तिरेव । सेनावनराश्यादिव्यवहारवत् ।

६१. पूर्वापरावस्थाविशेषसम्बन्धमात्रेण कार्यकारणभेदव्यवहारः । तत्र पूर्वावस्था-प्रहाणेन विजातीयावस्थान्तरप्राप्तौ तत्त्वान्तरव्यपदेशः पृथिवीपर्यन्त एव ।

६२. इत्थम् प्रकृतिमहदहङ्कारैकादशेन्द्रियतन्मात्रपञ्चकभूतपञ्चकविभागेन चतुर्विंशति तत्त्वानि वर्णितानि ।

६३. एतेन न्यूनाधिकसङ्ख्यातत्त्ववादिनो बाह्याः पाशुपताश्च निरस्ताः । परमाणु- कारणत्ववादिनोऽपि निरस्ताः ।

६४. प्रकृत्यादय ईश्वरस्य जीवस्य च भोग्यभोगोपकरणभोगस्थानानि च भवन्ति । भोग्यं विषयाः भोगोपकरणं चक्षुरादिककरणानि । भोगस्थानानि चतुर्दशभुवनसहितान्यण्डजातानि ।

६५. अण्डं नाम कपित्थफलाकारम् पञ्चीकृतपञ्चभूतारब्धम् प्राकृतद्रव्यम् ।

६६. तद्यथा – पद्माकारा भूः । कर्णिकाकारो मेरुः । मेरोर्दक्षिणतो भारतकिम्पुरुष- हरिवर्षाणि त्रीणि । उत्तरतस्तु रम्यकहिरण्यककुरुवर्षाणि त्रीणि । पुरतो भद्राश्ववर्षम्, पश्चात् केतुमालाख्यं वर्षम् । मध्यं तु इलावृतम् ।

६७. एवं नववर्षयुक्तं जम्बूद्वीपं लक्षयोजनविस्तीर्णं सपरिमाणेन लवणसिन्धु-नावृतम् । स सिन्धुर्द्विगुणेन सप्तवर्षात्मकेन प्लक्षद्वीपेन वेष्टितः । सोऽपि इक्षुसमुद्रेण। सोऽब्धिः शाल्मलीद्वीपेन । स पुनः सुरासमुद्रेण । स कुशद्वीपेन । स सर्पिःसमुद्रेण । सोऽपि क्रौञ्चद्वीपेन । स दध्यर्णवेन । सोऽपि शाकद्वीपेन वेष्टितः । स क्षीरार्णवेन । स वर्षद्वयविभाजकवलयाकारमानसोत्तरपर्वतसहितेन पुष्करद्वीपेन । स शुद्धजलार्णवेन। एवं द्वीपानामुत्तरोतरद्वैगुण्यं द्रष्टव्यम् ।

६८. प्लक्षद्वीपादयश्च सप्तवर्षात्मकाः । सप्तद्वीपात्मकोऽयं द्विगुणया काञ्चन-भूम्यावृतः। काञ्चनभूमिस्तु लोकालोकपर्वतेन। पर्वतस्त्वन्धतमसा । तदन्धतमो गर्भोदकेन । तदण्डकटाहेन ।

६९. एवम् भूमेरधः अतलवितलसुतलरसातलतलातलमहातलपातालभेदात् सप्तलोकाः । अधो नरकाः । ते च पापकर्मणाम् पापानुभवभूमयः । रौरवाद्या मुख्यतया एकविंश- तिप्रभेदाः । ततस्तमः । ततो गर्भोदकम् । अनन्तरमण्डकटाहः ।

७०. एवम् भूमेरुपरि लक्षयोजनात् सूर्यमण्डलम् । तदेव भुवर्लोकः । तदुपरि चन्द्रमण्डलम् । तस्मादुपरि नक्षत्रबुधशुक्राङ्गारकबृहस्पतिशनिसप्तर्षि मण्डलानि । तदुपरि ध्रुवः । सूर्यमण्डलमारभ्य ध्रुवलोकपर्यन्तं स्वर्लोकः । चतुर्लक्षादुपरि कोटियोजनोच्छ्रायो महर्लोकः । तस्मात् द्विगुणो जनलोकः । ततश्चतु-र्गुणस्तपोलोकः । तस्मात् द्वादशकोटयुच्छ्रायः सत्यलोकः । ततस्तमो गर्भो-दकम् अण्डकटाहश्च ।

७१. एवं तिर्यगूर्ध्वप्रमाणेन पञ्चाशत्कोटियोजनत्वम् भूमेरुक्तम् भवति । शत-कोटियोजनविस्तीर्णवादो मानभेदेन । अण्डकटाहस्तु कोटियोजनोच्छ्रायः ।

तदण्डं दशोत्तरावरणावृतम् । एतादृशानि अण्डानि अनन्तानि जलबुद्-बुदवत् । युगपदीश्वर-सृष्टानि । ईश्वरस्य चतुर्मुखपर्यन्ता सृष्टिरद्वारिका, तदनन्तरं सद्वारिकेति विवेकः । विस्तरस्तु पुराणरत्नादिषु द्रष्टव्यः । इति प्रकृतिर्निरूपिता ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायाम् प्रकृतिनिरूपणम्

नाम चतुर्थोऽवतारः ॥