१. अनुमाननिरूपणानन्तरं शब्दो निरूप्यते । अनाप्तानुक्तवाक्यजनिततदर्थविज्ञानं शाब्दज्ञानम् । तत्करणं शब्दप्रमाणम्। “अनाप्तानुक्त” इत्युक्तत्वात् वेदस्य पौरुषेयत्वमतनिरासः । कारणदोषबाधकप्रत्ययाभाववत् वाक्यं वा ।
२. सर्गादौ भगवान् चतुर्मुखाय पूर्वपूर्वक्रमविशिष्टान् वेदान् स्मृत्वा स्मृत्वा उपदिश-तीत्युवत्या वेदस्य नित्यत्वमपौरुषेयत्वं च सिद्धमिति करणदोषाभावो बाधकप्रत्ययाभावश्च ।
३. ननु वेदवाक्यानाम् मीमांसकैः कार्यपरतयैव प्रामाण्यस्वीकारात् सिद्धब्रह्म-परवाक्यानां व्युत्पत्त्यसम्भवाच्च कथम् प्रमाण्यम्? इति चेत्, न। सिद्धब्रह्मपरवाक्या- नामपि उपासनान्वयस्वीकारात् । “पिता ते सुखमास्ते” इति लौकिकसिद्धपरवाक्य-स्यापि बोधकत्वदर्शनात् बालानां लोके मातापितृप्रभृतिभिःअम्बातातमातुलचन्द्रादीन् अङ्गुल्या निर्दिश्य तदभिधायकशब्दान् प्रयुञ्जानैः क्रमेण भूयः शिक्षितानां तत्तदर्थ-बुद्ध्युत्पत्तिदर्शनात् वेदेऽपि परिनिष्पन्नेऽप्यर्थे शब्दस्य बोधकत्वं सम्भवतीति न अप्रामाण्यशङ्कावकाशः ।
४. तर्हि अभिचारादिप्रतिपादकवेदांशस्य कथम् प्रामाण्यम् इति न शङ्कनीयम् । तस्य दृष्टफलदर्शनेन अदृष्टस्वर्गादिफलसाधनादौ प्रवृत्तिप्रयोजकत्वात् ।
५. यूपादित्यवाक्यं तु आदित्यवद्यूपप्रकाशनपरम् । अतः कृत्स्नस्य वेदस्य प्रामाण्यम् ।
६. स च वेदः कर्मब्रह्मप्रतिपादकपूर्वोत्तरभागाभ्यां द्विधा भिन्नः । आराधनकर्म-प्रतिपादकम् पूर्वकाण्डम् । आराध्यब्रह्मप्रतिपादकमुत्तरकाण्डम् । उभयोर्मीमांस-योरैकशास्त्र्यम् ।
७. भागद्वयात्मको वेद ऋग्यजुःसामाथर्वणरूपेण चतुर्धावस्थितः । पुनरनन्तप्रकारश्च।
८. ऋगादिबहुप्रकारवान् वेदो मन्त्रार्थवादविधिरूपेण त्रिविधः ।
९. अनुष्ठेयार्थप्रकाशको मन्त्रः ।
१०. विध्यधीनप्रवृत्त्युत्तम्भकवाक्यविशेषोऽर्थवादः ।
११. हितानुशासनवाक्यमिह विधिः । स च त्रिविधः- अपूर्वपरिसङ्ख्यानियमभेदात् । ते पुनर्नित्यनैमित्तिककाम्यादिभेदात् बहुविधाः ।
१२. “व्रीहीन् प्रोक्षति” (तै. ब्रा.) इति अपूर्वविधिः ।
१३. मनोमयत्वाद्युपासनविधिर्विशिष्टविधिः ।
१४. “इमामगृभ्णन्” इति अश्वरशनाविधिः परिसङ्ख्याविधिः ।
१५. गुर्वभिगमनादिविधिर्नियमविधिः ।
१६. सन्ध्योपासनादिर्नित्यविधिः ।
१७. जातेष्ट्यादिविधिर्नैमित्तिकविधिः ।
१८. ज्योतिष्टोमादिविधिः काम्यविधिः ।
१९. एवं विध्यर्थवादमन्त्रात्मकस्य वेदस्य छन्दः कल्पः शिक्षा निरुक्तं ज्योतिषं व्याकरणम् इत्येतान्यङ्गानि ।
२०. छन्दो ऽनुष्टुप्त्रिष्टुबादिप्रतिपादनरूपः ।
२१. श्रौतस्मार्तप्रयोगप्रतिपादनपरः कल्पः ।
२२. शिक्षा वर्ण-निर्णयात्मिका ।
२३. निरुक्तम् अपूर्वार्थ-प्रतिपादकम् ।
२४. ज्योतिषम् अध्ययनतदर्थानुष्ठानकालनिर्णयात्मकम् ।
२५. व्याकरणं तु सुशब्दस्वरादिसमर्थनपरम् ।
२६. एवं साङ्गस्य वेदस्य प्रामाण्यं सिद्धम् ।
२७. अथ श्रुत्यविरुद्धाचारव्यवहारप्रायश्चित्तादिप्रतिपादिका आप्तप्रणीता स्मृतिः प्रमाणम्।
२८. हिरण्यगर्भादीनामाप्तत्वेऽपि तेषां गुणत्रयवश्यत्वसम्भवात् तत्कर्तृकयोग- कपिलादिस्मृतीनाम् मन्वादिस्मृत्यविरुद्धांश एव प्रमाणम् । तत्त्वविपर्यासात् विरुद्धांशोऽप्रमाणम् ।
२९. वेदोपबृंहणरूपेतिहासपुराणयोरपि प्रामाण्यं स्वतः–सिद्धम् ।
३०. तत्र भारतरामायणयोः क्वचित् क्वचिद्विरोधभानेऽपि तत्त्वांशे वेदान्तवाक्य- वदविरोधो ज्ञेयः ।
३१. सर्गादिपञ्चकप्रतिपादकपुराणेष्वपि सात्त्विकराजसतामसभेदभिन्नेषु तत्त्वांशे विरोधाभावात् विरुद्धांशोऽप्रमाणम्, अन्यत् सर्वम् प्रमाणम् । पाशुपताद्यागमा अपि तथैव ।
३२. आगमदिव्यतन्त्रतन्त्रान्तरसिद्धान्तभेदभिन्नस्य श्रीपाञ्चरात्रागमस्य क्वचिदपि वेदविरोधाभावात् कार्त्स्न्येन प्रामाण्यम् । एवं वैखानसागमस्यापि ।
३३. धर्मशास्त्राणामपि तथैव । शाण्डिल्यपराशरभारद्वाजवसिष्ठहारीतादयो धर्मशास्त्र-प्रणेतारः ।
३४. शिल्पायुर्वेदगान्धर्वभरतादिकमप्युपयुक्तांशे तथैव ।
३५. शिल्पो नाम कर्षणादिगोपुरप्राकारनिर्माणादिप्रतिपादकः ।
३६. आयुर्वेदो वैद्यकम् ।
३७. गान्धर्वो नाम गानादिनिरूपकः ।
३८. भरतागमो नृत्यादिनिरूपकः ।
३९. पुनश्चतुःषष्टिकलारूपेषु शास्त्रेषु तत्त्वोपायपुरुषार्थोपयुक्तानि प्रमाणानि ।
४०. बकुलाभरणादिसूरिसूक्तयः कार्त्स्न्येन प्रमाणतराः ।
४१. श्रीमद्रामानुजाचार्यप्रभृतिभिः प्रणीताः श्रीभाष्यादिप्रबन्धाः प्रमाणतमाः ।
४२. पुरुषस्वातन्त्र्याधीनरचनाविशेषविशिष्टम् पौरुषेयम् । एतेन काव्यनाटकालङ्का-रादीनामपि लक्षणमुक्तं स्यात् ।
४३. एवम् आकाङ्क्षायोग्यतासन्निधिमल्लौकिकवाक्यान्यपि प्रमाणानि । यथा-“नद्यास्तीरे पञ्चफलानि सन्ति” इत्यादीनि ।
४४. एवं वैदिकलौकिकसाधारणं वाक्यं द्विविधम् -मुख्यवृत्तिगौणवृत्तिभेदात् ।
४५. मुख्यवृत्तिरभिधावृत्तिः । यथा – सिंहशब्दस्य मृगेन्द्रे ।
४६. सा अभिधावृत्तिः योगरूढ्यादिभेदेन बहुविधा।
४७. मुख्यार्थबाधे सति तदासन्नेऽर्थे वृत्तिरौपचारिकी । सा द्विविधा – लक्षणा- गौणीभेदात् । प्रथमा यथा – “गङ्गायां घोष” इत्यत्र घोषाधिकरणस्य बाधात् तीरे लक्षणा । द्वितीया यथा – “सिंहो देवदत्त” इत्यत्र देवदत्ते शौर्यादिगुणयोगः ।
४८. एवं वैदिकलौकिकरूपं सर्वं वाक्यजातं सविशेषविषयकम् भेदविषयकं च।
४९. शरीरवाचकशब्दानां यथा शरीरिणि पर्यवसानम्, एवम् भगवच्छरीरभत-ब्रह्मरुद्राग्नीन्द्रादिचिद्वाचकशब्दानां तथा तच्छरीरभूतप्रकृतिकालाकाशप्राणाद्य-चिद्वाचशब्दानां च शरीरिणि परमात्मनि श्रीनारायणे पर्यवसानमुपपादयन्त्याचार्यः ।
५०. वेदान्तज्ञानात् व्युत्पत्तिः पूर्यत इत्युक्तम् ।
५१. नारायणस्य सर्वशब्दवाच्यत्वं सर्वशरीरकत्वमित्यादिकं तु उपरि ईश्वर- निरूपणे प्रतिपादयिष्यामः ।
५२. इति शब्दो निरूपितः ।
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन
विरचितायां यतीन्द्रमतदीपिकायां शब्दनिरूपणाम्
नाम तृतीयोऽवतारः ॥